ऋग्वेदः सूक्तं १०.१३५
← सूक्तं १०.१३४ | ऋग्वेदः - मण्डल १० सूक्तं १०.१३५ कुमारो यामायनः |
सूक्तं १०.१३६ → |
दे. यमः। अनुष्टुप् |
यस्मिन्वृक्षे सुपलाशे देवैः सम्पिबते यमः ।
अत्रा नो विश्पतिः पिता पुराणाँ अनु वेनति ॥१॥
पुराणाँ अनुवेनन्तं चरन्तं पापयामुया ।
असूयन्नभ्यचाकशं तस्मा अस्पृहयं पुनः ॥२॥
यं कुमार नवं रथमचक्रं मनसाकृणोः ।
एकेषं विश्वतः प्राञ्चमपश्यन्नधि तिष्ठसि ॥३॥
यं कुमार प्रावर्तयो रथं विप्रेभ्यस्परि ।
तं सामानु प्रावर्तत समितो नाव्याहितम् ॥४॥
कः कुमारमजनयद्रथं को निरवर्तयत् ।
कः स्वित्तदद्य नो ब्रूयादनुदेयी यथाभवत् ॥५॥
यथाभवदनुदेयी ततो अग्रमजायत ।
पुरस्ताद्बुध्न आततः पश्चान्निरयणं कृतम् ॥६॥
इदं यमस्य सादनं देवमानं यदुच्यते ।
इयमस्य धम्यते नाळीरयं गीर्भिः परिष्कृतः ॥७॥
मण्डल १० |
---|
[सम्पाद्यताम्]
सायणभाष्यम्
‘यस्मिन्' इति सप्तर्चं सप्तमं सूक्तं यमगोत्रस्य कुमारस्यार्षमानुष्टुभं यमदेवत्यम्। तथा चानुक्रान्तं- यस्मिन् कुमारो यामायनो याममानुष्टुभं तु ' इति ॥
यस्मि॑न्वृ॒क्षे सु॑पला॒शे दे॒वैः स॒म्पिब॑ते य॒मः ।
अत्रा॑ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णाँ अनु॑ वेनति ॥
यस्मिन् । वृक्षे । सुऽपलाशे। देवैः । सम्ऽपिबते । यमः ।
अत्र । नः । विश्पतिः । पिता । पुराणान् । अनु । वेनति ॥ १ ॥
"वृक्षे । लुप्तोपममेतत् । वृक्षवत् सुपलाशे शोभनपलाशोपेते शोभनोद्यानसहिते। यद्वा। शोभनपर्णोपेते वृक्षे । तादृशस्य वृक्षस्य मूलं यथौष्ण्यजनितश्रमापनोदनेन सुखकरं भवति तद्वत् सुखकरे “यस्मिन् स्थाने “देवैः परिजनभूतैः “यमः नियन्ता वैवस्वतः संपिबते सह भुङ्क्ते पिबतीत्यर्थः । “विश्पतिः विशां प्रजानामधिपतिः “पिता “नः । व्यत्ययेन बहुवचनम्। मम नचिकेतसो जनको वाजश्रवसः “अत्र अस्मिन् यमस्य स्थाने “पुराणान् पुरातनान् अत्र चिरकालं निवसतः पितॄन् अनु तेषां पश्चात् तत्समीपे निवसत्वयमिति “वेनति मां कामयते । नचिकेता नाम कुमारो वाजश्रवसेन पित्रा यमलोकं प्रस्थापितः सन् यमं दृष्ट्वा प्रसाद्य पुनरपीमं लोकमाजगाम । अयमर्थं इदमादिकैर्मन्त्रैः प्रतिपाद्यते । यद्वा । कुमारो नाम नचिकेतसोऽन्यः कश्चिदृषिः । यच्छतीति यम आदित्यः । तमनेन सूक्तेन तुष्टाव । सुपलाशे वृक्ष इव यस्मिन् शोभने स्थाने यम आदित्यो देवैः। दीव्यन्तीति देवा रश्मयः । तैः संपिबते संगच्छते । उपसर्गवशात् पिबतिरत्र गत्यर्थः । व्यत्ययेना स्मनेपदम् । अत्र अस्मिन् स्थाने स्थितो विश्पतिर्विशां प्रजानां प्रकाशनप्रवर्षणादिना पालयित प्राणात्मना सर्वेषां जनकः स आदित्यः पुराणांश्चिरंतनान् स्तोतॄन् नोऽस्मानपि वेनति अनुग्राह्यत्वेन कामयते । यद्वा । अत्र स्थाने स्थितान् नोऽस्माकं पुराणान् पूर्वपुरुषाननु वेनति अनुक्रमेण कामयते।
पु॒रा॒णाँ अ॑नु॒वेन॑न्तं॒ चर॑न्तं पा॒पया॑मु॒या ।
अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा॑ अस्पृहयं॒ पुनः॑ ॥
यं कु॑मार॒ नवं॒ रथ॑मच॒क्रं मन॒साकृ॑णोः ।
एके॑षं वि॒श्वत॒ः प्राञ्च॒मप॑श्य॒न्नधि॑ तिष्ठसि ॥
यं कु॑मार॒ प्राव॑र्तयो॒ रथं॒ विप्रे॑भ्य॒स्परि॑ ।
तं सामानु॒ प्राव॑र्तत॒ समि॒तो ना॒व्याहि॑तम् ॥
कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् ।
कः स्वि॒त्तद॒द्य नो॑ ब्रूयादनु॒देयी॒ यथाभ॑वत् ॥
यथाभ॑वदनु॒देयी॒ ततो॒ अग्र॑मजायत ।
पु॒रस्ता॑द्बु॒ध्न आत॑तः प॒श्चान्नि॒रय॑णं कृ॒तम् ॥
--- ततस्तस्मान्मायाविशिष्टादात्मनोऽग्रं स्रष्टव्यस्य विकारजातस्यायं मनस्तत्त्वं सिसृक्षाकारणमजायत उदपद्यत । पुरस्तात् सृष्टेः प्रागवस्थायां बुध्नो मूलमव्याकृतं मायात्मकं कारणमेवाततः । आ समन्तात् ततं विस्तृतमासीत् । पश्चात्तमस उत्पत्त्यनन्तरं निरयणं तद्गतानां कार्याणां तस्मात् कारणान्निर्गमनं घटपटादिभेदेन स्वरूपालम्भनं कृतम्। ब्रह्मणा निर्मितम् । तथा मृद्विकारो घटादिर्मृदोऽन्यो न भवति । आदित्यानुग्रहात् ब्रह्मभावं प्राप्तस्य मम विकारः प्रपञ्चो मदन्यो न भवतीति व्यतिरिक्तस्य पित्रादेराक्षेपः पूर्वोक्तः समर्थितः ॥
इ॒दं य॒मस्य॒ साद॑नं देवमा॒नं यदु॒च्यते॑ ।
इ॒यम॑स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि॑ष्कृतः ॥
इदम् । यमस्य । सदनम् । देवऽमानम् । यत् । उच्यते ।
इयम् । अस्य । धम्यते । नाळीः । अयम् । गी:ऽभिः । परिऽकृतः ।। ७ ।।
“इदं “यमस्य नियन्तुरादित्यस्य वैवस्वतस्य वा “सदनं स्थानम् । छान्दसः सांहितिको दीर्घः। “यत् सदनं “देवमानं देवैर्निर्मितमिति “उच्यते सर्वत्र अभिधीयते । यद्वा । देवानां रश्मीनां निर्माणसाधनमिति गीयते । “अस्य यमस्य प्रीणनाय "इयं “नाळीः वाद्यविशेषो वेणुः “धम्यते वाद्यते । यद्वा । नाळीति वाङ्नाम । इयं स्तुतिरूपा वागस्य प्रीणनाय धम्यते उच्चार्यते । एवं सति “अयं यमः “गीर्भिः स्तुतिभिः “परिष्कृतः अलंकृतोऽभूत् । ‘संपर्युपेभ्यः' इति सुडागमः । ‘परिनिविभ्यः । इति षत्वम् । “ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ ॥ २३ ॥