ऋग्वेदः सूक्तं १०.५५
← सूक्तं १०.५४ | ऋग्वेदः - मण्डल १० सूक्तं १०.५५ बृहदुक्थो वामदेव्यः |
सूक्तं १०.५६ → |
दे. इन्द्रः। त्रिष्टुप् |
दूरे तन्नाम गुह्यं पराचैर्यत्त्वा भीते अह्वयेतां वयोधै ।
उदस्तभ्नाः पृथिवीं द्यामभीके भ्रातुः पुत्रान्मघवन्तित्विषाणः ॥१॥
महत्तन्नाम गुह्यं पुरुस्पृग्येन भूतं जनयो येन भव्यम् ।
प्रत्नं जातं ज्योतिर्यदस्य प्रियं प्रियाः समविशन्त पञ्च ॥२॥
आ रोदसी अपृणादोत मध्यं पञ्च देवाँ ऋतुशः सप्तसप्त ।
चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषा विव्रतेन ॥३॥
यदुष औच्छः प्रथमा विभानामजनयो येन पुष्टस्य पुष्टम् ।
यत्ते जामित्वमवरं परस्या महन्महत्या असुरत्वमेकम् ॥४॥
विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार ।
देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥५॥
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीळः ।
यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥६॥
ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौक्षद्वृत्रहत्याय वज्री ।
ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः ॥७॥
युजा कर्माणि जनयन्विश्वौजा अशस्तिहा विश्वमनास्तुराषाट् ।
पीत्वी सोमस्य दिव आ वृधानः शूरो निर्युधाधमद्दस्यून् ॥८॥
सायणभाष्यम्
‘दूरे तत्' इत्यष्टर्चं त्रयोदशं सूक्तम् । ऋष्याद्याः पूर्ववत् । “दूरे' इत्यनुक्रान्तम् । गतः सूक्तविनियोगः ॥
दू॒रे तन्नाम॒ गुह्यं॑ परा॒चैर्यत्त्वा॑ भी॒ते अह्व॑येतां वयो॒धै ।
उद॑स्तभ्नाः पृथि॒वीं द्याम॒भीके॒ भ्रातु॑ः पु॒त्रान्म॑घवन्तित्विषा॒णः ॥१
दू॒रे । तत् । नाम॑ । गुह्य॑म् । प॒रा॒चैः । यत् । त्वा॒ । भी॒ते इति॑ । अह्व॑येताम् । व॒यः॒ऽधै ।
उत् । अ॒स्त॒भ्नाः॒ । पृ॒थि॒वीम् । द्याम् । अ॒भीके॑ । भ्रातुः॑ । पु॒त्रान् । म॒घ॒ऽव॒न् । ति॒त्वि॒षा॒णः ॥१
दूरे । तत् । नाम । गुह्यम् । पराचैः । यत् । त्वा । भीते इति । अह्वयेताम् । वयःऽधै ।
उत् । अस्तभ्नाः । पृथिवीम् । द्याम् । अभीके । भ्रातुः । पुत्रान् । मघऽवन् । तित्विषाणः ॥१
अनया चत्वारि ते असुर्याणि नाम' इत्युक्तस्य आद्यं नाम स्तूयते । हे इन्द्र "ते तव "तत् वक्ष्यमाणं “नाम सर्वेषां नामकं शरीरं “पराचैः पराङ्मुखैर्मनुष्यैः । मनुष्याणामित्यर्थः । "गुह्यं गोपनीयमप्रकाशितं सत् "दूरे इतो विप्रकृष्टे दूरदेशे वर्तत इति शेषः । "यत् यदा “त्वा त्वां "रोदसी द्यावापृथिव्यौ “भीते सती “अह्वयेताम् अवेत्यब्रूताम् । किमर्थम् । "वयोधै अन्नस्य निधानार्थम् । जगतोऽन्नस्य साधनायेत्यर्थः । तदानीं तेन शरीरेण “अभीके । अन्तिकनामैतत् । तव समीप एव “पृथिवीं “द्यां च “उत् ऊर्ध्वं परस्परवियुक्तं यथा भवति तथा “अस्तभ्नाः स्तम्भितवानसि। किं कुर्वन् । हे "मघवन् इन्द्र "भ्रातुः पर्जन्यस्य "पुत्रान् पुत्रस्थानीयानुदकसंस्त्यायान् "तित्विषाणः दीपयन् ॥
म॒हत्तन्नाम॒ गुह्यं॑ पुरु॒स्पृग्येन॑ भू॒तं ज॒नयो॒ येन॒ भव्य॑म् ।
प्र॒त्नं जा॒तं ज्योति॒र्यद॑स्य प्रि॒यं प्रि॒याः सम॑विशन्त॒ पञ्च॑ ॥२
म॒हत् । तत् । नाम॑ । गुह्य॑म् । पु॒रु॒ऽस्पृक् । येन॑ । भू॒तम् । ज॒नयः॑ । येन॑ । भव्य॑म् ।
प्र॒त्नम् । जा॒तम् । ज्योतिः॑ । यत् । अ॒स्य॒ । प्रि॒यम् । प्रि॒याः । सम् । अ॒वि॒श॒न्त॒ । पञ्च॑ ॥२
महत् । तत् । नाम । गुह्यम् । पुरुऽस्पृक् । येन । भूतम् । जनयः । येन । भव्यम् ।
प्रत्नम् । जातम् । ज्योतिः । यत् । अस्य । प्रियम् । प्रियाः । सम् । अविशन्त । पञ्च ॥२
हे इन्द्र तव “तत् गुह्यं गोपनीयमन्यैरविज्ञातं “पुरुस्पृक् बहुभिर्वृष्ट्यर्थिभिः स्पृहणीयमाकाशात्मकं "नाम शरीरं "महत् अत्यन्तं प्रवृद्धं "येन नाम्ना “भूतं "भव्यं च पूर्वं "जनयः उत्पादितवानसि । भूतभव्योभयान्वयाय येनेत्यस्यावृत्तिः स्यात् । आकाशात्मकाद्धि परमेश्वरस्वरूपात भूतभव्यात्मकं जगदुत्पद्यते । ‘ आकाशाद्वायुः ' (तै. आ. ८. १ ) इत्यादिश्रुतेः । किंच "प्रत्नं पुराणं पूर्वकालीनं “यत् "ज्योतिः द्योतमानमादित्याख्यमुदकाख्यं वा “अस्य इन्द्रस्य “प्रियं प्रियभूतं तत्त्वं “जातम् उत्पन्नं “प्रियाः प्रीयमाणाः “पञ्च। पञ्च जना इति शेषः । भीमसेनो भीम इतिवदेकदेशलक्षणा । निषादपञ्चमाश्चत्वारो वर्णाः “समविशन्त संविशन्ते । स्वनिर्वाहार्थं भजन्त इत्यर्थः ॥
आ रोद॑सी अपृणा॒दोत मध्यं॒ पञ्च॑ दे॒वाँ ऋ॑तु॒शः स॒प्तस॑प्त ।
चतु॑स्त्रिंशता पुरु॒धा वि च॑ष्टे॒ सरू॑पेण॒ ज्योति॑षा॒ विव्र॑तेन ॥३
आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । आ । उ॒त । मध्य॑म् । पञ्च॑ । दे॒वान् । ऋ॒तु॒ऽशः । स॒प्तऽस॑प्त ।
चतुः॑ऽत्रिंशता । पु॒रु॒धा । वि । च॒ष्टे॒ । सऽरू॑पेण । ज्योति॑षा । विऽव्र॑तेन ॥३
आ । रोदसी इति । अपृणात् । आ । उत । मध्यम् । पञ्च । देवान् । ऋतुऽशः । सप्तऽसप्त ।
चतुःऽत्रिंशता । पुरुधा । वि । चष्टे । सऽरूपेण । ज्योतिषा । विऽव्रतेन ॥३
अयमिन्द्र आत्मीयेन शरीरेण तेजसा वा "रोदसी द्यावापृथिव्यौ “आ सर्वतः “अपृणात् पूरयति । “उत अपि च "मध्यं द्युभूम्यपेक्षया मध्यभूतमन्तरिक्षमापृणादिति वर्तते । तदपि स्वशरीरेण तेजसा वा पूरयति । किंच "पञ्च “देवान् देवमनुष्यपित्रसुररक्षःसंज्ञकान तथा "सप्तसप्त । द्विरुक्त्या सप्तसंख्याकानि तत्त्वानि लोके यानि सन्ति तानि परिगृह्यन्ते । कानि तानीति । सप्त मरुद्गणान् सप्तादित्यरश्मीन सप्त चेन्द्रियाणि सप्त लोकानन्यानपि सप्तसंख्योपेतान् “ऋतुशः काले काले चतुस्त्रिंशता चतुस्त्रिंशत्संख्याकेन देवगणेन सह "पुरुधा बहुप्रकारं "वि "चष्टे विपश्यति सर्वदेक्षते । अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च विराट् चेति चतुस्त्रिंशत्त्वं देवानाम् । केनेति तदुच्यते । "सरूपेण समानरूपेण "ज्योतिषा प्रकाशकेन "विव्रतेन विविधेन कर्मणा ।।
यदु॑ष॒ औच्छ॑ः प्रथ॒मा वि॒भाना॒मज॑नयो॒ येन॑ पु॒ष्टस्य॑ पु॒ष्टम् ।
यत्ते॑ जामि॒त्वमव॑रं॒ पर॑स्या म॒हन्म॑ह॒त्या अ॑सुर॒त्वमेक॑म् ॥४
यत् । उ॒षः॒ । औच्छः॑ । प्र॒थ॒मा । वि॒ऽभाना॑म् । अज॑नयः । येन॑ । पु॒ष्टस्य॑ । पु॒ष्टम् ।
यत् । ते॒ । जा॒मि॒ऽत्वम् । अव॑रम् । पर॑स्याः । म॒हत् । म॒ह॒त्याः । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥४
यत् । उषः । औच्छः । प्रथमा । विऽभानाम् । अजनयः । येन । पुष्टस्य । पुष्टम् ।
यत् । ते । जामिऽत्वम् । अवरम् । परस्याः । महत् । महत्याः । असुरऽत्वम् । एकम् ॥४
अत्र प्रसङ्गात्सूर्यात्मकेन्द्रसंबन्धिन्युषाः स्तूयते । हे "उषः उषोदेवते "विभानां विभासकानां ग्रहनक्षत्रादीनां "प्रथमा प्रथमभूता सती “औच्छः विभासनमकरोः। अग्रे ह्युषसः प्रादुर्भवन्ति पश्चादन्यानि तेजांसि । "येन च तेजसा "पुष्टस्य पोषयुक्तस्यापि पदार्थस्य “पुष्टम् अतिशयेन पोषयुक्तमादित्यम् "अजनयः उदपादयः । “यत् यञ्च "ते तव "जामित्वं बान्धवम् "अवरम् अवाङ्मुखम् । अस्मदभिमुखमित्यर्थः । कीदृश्यास्तवेति उच्यते। “परस्याः । उपरि स्थिताया इत्यर्थः । तदिदं “महत्याः तव "महत् अतिप्रवृद्धम् "एकम् असाधारणमेकमेव वा "असुरत्वं प्रकृष्टबलवत्त्वम् । तव बलेन कृतमित्यर्थः ।।
महाव्रते निष्केवल्ये ‘ विधुं दद्राणम्' इत्येषा । सूत्रितं च - ‘आ याह्यर्वाङुप वन्धुरेष्ठा विधुं दद्राणम्' (ऐ. आ. ५. ३. १) इति ॥
वि॒धुं द॑द्रा॒णं सम॑ने बहू॒नां युवा॑नं॒ सन्तं॑ पलि॒तो ज॑गार ।
दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाद्या म॒मार॒ स ह्यः समा॑न ॥५
वि॒ऽधुम् । द॒द्रा॒णम् । सम॑ने । ब॒हू॒नाम् । युवा॑नम् । सन्त॑म् । प॒लि॒तः । ज॒गा॒र॒ ।
दे॒वस्य॑ । प॒श्य॒ । काव्य॑म् । म॒हि॒ऽत्वा । अ॒द्य । म॒मार॑ । सः । ह्यः । सम् । आ॒न॒ ॥५
विऽधुम् । दद्राणम् । समने । बहूनाम् । युवानम् । सन्तम् । पलितः । जगार ।
देवस्य । पश्य । काव्यम् । महिऽत्वा । अद्य । ममार । सः । ह्यः । सम् । आन ॥५
अनया कालात्मक इन्द्रः स्तूयते । "विधुं विधातारं सर्वस्य युद्धादेः कर्तारम् । विपूर्वो दधातिः करोत्यर्थे । तथा “समने । अननमनः प्राणनम् । सम्यगननोपेते संग्रामे “बहूनां शत्रूणां “दद्राणं द्रावकं ईदृक्सामर्थ्योपेतं "युवानं "सन्तं पुरुषं "पलितः जरा “जगार निगिरतीन्द्राज्ञया । एवमुक्तलक्षणं वक्ष्यमाणलक्षणं च "देवस्य कलात्मकस्येन्द्रस्य "महित्वा महत्त्वेनोपेतं "काव्यं सामर्थ्यं “पश्य पश्यत हे जनाः । तथा जरसा प्राप्तः "अद्य “ममार म्रियते । "स “ह्यः परेद्युः "समान सम्यक् चेष्टते । पुनर्जन्मान्तरे प्रादुर्भवतीत्यर्थः । तदेवं चत्वारि नामानि शरीराण्युक्तानि ॥ ॥ १६ ॥
शाक्म॑ना शा॒को अ॑रु॒णः सु॑प॒र्ण आ यो म॒हः शूर॑ः स॒नादनी॑ळः ।
यच्चि॒केत॑ स॒त्यमित्तन्न मोघं॒ वसु॑ स्पा॒र्हमु॒त जेतो॒त दाता॑ ॥६
शाक्म॑ना । शा॒कः । अ॒रु॒णः । सु॒ऽप॒र्णः । आ । यः । म॒हः । शूरः॑ । स॒नात् । अनी॑ळः ।
यत् । चि॒केत॑ । स॒त्यम् । इत् । तत् । न । मोघ॑म् । वसु॑ । स्पा॒र्हम् । उ॒त । जेता॑ । उ॒त । दाता॑ ॥६
शाक्मना । शाकः । अरुणः । सुऽपर्णः । आ । यः । महः । शूरः । सनात् । अनीळः ।
यत् । चिकेत । सत्यम् । इत् । तत् । न । मोघम् । वसु । स्पार्हम् । उत । जेता । उत । दाता ॥६
“शाक्मना । शक्मैव शाक्म । शक्मना बलेन "शाकः शक्त। ‘शक्लृ शक्तौ । स्वशक्त्यैव सर्वं कर्तुं शक्तः इत्यर्थः । न हीन्द्रस्य सहायान्तरापेक्षास्तीन्द्रत्वादेव । "अरुणः अरुणवर्णः "सुपर्णः कश्चिच्छोभनपर्णः पक्षी “आ गच्छतीत्यध्याहारः । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । "यः "महः महान् "शूरः विक्रान्तः "सनात् पुराणः "अनीळः अनीडो नीडस्याकर्ता । नहीन्द्रोऽग्निवत् कुत्रचिदपि यज्ञे निकेतनं करोति । एवं सुपर्णरूपकेणेन्द्रमाह। स पक्षीन्द्रः “यच्चिकेत कर्तव्यत्वेन जानाति "तत् “सत्यमित् सत्यमेव "न तु "मोघं व्यर्थं भवति । सः "स्पार्हं स्पृहणीयं "वसु "उत “जेता जयति शत्रुभ्यः सकाशात् “उत अपि “दाता प्रयच्छति च स्तोतृभ्यः । ‘न लोकाव्यय°' इत्यादिना षष्ठीप्रतिषेधः ॥
ऐभि॑र्ददे॒ वृष्ण्या॒ पौंस्या॑नि॒ येभि॒रौक्ष॑द्वृत्र॒हत्या॑य व॒ज्री ।
ये कर्म॑णः क्रि॒यमा॑णस्य म॒ह्न ऋ॑तेक॒र्ममु॒दजा॑यन्त दे॒वाः ॥७
आ । ए॒भिः॒ । द॒दे॒ । वृष्ण्या॑ । पौंस्या॑नि । येभिः॑ । औक्ष॑त् । वृ॒त्र॒ऽहत्या॑य । व॒ज्री ।
ये । कर्म॑णः । क्रि॒यमा॑णस्य । म॒ह्ना । ऋ॒ते॒ऽक॒र्मम् । उ॒त्ऽअजा॑यन्त । दे॒वाः ॥७
आ । एभिः । ददे । वृष्ण्या । पौंस्यानि । येभिः । औक्षत् । वृत्रऽहत्याय । वज्री ।
ये । कर्मणः । क्रियमाणस्य । मह्ना । ऋतेऽकर्मम् । उत्ऽअजायन्त । देवाः ॥७
इन्द्रः “एभिः मरुद्भिः सह वृष्ण्यानि वर्षकाणि "पौंस्यानि बलानि “आ “ददे आदत्ते । “येभिः मरुद्धिः सहितः “वृत्रहत्याय। प्राण्युपकारकवृष्ट्यावरकत्वाद्वृत्रः पापम् । तस्य हत्याय । मनुष्याणामुपद्रवशमनायेत्यर्थः । तदर्थं "वज्री वज्रवानिन्द्रः “औक्षत् वर्षति । “ये च मरुतः "देवाः “मह्ना महतेन्द्रेण "क्रियमाणस्य "कर्मणः वृष्टिप्रदानलक्षणस्य साहाय्यार्थम् “ऋतेकर्मम् ऋतकर्म वृष्टिप्रदानकर्म प्रति “उदजायन्त उन्मुखा जायन्ते स्वयमेव तैरेभिर्दद इति समन्वयः ॥
यु॒जा कर्मा॑णि ज॒नय॑न्वि॒श्वौजा॑ अशस्ति॒हा वि॒श्वम॑नास्तुरा॒षाट् ।
पी॒त्वी सोम॑स्य दि॒व आ वृ॑धा॒नः शूरो॒ निर्यु॒धाध॑म॒द्दस्यू॑न् ॥८
यु॒जा । कर्मा॑णि । ज॒नय॑न् । वि॒श्वऽओ॑जाः । अ॒श॒स्ति॒ऽहा । वि॒श्वऽम॑नाः । तु॒रा॒षाट् ।
पी॒त्वी । सोम॑स्य । दि॒वः । आ । वृ॒धा॒नः । शूरः॑ । निः । यु॒धा । अ॒ध॒म॒त् । दस्यू॑न् ॥८
युजा । कर्माणि । जनयन् । विश्वऽओजाः । अशस्तिऽहा । विश्वऽमनाः । तुराषाट् ।
पीत्वी । सोमस्य । दिवः । आ । वृधानः । शूरः । निः । युधा । अधमत् । दस्यून् ॥८
स इन्द्रः “युजा मरुतां साहाय्येन "कर्माणि प्रवर्षणादीनि "जनयन् उत्पादयन् "विश्वौजाः व्याप्तबलः "अशस्तिहा रक्षोहा “विश्वमनाः व्याप्तमनः अत्यन्तं मनस्वी “तुराषाट् तूर्णमभिभविता शत्रूणाम् । एवंमहानुभाव इन्द्रः "सोमस्य सोमं "पीत्वी पीत्वा "दिवः द्युलोकादागत्य सोमं पीत्वा “वृधानः वर्धमानः "शूरः सन् "युधा आयुधेन प्रहारेण वा "दस्यून् शत्रून् "निः "अधमत् निर्धमति । युद्धेनासुरानपबाधत इत्यर्थः । ॥ १७ ॥
मण्डल १० | ||||
---|---|---|---|---|