ऋग्वेदः सूक्तं १०.१७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१७ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१६ ऋग्वेदः - मण्डल १०
सूक्तं १०.१७
देवश्रवा यामायनः
सूक्तं १०.१८ →
दे. १-२ सरण्यूः, ३-६ पूषा, ७-९ सरस्वती, १०-१४ आपः, ११-१३ सोमो वा। त्रिष्टुप्, १३-१४ अनुष्टुप्, १३ पुरस्ताद्बृहती वा।



त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वं भुवनं समेति ।
यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥१॥
अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्वते ।
उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥२॥
पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः ।
स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥३॥
आयुर्विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् ।
यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु ॥४॥
पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत् ।
स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रजानन् ॥५॥
प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।
उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥६॥
सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।
सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् ॥७॥
सरस्वति या सरथं ययाथ स्वधाभिर्देवि पितृभिर्मदन्ती ।
आसद्यास्मिन्बर्हिषि मादयस्वानमीवा इष आ धेह्यस्मे ॥८॥
सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।
सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि ॥९॥
आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥१०॥
द्रप्सश्चस्कन्द प्रथमाँ अनु द्यूनिमं च योनिमनु यश्च पूर्वः ।
समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥११॥
यस्ते द्रप्स स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात् ।
अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम् ॥१२॥
यस्ते द्रप्स स्कन्नो यस्ते अंशुरवश्च यः परः स्रुचा ।
अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे ॥१३॥
पयस्वतीरोषधयः पयस्वन्मामकं वचः ।
अपां पयस्वदित्पयस्तेन मा सह शुन्धत ॥१४॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

सायणभाष्यम्

द्वितीयेऽनुवाके त्रयोदशसूक्तानि । तत्र त्वष्टा दुहित्रे इत्येतच्चतुर्दशर्चं प्रथमं सूक्तम् । यमपुत्रो देवश्रवा नामर्षिः । आदितो द्वादश त्रिष्टुभः त्रयोदशीचतुर्दश्यावनुष्टुभौ । यद्वा। त्रयोदशी पुरस्ताद्बृहती। आदितो द्वयोः सरण्यूर्देवता। पूषा त्वेतः' इत्याद्याश्चतस्रः पूषदेवत्याः । ‘सरस्वतीं देवयन्तः' इत्याद्यास्तिस्रः सरस्वतीदेवताकाः । आपो अस्मान् इत्याद्याः पञ्चर्चोऽब्देवताकाः । तत्र ‘द्रप्सश्चस्कन्द इत्याद्यास्तिस्रः सोमदेवत्या वा । तथा चानुक्रान्तं -- त्वष्टा देवश्रवा द्वे सरण्यूदेवते पौष्ण्यश्चतस्रः सारस्वत्यस्तिस्रः पञ्चाप्यो द्रप्सस्तिस्रः सौम्यो वान्त्ये अनुष्टुभावुपान्त्या पुरस्ताद्बृहती वा' इति । गतः सूक्तविनियोगः ॥ अत्रेतिहासमाचक्षते - त्वष्टृनामकस्य देवस्य 'सरण्यूस्त्रिशिराश्चेति स्त्रीपुंसात्मकमपत्यद्वयमभूत् । ततस्त्वष्टा सरण्यूनामिकां पुत्रीं विवस्वते प्रायच्छत् । ततस्तस्या विवस्वतश्च सकाशात् यमयम्यौ विजज्ञाते । ततः कदाचित् आल्मसदृश्या देवजनितायाः स्त्रियः समीपे तदपत्यद्वयं निधाय स्वयमाश्वं रूपं कृत्वोत्तरान् कुरून प्रतिजगामः। अथ विवस्वानेतां स्त्रियं सरण्यूमिति मत्वा तामरंसीत्। तस्यां मनुर्नाम राजर्षिरजायत । ततो विवस्वानेषा सरण्यूर्न भवतीति विज्ञाय स्वयमप्यश्वो भूत्वा तामश्वरूपिणीं प्रत्यासीत् । ततः संक्रीडमानयोस्तयोः स्वभूतं रेत पृथिव्यां पपात । अथ सा गर्भकामनया तत् पतितं रेत आजघ्रौ । ततस्तस्याः सकाशान्नासत्यो दस्रश्चेत्युभावश्विनावजायेतामिति ॥


त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं कृ॑णो॒तीती॒दं विश्वं॒ भुव॑नं॒ समे॑ति ।

य॒मस्य॑ मा॒ता प॑र्यु॒ह्यमा॑ना म॒हो जा॒या विव॑स्वतो ननाश ॥१

त्वष्टा॑ । दु॒हि॒त्रे । व॒ह॒तुम् । कृ॒णो॒ति॒ । इति॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । सम् । ए॒ति॒ ।

य॒मस्य॑ । मा॒ता । प॒रि॒ऽउ॒ह्यमा॑ना । म॒हः । जा॒या । विव॑स्वतः । न॒ना॒श॒ ॥

त्वष्टा । दुहित्रे । वहतुम् । कृणोति । इति । इदम् । विश्वम् । भुवनम् । सम् । एति ।

यमस्य । माता । परिऽउह्यमाना । महः । जाया । विवस्वतः । ननाश ॥

“त्वष्टा एतन्नामको देवः “दुहित्रे । षष्ठयर्थे चतुर्थी। दुहितुः सरण्यूनामिकायाः "वहतुं वहनं विवाहम् । एधिवह्योश्चतुः' (उ.सू. १.७९) इति वहेश्चतुप्रत्ययः । तं “कृणोति करोति । “इति एतेन हेतुना “इदं विश्वं सर्वं “भुवनं भूतजातं “समेति तं विवाहं समागमत् । “पर्युह्यमाना विवस्वतोद्वोढव्या “यमस्य यम्याश्च “माता “महः महतः “विवस्वतः जाया भार्या सरण्यूः "ननाश । उत्तरान् कुरून् प्रति नष्टा । अगच्छदित्यर्थः ॥


अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वी सव॑र्णामददु॒र्विव॑स्वते ।

उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ॥२

अप॑ । अ॒गू॒ह॒न् । अ॒मृता॑म् । मर्त्ये॑भ्यः । कृ॒त्वी । सऽव॑र्णाम् । अ॒द॒दुः॒ । विव॑स्वते ।

उ॒त । अ॒श्विनौ॑ । अ॒भ॒र॒त् । यत् । तत् । आसी॑त् । अज॑हात् । ऊं॒ इति॑ । द्वा । मि॒थु॒ना । स॒र॒ण्यूः ॥

अप । अगूहन् । अमृताम् । मर्त्येभ्यः । कृत्वी । सऽवर्णाम् । अददुः । विवस्वते ।

उत । अश्विनौ । अभरत् । यत् । तत् । आसीत् । अजहात् । ऊं इति । द्वा । मिथुना । सरण्यूः ॥

“अमृतां मरणधर्मरहितामेतां सरण्यूं “मर्त्येभ्यः मनुष्येभ्यस्तदुत्पत्यर्थम् “अपागूहन् अपगूहितवन्तः संवृतवन्तः । देवा उपनीतवन्त इत्यर्थः । किंच “सवर्णा सरण्यूसदृशीमन्यां स्त्रियं “कृत्वी कृत्वा तस्मै “विवस्वते देवाः अददुः प्रायच्छन् । “उत अपि च साश्वरूपिणी सरण्यूस्तदा "अश्विनावभरत् । स्वोदरे गर्भभूतौ धारितवती । “यत् यदा “तत् जायापतिभ्यामश्वरूपात्मना संभोगकाले रेतः पतितम् “आसीत् तदाश्विनौ जनयामासेत्यर्थः। तथा “सरण्यूः सरणवत्येतन्नामिका “द्वा “मिथुना द्वौ मिथुनौ यमयम्यौ "अजहात् त्यक्तवती । जनितवतीत्यर्थः । यद्वा । सरण्यूरेतन्नामिका मध्यमस्थाना देवता मध्यममग्निं माध्यमिकां वाचं चोत्पादितवती ॥


दीक्षितमरणे ‘पूषा त्वेतः' इत्याद्याश्चतस्रः शंसनीयाः । सूत्रितं च - ’पूषा त्वेतश्च्यावयतु प्र विद्वानिति चतस्रः ' (आश्व. श्रौ. ६. १० ) इति ॥

पू॒षा त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः ।

स त्वै॒तेभ्यः॒ परि॑ ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये॑भ्यः ॥३

पू॒षा । त्वा॒ । इ॒तः । च्य॒व॒य॒तु॒ । प्र । वि॒द्वान् । अन॑ष्टऽपशुः । भुव॑नस्य । गो॒पाः ।

सः । त्वा॒ । ए॒तेभ्यः॑ । परि॑ । द॒द॒त् । पि॒तृऽभ्यः॑ । अ॒ग्निः । दे॒वेभ्यः॑ । सु॒ऽवि॒द॒त्रिये॑भ्यः ॥

पूषा । त्वा । इतः । च्यवयतु । प्र । विद्वान् । अनष्टऽपशुः । भुवनस्य । गोपाः ।

सः । त्वा । एतेभ्यः । परि । ददत् । पितृऽभ्यः । अग्निः । देवेभ्यः । सुऽविदत्रियेभ्यः ॥

“पूषा पोषयितैतन्नामको देवः “त्वा त्वाम् “इतः अस्माद्देशाल्लोकात् “प्र “च्यावयतु प्रकर्षेणोत्तमलोकं गमयतु । कीदृशः । “विद्वान् अस्मद्भक्ततां विजानानः “अनष्टपशुः अविनश्वरपशुयुक्तः । यस्मिन् सर्वे पशवस्तिष्ठन्ति न तु नश्यन्तीत्यर्थः। “भुवनस्य भूतजातस्य “गोपाः गोपायिता । किंच प्रक्रमय्य “सः पूषा “एतेभ्यः “पितृभ्यः “त्वा त्वां “परि “ददत् परिप्रयच्छतु । तथा “अग्निः च “सुविदत्रियेभ्यः । सुविदत्रं ज्ञानं धनं वा । तदर्हाः सुविदत्रियाः। छान्दसो घप्रत्ययः । शोभन ज्ञानेभ्यः सुधनेभ्यो वा "देवेभ्यः त्वां प्रयच्छतु । तेषां लोके स्थापयत्वित्यर्थः ॥


आयु॑र्वि॒श्वायुः॒ परि॑ पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् ।

यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥४

आयुः॑ । वि॒श्वऽआ॑युः । परि॑ । पा॒स॒ति॒ । त्वा॒ । पू॒षा । त्वा॒ । पा॒तु॒ । प्रऽप॑थे । पु॒रस्ता॑त् ।

यत्र॑ । आस॑ते । सु॒ऽकृतः॑ । यत्र॑ । ते । य॒युः । तत्र॑ । त्वा॒ । दे॒वः । स॒वि॒ता । द॒धा॒तु॒ ॥

आयुः । विश्वऽआयुः । परि । पासति । त्वा । पूषा । त्वा । पातु । प्रऽपथे । पुरस्तात् ।

यत्र । आसते । सुऽकृतः । यत्र । ते । ययुः । तत्र । त्वा । देवः । सविता । दधातु ॥

“विश्वायुः सर्वान्नः सर्वत्र गमनशीलो वा "आयुः । वकारलोपश्छान्दसः। वायुः । यद्वा । ‘छन्दसीणः' इत्युण्प्रत्यये वृद्धौ च कृतायां रूपम् । गन्ता वायुः । “त्वा त्वां “परि “पासति परिपातु । पूषानुज्ञया परितो रक्षतु । 'पा रक्षणे '। लेटि सिप्यडागमः। “प्रपथे प्रकृष्टे मार्गे स्वर्गे “पुरस्तात् सर्वेषां प्रथममेव वर्तमानः “पूषा स्वयमेव “त्वा त्वां प्रमितं यजमानं “पातु रक्षतु । “सुकृतः पुण्यकर्माणः “यत्र यस्मिन् देशे “आसते तिष्ठन्ति यत्र वा “ते “सुकृतः “ययुः प्राप्ताः “तत्र तस्मिन् स्थाने “देवः दीप्यमानः “सविता सर्वस्य स्वस्वकर्मणि प्रेरक एतन्नामको देवः “त्वा त्वां दधातु निदधातु ॥


एकादशिनस्य पौष्णस्य पशोर्हविषः पूषेमाः' इत्यनुवाक्या। पूषेमा आशा अनु वेद सर्वाः शुक्रं ते अन्यद्यजतं ते अन्यत्' (आश्व. श्रौ. ३. ७ ) इति हि सूत्रितम् ॥

पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वाः॒ सो अ॒स्माँ अभ॑यतमेन नेषत् ।

स्व॒स्ति॒दा आघृ॑णिः॒ सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु प्रजा॒नन् ॥५

पू॒षा । इ॒माः । आशाः॑ । अनु॑ । वे॒द॒ । सर्वाः॑ । सः । अ॒स्मान् । अभ॑यऽतमेन । ने॒ष॒त् ।

स्व॒स्ति॒ऽदाः । आघृ॑णिः । सर्व॑ऽवीरः । अप्र॑ऽयुच्छन् । पु॒रः । ए॒तु॒ । प्र॒ऽजा॒नन् ॥

पूषा । इमाः । आशाः । अनु । वेद । सर्वाः । सः । अस्मान् । अभयऽतमेन । नेषत् ।

स्वस्तिऽदाः । आघृणिः । सर्वऽवीरः । अप्रऽयुच्छन् । पुरः । एतु । प्रऽजानन् ॥

"पूषा देवः “इमाः “सर्वाः “आशाः प्राच्याद्या दिशः “अनु “वेद आनुपूर्व्येण जानाति । इमाः सुखेन गन्तव्या असुखेनेति वैवमनुक्रमेण जानातीत्यर्थः । एवं सति अस्मान् प्रमिते यजमानो ब्रवीति पुत्रमुखेन याजकमुखेन वा। “अस्मान्न “अभयतमेन अत्यन्तं भयरहितेन मार्गेण "नेषत् नयतु । कथम् । स्वस्तिदाः कल्याणस्य दाता “अघृणिः आगतदीप्तियुक्तः “सर्ववीरः सर्वैर्वीरैः कर्मणि समर्थैर्ऋत्विग्भिरुपेतः “अप्रयुच्छन् अप्रमाद्यन् “प्रजानन् अस्माकं फलाफले विजानानः सन् “पुरः “एतु अस्माकं पुरस्ताद्गच्छतु । यथास्माकं भयं न भवति तथा गच्छत्वित्यर्थः ॥ ॥ २३ ॥


एकादशिनस्य पौष्णस्य पशोः पुरोडाशस्य ‘प्रपथे पथाम्' इति याज्या। सुत्रितं च-' प्रपथे पथामजनिष्ट पूषा पथपथः परिपतिं वचस्या ' ( आश्व. श्री. ३. ७) इति ॥

प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः ।

उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॒ आ च॒ परा॑ च चरति प्रजा॒नन् ॥६

प्रऽप॑थे । प॒थाम् । अ॒ज॒नि॒ष्ट॒ । पू॒षा । प्रऽप॑थे । दि॒वः । प्रऽप॑थे । पृ॒थि॒व्याः ।

उ॒भे इति॑ । अ॒भि । प्रि॒यत॑मे॒ इति॑ प्रि॒यऽत॑मे । स॒धस्थे॒ इति॑ स॒धऽस्थे॑ । आ । च॒ । परा॑ । च॒ । च॒र॒ति॒ । प्र॒ऽजा॒नन् ॥

प्रऽपथे । पथाम् । अजनिष्ट । पूषा । प्रऽपथे । दिवः । प्रऽपथे । पृथिव्याः ।

उभे इति । अभि । प्रियत॑मे इति प्रियऽतमे । सधस्थे इति सधऽस्थे । आ । च । परा । च । चरति । प्रऽजानन् ॥

“पथाम् अन्तरिक्षगमनहेतुभूतानां मार्गाणां मध्ये “प्रपथे यः प्रकृष्टः पन्थास्ति तत्र “पूषा “अजनिष्ट प्रादुरभूत् । पुण्यकर्मणां सुगतिप्रापणार्थमवस्थित इति भावः । तथा “दिवः द्युलोकस्य च मार्गाणां मध्ये “प्रपथे प्रकृष्टे मार्गे जातः । तथा “पृथिव्याः “प्रपथे प्रकृष्टे मार्गे मनुष्याणां तत्तत्कर्मणि प्रवर्तनार्थं प्रादुर्भूत इत्यर्थः । सोऽयं पूषा “प्रियतमे सर्वस्येष्टतमे “सधस्थे सर्वेषां सहावस्थानभूते “उभे द्यावापृथिव्यावभिलक्ष्य “आ “चरति आभिमुख्येन चरति । सुकृतिनां सुकृतफलप्रदर्शनायानुकूलं चरतीत्यर्थः। तथा “परा चरति । दुष्कर्मणां प्रतिकूलं गच्छति । किं कुर्वन् । प्रजानन् अनेनेदं कर्म कृतमस्य कर्मण इदं फलमित्यविशेषेण जानानः ॥


व्यूळ्हस्य दशरात्रस्य तृतीये छन्दोमे प्रउगशस्त्रे सारस्वततृचस्य ‘सरस्वतीं देवयन्तः' इत्येषाद्या। सूत्र्यते हि -- प्र ब्रह्माणो अङ्गिरसो नक्षन्त सरस्वतीं देवयन्तो हवन्ते' (आश्व. श्रौ. ८. ११) इति ॥

सर॑स्वतीं देव॒यंतो॑ हवंते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने ।

सर॑स्वतीं सु॒कृतो॑ अह्वयंत॒ सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ॥७

सर॑स्वतीम् । दे॒व॒ऽयन्तः॑ । ह॒व॒न्ते॒ । सर॑स्वतीम् । अ॒ध्व॒रे । ता॒यमा॑ने ।

सर॑स्वतीम् । सु॒ऽकृतः॑ । अ॒ह्व॒य॒न्त॒ । सर॑स्वती । दा॒शुषे॑ । वार्य॑म् । दा॒त् ॥

सरस्वतीम् । देवऽयन्तः । हवन्ते । सरस्वतीम् । अध्वरे । तायमाने ।

सरस्वतीम् । सुऽकृतः । अह्वयन्त । सरस्वती । दाशुषे । वार्यम् । दात् ॥

"देवयन्तः देवान् यष्टुं स्तोतुं च कामयमाना यजमानाः "सरस्वतीम् एतन्नामिकां मध्यमस्थानदेवतां "हवन्ते कर्मावयवत्वाय आह्वयन्ति । तथा "तायमाने स्तुतिभिर्हविभिश्च विस्तीर्यमाणे “अध्वरे यज्ञे "सरस्वतीं यजन्तीति शेषः। "सुकृतः पुण्यकर्माणः "सरस्वतीम् "अह्वयन्त फलप्रदानाय ह्वयन्ते । यत एवमतः कारणात् "सरस्वती देवी "दाशुषे हवींषि दत्तवते यजमानाय "वार्यं वरणीयं कर्मफलं "दात् प्रयच्छतु ।


सर॑स्वति॒ या स॒रथं॑ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मदं॑ती ।

आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयस्वानमी॒वा इष॒ आ धे॑ह्य॒स्मे ॥८

सर॑स्वति । या । स॒ऽरथ॑म् । य॒याथ॑ । स्व॒धाभिः॑ । दे॒वि॒ । पि॒तृऽभिः॑ । मद॑न्ती ।

आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ । अ॒न॒मी॒वाः । इषः॑ । आ । धे॒हि॒ । अ॒स्मे इति॑ ॥

सरस्वति । या । सऽरथम् । ययाथ । स्वधाभिः । देवि । पितृऽभिः । मदन्ती ।

आऽसद्य । अस्मिन् । बर्हिषि । मादयस्व । अनमीवाः । इषः । आ । धेहि । अस्मे इति ॥

हे "सरस्वति हे "देवि “या त्वं “सरर्थ पितृभिः सह समानेन रथेन युक्तं यथा भवति तथा “ययाथ। अस्मदीयं यज्ञं प्राप्तासि । किं कुर्वती। "पितृभिः सह "स्वधाभिः हविर्लक्षणैरन्नैः "मदन्ती माद्यन्ती यज्ञं गच्छसीति संबन्धः । स त्वं "बर्हिषि "अस्मिन् वेदिस्तरणे यज्ञे “आसद्य उपविश्य “मादयस्व हविर्भिस्तृप्ता भव । आत्मानं तर्पय वा । ततस्तृप्ता सती त्वम् "अनमीवाः । अमीवा रोगः । तद्वर्जितान्यारोग्यजननानि "इषः अन्नानि "अस्मे अस्मभ्यम् "आ "धेहि पयाप्तं प्रयच्छ ॥ ।


सर॑स्वतीं॒ यां पि॒तरो॒ हवं॑ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः ।

स॒ह॒स्रा॒र्घमि॒ळो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ॥९

सर॑स्वतीम् । याम् । पि॒तरः॑ । हव॑न्ते । द॒क्षि॒णा । य॒ज्ञम् । अ॒भि॒ऽनक्ष॑माणाः ।

स॒ह॒स्र॒ऽअ॒र्घम् । इ॒ळः । अत्र॑ । भा॒गम् । रा॒यः । पोष॑म् । यज॑मानेषु । धे॒हि॒ ॥

सरस्वतीम् । याम् । पितरः । हवन्ते । दक्षिणा । यज्ञम् । अभिऽनक्षमाणाः ।

सहस्रऽअर्घम् । इळः । अत्र । भागम् । रायः । पोषम् । यजमानेषु । धेहि ॥

“यां त्वां सरस्वतीं "पितरो "हवन्ते आह्वयन्ति। कीदृशाः । "दक्षिणा । दक्षिणादाच्', (पा.सू. ५. ३.३६) इत्याच्प्रत्ययः । दक्षिणत आगत्य "यज्ञमभिनक्षमाणाः अभितो गच्छन्तो व्याप्नुवन्तः । "अत्र अस्मिन् यज्ञे "सहस्रार्घं बहुभिः पूजनीयमुपयोज्यम् "इळ: अन्नस्य "भागं “रायः धनस्य "पोषं पुष्टिं च यजमानेषु त्वं "धेहि स्थापय ॥”


अवभृथस्थाने आपो अस्मान् इत्येषा। सूत्रितं च--- तत् आचम्याप्लवन्त आपो अस्मान मातरः शुन्धयन्तु' (आश्व. श्रौ. ६. १३ ) इति । दशमेऽहनि वपामार्जनेऽप्येषा। सूत्रितं च -- ‘इदमापः प्र वहतेत्येतस्याः स्थान आपो अस्मान्मातरः शुन्धयन्तु' (आश्व.श्रौ. ८. १२) इति ॥

आपो॑ अ॒स्मान्मा॒तरः॑ शुंधयंतु घृ॒तेन॑ नो घृत॒प्वः॑ पुनंतु ।

विश्वं॒ हि रि॒प्रं प्र॒वहं॑ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ॥१०

आपः॑ । अ॒स्मान् । मा॒तरः॑ । शु॒न्ध॒य॒न्तु॒ । घृ॒तेन॑ । नः॒ । घृ॒त॒ऽप्वः॑ । पु॒न॒न्तु॒ ।

विश्व॑म् । हि । रि॒प्रम् । प्र॒ऽवह॑न्ति । दे॒वीः । उत् । इत् । आ॒भ्यः॒ । शुचिः॑ । आ । पू॒तः । ए॒मि॒ ॥

आपः । अस्मान् । मातरः । शुन्धयन्तु । घृतेन । नः । घृतऽप्वः । पुनन्तु ।

विश्वम् । हि । रिप्रम् । प्रऽवहन्ति । देवीः । उत् । इत् । आभ्यः । शुचिः । आ । पूतः । एमि ॥

"मातरः जगतो मातृस्थानीयाः "आपः "अस्मान् “शुन्धयन्तु प्रोक्षणेन शोधयन्तु। तथा “घृतप्वः। घृतमुदकम् । तेनान्यान् पुनन्तीति । तास्तथोक्ता आपः। यद्वा घृतप्वः । घृतं गव्यम् । तेन पुनन्ति । तथा ब्राह्मणं-- घृतेन नो घृतप्वः पुनन्तीति तद्वै सुपूतं यद्घृतेन पूयते' (श. ब्रा. ३.१.२.११ ) इति । ता आपः “घृतेन प्रत्यक्षेणोदकेन "नः अस्मान् "पुनन्तु । “हि यस्मात् देवीः देव्यो देवनशीला आपः "विश्वं सर्वं “रिप्रं पापं “प्रवहन्ति पुरुषसकाशात् प्रगमयन्ति । अपनयन्तीति यावत् । अनन्तरम् "आभ्यः अद्भ्यः “आ “पूतः अभिमुख्येन शुद्धः सन् स्तोताहम् “उत् “एमि उद्गच्छामि । ऊर्ध्वं स्वर्गं गच्छामीत्यर्थः ॥ ॥ २४ ॥


सुत्येऽहनि ‘द्रप्सश्चस्कन्द' इत्यादिके द्वे विप्रुड्ढोमार्थे । सूत्रितं च-' द्रप्सश्चस्कन्देति द्वाभ्यां विप्रुड्ढोमो हुत्वा' (आश्व. श्रौ. ५. २ ) इति । स्कन्नहविरभिमर्शनेऽपि ' द्रप्सः' इत्येषा । आहुतिर्बहिष्परिधि यदि स्कन्देत् तदानीमाग्नीध्रोऽनया जुहुयात् । स्कन्नमभिमृशेदिति प्रकृत्य सूत्रितं -- ’द्रप्सश्चस्कन्देत्याहुतिश्चेद्बहिष्परिध्याग्नीध्र एनां जुहुयात्' (आश्व. श्रौ. ३. १३) इति ॥

द्र॒प्सश्च॑स्कंद प्रथ॒माँ अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।

स॒मा॒नं योनि॒मनु॑ सं॒चरं॑तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥११

द्र॒प्सः । च॒स्क॒न्द॒ । प्र॒थ॒मान् । अनु॑ । द्यून् । इ॒मम् । च॒ । योनि॑म् । अनु॑ । यः । च॒ । पूर्वः॑ ।

स॒मा॒नम् । योनि॑म् । अनु॑ । स॒म्ऽचर॑न्तम् । द्र॒प्सम् । जु॒हो॒मि॒ । अनु॑ । स॒प्त । होत्राः॑ ॥

द्रप्सः । चस्कन्द । प्रथमान् । अनु । द्यून् । इमम् । च । योनिम् । अनु । यः । च । पूर्वः ।

समानम् । योनिम् । अनु । सम्ऽचरन्तम् । द्रप्सम् । जुहोमि । अनु । सप्त । होत्राः ॥

“द्रप्सः अभिषूयमाणस्य सोमस्य रसः "प्रथमान् पूर्वभाविनः पार्थिवाँल्लोकान् “द्यून् दीप्यमानान् द्युलोकांश्च “अनु लक्षीकृत्य “चस्कन्द स्कन्नवान् गतवान् । तदेवाह । "इमं परिदृश्यमानं “योनिं स्थानभूतं लोकं "च "यश्च अस्मात् "पूर्वः अस्ति तम् "अनु गतवान्। "समानं साधारणं “योनिं द्यावापृथिवीलक्षणं स्थानम् "अनु "संचरन्तं सम्यग्गच्छन्तं “द्रप्सं सोमरसं विप्रुड्लक्षणं "सप्त “होत्राः सप्तसंख्याका विप्रुड्ढोमस्य कर्तारो होतृप्रभृतयो वयम् "अनु आनुपूर्व्येण "जुहोमि जुहुमः । यद्वा । "होत्राः । सप्तहोतृभिः क्रियमाणा यागक्रिया होत्राः। ता अनु पश्चादध्वर्युरहं जुहोमि । यद्वा । द्रप्सः । द्रुतगामित्वाद्द्रप्स आदित्य उच्यते । स आदित्यः पृथिवीं च दिवं च गच्छति समानं योनिमन्तरिक्षं लक्षीकृत्य । सम्यक्चरन्तं तं द्रप्समादित्यमुद्दिश्य सप्त होत्राः सप्तसंख्याका दिशः । यस्यां दिशि सूर्यों वर्तते तद्व्यतिरिक्ताः सप्तसंख्याका दिशः । अनु पश्चाज्जुहोमि । यत्र यत्र वर्तते तां तां दिशं द्रव्यत्वेन प्रयच्छामि । प्रतिष्ठापयामीत्यर्थः । अत्र वाजसनेयकम्-' असौ वा आदित्यो द्रप्सः स दिवं च पृथिवीं च स्कन्दतीमं च योनिमनु यश्च पूर्वं इतीमं च लोकममुं चेत्येतत् समानं योनिमनु संचरन्तमिति समानं ह्येष एतं योनिमनु संचरति द्रप्सं जुहोम्यनु सप्त होत्रा इत्यसौ वा आदित्यो द्रप्सो दिशः सप्त होत्रा अमुं तदादित्यं दिक्षु प्रतिष्ठापयति' ( श. ब्रा. ७. ४. १. २०) इति ।


यस्ते॑ द्र॒प्सः स्कंद॑ति॒ यस्ते॑ अं॒शुर्बा॒हुच्यु॑तो धि॒षणा॑या उ॒पस्था॑त् ।

अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृतं ॥१२

यः । ते॒ । द्र॒प्सः । स्कन्द॑ति । यः । ते॒ । अं॒शुः । बा॒हुऽच्यु॑तः । धि॒षणा॑याः । उ॒पऽस्था॑त् ।

अ॒ध्व॒र्योः । वा॒ । परि॑ । वा॒ । यः । प॒वित्रा॑त् । तम् । ते॒ । जु॒हो॒मि॒ । मन॑सा । वष॑ट्ऽकृतम् ॥

यः । ते । द्रप्सः । स्कन्दति । यः । ते । अंशुः । बाहुऽच्युतः । धिषणायाः । उपऽस्थात् ।

अध्वर्योः । वा । परि । वा । यः । पवित्रात् । तम् । ते । जुहोमि । मनसा । वषट्ऽकृतम् ॥

हे सोम "ते त्वदीयः "यः “द्रप्सः रसः "स्कन्दति अधिषवणचर्मणोऽन्यत्र गच्छति । "यः च “ते त्वदीयः "अंशुः रसादितरः सन् स्कन्दति। “बाहुच्युतः अध्वर्योर्बाहुभ्यां प्रच्युतः सन् स्कन्दति । यद्वा । बाहुवत्साधनभूता ग्रावाणः । तैः प्रच्युतोऽभिषुतः सन् "धिषणायाः । धिषणेत्यधिषवणफलकनाम । प्रत्येकविवक्षयैकवचनम्। अधिषवणफलकयोः “उपस्थात् समीपस्थात् प्रदेशादन्यत्र गच्छति। तथा “अध्वर्योर्वा अभिषुण्वतोऽध्वर्योर्हस्तात् स्कन्दति। “वा अपि वा “पवित्रात् दशापवित्रात् "परि स्कन्दति । तं सर्वं द्रप्सं “ते त्वदीयं रसं "मनसा अन्तःकरणेन स्तोत्रेण वा सह “वषट्कृतं वषट्कारेण स्वाहाकारेण कृतं "जुहोमि अग्नौ प्रक्षिपामि ॥


यस्ते॑ द्र॒प्सः स्क॒न्नो यस्ते॑ अं॒शुर॒वश्च॒ यः प॒रः स्रु॒चा ।

अ॒यं दे॒वो बृह॒स्पतिः॒ सं तं सिं॑चतु॒ राध॑से ॥१३

यः । ते॒ । द्र॒प्सः । स्क॒न्नः । यः । ते॒ । अं॒शुः । अ॒वः । च॒ । यः । प॒रः । स्रु॒चा ।

अ॒यम् । दे॒वः । बृह॒स्पतिः॑ । सम् । तम् । सि॒ञ्च॒तु॒ । राध॑से ॥

यः । ते । द्रप्सः । स्कन्नः । यः । ते । अंशुः । अवः । च । यः । परः । स्रुचा ।

अयम् । देवः । बृहस्पतिः । सम् । तम् । सिञ्चतु । राधसे ॥

हे सोम "ते त्वदीयः "यः “द्रप्सः रसोऽन्यत्र "स्कन्नः गतः "यः च त्वदीयस्तव कारणभूतः “अंशुः लताखण्डो रसादितरो भवति “स्रुचा पात्रविशेषण गृहीतः सोमः “अवः अवस्तात् स्कन्दते “परः परस्ताद्वातिरिक्तो भवति “तम् इमं सोमम् "अयं “बृहस्पतिः एतन्नामकः "देवः "सं "सिञ्चतु सम्यक् प्रक्षारयतु । किमर्थम् । "राधसे अस्माकं धनार्थम् । स्कन्ने हि सोमे प्रजापश्वादिकमपस्कन्नं भवति खलु ॥


पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ ।

अ॒पां पय॑स्व॒दित्पय॒स्तेन॑ मा स॒ह शुं॑धत ॥१४

पय॑स्वतीः । ओष॑धयः । पय॑स्वत् । मा॒म॒कम् । वचः॑ ।

अ॒पाम् । पय॑स्वत् । इत् । पयः॑ । तेन॑ । मा॒ । स॒ह । शु॒न्ध॒त॒ ॥

पयस्वतीः । ओषधयः । पयस्वत् । मामकम् । वचः ।

अपाम् । पयस्वत् । इत् । पयः । तेन । मा । सह । शुन्धत ॥

इयं प्रत्यक्षकृता । हे आपः "ओषधयः "पयस्वतीः पयस्वत्यो वृष्टिलक्षणेनोदकेन सारवत्यो भवन्ति । "मामकं मदीयं "वचः वचनं वृष्टिप्रार्थनवचनं “पयस्वत् सारवत् भवति । किं बहुना। यच्च इह किंचित् "अपाम् उदकानां "पयः क्षीरवत् सारभूतं यदस्ति तत्सर्वं पयस्वत् सारवदेव । “तेन उदकसारेण "सह “मा मां “शुन्धत यूयं शोधयत । ‘आपो अद्यान्वचारिषं रसेन समगस्महि' (ऋ. सं. १. २३. २३) इति निगमान्तरम् ॥ ॥ २५ ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१७&oldid=161001" इत्यस्माद् पुनः प्राप्तिः