ऋग्वेदः सूक्तं १०.११०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.११० इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.१०९ ऋग्वेदः - मण्डल १०
सूक्तं १०.११०
जमदग्निर्भार्गवः, जामदग्न्यो रामो वा।
सूक्तं १०.१११ →
दे. आप्रीसूक्तं (१ इध्मः समिद्धोऽग्निर्वा, २ तनूनपात्, ३ इळा, ४ बर्हिः, ५ देवीर्द्वारः, ६ उषासानक्ता, ७ दैव्यौ होतारौ प्रचेतसौ, 8 तिस्रो देव्यः सरस्वतीळाभारत्यः, ९ त्वष्टा, १० वनस्पतिः, ११ स्वाहाकृतयः)। त्रिष्टुप् ।


समिद्धो अद्य मनुषो दुरोणे देवो देवान्यजसि जातवेदः ।
आ च वह मित्रमहश्चिकित्वान्त्वं दूतः कविरसि प्रचेताः ॥१॥
तनूनपात्पथ ऋतस्य यानान्मध्वा समञ्जन्स्वदया सुजिह्व ।
मन्मानि धीभिरुत यज्ञमृन्धन्देवत्रा च कृणुह्यध्वरं नः ॥२॥
आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः ।
त्वं देवानामसि यह्व होता स एनान्यक्षीषितो यजीयान् ॥३॥
प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् ।
व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥४॥
व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।
देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥५॥
आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।
दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥६॥
दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।
प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥७॥
आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिह चेतयन्ती ।
तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वती स्वपसः सदन्तु ॥८॥
य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा ।
तमद्य होतरिषितो यजीयान्देवं त्वष्टारमिह यक्षि विद्वान् ॥९॥
उपावसृज त्मन्या समञ्जन्देवानां पाथ ऋतुथा हवींषि ।
वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥१०॥
सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः ।
अस्य होतुः प्रदिश्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥११॥


सायणभाष्यम्

'समिद्धः' इत्येकादशर्चमेकादशं सूक्तं त्रैष्टुभम् । भार्गवो जमदग्निर्ऋषिः । तस्य पुत्रो रामो वा यः परशुराम इति प्रख्यातः । आप्रीसूक्तमिदम् । अतः समिदाद्याः सतनूनपातो नराशंसवर्जिताः प्रत्यृचं देवताः । तथा चानुक्रान्तं--- समिद्ध एकादश जमदग्निस्तत्सुतो वा राम आप्रियः' इति । पशौ जामदग्न्यानामिदमाप्रीसूक्तं यद्वाविशेषण सर्वेषाम् । सूत्रितं च -- समिद्धो अद्येति सर्वेषां यथर्षि वा ' ( आश्व. श्रौ. ३. २ ) इति । अग्निचयनाङ्गभूते प्राजापत्ये पशौं सर्वेषां नित्यमिदमाप्रीसूक्तम् । सूत्रितं च - प्राजापत्ये तु जामदग्न्यः सर्वेषाम् ' ( आश्व. श्रौ. ३. २ ) इति ॥


समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः ।

आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥ १

सम्ऽइ॑द्धः । अ॒द्य । मनु॑षः । दु॒रो॒णे । दे॒वः । दे॒वान् । य॒ज॒सि॒ । जा॒त॒ऽवे॒दः॒ ।

आ । च॒ । वह॑ । मि॒त्र॒ऽम॒हः॒ । चि॒कि॒त्वान् । त्वम् । दू॒तः । क॒विः । अ॒सि॒ । प्रऽचे॑ताः ॥१

सम्ऽइद्धः । अद्य । मनुषः । दुरोणे । देवः । देवान् । यजसि । जातऽवेदः ।

आ । च । वह । मित्रऽमहः । चिकित्वान् । त्वम् । दूतः । कविः । असि । प्रऽचेताः ॥१

हे “जातवेदः जातप्रज्ञाग्ने “देवः स्वतेजसा दीप्यमानस्त्वं “मनुषः मनुष्यस्य यष्टुः “दुरोणे। • गृहनामैतत् । दुरवने आयासेन रक्षितव्ये गृहे “अद्य अस्मिन् कर्मणि “समिद्धः सम्यक् प्रज्वालितः सन् "देवान् इन्द्रादीन् “यजसि । हविर्भिः पूजय ॥ समिद्धः । इन्धी दीप्तौ । कर्मणि क्ते । ‘ श्वीदितो निष्ठायाम् ' इतीट्प्रतिषेधः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ हे “मित्रमहः स्तुत्यस्तोतृलक्षणत्वेन मित्रभूतानां स्तोतॄणां पूजयितः तैः पूज्यमान वाग्ने “चिकित्वान् तैः कृताः स्तुतीः प्रजानन् चेतनावान् वा त्वमस्मदीये यज्ञे देवान् “आ “वह “च । आप्रापय ॥ ‘ वह प्रापणे '। लोटि रूपम् । ‘ चवायोगे प्रथमा ' इति न निघातः ॥ तथा “कविः क्रान्तप्रज्ञः अत एव “प्रचेताः प्रकृष्टज्ञानः “त्वं “दूतः देवानां हविष्प्रापणेन हितकारी भवसि ॥


तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्स्व॑दया सुजिह्व ।

मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे॑व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ॥ २

तनू॑ऽनपात् । प॒थः । ऋ॒तस्य॑ । याना॑न् । मध्वा॑ । स॒म्ऽअ॒ञ्जन् । स्व॒द॒य॒ । सु॒ऽजि॒ह्व॒ ।

मन्मा॑नि । धी॒भिः । उ॒त । य॒ज्ञम् । ऋ॒न्धन् । दे॒व॒ऽत्रा । च॒ । कृ॒णु॒हि॒ । अ॒ध्व॒रम् । नः॒ ॥२

तनूऽनपात् । पथः । ऋतस्य । यानान् । मध्वा । सम्ऽअञ्जन् । स्वदय । सुऽजिह्व ।

मन्मानि । धीभिः । उत । यज्ञम् । ऋन्धन् । देवऽत्रा । च । कृणुहि । अध्वरम् । नः ॥२

हे “तनूनपात् । नपादित्यनन्तरापत्यनामधेयम् । गौरत्र तनूरुच्यते तता अस्यां भोगाः क्षीरादय इति । तस्याः पयो जायते पयस आज्यं तस्मादग्निः । यद्वा । अन्तरिक्षे तता आपस्तन्वः ताभ्य ओषध्यादयः तेभ्योऽग्निरिति । एवंरूप हे “सुजिह्व शोभनज्वाल। यद्वा जिह्वेति वाङ्नाम । शोभनवागग्ने “ऋतस्य यज्ञस्य “यानान् फलप्राप्तिहेतून् “पथः मार्गान् हविराख्यान “मध्वा मदकरेण रसेन यद्वा वाग्जनितेन रसेन “समञ्जन् सम्यग्दीपयन् “स्वदय स्वादय । स्वादूकुरु ॥ ‘ स्वद आस्वादने । णिच्युपधावृद्ध्यभावश्छान्दसः ॥ किंच “मन्मानि । मन्यतेरर्चतिकर्मणः । मननीयानि अस्मदभिप्रेतानि स्तोत्राणि “धीभिः प्रज्ञाभिः कर्मभिर्वा “उत अपि च “यज्ञं यजनीयं हविश्च “ऋन्धन् समृद्धानि कुर्वन् “नः अस्मदीयम् “अध्वरं यज्ञं “देवत्रा देवेषु “कृणुहि कुरु ॥ देवशब्दात् ‘देवमनुष्य°' इत्यादिना सप्तम्यर्थे त्राप्रत्ययः ॥


आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषाः॑ ।

त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ॥ ३

आ॒ऽजुह्वा॑नः । ईड्यः॑ । वन्द्यः॑ । च॒ । आ । या॒हि॒ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ ।

त्वम् । दे॒वाना॑म् । अ॒सि॒ । य॒ह्व॒ । होता॑ । सः । ए॒ना॒न् । य॒क्षि॒ । इ॒षि॒तः । यजी॑यान् ॥३

आऽजुह्वानः । ईड्यः । वन्द्यः । च । आ । याहि । अग्ने । वसुऽभिः । सऽजोषाः ।

त्वम् । देवानाम् । असि । यह्व । होता । सः । एनान् । यक्षि । इषितः । यजीयान् ॥३

हे “अग्ने त्वमस्मत्कर्मणि “आ “याहि आगच्छ । कीदृशः । “आजुह्वानः देवानामाह्वाता । 'हु दानादनयोः ' । जौहोत्यादिकः । अभ्यस्तस्वरः । “ईड्यः । ईडिरध्येषणाकर्मा । अध्येष्यः प्रार्थ्यमानः “वन्द्यः स्तोतव्यः "वसुभिः देवैः “सजोषाः सह प्रीयमाणः । आगत्य च हे यह्व। महन्नामैतत् । हे महन् सः “त्वं “देवानां “होता आह्वाता “असि । ततः “यजीयान् ॥ यष्टृशब्दादीयसुनि तुरिष्ठेमेयःसु ' इति तृचो लोपः ॥ यष्टृतरः “सः त्वम् “इषितः अस्माभिरध्येषितः प्रार्थितः सन् एतान् देवान् “यक्षि यज । हविषा पूजय ॥


प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म् ।

व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥ ४

प्रा॒चीन॑म् । ब॒र्हिः । प्र॒ऽदिशा॑ । पृ॒थि॒व्याः । वस्तोः॑ । अ॒स्याः । वृ॒ज्य॒ते॒ । अग्रे॑ । अह्ना॑म् ।

वि । ऊं॒ इति॑ । प्र॒थ॒ते॒ । वि॒ऽत॒रम् । वरी॑यः । दे॒वेभ्यः॑ । अदि॑तये । स्यो॒नम् ॥४

प्राचीनम् । बर्हिः । प्रऽदिशा । पृथिव्याः । वस्तोः । अस्याः । वृज्यते । अग्रे । अह्नाम् ।

वि । ऊं इति । प्रथते । विऽतरम् । वरीयः । देवेभ्यः । अदितये । स्योनम् ॥४

यदिदं “प्राचीनं प्रागञ्चितं प्राङ्मुखं “बर्हिः अस्ति तदिदं “पृथिव्याः वेदिलक्षणायाः “वस्तोः ॥ ‘वस आच्छादने' । तुन्प्रत्ययः । चतुर्थ्यर्थं बहुलं छन्दसि' इति षष्ठी। यद्वा । भावलक्षणे तोसुन् द्रष्टव्यः । वसनायाच्छादनार्थम् “अह्नाम् “अग्रे पूर्वाह्णे “प्रदिशा प्रकर्षेण दिश्यमानेन मन्त्रेण “अस्याः प्राच्या दिशः “वृज्यते स्तूयते आह्रियते । तथा च निगमः - ‘ त आ वहन्ति कवयः पुरस्तात् ' (तै. सं. १.१.२.१ ) इत्यादि । तच्चाहृतं “वरीयः उरुतरं बर्हिः “वितरं विस्तीर्णतरं यथा भवति तथा “वि “प्रथते । विविधमेव वेद्यां प्रस्तृतं भवति । तथा “देवेभ्यः “अदितये वेदिलक्षणायै पृथिव्यै च “स्योनं सुखकरं भवति । विस्तीर्णे बर्हिषि देवाः सुखं निषीदन्ति ॥


व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः ।

देवी॑र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ॥ ५

व्यच॑स्वतीः । उ॒र्वि॒या । वि । श्र॒य॒न्ता॒म् । पति॑ऽभ्यः । न । जन॑यः । शुम्भ॑मानाः ।

देवीः॑ । द्वा॒रः॒ । बृ॒ह॒तीः॒ । वि॒श्व॒म्ऽइ॒न्वाः॒ । दे॒वेभ्यः॑ । भ॒व॒त॒ । सु॒प्र॒ऽअ॒य॒नाः ॥५

व्यचस्वतीः । उर्विया । वि । श्रयन्ताम् । पतिऽभ्यः । न । जनयः । शुम्भमानाः ।

देवीः । द्वारः । बृहतीः । विश्वम्ऽइन्वाः । देवेभ्यः । भवत । सुप्रऽअयनाः ॥५

“व्यचस्वतीः । व्यचो व्यापनम् । तद्वत्यः ॥ ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घः ॥ ता द्वारदेवताः "उर्विया ॥ उरुशब्दात्तृतीयैकवचने ‘इयाडियाजीकाराणामुपसंख्यानम् ' ( पा. सू. ७. १.३९. १ ) इतीयादेशः ॥ उरुत्वेन “वि “श्रयन्तां विशेषेणाश्रिता भवन्तु । तत्र दृष्टान्तः । “पतिभ्यो “न यथा पतीनामर्थाय संभोगकाले “शुम्भमानाः शोभमाना: “जनयः जाया विश्रयन्ति तद्वदस्मिन् कर्मणि विश्रयन्ताम् । हे “बृहतीः महत्यो हे “विश्वमिन्वाः ।। इविः प्रीणनार्थः । तस्मात् कर्मण्युपपदे अण् । इदित्त्वान्नुम् । तत्पुरुषे कृति बहुलम् ' इत्यत्र बहुलवचनात् द्वितीयाया अप्यलुक् ॥ सर्वस्य प्रीणयित्र्यो हे “द्वारः “देवीः द्वाराभिमानिन्यो हे देव्यः यूयं “देवेभ्यः देवानामर्थाय “सुप्रायणाः सुप्रगमनाः सुविवृताः “भवत ॥ ॥ ८ ॥


आ सु॒ष्वय॑न्ती यज॒ते उपा॑के उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।

दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ॥ ६

आ । सु॒स्वय॑न्ती॒ इति॑ । य॒ज॒ते इति॑ । उपा॑के॒ इति॑ । उ॒षसा॒नक्ता॑ । स॒द॒ता॒म् । नि । योनौ॑ ।

दि॒व्ये इति॑ । योष॑णे॒ इति॑ । बृ॒ह॒ती इति॑ । सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे । अधि॑ । श्रिय॑म् । शु॒क्र॒ऽपिश॑म् । दधा॑ने॒ इति॑ ॥६

आ । सुस्वयन्ती इति । यजते इति । उपाके इति । उषसानक्ता । सदताम् । नि । योनौ ।

दिव्ये इति । योषणे इति । बृहती इति । सुरुक्मे इति सुऽरुक्मे । अधि । श्रियम् । शुक्रऽपिशम् । दधाने इति ॥६

सुस्वयन्ती । ‘ अथ पथ गतौ । शतर्युपसर्गस्य सोर्द्विर्वचनं छान्दसम् । सुष्ठु अयन्त्यौ गच्छन्त्यौ । यद्वा । स्वपेर्ण्यन्तस्य वर्णलोपः ॥ सुष्वापयन्त्यौ । “यजते यष्टव्ये “उपाके उपक्रान्ते “उषासानक्ता उषाश्च नक्तं च ।। द्वन्द्वे • उषासोषसः' ( पा. सू. ६. ३. ३१ ) इत्युषासादेशः । ‘ देवताद्वन्द्वे च ' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥ अहोरात्रदेव्यौ “योनौ अस्मिन् यज्ञस्थाने “नि नितरां नियमेन वा “आ “सदताम् आसीदतम् । सदेर्लुङि लृदित्त्वाच्च्लेरङ्। कीदृश्यौ । “दिव्ये दिवि भवे “थोषणे योषिताविव प्रीणयित्र्यौ । यद्वा । योषणे समिते परस्परतोऽविविक्ते । “बृहती गुणैर्महत्यौ “सुरुक्मे शोभनदीप्ते ॥ रुक्मम् । रोचतेर्मक्प्रत्यये कुत्वे च कृते रूपम् ॥ “शुक्रपिशं शोचमानरूपां “श्रियम् “अधि “दधाने अधिकं धारयन्त्यौ ॥


दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै ।

प्र॒चो॒दय॑न्ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑ ॥ ७

दैव्या॑ । होता॑रा । प्र॒थ॒मा । सु॒ऽवाचा॑ । मिमा॑ना । य॒ज्ञम् । मनु॑षः । यज॑ध्यै ।

प्र॒ऽचो॒दय॑न्ता । वि॒दथे॑षु । का॒रू इति॑ । प्रा॒चीन॑म् । ज्योतिः॑ । प्र॒ऽदिशा॑ । दि॒शन्ता॑ ॥७

दैव्या । होतारा । प्रथमा । सुऽवाचा । मिमाना । यज्ञम् । मनुषः । यजध्यै ।

प्रऽचोदयन्ता । विदथेषु । कारू इति । प्राचीनम् । ज्योतिः । प्रऽदिशा । दिशन्ता ॥७

“दैव्या ॥ ‘देवाद्यञञौ' इति यञ्प्रत्ययः । देवसंबन्धिनौ होतारौ होमनिष्पादकौ होतृनामकावग्न्यादित्यावस्मिन् यज्ञे आसीदताम् । कीदृशौ । “प्रथमा मनुष्यहोतुः पूर्वभाविनौ “सुवाचा शोभनस्तोत्रौ “मनुषः मनुष्यस्य सर्वस्य यष्टुः “यजध्यै यागनिवृत्तये ॥ यजेस्तुमर्थे शध्यैन्प्रत्ययः ॥ “यज्ञं “मिमाना निर्मिमानावुत्पादयन्तौ “विदथेषु । विदन्त्यत्रर्त्विजः स्वस्वकर्माणीति विदथा यज्ञाः । तेष्वृत्विजो यजमानांश्च “प्रचोदयन्ता प्रेरयन्तौ “कारू स्तुतीनां कर्तारौ “प्राचीनं पूर्वस्यां दिशि यष्टव्यत्वेन स्थितमाहवनीयाख्यं “ज्योतिः “प्रदिशा प्रकृष्टेनोपदिष्टमार्गेण यद्वा प्रदिश्यमानेन मन्त्रेण “दिशन्ता निर्वहन्तौ ।।


आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विळा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती ।

ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वती॒ स्वप॑सः सदन्तु ॥ ८

आ । नः॒ । य॒ज्ञम् । भार॑ती । तूय॑म् । ए॒तु॒ । इळा॑ । म॒नु॒ष्वत् । इ॒ह । चे॒तय॑न्ती ।

ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स्यो॒नम् । सर॑स्वती । सु॒ऽअप॑सः । स॒द॒न्तु॒ ॥८

आ । नः । यज्ञम् । भारती । तूयम् । एतु । इळा । मनुष्वत् । इह । चेतयन्ती ।

तिस्रः । देवीः । बर्हिः । आ । इदम् । स्योनम् । सरस्वती । सुऽअपसः । सदन्तु ॥८

“भारती । भरत आदित्यः । तस्य स्वभूता दीप्तिः । तस्येदम् ' इत्यर्थे उत्सादित्वादञ् (पा. सू. ४. १. ८६ )। ‘ टिड्ढाणञ् ' इति ङीप् । “नः अस्मदीयं “यज्ञं तूयं ' क्षिप्रम् “आ “एतु आगच्छतु । तथा “मनुष्वत् मनुष्यो यथा इदं मया कर्तव्यमिति जानाति तद्वत् “चेतयन्ती जानाना “इळा देवी च “इह अस्मिन् कर्मण्यागच्छतु । तथा “सरस्वती च । “स्वपसः सुकर्माणः । अप इति कर्मनाम ॥ आप्नोतेरसुनि आपः कर्माख्यायां ह्रस्वः । बहुव्रीहौ 'आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् ॥ एताः “तिस्रो “देवीः देव्यः “स्योनं सुखकरम् “इदं “बर्हिः इमं यज्ञम् “आ “सदन्तु आसीदन्तु प्राप्नुवन्तु ॥ सदेर्लोटि सीदादेशाभावश्छान्दसः ॥


त्वाष्ट्रस्य पशोर्वपायां ‘ य इमे ' इत्येषानुवाक्या । सूत्रितं च -- य इमे द्यावापृथिवी जनित्री तन्नस्तुरीपमध पोषयित्नु ' ( आश्व. श्रौ. ३. ८) इति ॥

य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑ ।

तम॒द्य हो॑तरिषि॒तो यजी॑यान्दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥ ९

यः । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । जनि॑त्री॒ इति॑ । रू॒पैः । अपिं॑शत् । भुव॑नानि । विश्वा॑ ।

तम् । अ॒द्य । हो॒तः॒ । इ॒षि॒तः । यजी॑यान् । दे॒वम् । त्वष्टा॑रम् । इ॒ह । य॒क्षि॒ । वि॒द्वान् ॥९

यः । इमे इति । द्यावापृथिवी इति । जनित्री इति । रूपैः । अपिंशत् । भुवनानि । विश्वा ।

तम् । अद्य । होतः । इषितः । यजीयान् । देवम् । त्वष्टारम् । इह । यक्षि । विद्वान् ॥९

“यः त्वष्टा देवः “जनित्री विश्वस्य जनयित्र्यौ “इमे “द्यावापृथिवी ॥ द्वन्द्वे ‘दिवो द्यावा ' इति द्यावादेशः । आद्युदात्तः । पृथिवीशब्दो ङीषन्तत्वेनान्तोदात्त: । “ देवताद्वन्द्वे च ' इति पूर्वोतरपदयोः प्रकृतिस्वरत्वम् ॥ द्यावापृथिव्यौ “रूपैः देवतिर्यङ्मनुष्याद्याकारैः “अपिंशत् रूपवत्यावकरोत् ॥ ‘ पिश अवयवे' । तौदादिकः । ‘शे मुचादीनाम् ' इति नुमागमः ॥ तथा “विश्वा सर्वाणि “भुवनानि भूतजातानि रूपयुक्तान्यकरोत् । हे “होतः “यजीयान् यष्टृतमः “विद्वान् सर्वं जानानः त्वम् “इषितः अस्माभिरध्येषितः प्रार्थितः सन् “इह अस्मिन् कर्मणि “अद्य अस्मिन् दिने “तं “त्वष्टारं “देवं “यक्षि । स्तुतिभिर्हविर्भिर्वा यज पूजय ।।


उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑ ।

वन॒स्पतिः॑ शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥ १०

उ॒प॒ऽअव॑सृज । त्मन्या॑ । स॒म्ऽअ॒ञ्जन् । दे॒वाना॑म् । पाथः॑ । ऋ॒तु॒ऽथा । ह॒वींषि॑ ।

वन॒स्पतिः॑ । श॒मि॒ता । दे॒वः । अ॒ग्निः । स्वद॑न्तु । ह॒व्यम् । मधु॑ना । घृ॒तेन॑ ॥१०

उपऽअवसृज । त्मन्या । सम्ऽअञ्जन् । देवानाम् । पाथः । ऋतुऽथा । हवींषि ।

वनस्पतिः । शमिता । देवः । अग्निः । स्वदन्तु । हव्यम् । मधुना । घृतेन ॥१०

हे वनस्पते यूप “त्मन्या । आत्मन्शब्दस्य तृतीयैकवचने यादेशः । मन्त्रेष्वाङयादेरात्मनः इत्याकारलोपः ॥ आत्मनैव “ऋतुथा ऋतौ ऋतौ प्राप्ते काले “देवानाम् अर्थाय “पाथः पशुलक्षणमन्नमन्यानि च “हवींषि “समञ्जन् सम्यग्व्यक्तीकुर्वन् “उपावसृज उपागम्य प्रयच्छ ॥ ‘ गतिर्गतौ ' ( पा. सू. ८. १. ७० ) इति गतेर्निघातः ॥ किंच “वनस्पतिः योऽयं यूपः “शमिता एतन्नामकः “देवः यद्वा शामित्रः “अग्निः देवो दीप्यमान आहवनीयाख्योऽग्निश्चैते त्रयः “मधुना मधुरेण “घृतेन । यद्वा मधुनोदकेन प्रोक्षणोपनयनादिगतेन घृतेन च । “हव्यं हवनयोग्यं “स्वदन्तु स्वादूकुर्वन्तु ॥


स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः ।

अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ॥ ११

स॒द्यः । जा॒तः । वि । अ॒मि॒मी॒त॒ । य॒ज्ञम् । अ॒ग्निः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रः॒ऽगाः ।

अ॒स्य । होतुः॑ । प्र॒ऽदिशि॑ । ऋ॒तस्य॑ । वा॒चि । स्वाहा॑ऽकृतम् । ह॒विः । अ॒द॒न्तु॒ । दे॒वाः ॥११

सद्यः । जातः । वि । अमिमीत । यज्ञम् । अग्निः । देवानाम् । अभवत् । पुरःऽगाः ।

अस्य । होतुः । प्रऽदिशि । ऋतस्य । वाचि । स्वाहाऽकृतम् । हविः । अदन्तु । देवाः ॥११

अयमग्निः “सद्यः तदानीमेव “जातः जायमान एव “यज्ञं “व्यमिमीत विशेषेण निर्मिमीते । उत्पादयति ॥ माङ् माने शब्दे च '। जौहोत्यादिकः ॥ अत एवायम् “अग्निः “देवानां “पुरोगाः प्रथमगामी मुख्यः “अभवत् ॥ गमेर्विट्प्रत्यय आत्वे च कृते रूपम् ॥ ततः “प्रदिशि प्रकृष्टायां दिशि प्राच्याम् “ऋतस्य आहवनीयात्मनागतस्य “अस्य “होतुः होमनिष्पादकस्याग्नेः “वाचि । अत्र वागाश्रय आस्यं लक्ष्यते । वाच्यास्ये "स्वाहाकृतं स्वाहाकारेण प्रक्षिप्तं “हविः सर्वे “देवाः “अदन्तु भक्षयन्तु । इदं सूक्तं यास्केन सम्यगभ्यधायि ( निरु. ८.५–२१ ) । तदत्रानुसंधीयताम् ॥ ॥ ९ ॥


[सम्पाद्यताम्]

टिप्पणी

According to Sayana (RV I.13), there are 12 āprī sukta. Of the ten āprī sukta, R̥gveda commented by Gargya Narayana, RV I.13 and I.142 invoke Narāśaṁsa and Tanūnapāt manifestations of Agni. RV I.188, III.4, IX.5 and X.110 invoke only Tanūnapāt manifestation. RV II.3, V.5, VII.2 and X.70 invoke only Narāśaṁsa manifestation.

इध्मः

ध्मा प्रपूरणशब्दो य इध्मा नाम प्रकीर्त्यते । पूरितस्यागतिर्येन तेनेध्मस्त्वं भविष्यसि ।। वराहपुराणम् १८.२६ ।। ध्मा शब्दस्य विनियोजनं प्रायः अयसः ध्मानाय एव भवति। किन्तु अत्र प्रपूरणे अस्ति। यथा उल्लिखितमस्ति, इध्मस्य उन्नतं रूपं समित् अस्ति। समित् अर्थात् समिति, सममिति। अस्मिन् जगते सममितेः ह्रासं अस्ति, येन कारणेन सममितेः प्रपूरणाय वयं भोजनं कुर्वामः। सममितेः आधुनिकं व्याख्या श्री गोवान कृतमस्ति। विष्णु पुराणस्य १.८.१९ कथनमस्ति - लक्ष्मी इध्मा, विष्णुः कुशः। कुशोपरि टिप्पणी

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.११०&oldid=202917" इत्यस्माद् प्रतिप्राप्तम्