ऋग्वेदः सूक्तं १०.७९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.७९ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.७८ ऋग्वेदः - मण्डल १०
सूक्तं १०.७९
सौचीकोऽग्निर्वैश्वानरो वा, सप्तिर्वाजंभरो वा।
सूक्तं १०.८० →
दे. अग्निः। त्रिष्टुप्


अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु ।
नाना हनू विभृते सं भरेते असिन्वती बप्सती भूर्यत्तः ॥१॥
गुहा शिरो निहितमृधगक्षी असिन्वन्नत्ति जिह्वया वनानि ।
अत्राण्यस्मै पड्भिः सं भरन्त्युत्तानहस्ता नमसाधि विक्षु ॥२॥
प्र मातुः प्रतरं गुह्यमिच्छन्कुमारो न वीरुधः सर्पदुर्वीः ।
ससं न पक्वमविदच्छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥३॥
तद्वामृतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति ।
नाहं देवस्य मर्त्यश्चिकेताग्निरङ्ग विचेताः स प्रचेताः ॥४॥
यो अस्मा अन्नं तृष्वादधात्याज्यैर्घृतैर्जुहोति पुष्यति ।
तस्मै सहस्रमक्षभिर्वि चक्षेऽग्ने विश्वतः प्रत्यङ्ङसि त्वम् ॥५॥
किं देवेषु त्यज एनश्चकर्थाग्ने पृच्छामि नु त्वामविद्वान् ।
अक्रीळन्क्रीळन्हरिरत्तवेऽदन्वि पर्वशश्चकर्त गामिवासिः ॥६॥
विषूचो अश्वान्युयुजे वनेजा ऋजीतिभी रशनाभिर्गृभीतान् ।
चक्षदे मित्रो वसुभिः सुजातः समानृधे पर्वभिर्वावृधानः ॥७॥


सायणभाष्यम्

‘अपश्यम्' इति सप्तर्चमेकादशं सूक्तमाग्नेयं त्रैष्टुभम् । सौचीकगुणोऽग्निर्ऋषिर्वैश्वानरगुणो वाथवा सप्तर्नाम वाजंभरपुत्रः। तथा चानुक्रान्तम्-’ अपश्यं सप्त सौचीकोऽग्निर्वैश्वानरो वा सप्तिर्वा वाजंभर आग्नेयं तु ' इति । प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसीदमादिके द्वे सूक्ते । सूत्रितं च-- ‘ अपश्यमस्य महत इति सूक्ते ' ( आश्व. श्रौ. ४. १३) इति ॥


अप॑श्यमस्य मह॒तो म॑हि॒त्वमम॑र्त्यस्य॒ मर्त्या॑सु वि॒क्षु ।

नाना॒ हनू॒ विभृ॑ते॒ सं भ॑रेते॒ असि॑न्वती॒ बप्स॑ती॒ भूर्य॑त्तः ॥१

अप॑श्यम् । अ॒स्य॒ । म॒ह॒तः । म॒हि॒ऽत्वम् । अम॑र्त्यस्य । मर्त्या॑सु । वि॒क्षु ।

नाना॑ । हनू॒ इति॑ । विभृ॑ते॒ इति॒ विऽभृ॑ते । सम् । भ॒रे॒ते॒ इति॑ । असि॑न्वती॒ इति॑ । बप्स॑ती॒ इति॑ । भूरि॑ । अ॒त्तः॒ ॥

अपश्यम् । अस्य । महतः । महिऽत्वम् । अमर्त्यस्य । मर्त्यासु । विक्षु ।

नाना । हनू इति । विभृते इति विऽभृते । सम् । भरेते इति । असिन्वती इति । बप्सती इति । भूरि । अत्तः ॥

“अस्य अग्नेः “महतः मंहनीयस्य “महित्वं महत्त्वम् “अपश्यं पश्यामि । कीदृशस्यास्य । "मर्त्यासु “विक्षु मनुष्यरूपासु प्रजासु तासां हृदये “अमर्त्यस्य अमरणस्वभावस्य वैश्वानररूपेण वर्तमानस्य । यद्वा । मर्त्यासु विक्ष्वृत्विग्यजमानरूपासु प्रजास्वमर्त्यस्य सर्वदा जागरितस्य । अथ दावाग्निरूपोऽग्निरुच्यते । अस्याग्नेः "हनू शिप्रे “नाना “विभृते विभिन्ने “सं “भरेते संभरतो दन्तैः। तथा कृत्वा “असिन्वती असंखादन्त्यौ स्तोतारं “बप्सती भक्षयन्त्यौ “भूरि प्रभूतं काष्ठमरण्ये वर्तमानम् “अत्तः भक्षयतः ॥


गुहा॒ शिरो॒ निहि॑त॒मृध॑ग॒क्षी असि॑न्वन्नत्ति जि॒ह्वया॒ वना॑नि ।

अत्रा॑ण्यस्मै प॒ड्भिः सं भ॑रंत्युत्ता॒नह॑स्ता॒ नम॒साधि॑ वि॒क्षु ॥२

गुहा॑ । शिरः॑ । निऽहि॑तम् । ऋध॑क् । अ॒क्षी इति॑ । असि॑न्वन् । अ॒त्ति॒ । जि॒ह्वया॑ । वना॑नि ।

अत्रा॑णि । अ॒स्मै॒ । प॒ट्ऽभिः । सम् । भ॒र॒न्ति॒ । उ॒त्ता॒नऽह॑स्ताः । नम॑सा । अधि॑ । वि॒क्षु ॥

गुहा । शिरः । निऽहितम् । ऋधक् । अक्षी इति । असिन्वन् । अत्ति । जिह्वया । वनानि ।

अत्राणि । अस्मै । पट्ऽभिः । सम् । भरन्ति । उत्तानऽहस्ताः । नमसा । अधि । विक्षु ॥

अस्याग्नेः “शिरः मूर्धा “गुहा गुहायां “निहितं मनुष्योदरेषु वर्तते । अस्य “अक्षी अक्षिणी “ऋधक् पृथग्निहितं निहिते चन्द्रसूर्यात्मना । तावेवाक्षिणी इत्यर्थः । ईदृशो योऽग्निः “असिन्वन् दन्तैरसंखादन् “जिह्वया “वनानि “अत्ति काष्ठानि भक्षयति दाहभूतः “अस्मै अग्नयेऽध्वर्वाखादयः “पड्भिः पादैरभिगत्य “अत्राणि “सं “भरन्ति संपादयन्ति हवींषि । कथंभूताः । “उत्तानहस्ताः पात्रधारणार्थमुन्नतकराः “नमसा नमस्कारेण युक्ताः । कुत्र । “अधि “विक्षु प्रजास्वृत्विक्षु मध्ये ।।


प्र मा॒तुः प्र॑त॒रं गुह्य॑मि॒च्छन्कु॑मा॒रो न वी॒रुधः॑ सर्पदु॒र्वीः ।

स॒सं न प॒क्वम॑विदच्छु॒चंतं॑ रिरि॒ह्वांसं॑ रि॒प उ॒पस्थे॑ अं॒तः ॥३

प्र । मा॒तुः । प्र॒ऽत॒रम् । गुह्य॑म् । इ॒च्छन् । कु॒मा॒रः । न । वी॒रुधः॑ । स॒र्प॒त् । उ॒र्वीः ।

स॒मम् । न । प॒क्वम् । अ॒वि॒द॒त् । शु॒चन्त॑म् । रि॒रि॒ह्वांस॑म् । रि॒पः । उ॒पऽस्थे॑ । अ॒न्तरिति॑ ॥

प्र । मातुः । प्रऽतरम् । गुह्यम् । इच्छन् । कुमारः । न । वीरुधः । सर्पत् । उर्वीः ।

समम् । न । पक्वम् । अविदत् । शुचन्तम् । रिरिह्वांसम् । रिपः । उपऽस्थे । अन्तरिति ॥

अयमग्निः “मातुः पृथिव्याः संबन्धिनीः “उर्वीः बह्वीः “वीरुधः लताः “इच्छन् तथा “प्रतरं प्रकृष्टतरं “गुह्यं गोप्यं तासां वीरुधां मूलमपीच्छन् कामयमानः “प्र “सर्पत् प्रसर्पति प्रसरति । किमिव । “कुमारो “न कुमार इव । स यथा स्तन्यं पातुं जानुभ्यां सर्पति तद्वत् । “ससं “न “पक्वं पक्वमन्नमिव “शुचन्तं दीप्यमानं नीरसं वृक्षं “रिपः पृथिव्याः “उपस्थे “अन्तः उत्सङ्गेऽन्तः “अविदत् विन्दति ॥ पुनः कीदृशम् । “रिरिह्वांसम् आकाशमास्वादयन्तम् । यद्वा । मूलैर्मातरं पृथिवीं रिरिह्वांसम् ॥


तद्वा॑मृ॒तं रो॑दसी॒ प्र ब्र॑वीमि॒ जाय॑मानो मा॒तरा॒ गर्भो॑ अत्ति ।

नाहं दे॒वस्य॒ मर्त्य॑श्चिकेता॒ग्निरं॒ग विचे॑ताः॒ स प्रचे॑ताः ॥४

तत् । वा॒म् । ऋ॒तम् । रो॒द॒सी॒ इति॑ । प्र । ब्र॒वी॒मि॒ । जाय॑मानः । मा॒तरा॑ । गर्भः॑ । अ॒त्ति॒ ।

न । अ॒हम् । दे॒वस्य॑ । मर्त्यः॑ । चि॒के॒त॒ । अ॒ग्निः । अ॒ङ्ग । विऽचे॑ताः । सः । प्रऽचे॑ताः ॥

तत् । वाम् । ऋतम् । रोदसी इति । प्र । ब्रवीमि । जायमानः । मातरा । गर्भः । अत्ति ।

न । अहम् । देवस्य । मर्त्यः । चिकेत । अग्निः । अङ्ग । विऽचेताः । सः । प्रऽचेताः ॥

हे “रोदसी द्यावापृथिव्यौ “वां युवां “तत् “ऋतं सत्यं “प्र “ब्रवीमि यदरणीभ्यां “जायमानः उत्पन्नः “गर्भः गर्भस्थानीयोऽग्निः “मातरा अरणी “अत्ति भक्षयति । “देवस्य द्योतनादिगुणस्याग्नेः वर्तनं “मर्त्यः मनुष्यः “अहं “न “चिकेत न जानामि । हे “अङ्ग वैश्वानर “अग्निः अरणीभ्यामुत्पन्नः “विचेताः विविधज्ञानवान् “स “प्रचेताः प्रकृष्टज्ञानः। अतो न जानामीत्यर्थः । अथवाङ्गेत्यात्मानमेव संबोध्य ब्रवीमि । अग्निरेव विचेताः बहुधा जानाति स प्रचेता: स एव जानाति । स्वमहिमानं नाहं स्तोतुं प्रभवामीत्यर्थः ॥


यो अ॑स्मा॒ अन्नं॑ तृ॒ष्वा॒३॒॑दधा॒त्याज्यै॑र्घृ॒तैर्जु॒होति॒ पुष्य॑ति ।

तस्मै॑ स॒हस्र॑म॒क्षभि॒र्वि च॒क्षेऽग्ने॑ वि॒श्वतः॑ प्र॒त्यङ्ङ॑सि॒ त्वं ॥५

यः । अ॒स्मै॒ । अन्न॑म् । तृ॒षु । आ॒ऽदधा॑ति । आज्यैः॑ । घृ॒तैः । जु॒होति॑ । पुष्य॑ति ।

तस्मै॑ । स॒हस्र॑म् । अ॒क्षऽभिः॑ । वि । च॒क्षे॒ । अग्ने॑ । वि॒श्वतः॑ । प्र॒त्यङ् । अ॒सि॒ । त्वम् ॥

यः । अस्मै । अन्नम् । तृषु । आऽदधाति । आज्यैः । घृतैः । जुहोति । पुष्यति ।

तस्मै । सहस्रम् । अक्षऽभिः । वि । चक्षे । अग्ने । विश्वतः । प्रत्यङ् । असि । त्वम् ॥

"यः यजमानः “अस्मै अग्नये “तृषु क्षिप्रम् "अन्नम् “आदधाति करोति आज्यैर्घृतैः क्षरद्रूपैः दीप्तैर्वा सोमरसैः "जुहोति “पुष्यति पुष्णाति चैनं काष्ठैः “तस्मै । तमित्यर्थः । तं “सहस्रं सहस्रसंख्याकैः “अक्षभिः अक्षिस्थानीयाभिरपरिमिताभिर्ज्वालाभिः “वि “चक्षे विचष्टे विपश्यति । अथ प्रत्यक्षकृतः । हे “अग्ने “त्वं “विश्वतः सर्वतः प्रत्यह्ङसि प्रत्यगञ्चनो भवसि । अस्मदानुकूल्येन प्रवर्तमानो भवसि ॥


किं दे॒वेषु॒ त्यज॒ एन॑श्चक॒र्थाग्ने॑ पृ॒च्छामि॒ नु त्वामवि॑द्वान् ।

अक्री॑ळ॒न्क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन्वि प॑र्व॒शश्च॑कर्त॒ गामि॑वा॒सिः ॥६

किम् । दे॒वेषु॑ । त्यजः॑ । एनः॑ । च॒क॒र्थ॒ । अग्ने॑ । पृ॒च्छामि॑ । नु । त्वाम् । अवि॑द्वान् ।

अक्री॑ळन् । क्रीळ॑न् । हरिः॑ । अत्त॑वे । अ॒दन् । वि । प॒र्व॒ऽशः । च॒क॒र्त॒ । गाम्ऽइ॑व । अ॒सिः ॥

किम् । देवेषु । त्यजः । एनः । चकर्थ । अग्ने । पृच्छामि । नु । त्वाम् । अविद्वान् ।

अक्रीळन् । क्रीळन् । हरिः । अत्तवे । अदन् । वि । पर्वऽशः । चकर्त । गाम्ऽइव । असिः ॥

हे “अग्ने “त्वां “नु क्षिप्रं "देवेषु “किं त्यजः क्रोधम् “एनः पापं च “चकर्थ कृतवानसीति “अविद्वान् अहं “पृच्छामि । खाण्डवं दहन्तमग्निं पृच्छामि । किंच “अक्रीळन् क्वचिद्देशेऽविहरन “क्रीळन् क्वचिद्देशे विनोदयँल्लीलया दहन् “हरिः हरितवर्णः सन् “अत्तवे अत्तव्यम् “अदन् अन्नकाष्ठादिकं “पर्वशः संधौ संधौ “वि “चकर्थ विविधं करोषि । “गामिवासिः गां यथा असिः स्वधितिः पर्वशश्छिनत्ति तद्वत् ॥


विषू॑चो॒ अश्वा॑न्युयुजे वने॒जा ऋजी॑तिभी रश॒नाभि॑र्गृभी॒तान् ।

च॒क्ष॒दे मि॒त्रो वसु॑भिः॒ सुजा॑तः॒ समा॑नृधे॒ पर्व॑भिर्वावृधा॒नः ॥७

विषू॑चः । अश्वा॑न् । यु॒यु॒जे॒ । व॒ने॒ऽजाः । ऋजी॑तिऽभिः । र॒श॒नाभिः॑ । गृ॒भी॒तान् ।

च॒क्ष॒दे । मि॒त्रः । वसु॑ऽभिः । सुऽजा॑तः । सम् । आ॒नृ॒धे॒ । पर्व॑ऽभिः । व॒वृ॒धा॒नः ॥

विषूचः । अश्वान् । युयुजे । वनेऽजाः । ऋजीतिऽभिः । रशनाभिः । गृभीतान् ।

चक्षदे । मित्रः । वसुऽभिः । सुऽजातः । सम् । आनृधे । पर्वऽभिः । ववृधानः ॥

अयमग्निः “विषूचः विष्वगञ्चनान् “अश्वान् व्याप्तान् महतो वृक्षान् सर्वतो गन्तॄनश्वानेव वा “युयुजे युङ्क्ते “वनेजाः वने प्रवृद्धः संपन्नः सन् । कीदृशानश्वान् । “ऋजीतिभिः ऋजुगामिनीभिः “रशनाभिः रशनास्थानीयाभिर्लताभिः “गृभीतान् परिगृहीतान् वेष्टितान् । साक्षादश्वपक्षे ऋजुगतिभिः प्रसिद्धाभी रशनाभिर्गृभीतान् गृहीतान् स्वकीयानश्वान् शीघ्रदाहाय रथे योजितवानित्यर्थः । तादृशोऽग्निः “चक्षदे चक्षाद शकलीकरोति वसूनि “मित्रः अस्माकं मित्रभूतः "वसुभिः वासकैः “रश्मिभिः “सुजातः सुष्ठु प्रवृद्धः सन् । किंच “समानृधे सम्यग्वर्धते “पर्वभिः काष्ठखण्डैः “वावृधानः वर्धमानः ॥ ॥ १४ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.७९&oldid=175496" इत्यस्माद् पुनः प्राप्तिः