ऋग्वेदः सूक्तं १०.२९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.२९ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.२८ ऋग्वेदः - मण्डल १०
सूक्तं १०.२९
ऐन्द्रो वसुक्रः
सूक्तं १०.३० →
दे. इन्द्रः। त्रिष्टुप्



वने न वा यो न्यधायि चाकञ्छुचिर्वां स्तोमो भुरणावजीगः ।
यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् ॥१॥
प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् ।
अनु त्रिशोकः शतमावहन्नॄन्कुत्सेन रथो यो असत्ससवान् ॥२॥
कस्ते मद इन्द्र रन्त्यो भूद्दुरो गिरो अभ्युग्रो वि धाव ।
कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अन्नैः ॥३॥
कदु द्युम्नमिन्द्र त्वावतो नॄन्कया धिया करसे कन्न आगन् ।
मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन्मनीषाः ॥४॥
प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् ।
गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः ॥५॥
मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन ।
वराय ते घृतवन्तः सुतासः स्वाद्मन्भवन्तु पीतये मधूनि ॥६॥
आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हि सत्यराधाः ।
स वावृधे वरिमन्ना पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च ॥७॥
व्यानळिन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः ।
आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥८॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

सायणभाष्यम्

‘वने न वा ' इत्यष्टर्चं त्रयोदशं सूक्तं वसुक्रस्यार्षं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च--- वने नाष्टौ' इति । चतुर्थेऽहनि स्तोमवृद्धौ ब्राह्मणाच्छंसिन एतत्सूक्तमावापार्थम् । सूत्रितं च--' स्तोमे वर्धमाने को अद्य नर्यो वने न वा यः ' ( आश्व. श्रौ. ७. १२) इति । महाव्रते निष्केवल्य एतत्सूक्तम् । सूत्रितं च--- प्र वो महे मन्दमानायान्धस इति निविद्धानं वने न वा यो न्यधायि चाकन्' (ऐ. आ. ५, ३, १) इति ॥


वने॒ न वा॒ यो न्य॑धायि चा॒कंछुचि॑र्वां॒ स्तोमो॑ भुरणावजीगः ।

यस्येदिंद्रः॑ पुरु॒दिने॑षु॒ होता॑ नृ॒णां नर्यो॒ नृत॑मः क्ष॒पावा॑न् ॥१

वने॑ । न । वा॒ । यः । नि । अ॒धा॒यि॒ । चा॒कन् । शुचिः॑ । वा॒म् । स्तोमः॑ । भु॒र॒णौ॒ । अ॒जी॒ग॒रिति॑ ।

यस्य॑ । इत् । इन्द्रः॑ । पु॒रु॒ऽदिने॑षु । होता॑ । नृ॒णाम् । नर्यः॑ । नृऽत॑मः । क्ष॒पाऽवा॑न् ॥

वने । न । वा । यः । नि । अधायि । चाकन् । शुचिः । वाम् । स्तोमः । भुरणौ । अजीगरिति ।

यस्य । इत् । इन्द्रः । पुरुऽदिनेषु । होता । नृणाम् । नर्यः । नृऽतमः । क्षपाऽवान् ॥

वने न वा यो न्यधायीति । “वने “न वन इव वृक्ष इव शकुनिः स्वे नीड़े वायमात्मीयं पुत्रं “न्यधायि निदधाति शिशुकमजातपक्षम्। स यथा तत्र निहितः “चाकन् पश्यन् भयाद्दिशो निरीक्षमाण आसीत् । अथवा कामयमानस्तदुत्सुकमना आसीत् । एवमयमस्मासु वृक्षस्य नीडभूतेषु शकुनिपुत्रभूतः “शुचिः व्यपगतसर्वदोषो युवयोः स्वभूतः “स्तोमः हे "भुरणौ भर्तारावश्विनौ शीघ्रौ वा। भुरण्युरिति क्षिप्रनामेति । किंच “यस्य स्तोमस्य “पुरुदिनेषु बहुष्वहःसु “इन्द्रः “होता इन्द्रोऽप्याह्वाता भवति ममायं स्तोमः स्यादिति । किंल्लक्षणः पुनरिन्द्र आह्वाता । यः "नृणां मनुष्याणां "नृतमः मनुष्याणामपि मनुष्यतमः । शूराणामपि मध्ये शूरतम इत्यर्थः । “नर्यः च नृभ्यो हितो यः “क्षपावान् च रात्रिपर्यायेषु सोमभागः । एवं गुणयुक्तेन यः स्तोम इन्द्रेणापि प्रार्थ्यतेऽस्मासु वर्तमानः स युवां प्रति “अजीगः नित्यकालमेव गच्छतीत्यर्थः । एवं तावदेतामृचमाश्विनीमिति कृत्वा व्याचक्षते । तदसाधु । ऐन्द्रे हि सूक्ते प्रथमैवेयं भवति। तच्च पुनः पृष्ठ्यस्य षष्ठेऽहनि स्तोमे वर्धमाने माध्यंदिने सवने ब्राह्मणाच्छंसिनः शस्त्रे विनियुज्यते । हे भुरणौ भर्तारौ देवानां पती य एष स्तोमोऽस्मासु निहितः शुचिर्व्यपगतदोषः शकुनिपुत्र इव वने वनावयवे वृक्षे चाकन् पश्यन्निव कामयमान इव वेन्द्रमास्ते । यस्य स्तोमस्य किमिति । यस्येन्द्रः पुरुदिनेषु बहुष्वहःस्वाह्वाताभूत् अपि नाम मामनेन स्तोमेन स्तुयुरिति । किँल्लक्षणः पुनराह्वाता । यस्येदिन्द्र इति नृणां नृतमो नर्यश्च क्षपावांश्च समानमेतत्पूर्वेणार्थेन । यमेवमिन्द्रः प्रार्थयते स एष स्तोमस्तं प्रत्यजीगः गच्छतीत्यर्थः । अथवा स एष स्तोमोऽस्माभिरुदीर्यमाणस्तस्येन्द्रस्य गुणान्गृह्णातीति स्यात् । 'जिगर्तिर्गृह्णातिकर्मा’ (निरु.६.८) इति ह्युक्तम् । एवमत्र चाकन्नित्यस्य चायन्निति वा कामयमान इति वेत्येतौ विपरिणामावुपपद्यते शब्दसारूप्यादविरोधाच्च । एतस्मिन्निगमे पदविभागगतः कश्चिद्विचारोऽस्ति । तमाह भाष्यकारः-'वेति च य इति च चकार शाकल्यः' (निरु. ६. २८) इति । वेति य इति च पदे चकार शाकल्यः पदकारः । तदेतद्विचार्यमाणं न साधु भवति । किं कारणम्। 'उदात्तं त्वेवमाख्यातमभविष्यत् । एवमेतस्मिन् पदद्वये सति यदेतदाख्यातं न्यधायीति तदुदात्तमभविष्यत् । यद्वृत्तात्परस्थ नित्यमाख्यातस्य निघातो न भवतीति लक्षणविदो मन्यन्ते । न चेदमुदात्तम् । तस्माद्य इति नेदं यद्वृत्तं किं तर्हि वाय इत्येकमेव पदम्। किंच।’असुसमाप्तश्चार्थः'। अपुष्कलः । एवमेव तस्मिन्पदद्वये सति मन्त्रस्यार्थोsसुसमाप्तो भवति ॥३॥


प्र ते॑ अ॒स्या उ॒षसः॒ प्राप॑रस्या नृ॒तौ स्या॑म॒ नृत॑मस्य नृ॒णां ।

अनु॑ त्रि॒शोकः॑ श॒तमाव॑ह॒न्नॄन्कुत्से॑न॒ रथो॒ यो अस॑त्सस॒वान् ॥२

प्र । ते॒ । अ॒स्याः । उ॒षसः॑ । प्र । अप॑रस्याः । नृ॒तौ । स्या॒म॒ । नृऽत॑मस्य । नृ॒णाम् ।

अनु॑ । त्रि॒ऽशोकः॑ । श॒तम् । आ । अ॒व॒ह॒त् । नॄन् । कुत्से॑न । रथः॑ । यः । अस॑त् । स॒स॒ऽवान् ॥

प्र । ते । अस्याः । उषसः । प्र । अपरस्याः । नृतौ । स्याम । नृऽतमस्य । नृणाम् ।

अनु । त्रिऽशोकः । शतम् । आ । अवहत् । नॄन् । कुत्सेन । रथः । यः । असत् । ससऽवान् ॥

अस्याः वर्तमानाया ईदृश्याः “उषसः “नृतौ । 'नृ नये' नयने प्रापणे । उदयकाल इत्यर्थः । “नृणां नेतॄणां मध्ये "नृतमस्य अतिशयेन नेतुः ”ते तव इन्द्रस्य स्तुत्या यागेन च “प्र “स्याम वयं प्रकृष्टा भवेम । तथा हे इन्द्र "अपरस्याः आगामिन्याश्चोषसो नृतौ प्रापणे तव स्तुत्या यागेन च वयं प्रकृष्टा भवेमेत्याशास्महे । किंच “त्रिशोकः नामर्षिः हे इन्द्र त्वामाराध्य त्वत्प्रसादात् "शतं बहून् “अनु अनुचरभूतान् “नॄन् मनुष्यान् “आवहत् प्रापितवान् । लब्धवानित्यर्थः। तथा तव कुत्सस्य च “ससवान् सनिता युगपदेव संभक्ता “यः “रथः “असत् अस्ति स रथः “कुत्सेन कुत्सो लब्धवानिति शेषः । तथा च मन्त्रान्तरे श्रूयते- यासि कुत्सेन सरथमवस्युः' (ऋ. सं. ४. १६. ११) इति । यस्मादेवं तस्मात्त्वत्प्रसादाद्वयं प्रकृष्टा भवेमेत्यर्थः ॥


कस्ते॒ मद॑ इंद्र॒ रंत्यो॑ भू॒द्दुरो॒ गिरो॑ अ॒भ्यु१॒॑ग्रो वि धा॑व ।

कद्वाहो॑ अ॒र्वागुप॑ मा मनी॒षा आ त्वा॑ शक्यामुप॒मं राधो॒ अन्नैः॑ ॥३

कः । ते॒ । मदः॑ । इ॒न्द्र॒ । रन्त्यः॑ । भू॒त् । दुरः॑ । गिरः॑ । अ॒भि । उ॒ग्रः । वि । धा॒व॒ ।

कत् । वाहः॑ । अ॒र्वाक् । उप॑ । मा॒ । म॒नी॒षा । आ । त्वा॒ । श॒क्या॒म् । उ॒प॒ऽमम् । राधः॑ । अन्नैः॑ ॥

कः । ते । मदः । इन्द्र । रन्त्यः । भूत् । दुरः । गिरः । अभि । उग्रः । वि । धाव ।

कत् । वाहः । अर्वाक् । उप । मा । मनीषा । आ । त्वा । शक्याम् । उपऽमम् । राधः । अन्नैः ॥

हे "इन्द्र "ते तवेपन्मध्यमोत्तमानां सोमजन्यानां मदानां मध्ये कः “मदः "रन्त्यः रमयिता प्रीतिकरः "भूत् भवति । त्वत्प्रीतिकरमदयोग्यसोमदानाभिप्रायेणायं प्रश्नः । "उग्रः ओजस्वी त्वं “दुरः यज्ञगृहद्वाराणि "गिरः स्तुतिलक्षणा वाचश्च "अभि “वि “धाव अभ्यागच्छ । किंच "कत् कदा “वाहः । इन्द्रं प्रत्युह्यत इति वाहः सोम उच्यते । एवंभूतः “अर्वाक् त्वत्प्रसादात्फलदानायास्मदभिमुखो भविष्यतीति शेषः । अपि च कदा "मनीषा सवार्थदर्शिनी प्रज्ञा सर्वगुणग्राहिणी स्तुतिर्वा “मा मां त्वत्प्रसादात् “उप गमिष्यतीति शेष: । कदा हे इन्द्र “त्वा त्वाम् । “आ इत्युपसर्गश्रुतेर्योग्यपदाध्याहारः। आराध्य वयम् "अन्नैः सह "राधः धनम् "उपमं मत्समीपं "शक्याम् । शकिरत्र गत्यर्थोऽन्तर्भावितण्यर्थः । संगमयेयम् ॥


कदु॑ द्यु॒म्नमिं॑द्र॒ त्वाव॑तो॒ नॄन्कया॑ धि॒या क॑रसे॒ कन्न॒ आग॑न् ।

मि॒त्रो न स॒त्य उ॑रुगाय भृ॒त्या अन्ने॑ समस्य॒ यदस॑न्मनी॒षाः ॥४

कत् । ऊं॒ इति॑ । द्यु॒म्नम् । इ॒न्द्र॒ । त्वाऽव॑तः । नॄन् । कया॑ । धि॒या । क॒र॒से॒ । कत् । नः॒ । आ । अ॒ग॒न् ।

मि॒त्रः । न । स॒त्यः । उ॒रु॒ऽगा॒य॒ । भृ॒त्यै । अन्ने॑ । स॒म॒स्य॒ । यत् । अस॑न् । म॒नी॒षाः ॥

कत् । ऊं इति । द्युम्नम् । इन्द्र । त्वाऽवतः । नॄन् । कया । धिया । करसे । कत् । नः । आ । अगन् ।

मित्रः । न । सत्यः । उरुऽगाय । भृत्यै । अन्ने । समस्य । यत् । असन् । मनीषाः ॥

हे "इन्द्र त्वं “कदु कदा वा “द्युम्नं हविर्लक्षणमस्मदीयमन्नं भुक्त्वेति शेषः। "कया “धिया केन कर्मणा "नॄन नेतॄनस्मान् “त्वावतः त्वत्सदृशान् "करसे करिष्यसि । “कत् कदा “नः अस्मान् प्रति “आगन् आगमिष्यसि। "सत्यः अनवद्य इत्यर्थः। "मित्रो "न सखेव तथा । हे "उरुगाय बहुकीर्त इन्द्र त्वं “भृत्यै भरणाय पोषणाय भवसीति शेषः। "यत् यदा "समस्य अस्मदादिकस्य सर्वस्य जगतः "अन्ने जगत्स्थितिनिमित्त आहारे "मनीषाः अन्नाभिलक्षणा बुद्धयः “असन् भवेयुः । तदा सर्वस्य पोषणाय त्वं भवसीत्यर्थः ॥


प्रेर॑य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ॑स्य॒ कामं॑ जनि॒धा इ॑व॒ ग्मन् ।

गिर॑श्च॒ ये ते॑ तुविजात पू॒र्वीर्नर॑ इंद्र प्रति॒शिक्षं॒त्यन्नैः॑ ॥५

प्र । ई॒र॒य॒ । सूरः॑ । अर्थ॑म् । न । पा॒रम् । ये । अ॒स्य॒ । काम॑म् । ज॒नि॒धाःऽइ॑व । ग्मन् ।

गिरः॑ । च॒ । ये । ते॒ । तु॒वि॒ऽजा॒त॒ । पू॒र्वीः । नरः॑ । इ॒न्द्र॒ । प्र॒ति॒ऽशिक्ष॑न्ति । अन्नैः॑ ॥

प्र । ईरय । सूरः । अर्थम् । न । पारम् । ये । अस्य । कामम् । जनिधाःऽइव । ग्मन् ।

गिरः । च । ये । ते । तुविऽजात । पूर्वीः । नरः । इन्द्र । प्रतिऽशिक्षन्ति । अन्नैः ॥

"सूरः सूर्यः "अर्थं "न यथार्तारं गन्तारं योगिनमनुगृह्णन् "पारं संसारस्यान्तमपवर्गं गमयति तथा हे इन्द्र त्वं यजमानान् संसारस्यान्तं “प्रेरय गमय । “ये अस्मदादयो यजमानाः "अस्य तवेन्द्रस्य “कामं सोमपानेच्छां “ग्मन् । गमिरत्र विपूर्वोऽन्तर्भावितण्यर्थश्च द्रष्टव्यः । विगमयन्ति महता सोमपानेनापनयन्ति। तत्र दृष्टान्तः । “जनिधाइव। जनीनां जायानां संभोगकाले शय्यासु धारयितारः पतयो यथा प्रभूतसंभोगप्रदानेन मैथुनेच्छामपनयन्ति तद्वत् । किंच "नरः नेतारोऽस्मदादयः "ये यजमानाः हे "तुविजात बहुरूप । रूपंरूपं प्रतिरूपो बभूव '(ऋ. सं. ६.४७.१८ ) इति वचनात् । सर्वात्मन् "इन्द्र “ते तुभ्यं “पूर्वीः अनादिकालप्रवृत्ताः "गिरश्च स्तुतिलक्षणा वाचश्च “अन्नैः पुरोडाशादिहविर्भिः सह “प्रतिशिक्षन्ति प्रतिकालं प्रयच्छन्ति तानस्मदीयान् यजमानान् पारं गमयेति पूर्वेण संबन्धः ॥ ॥ २२ ॥


मात्रे॒ नु ते॒ सुमि॑ते इंद्र पू॒र्वी द्यौर्म॒ज्मना॑ पृथि॒वी काव्ये॑न ।

वरा॑य ते घृ॒तवं॑तः सु॒तासः॒ स्वाद्म॑न्भवंतु पी॒तये॒ मधू॑नि ॥६

मात्रे॒ इति॑ । नु । ते॒ । सुमि॑ते॒ इति॒ सुऽमि॑ते । इ॒न्द्र॒ । पू॒र्वी इति॑ । द्यौः । म॒ज्मना॑ । पृ॒थि॒वी । काव्ये॑न ।

वरा॑य । ते॒ । घृ॒तऽव॑न्तः । सु॒तासः॑ । स्वाद्म॑न् । भ॒व॒न्तु॒ । पी॒तये॑ । मधू॑नि ॥

मात्रे इति । नु । ते । सुमिते इति सुऽमिते । इन्द्र । पूर्वी इति । द्यौः । मज्मना । पृथिवी । काव्येन ।

वराय । ते । घृतऽवन्तः । सुतासः । स्वाद्मन् । भवन्तु । पीतये । मधूनि ॥

हे "इन्द्र ते तव स्वभूतेन “मज्मना शत्रूणां मज्जकेन "काव्येन कर्मणा "द्यौः "पृथिवी द्यावापृथिव्यौ "नु क्षिप्रं "सुमिते निर्मिते । कीदृश्यौ । "मात्रे निर्मात्र्यौ “पूर्वी पूर्व्यौ महत्यौ। यस्मादीदृशेन महत्त्वेन युक्तः तस्मात् “घृतवन्तः अग्निमुखत्वात् त्वां क्षरन्तो दीप्तिमन्तो वा सुसंस्कृतत्वात् यद्वाज्यसंयुक्ताः "सुतासः अभिषुताः सोमाः "वराय श्रेष्ठाय तुभ्यमिन्द्राय "स्वाद्मन् “भवन्तु । अस्माभिर्दत्ताः सन्तु । किमर्थम् । "पीतये पानाय। "मधूनि मधुररसात्मकानि पुरोडाशादीन्यन्नानि हवींषि भक्षणार्थं दत्तानि भवन्तु ॥


आ मध्वो॑ अस्मा असिच॒न्नम॑त्र॒मिंद्रा॑य पू॒र्णं स हि स॒त्यरा॑धाः ।

स वा॑वृधे॒ वरि॑म॒न्ना पृ॑थि॒व्या अ॒भि क्रत्वा॒ नर्यः॒ पौंस्यै॑श्च ॥७

आ । मध्वः॑ । अ॒स्मै॒ । अ॒सि॒च॒न् । अम॑त्रम् । इन्द्रा॑य । पू॒र्णम् । सः । हि । स॒त्यऽरा॑धाः ।

सः । व॒वृ॒धे॒ । वरि॑मन् । आ । पृ॒थि॒व्याः । अ॒भि । क्रत्वा॑ । नर्यः॑ । पौंस्यैः॑ । च॒ ॥

आ । मध्वः । अस्मै । असिचन् । अमत्रम् । इन्द्राय । पूर्णम् । सः । हि । सत्यऽराधाः ।

सः । ववृधे । वरिमन् । आ । पृथिव्याः । अभि । क्रत्वा । नर्यः । पौंस्यैः । च ॥

"अस्मै "इन्द्राय अस्येन्द्रस्यार्थं "मध्वः मधुररसस्य सोमस्य "पूर्णम् "अमत्रं ग्रहचमसादिकं पात्रम् "आ “असिचन् आभिमुख्येन स्थित्वा परया भक्त्यास्मदीया ऋत्विजः सिक्तवन्तः अग्नौ प्रक्षिप्तवन्तः । “हि यस्मात्कारणात् "सः इन्द्रः "सत्यराधाः सत्यधनः । यजमानेभ्यो दातव्यत्वेनाविसंवादिधन इत्यर्थः। तस्मादसिचन्निति संबन्धः । अग्नावासिक्तेन तेन पात्रेण तृप्तः "सः इन्द्रः “पृथिव्याः अन्तरिक्षस्य “वरिमन् अतिशयेन विस्तीर्णे स्थाने आगत्य “अभि “ववृधे अभिवर्धते । कीदृश इन्द्रः । "नर्यः नृभ्यो हितः । "क्रत्वा वृत्रवधादिकर्मणा प्रज्ञानेन वा “पौंस्यैश्च युक्त इति शेषः ॥


व्या॑न॒ळिंद्रः॒ पृत॑नाः॒ स्वोजा॒ आस्मै॑ यतंते स॒ख्याय॑ पू॒र्वीः ।

आ स्मा॒ रथं॒ न पृत॑नासु तिष्ठ॒ यं भ॒द्रया॑ सुम॒त्या चो॒दया॑से ॥८

वि । आ॒न॒ट् । इन्द्रः॑ । पृत॑नाः । सु॒ऽओजाः॑ । आ । अ॒स्मै॒ । य॒त॒न्ते॒ । स॒ख्याय॑ । पू॒र्वीः ।

आ । स्म॒ । रथ॑म् । न । पृत॑नासु । ति॒ष्ठ॒ । यम् । भ॒द्रया॑ । सु॒ऽम॒त्या । चो॒दया॑से ॥

वि । आनट् । इन्द्रः । पृतनाः । सुऽओजाः । आ । अस्मै । यतन्ते । सख्याय । पूर्वीः ।

आ । स्म । रथम् । न । पृतनासु । तिष्ठ । यम् । भद्रया । सुऽमत्या । चोदयासे ॥

"स्वोजाः शोभनबलः "इन्द्रः "पृतनाः शत्रुसेनाः “व्यानट् व्याप्नोति । इन्द्रः संग्रामेषु केनाप्यप्रतिहन्यमानः सन् शत्रून् जयतीत्यर्थः। किंच “पूर्वीः । अत्र पूर्वशब्द उत्कृष्टवाची । उत्कृष्टाः शत्रुसेना अप्रभवन्त्यः सत्यः "अस्मै अस्येन्द्रस्य "सख्याय संधित्वलक्षणाय सखित्वाय “आ "यतन्ते । संधिं कर्तुमिच्छन्तीत्यर्थः । अपरोऽर्धर्चः प्रत्यक्षकृतत्वाद्भिन्नं वाक्यम् । हे इन्द्र त्वं “यं स्वीयं रथं "भद्रया कल्याण्या “सुमत्या शोभनथा परानुग्रहया बुद्ध्या “चोदयासे यज्ञान् प्रति प्रेरयसि तं "रथम् अस्मद्यज्ञं प्रत्यागन्तुं महतादरेण “आ “तिष्ठ आरोह। तत्र दृष्टान्तः । "पृतनासु संग्रामेषु "रथं “न यथा स्वरथं महतादरेणातिष्ठसि तद्वत् । "स्म इति पदपूरणः ॥ ॥२३॥ ॥२॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.२९&oldid=160835" इत्यस्माद् पुनः प्राप्तिः