ऋग्वेदः सूक्तं १०.१०५
← सूक्तं १०.१०४ | ऋग्वेदः - मण्डल १० सूक्तं १०.१०५ कौत्सो दुर्मित्रः सुमित्रो वा। |
सूक्तं १०.१०६ → |
दे. इन्द्रः। उष्णिक्, १ गायत्री वा, २, ७ पिपीलिकामध्या, ११ त्रिष्टुप् |
कदा वसो स्तोत्रं हर्यत आव श्मशा रुधद्वाः ।
दीर्घं सुतं वाताप्याय ॥१॥
हरी यस्य सुयुजा विव्रता वेरर्वन्तानु शेपा ।
उभा रजी न केशिना पतिर्दन् ॥२॥
अप योरिन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान् ।
शुभे यद्युयुजे तविषीवान् ॥३॥
सचायोरिन्द्रश्चर्कृष आँ उपानसः सपर्यन् ।
नदयोर्विव्रतयोः शूर इन्द्रः ॥४॥
अधि यस्तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै ।
वनोति शिप्राभ्यां शिप्रिणीवान् ॥५॥
प्रास्तौदृष्वौजा ऋष्वेभिस्ततक्ष शूरः शवसा ।
ऋभुर्न क्रतुभिर्मातरिश्वा ॥६॥
वज्रं यश्चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् ।
अरुतहनुरद्भुतं न रजः ॥७॥
अव नो वृजिना शिशीह्यृचा वनेमानृचः ।
नाब्रह्मा यज्ञ ऋधग्जोषति त्वे ॥८॥
ऊर्ध्वा यत्ते त्रेतिनी भूद्यज्ञस्य धूर्षु सद्मन् ।
सजूर्नावं स्वयशसं सचायोः ॥९॥
श्रिये ते पृश्निरुपसेचनी भूच्छ्रिये दर्विररेपाः ।
यया स्वे पात्रे सिञ्चस उत् ॥१०॥
शतं वा यदसुर्य प्रति त्वा सुमित्र इत्थास्तौद्दुर्मित्र इत्थास्तौत् ।
आवो यद्दस्युहत्ये कुत्सपुत्रं प्रावो यद्दस्युहत्ये कुत्सवत्सम् ॥११॥
सायणभाष्यम्
‘कदा' इत्येकादशर्चं षष्ठं सूक्तमैन्द्रम् । कुत्सपुत्रो नाम्ना दुर्मित्रो गुणतः सुमित्रः यद्वा नाम्ना सुमित्रो गुणतो दुर्मित्रः स ऋषिः । ‘ हरी यस्य सुयुजा ' 'वज्रं यश्चक्रे ' इति द्वे पिपीलिकमध्ये एकादशषट्कैकादशके उष्णिहौ । अन्त्या त्रिष्ट्रप् । आद्या गायत्री वा । अक्षरब्यून पक्षान्तर उष्णिक् । शिष्टाः सर्वाः सप्तोष्णिहः । तथा चानुक्रान्तं- कदा कौत्सो दुर्मित्रो नाम्ना सुमित्रो गुणतः सुमित्रो वा नाम्ना दुर्मित्रो गुणत औष्णिहं हरी वज्रं पिपीलिकमध्ये त्रिष्टबन्त्याद्या गायत्री वा ' इति । गतो विनियोगः ॥
क॒दा व॑सो स्तो॒त्रं हर्य॑त॒ आव॑ श्म॒शा रु॑ध॒द्वाः ।
दी॒र्घं सु॒तं वा॒ताप्या॑य ॥१
क॒दा । व॒सो॒ इति॑ । स्तो॒त्रम् । हर्य॑ते । आ । अव॑ । श्म॒शा । रु॒ध॒त् । वारिति॒ वाः ।
दी॒र्घम् । सु॒तम् । वा॒ताप्या॑य ॥१
कदा । वसो इति । स्तोत्रम् । हर्यते । आ । अव । श्मशा । रुधत् । वारिति वाः ।
दीर्घम् । सुतम् । वाताप्याय ॥१
हे “वसो वासयितरिन्द्र “स्तोत्रम् अस्मत्कर्तृकं “हर्यते कामयमानाय कामयमानं त्वाम् । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी । “कदा कस्मिन् काले “अव “रुधत् अवरोत्स्यति । अवरुध्य च कदा “वाः वारयिष्यति । तादृशः कालः कदास्माकं संभविष्यतीत्याशास्ते । रुधेर्लुङि • इरितो वा ' इति च्लेरङादेशः । वारिति वृणोतेर्ण्यन्ताल्लङि छान्दसः शपो लुक् । ‘ छन्दस्युभयथा' इति तिप आर्धधातुकत्वात् णेरनिटि ' इति लोपे 'हल्या• ब्भ्यः' इति तिलोपः। तत्र दृष्टान्तः । अश्नुते क्षेत्रमिति “श्मशा कुल्या । लुतोपममेतत् । यथा कुल्ये तस्तत उदकान्यवरुणद्धि अवरुध्य च वारयति तथेत्यर्थः । किमुद्दिश्यावरोध इति तत्राह । “दीर्घं सवनत्रयरूपेणायतं “सुतम् अभिषुतं सोमं प्रति । किमर्थमिति तदाह । “वाताप्याय । वातेनाप्यतेऽधस्तान्निपात्यत इति वाताप्यमुदकम् । तस्य प्रदानायेत्यर्थः ॥
हरी॒ यस्य॑ सु॒युजा॒ विव्र॑ता॒ वेरर्वं॒तानु॒ शेपा॑ ।
उ॒भा र॒जी न के॒शिना॒ पति॒र्दन् ॥२
हरी॒ इति॑ । यस्य॑ । सु॒ऽयुजा॑ । विऽव्र॑ता । वेः । अर्व॑न्ता । अनु॑ । शेपा॑ ।
उ॒भा । र॒जी इति॑ । न । के॒शिना॑ । पतिः॑ । दन् ॥२
हरी इति । यस्य । सुऽयुजा । विऽव्रता । वेः । अर्वन्ता । अनु । शेपा ।
उभा । रजी इति । न । केशिना । पतिः । दन् ॥२
"यस्य इन्द्रस्य “हरी हरितवर्णावश्वौ “सुयुजा सुष्ठु नियोज्यौ । सुशिक्षितावित्यर्थः । “विव्रता । व्रतमिति कर्मनाम। विशिष्टकर्माणौ अर्वन्तौ अरणकुशलौ “शेपा शेपवन्तौ । मत्वर्थो लुप्यते । प्रशस्तपुंस्त्वावित्यर्थः। “उभा उभौ “रजी “न रजसी द्यावापृथिव्याविव । यद्वा महान्तौ रञ्जकौ सूर्याचन्द्रमसाविव । “केशिना केशिनौ प्रकाशमानौ केशवन्तौ वा ईदृशावश्वौ हे इन्द्र यस्य ते तव स्वभूतौ तयोः “पतिः स्वामी त्वं “दन् धनानि प्रयच्छन् “अनु “वेः स्तुतशस्त्रादीन्यनुकामयस्व । दन्निति ददातेः शतरि ‘छन्दस्युभयथा' इत्यार्धधातुकत्वात् ‘आतो लोप इटि च' इत्याकारलोपः । अत एव श्ल्वभावश्च ॥
अप॒ योरिंद्रः॒ पाप॑ज॒ आ मर्तो॒ न श॑श्रमा॒णो बि॑भी॒वान् ।
शु॒भे यद्यु॑यु॒जे तवि॑षीवान् ॥३
अप॑ । योः । इन्द्रः॑ । पाप॑जे । आ । मर्तः॑ । न । श॒श्र॒मा॒णः । बि॒भी॒वान् ।
शु॒भे । यत् । यु॒यु॒जे । तवि॑षीऽवान् ॥३
अप । योः । इन्द्रः । पापजे । आ । मर्तः । न । शश्रमाणः । बिभीवान् ।
शुभे । यत् । युयुजे । तविषीऽवान् ॥३
यः “इन्द्रः “पापजे । “आ इत्यनर्थकः । पापाज्जायत इति पापजो वृत्रः । तस्मिन् “मर्तो “न मनुष्य इव “शश्रमाणः तेन सह युद्धे श्राम्यन् “बिभीवान् बिभ्यच्च भवति । श्राम्यतेश्छन्दसि लिट् । तस्य व्यत्ययेन कानच् । स इन्द्रः “यत् यदा “तविषीवान् मरुद्भिर्बलैर्बलवान् “युयुजे युज्यते संपद्यते “शुभे शोभार्थं तदानीम् "अप “योः । तस्य वृत्रस्यापयोरपयोजयिता भवति ॥
सचा॒योरिंद्र॒श्चर्कृ॑ष॒ आँ उ॑पान॒सः स॑प॒र्यन् ।
न॒दयो॒र्विव्र॑तयोः॒ शूर॒ इंद्रः॑ ॥४
सचा॑ । आ॒योः । इन्द्रः॑ । चर्कृ॑षे । आ । उ॒पा॒न॒सः । स॒प॒र्यन् ।
न॒दयोः॑ । विऽव्र॑तयोः । शूरः॑ । इन्द्रः॑ ॥४
सचा । आयोः । इन्द्रः । चर्कृषे । आ । उपानसः । सपर्यन् ।
नदयोः । विऽव्रतयोः । शूरः । इन्द्रः ॥४
“आयोः । मनुष्यनामैतत् । मनुष्यस्य स्तोतुः “चर्कृषे पुनःपुनर्विलेखनाय । धनप्रदाना येत्यर्थः । “सचा सह दातव्यैर्धनैः सहितः । यद्वा । आयोः सचा सह सहायभूतः । “उपानसः अनः उपागतवान् । ‘ अत्यादयः क्रान्ताद्यर्थे द्वितीयया' (पा. म, २. २. १८. ४) इति प्रादिसमासः । ‘ अनसन्तान्नपुंसकात्' (पा. सू. ५, ४. १०३ ) इति समासान्तष्टच् । आरूढरथ इत्यर्थः । “सपर्यन् धनैः स्तोतारं पूजयन् । यद्वा । व्यत्ययेन कर्तृप्रत्ययः । स्तुतिभिर्हविर्भिश्च पूज्यमानः । उक्तगुणविशिष्टः सन् “आ आगच्छति । उपसर्गश्रुतेरुचितक्रियाध्याहारः । कीडश इन्द्रः । “नदयोः हेषाशब्दं कुर्वतोः “विव्रतयोः विशिष्टकर्मणोरश्वयोर्नियन्ता “शूरः विक्रान्तः ॥
अधि॒ यस्त॒स्थौ केश॑वंता॒ व्यच॑स्वंता॒ न पु॒ष्ट्यै ।
व॒नोति॒ शिप्रा॑भ्यां शि॒प्रिणी॑वान् ॥५
अधि॑ । यः । त॒स्थौ । केश॑ऽवन्ता । व्यच॑स्वन्ता । न । पु॒ष्ट्यै ।
व॒नोति॑ । शिप्रा॑भ्याम् । शि॒प्रिणी॑ऽवान् ॥५
अधि । यः । तस्थौ । केशऽवन्ता । व्यचस्वन्ता । न । पुष्ट्यै ।
वनोति । शिप्राभ्याम् । शिप्रिणीऽवान् ॥५
“यः इन्द्रः “केशवन्ता केशिनौ “व्यचस्वन्ता व्यचनवन्तौ व्याप्तिमन्तौ । “न इत्यनर्थको निपातः । ईदृशावश्वौ “पुष्ट्यै पोषणाय यजमानस्यात्मनो वा “अधि “तस्थौ अधितिष्ठति आरोहति । ‘ अधिशीङ्स्थासां कर्म' (पा. सू. १. ३. ४६ ) इति कर्मणोऽधिकरणसंज्ञा । यद्वा नेति चार्थे । तेन गुणौ समुच्चीयेते । प्रशस्तकेशौ व्यचस्वन्तौ चेत्यर्थः । स “शिप्राभ्यां हनूभ्यां शिप्रिणीवान् शिप्रवानिन्द्रः । एको मत्वर्थीयोऽनुवादः । “वनोति सोमान् याचते । ‘ वनु याचने '। यद्वा। वनुष्यतिर्हन्तिकर्मा । शत्रून् हिनस्ति’ ॥ ॥ २६ ॥
प्रास्तौ॑दृ॒ष्वौजा॑ ऋ॒ष्वेभि॑स्त॒तक्ष॒ शूरः॒ शव॑सा ।
ऋ॒भुर्न क्रतु॑भिर्मात॒रिश्वा॑ ॥६
प्र । अ॒स्तौ॒त् । ऋ॒ष्वऽओ॑जाः । ऋ॒ष्वेभिः॑ । त॒तक्ष॑ । शूरः॑ । शव॑सा ।
ऋ॒भुः । न । क्रतु॑ऽभिः । मा॒त॒रिश्वा॑ ॥६
प्र । अस्तौत् । ऋष्वऽओजाः । ऋष्वेभिः । ततक्ष । शूरः । शवसा ।
ऋभुः । न । क्रतुऽभिः । मातरिश्वा ॥६
“ऋष्वौजाः दर्शनीयबलः व्याप्तबलो वा “ऋष्वेभिः दर्शनीयैर्मरुद्भिः सह प्रास्तौत् प्रस्तौति । स्तुत्यादिकं सम्यक्कृतमनेनेति प्रशंसति । यद्वा । कर्मणि कर्तृप्रत्ययः । प्रकर्षेण स्तुतोऽभूत् । य इन्द्रः “शूरः विक्रान्तः “मातरिश्वा वृष्टेर्निर्मातर्यन्तरिक्षे श्वसन् वर्तमानः सन् “शवसा बलेन “क्रतुभिः क्रियमाणैः कर्मभिः । यद्वा । क्रतुरिति प्रज्ञानाम् । बलेन प्रज्ञाभिश्च “ततक्ष वृत्रवधादिकं चकार । तत्र दृष्टान्तः । “ऋभुर्न ऋभव इव । “ सुपां सुलक्' इति जसः सुरादेशः । ऋभवो यथा कर्मभिः प्रज्ञाभिश्चानन्यसाधारणरथचमसादिनिर्माणमकुर्वन् तद्वदित्यर्थः ॥
वज्रं॒ यश्च॒क्रे सु॒हना॑य॒ दस्य॑वे हिरीम॒शो हिरी॑मान् ।
अरु॑तहनु॒रद्भु॑तं॒ न रजः॑ ॥७
वज्र॑म् । यः । च॒क्रे । सु॒ऽहना॑य । दस्य॑वे । हि॒री॒म॒शः । हिरी॑मान् ।
अरु॑तऽहनुः । अद्भु॑तम् । न । रजः॑ ॥७
वज्रम् । यः । चक्रे । सुऽहनाय । दस्यवे । हिरीमशः । हिरीमान् ।
अरुतऽहनुः । अद्भुतम् । न । रजः ॥७
"यः इन्द्रः "सुहनाय सुष्ठु हननीयाय “दस्यवे उपक्षपयित्रे शत्रवे तस्य वधाय “वज्रं प्रहरणसाधनमायुधं “चक्रे कृतवान् स त्वं वृजिना शिशीहीत्युत्तरत्र संबन्धः । कीदृश इन्द्रः। “हिरीमशः हरितश्मश्रुः । पृषोदरादिः । “हिरीमान् हरिताश्वो हरितवर्णो वा “अरुतहनुः अबाधितहनुः । किमिव । “अद्भुतं “न “रजः । अद्भुतमिति महन्नाम । रज इति रञ्जकमन्तरिक्षमुच्यते । महदन्तरिक्षमिव । तद्यथान्यैरबाध्यं भवति तद्वत् ॥
अव॑ नो वृजि॒ना शि॑शीह्यृ॒चा व॑नेमा॒नृचः॑ ।
नाब्र॑ह्मा य॒ज्ञ ऋध॒ग्जोष॑ति॒ त्वे ॥८
अव॑ । नः॒ । वृ॒जि॒ना । शि॒शी॒हि॒ । ऋ॒चा । व॒ने॒म॒ । अ॒नृचः॑ ।
न । अब्र॑ह्मा । य॒ज्ञः । ऋध॑क् । जोष॑ति । त्वे इति॑ ॥८
अव । नः । वृजिना । शिशीहि । ऋचा । वनेम । अनृचः ।
न । अब्रह्मा । यज्ञः । ऋधक् । जोषति । त्वे इति ॥८
हे इन्द्र “नः अस्माकं “वृजिना वृजिनानि वर्जनीयानि पापानि “अव “शिशीहि अत्यर्थं तनूकुरु । विनाशयेत्यर्थः । वयं च “ऋचा स्तुत्या साधनेन “अनृचः अस्तुतिकानयजमानान् “वनेम हिंसाम । “अब्रह्मा । ब्रह्म परिवृढं स्तोत्रम् । स्तुतिविरहितः “यज्ञः “ऋधक् सस्तुतिकाद्यज्ञात्पृथग्भूतः “त्वे त्वयि “न “जोषति न सेवते त्वाम् । न प्रीणयतीत्यर्थः । ‘ जुषी प्रीतिसेवनयोः । व्यत्ययेन शप् परस्मैपदं च ।।
ऊ॒र्ध्वा यत्ते॑ त्रे॒तिनी॒ भूद्य॒ज्ञस्य॑ धू॒र्षु सद्म॑न् ।
स॒जूर्नावं॒ स्वय॑शसं॒ सचा॒योः ॥९
ऊ॒र्ध्वा । यत् । ते॒ । त्रे॒तिनी॑ । भूत् । य॒ज्ञस्य॑ । धूः॒ऽसु । सद्म॑न् ।
स॒ऽजूः । नाव॑म् । स्वऽय॑शसम् । सचा॑ । आ॒योः ॥९
ऊर्ध्वा । यत् । ते । त्रेतिनी । भूत् । यज्ञस्य । धूःऽसु । सद्मन् ।
सऽजूः । नावम् । स्वऽयशसम् । सचा । आयोः ॥९
हे इन्द्र “ते तव स्वभूता “त्रेतिनी । त्रेताग्नित्रयम् । तद्वती त्रेतिनी क्रिया । सा “यत् यदा “ऊर्ध्वा उन्नता प्रवृत्ता “भूत् अभूत् । यद्योगादनिघातः । कुत्र स्थाने इति । "यज्ञस्य यागस्य “सद्मन् सदने । केष्विति । “धूर्षु कर्मणां वोढृष्वृत्विक्षु । तदानीं “सजूः यजमानेन मरुद्भिर्वा सह प्रीयमाणः सन् “आयोः मनुष्यस्य यजमानस्य “सचा सह तेन सां “स्वायत्तयशस्कं यशःसाधनं “नावं तरणसाधनं तरणिम् । आरोहसीति शेषः । एकमेव रथं यजमान आरोहति स्वतरणार्थं तदेव तस्य साधकमारोहसीत्यर्थः । यद्वा । नावं रथं स्वयशसमायोर्यजमानस्य सचा सहायभूतः सजूस्तेन सह प्रीयमाण आरोहेत्यर्थः ॥
श्रि॒ये ते॒ पृश्नि॑रुप॒सेच॑नी भूच्छ्रि॒ये दर्वि॑ररे॒पाः ।
यया॒ स्वे पात्रे॑ सिं॒चस॒ उत् ॥१०
श्रि॒ये । ते॒ । पृश्निः॑ । उ॒प॒ऽसेच॑नी । भू॒त् । श्रि॒ये । दर्विः॑ । अ॒रे॒पाः ।
यया॑ । स्वे । पात्रे॑ । सि॒ञ्चसे॑ । उत् ॥१०
श्रिये । ते । पृश्निः । उपऽसेचनी । भूत् । श्रिये । दर्विः । अरेपाः ।
यया । स्वे । पात्रे । सिञ्चसे । उत् ॥१०
हे इन्द्र' “ते तव संबन्धिनः सोमस्य “श्रिये श्रयणाय “पृश्निः गौः पृश्निवर्णा उपसेचनी पयसो दोग्ध्रीन् “भूत भवतु । तथा “दर्विः अपि “अरेपाः अपापा सती ते “श्रिये हविषः श्रयणाय "भूत् भवतु । “यया दर्व्या “स्वे स्वकीये पात्रे पानसाधने मुखे “उत् सिञ्चसे उपर्याकृष्य पिबसि सा श्रियेऽभूदिति संबन्धः ॥
श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् ।
आवो॒ यद्द॑स्यु॒हत्ये॑ कुत्सपु॒त्रं प्रावो॒ यद्द॑स्यु॒हत्ये॑ कुत्सव॒त्सम् ॥११
श॒तम् । वा॒ । यत् । अ॒सु॒र्य॒ । प्रति॑ । त्वा॒ । सु॒ऽमि॒त्रः । इ॒त्था । अ॒स्तौ॒त् । दुः॒ऽमि॒त्रः । इ॒त्था । अ॒स्तौ॒त् ।
आवः॑ । यत् । द॒स्यु॒ऽहत्ये॑ । कु॒त्स॒ऽपु॒त्रम् । प्र । आवः॑ । यत् । द॒स्यु॒ऽहत्ये॑ । कु॒त्स॒ऽव॒त्सम् ॥११
शतम् । वा । यत् । असुर्य । प्रति । त्वा । सुऽमित्रः । इत्था । अस्तौत् । दुःऽमित्रः । इत्था । अस्तौत् ।
आवः । यत् । दस्युऽहत्ये । कुत्सऽपुत्रम् । प्र । आवः । यत् । दस्युऽहत्ये । कुत्सऽवत्सम् ॥११
हे “असुर्य बलवन्निन्द्र । अवध्यत्वेनासुरसंबन्धित्वात् । “त्वा त्वां “प्रति “शतं “वा शतसंख्याकं धनम् । वाशब्देनापरिमितं धनं वा । यत् यदा कामितवानित्यर्थः । “यत् यदा च “दस्युहत्ये दस्युहनने शत्रुवधे "कुत्सपुत्रं दुर्मित्रम् “आवः रक्षितवानसि । तथा “कुत्सवत्सं कुत्सपुत्रं “प्रावः प्रकर्षेण रक्षितवानसि । अव रक्षणादौ । लङि ‘ आडजादीनाम्' इत्याडागमः। पाददित्वादनिघातः । पुनरुक्तिरादरार्था । तदानीं “सुमित्रः नाम्नेत्थम् “अस्तौत् । तथा “दुर्मित्रः गुणत इत्थम् “अस्तौत् । तद्विपरीतं वा द्रष्टव्यम् । “सुमित्रो नाम्ना दुर्मित्रो गुणतः' इति कात्यायनेन तथोक्तेः । स “इत्था इत्थमनेन कृतप्रकारेणास्तौत् अस्तावीत् । इत्थास्तौदिति द्विरुक्तिः स्तुतिसमाप्त्यर्था ॥ ॥ २७ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।।
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्येऽष्टमाष्टके पञ्चमोऽध्यायः ।।
मण्डल १० | ||||
---|---|---|---|---|