ऋग्वेदः सूक्तं १०.३९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.३९ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.३८ ऋग्वेदः - मण्डल १०
सूक्तं १०.३९
काक्षीवती घोषा
सूक्तं १०.४० →
दे. अश्विनौ। जगती, १४ त्रिष्टुप्


यो वां परिज्मा सुवृदश्विना रथो दोषामुषासो हव्यो हविष्मता ।
शश्वत्तमासस्तमु वामिदं वयं पितुर्न नाम सुहवं हवामहे ॥१॥
चोदयतं सूनृताः पिन्वतं धिय उत्पुरंधीरीरयतं तदुश्मसि ।
यशसं भागं कृणुतं नो अश्विना सोमं न चारुं मघवत्सु नस्कृतम् ॥२॥
अमाजुरश्चिद्भवथो युवं भगोऽनाशोश्चिदवितारापमस्य चित् ।
अन्धस्य चिन्नासत्या कृशस्य चिद्युवामिदाहुर्भिषजा रुतस्य चित् ॥३॥
युवं च्यवानं सनयं यथा रथं पुनर्युवानं चरथाय तक्षथुः ।
निष्टौग्र्यमूहथुरद्भ्यस्परि विश्वेत्ता वां सवनेषु प्रवाच्या ॥४॥
पुराणा वां वीर्या प्र ब्रवा जनेऽथो हासथुर्भिषजा मयोभुवा ।
ता वां नु नव्याववसे करामहेऽयं नासत्या श्रदरिर्यथा दधत् ॥५॥
इयं वामह्वे शृणुतं मे अश्विना पुत्रायेव पितरा मह्यं शिक्षतम् ।
अनापिरज्ञा असजात्यामतिः पुरा तस्या अभिशस्तेरव स्पृतम् ॥६॥
युवं रथेन विमदाय शुन्ध्युवं न्यूहथुः पुरुमित्रस्य योषणाम् ।
युवं हवं वध्रिमत्या अगच्छतं युवं सुषुतिं चक्रथुः पुरंधये ॥७॥
युवं विप्रस्य जरणामुपेयुषः पुनः कलेरकृणुतं युवद्वयः ।
युवं वन्दनमृश्यदादुदूपथुर्युवं सद्यो विश्पलामेतवे कृथः ॥८॥
युवं ह रेभं वृषणा गुहा हितमुदैरयतं ममृवांसमश्विना ।
युवमृबीसमुत तप्तमत्रय ओमन्वन्तं चक्रथुः सप्तवध्रये ॥९॥
युवं श्वेतं पेदवेऽश्विनाश्वं नवभिर्वाजैर्नवती च वाजिनम् ।
चर्कृत्यं ददथुर्द्रावयत्सखं भगं न नृभ्यो हव्यं मयोभुवम् ॥१०॥
न तं राजानावदिते कुतश्चन नांहो अश्नोति दुरितं नकिर्भयम् ।
यमश्विना सुहवा रुद्रवर्तनी पुरोरथं कृणुथः पत्न्या सह ॥११॥
आ तेन यातं मनसो जवीयसा रथं यं वामृभवश्चक्रुरश्विना ।
यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः ॥१२॥
ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वतं शयवे धेनुमश्विना ।
वृकस्य चिद्वर्तिकामन्तरास्याद्युवं शचीभिर्ग्रसिताममुञ्चतम् ॥१३॥
एतं वां स्तोममश्विनावकर्मातक्षाम भृगवो न रथम् ।
न्यमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं दधानाः ॥१४॥

सायणभाष्यम्

‘यो वाम्' इति चतुर्दशर्चं दशमं सूक्तम् । कक्षीवतो दुहिता घोषा नाम ब्रह्मवादिन्यृषिः । अन्त्या त्रिष्टुप् । शिष्टा जगत्यः । अश्विनौ देवता । तथा चानुक्रान्तं -- यो वां षळूना काक्षीवती घोषाश्विनं हि त्रिष्टुबन्तम्' इति । प्रातरबुवाकाश्विनशस्त्रयोर्जागते छन्दसीदमादीनि त्रीणि सूक्तानि । सूत्रितं च--- यो वां परिज्मेति त्रीणि त्रिश्चिन्नो अद्य ' ( अश्व. श्रौ. ४. १५) इति ॥


यो वां॒ परि॑ज्मा सु॒वृद॑श्विना॒ रथो॑ दो॒षामु॒षासो॒ हव्यो॑ ह॒विष्म॑ता ।

श॒श्व॒त्त॒मास॒स्तमु॑ वामि॒दं व॒यं पि॒तुर्न नाम॑ सु॒हवं॑ हवामहे ॥१

यः । वा॒म् । परि॑ऽज्मा । सु॒ऽवृत् । अ॒श्वि॒ना॒ । रथः॑ । दो॒षाम् । उ॒षसः॑ । हव्यः॑ । ह॒विष्म॑ता ।

श॒श्व॒त्ऽत॒मासः॑ । तम् । ऊं॒ इति॑ । वा॒म् । इ॒दम् । व॒यम् । पि॒तुः । न । नाम॑ । सु॒ऽहव॑म् । ह॒वा॒म॒हे॒ ॥

यः । वाम् । परिऽज्मा । सुऽवृत् । अश्विना । रथः । दोषाम् । उषसः । हव्यः । हविष्मता ।

शश्वत्ऽतमासः । तम् । ऊं इति । वाम् । इदम् । वयम् । पितुः । न । नाम । सुऽहवम् । हवामहे ॥

हे “अश्विना अश्विनौ "वां युवयोः “परिज्मा परितो गन्ता "सुवृत् सुष्ठु वर्तमानः “यः “रथः “दोषां रात्रिम् “उषसः च । अहोरात्रयोरित्यर्थः । “हविष्मता यजमानेन “हव्यः ह्वातव्यः “वां युवयोः स्वभूतं “सुहवं शोभनाह्वानं “तमु तमेव रथं “शश्वत्तमासः अतिशयेन चिरंतना वयं “पितुर्न यथा “पितुः “इदं “नाम तथा “हवामहे ह्वयामः ॥


चो॒दय॑तं सू॒नृताः॒ पिन्व॑तं॒ धिय॒ उत्पुरं॑धीरीरयतं॒ तदु॑श्मसि ।

य॒शसं॑ भा॒गं कृ॑णुतं नो अश्विना॒ सोमं॒ न चारुं॑ म॒घव॑त्सु नस्कृतं ॥२

चो॒दय॑तम् । सू॒नृताः॑ । पिन्व॑तम् । धियः॑ । उत् । पुर॑म्ऽधीः । ई॒र॒य॒त॒म् । तत् । उ॒श्म॒सि॒ ।

य॒शस॑म् । भा॒गम् । कृ॒णु॒त॒म् । नः॒ । अ॒श्वि॒ना॒ । सोम॑म् । न । चारु॑म् । म॒घव॑त्ऽसु । नः॒ । कृ॒त॒म् ॥

चोदयतम् । सूनृताः । पिन्वतम् । धियः । उत् । पुरम्ऽधीः । ईरयतम् । तत् । उश्मसि ।

यशसम् । भागम् । कृणुतम् । नः । अश्विना । सोमम् । न । चारुम् । मघवत्ऽसु । नः । कृतम् ॥

हे “अश्विना अश्विनौ युवां “सूनृताः वाच उषसो वा “चोदयतं प्रेरयतम् । अस्माकं “धियः कर्माणि च “पिन्वतं पूरयतम् । “पुरंधीः बह्वीः प्रज्ञाश्च “उत् “ईरयतम् उद्गमयतं प्रेरयतम् । उत्पादयतमित्यर्थः। “तत् एतत्त्रयम् “उश्मसि वयं कामयामहे । किंच “नः अस्माकं “यशसं यशस्विनं “भागं भजनीयं धनादिकं “कृणुतं कुरुतम् । “चारुं कल्याणं “सोमं “न सोममिव “नः अस्मान “मघवत्सु धनवत्सु “कृतं कुरुतम् ॥


अ॒मा॒जुर॑श्चिद्भवथो यु॒वं भगो॑ऽना॒शोश्चि॑दवि॒तारा॑प॒मस्य॑ चित् ।

अं॒धस्य॑ चिन्नासत्या कृ॒शस्य॑ चिद्यु॒वामिदा॑हुर्भि॒षजा॑ रु॒तस्य॑ चित् ॥३

अ॒मा॒ऽजुरः॑ । चि॒त् । भ॒व॒थः॒ । यु॒वम् । भगः॑ । अ॒ना॒शोः । चि॒त् । अ॒वि॒तारा॑ । अ॒प॒मस्य॑ । चि॒त् ।

अ॒न्धस्य॑ । चि॒त् । ना॒स॒त्या॒ । कृ॒शस्य॑ । चि॒त् । यु॒वाम् । इत् । आ॒हुः॒ । भि॒षजा॑ । रु॒तस्य॑ । चि॒त् ॥

अमाऽजुरः । चित् । भवथः । युवम् । भगः । अनाशोः । चित् । अवितारा । अपमस्य । चित् ।

अन्धस्य । चित् । नासत्या । कृशस्य । चित् । युवाम् । इत् । आहुः । भिषजा । रुतस्य । चित् ॥

हे “नासत्या नासत्यौ “युवं युवाम् “अमाजुरश्चित् पितृगृहे जूर्यन्त्या अपि दुर्भगाया घोषायाः “भगः “भवथः । शोभनरूपेणात्मानं परिणमय्य पतिं दत्तवन्तौ स्थ इत्यर्थः । तथा च निगमान्तरं--- ‘घोषायै चित्पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम् ' ( ऋ. सं. १. ११७. ७) इति । “अनाशोश्चित् अनशनस्यापि “अवितारा रक्षितारौ युवां भवथः । “अपमस्य “चित् जात्यातिनिकृष्टस्यापि रक्षितारौ भवथः । “अन्धस्य “चित् चक्षुर्विकलस्यापि रक्षितारौ भवथः । “कृशस्य “चित् दुर्बलस्यापि रक्षितारौ भवथः । किंच “युवामित् युवामेव “ऋतस्य “चित् यज्ञस्यापि भिषजौ वैद्यौ “आहुः विद्वांसः ॥ .


यु॒वं च्यवा॑नं स॒नयं॒ यथा॒ रथं॒ पुन॒र्युवा॑नं च॒रथा॑य तक्षथुः ।

निष्टौ॒ग्र्यमू॑हथुर॒द्भ्यस्परि॒ विश्वेत्ता वां॒ सव॑नेषु प्र॒वाच्या॑ ॥४

यु॒वम् । च्यवा॑नम् । स॒नय॑म् । यथा॑ । रथ॑म् । पुनः॑ । युवा॑नम् । च॒रथा॑य । त॒क्ष॒थुः॒ ।

निः । तौ॒ग्र्यम् । ऊ॒ह॒थुः॒ । अ॒त्ऽभ्यः । परि॑ । विश्वा॑ । इत् । ता । वा॒म् । सव॑नेषु । प्र॒ऽवाच्या॑ ॥

युवम् । च्यवानम् । सनयम् । यथा । रथम् । पुनः । युवानम् । चरथाय । तक्षथुः ।

निः । तौग्र्यम् । ऊहथुः । अत्ऽभ्यः । परि । विश्वा । इत् । ता । वाम् । सवनेषु । प्रऽवाच्या ॥

हे अश्विनौ "युवं युवां “सनयं पुराणं “च्यवानम् ऋषिं यथा “रथं जीर्णं रथमिव “पुनर्युवानं तरुणं “चरथाय चरणार्थं “तक्षथुः ततक्षथुः । अकुरुतमित्यर्थः । तथा च यास्कः-- युवं च्यवानं सनयं पुराणं यथा रथं पुनर्युवानं चरणाय ततक्षथुर्युवा प्रयौति कर्माणि तक्षतिः करोतिकर्मा ' (निरु. ४. १९) इति । किंच युवां “तौग्र्यं तुग्रपुत्रं भुज्युम् “अद्भ्यः “परि समुद्रस्योपरि “निः “ऊहथुः । किंच “वां युवयोः “विश्वा विश्वानि “ता तानि कर्माणि “सवनेषु यज्ञेषु “प्रवाच्या प्रवाच्यानि प्रकर्षेण वक्तव्यानि ।।


पु॒रा॒णा वां॑ वी॒र्या॒३॒॑ प्र ब्र॑वा॒ जनेऽथो॑ हासथुर्भि॒षजा॑ मयो॒भुवा॑ ।

ता वां॒ नु नव्या॒वव॑से करामहे॒ऽयं ना॑सत्या॒ श्रद॒रिर्यथा॒ दध॑त् ॥५

पु॒रा॒णा । वा॒म् । वी॒र्या॑ । प्र । ब्र॒व॒ । जने॑ । अथो॒ इति॑ । ह॒ । आ॒स॒थुः॒ । भि॒षजा॑ । म॒यः॒ऽभुवा॑ ।

ता । वा॒म् । नु । नव्यौ॑ । अव॑से । क॒रा॒म॒हे॒ । अ॒यम् । ना॒स॒त्या॒ । श्रत् । अ॒रिः । यथा॑ । दध॑त् ॥

पुराणा । वाम् । वीर्या । प्र । ब्रव । जने । अथो इति । ह । आसथुः । भिषजा । मयःऽभुवा ।

ता । वाम् । नु । नव्यौ । अवसे । करामहे । अयम् । नासत्या । श्रत् । अरिः । यथा । दधत् ॥

हे अश्विनौ “वां युवयोः “पुराणा पुराणानि वीर्याणि "जने लोके “प्र “ब्रव प्रब्रवीमि । “अथो अपि च हे “नासत्या नासत्यौ युवां “मयोभुवा सुखस्य भावयितारौ “भिषजा भिषजौ वैद्यौ “आसथुः बभूवथुः। “ता तौ युवाम् “अवसे रक्षणाय “नव्यौ स्तुत्यौ “करामहे कुर्मः । “अयम् “अरिः गन्ता पतिर्यजमानः यथा “श्रत् दधत् श्रद्दध्यादिति ॥ ॥ १५ ॥


इ॒यं वा॑मह्वे शृणु॒तं मे॑ अश्विना पु॒त्राये॑व पि॒तरा॒ मह्यं॑ शिक्षतं ।

अना॑पि॒रज्ञा॑ असजा॒त्याम॑तिः पु॒रा तस्या॑ अ॒भिश॑स्ते॒रव॑ स्पृतं ॥६

इ॒यम् । वा॒म् । अ॒ह्वे॒ । शृ॒णु॒तम् । मे॒ । अ॒श्वि॒ना॒ । पु॒त्राय॑ऽइव । पि॒तरा॑ । मह्य॑म् । शि॒क्ष॒त॒म् ।

अना॑पिः । अज्ञाः॑ । अ॒स॒जा॒त्या । अम॑तिः । पु॒रा । तस्याः॑ । अ॒भिऽश॑स्तेः । अव॑ । स्पृ॒त॒म् ॥

इयम् । वाम् । अह्वे । शृणुतम् । मे । अश्विना । पुत्रायऽइव । पितरा । मह्यम् । शिक्षतम् ।

अनापिः । अज्ञाः । असजात्या । अमतिः । पुरा । तस्याः । अभिऽशस्तेः । अव । स्पृतम् ॥

हे “अश्विना अश्विनौ “वां युवाम् “इयं घोषा अहम् “अह्वे आह्वयामि । “मे मम संबन्धिनम् इममाह्वानं “शृणुतम् । श्रुत्वा चाह्वानं “मह्यं “पुत्रायेव यथा पुत्राय “पितरा मातापितरौ तद्वत् “शिक्षतं धनं दत्तम् । “अनापिः अबन्धुः “अज्ञा अकृतज्ञा असजात्यामतिः अश्रद्धेया चाभिशस्तिः मामागच्छति । “तस्या अभिशस्तेः “पुरा प्रागेव “अव “स्पृतं मामवपारयतम् ॥


यु॒वं रथे॑न विम॒दाय॑ शुं॒ध्युवं॒ न्यू॑हथुः पुरुमि॒त्रस्य॒ योष॑णां ।

यु॒वं हवं॑ वध्रिम॒त्या अ॑गच्छतं यु॒वं सुषु॑तिं चक्रथुः॒ पुरं॑धये ॥७

यु॒वम् । रथे॑न । वि॒ऽम॒दाय॑ । शु॒न्ध्युव॑म् । नि । ऊ॒ह॒थुः॒ । पु॒रु॒ऽमि॒त्रस्य॑ । योष॑णाम् ।

यु॒वम् । हव॑म् । व॒ध्रि॒ऽम॒त्याः । अ॒ग॒च्छ॒त॒म् । यु॒वम् । सुऽसु॑तिम् । च॒क्र॒थुः॒ । पुर॑म्ऽधये ॥

युवम् । रथेन । विऽमदाय । शुन्ध्युवम् । नि । ऊहथुः । पुरुऽमित्रस्य । योषणाम् ।

युवम् । हवम् । वध्रिऽमत्याः । अगच्छतम् । युवम् । सुऽसुतिम् । चक्रथुः । पुरम्ऽधये ॥

हे अश्विनौ “युवं युवां “पुरुमित्रस्य पुरुमित्रनामधेयस्य “योषणां दुहितरं “शुन्ध्युवं नाम जायां “विमदाय विमदनामधेयाय ऋषये “रथेन स्वसेनापरिवृतेन रथेन “न्यूहथुः प्रापयतम् । विमदस्य गृहं नीतवन्तौ स्थ इत्यर्थः। तथा च निगमान्तरं --' यावर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन ' ( ऋ. सं. १, ११६. १) इति । किंच “युवं युवां “वध्रिमत्याः संग्रामे शत्रुभिश्छिन्नहस्तायाः "हवम् आह्वानम् “अगच्छतम् । आगत्य च तस्यै हिरण्मयं हस्तं प्रायच्छतम् । तथा च निगमान्तरम् ---' अजोहवीन्नासत्या करा वां महे यामन् पुरुभुजा पुरंधिः । श्रुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम् ' ( ऋ. सं. १. ११६. १३ ) इति । किंच “युवं युवां “पुरंधये बहुप्रज्ञायै वध्रिमत्यै “सुषुतिं सुप्रसवं शोभनमैश्वर्यं वा “चक्रथुः कृतवन्तौ स्थः ॥


यु॒वं विप्र॑स्य जर॒णामु॑पे॒युषः॒ पुनः॑ क॒लेर॑कृणुतं॒ युव॒द्वयः॑ ।

यु॒वं वंद॑नमृश्य॒दादुदू॑पथुर्यु॒वं स॒द्यो वि॒श्पला॒मेत॑वे कृथः ॥८

यु॒वम् । विप्र॑स्य । ज॒र॒णाम् । उ॒प॒ऽई॒युषः॑ । पुन॒रिति॑ । क॒लेः । अ॒कृ॒णु॒त॒म् । युव॑त् । वयः॑ ।

यु॒वम् । वन्द॑नम् । ऋ॒श्य॒ऽदात् । उत् । ऊ॒प॒थुः॒ । यु॒वम् । स॒द्यः । वि॒श्पला॑म् । एत॑वे । कृ॒थः॒ ॥

युवम् । विप्रस्य । जरणाम् । उपऽईयुषः । पुनरिति । कलेः । अकृणुतम् । युवत् । वयः ।

युवम् । वन्दनम् । ऋश्यऽदात् । उत् । ऊपथुः । युवम् । सद्यः । विश्पलाम् । एतवे । कृथः ॥

हे अश्विनौ "युवं युवां “विप्रस्य मेधाविनः "जरणां जराम् “उपेयुषः उपगतवतः "कलेः कलिनामधेयस्य ऋषेः "वयः पुनः पुनरपि “युवत् युवत्वयुक्तम् “अकृणुतम् अकुरुतम् । तथा च निगमान्तरं- कलिं याभिर्वित्तजानिं दुवस्यथः' (ऋ. सं. १. ११२. १५) इति । किंच “युवं युवां “वन्दनं जायावियोगसंतापेन कूपपतितं वन्दनाख्यमृषिम् “ऋश्यदात् कूपात् "उदूपथुः उदैरयतम् । तथा निगमान्तरम् - ’उद्वन्दनमैरयतं स्वर्दृशे' (ऋ. सं. १. ११२. ५) इति । किंच “युवं युवां “विश्पलाम् । खेलस्य राज्ञः सेनायां योद्ध्री विश्पला नाम काचित् स्त्री । तां संग्रामे शत्रुभिश्छिन्नजङ्घां “सद्यः तदैव “एतवे गमनाय “कृथः अकुरुतम् । तथा च निगमान्तरं- चरित्रं हि वेरिवाच्छेदि पर्णमाजा खेलस्य परितक्म्यायाम् । सद्यो जङ्घामायसीं विश्पलायै धने हिते सर्तवे प्रत्यधत्तम्' (ऋ. सं. १. ११६. १५) इति ॥


यु॒वं ह॑ रे॒भं वृ॑षणा॒ गुहा॑ हि॒तमुदै॑रयतं ममृ॒वांस॑मश्विना ।

यु॒वमृ॒बीस॑मु॒त त॒प्तमत्र॑य॒ ओम॑न्वंतं चक्रथुः स॒प्तव॑ध्रये ॥९

यु॒वम् । ह॒ । रे॒भम् । वृ॒ष॒णा॒ । गुहा॑ । हि॒तम् । उत् । ऐ॒र॒य॒त॒म् । म॒मृ॒ऽवांस॑म् । अ॒श्वि॒ना॒ ।

यु॒वम् । ऋ॒बीस॑म् । उ॒त । त॒प्तम् । अत्र॑ये । ओम॑न्ऽवन्तम् । च॒क्र॒थुः॒ । स॒प्तऽव॑ध्रये ॥

युवम् । ह । रेभम् । वृषणा । गुहा । हितम् । उत् । ऐरयतम् । ममृऽवांसम् । अश्विना ।

युवम् । ऋबीसम् । उत । तप्तम् । अत्रये । ओमन्ऽवन्तम् । चक्रथुः । सप्तऽवध्रये ॥

हे “वृषणा वर्षितारौ “अश्विना अश्विनौ “युवं युवां “गुहा गुहायां “हितम् असुरैर्निहितं "ममृवांसं म्रियमाणं “रेभं रेभाख्यमृषिम् “उदैरयतम् उत्तारितवन्तौ स्थः । तथा च निगमान्तरं -- 'दश रात्रीरशिवेना नव द्यूनवनद्धं श्नथितमप्स्वन्तः । विप्रुतं रेभमुदनि प्रवृक्तमुन्निन्यथुः सोममिव स्रुवेण ' ( ऋ. सं. १. ११६. २४ ) इति । “उत किंच “युवं युवां “तप्तम् “ऋबीसम् अग्निकुण्डम् “अत्रये अत्रेरर्थाय “ओमन्वन्तम् अवनवन्तं “चक्रथुः । वृष्ट्या निशमय्य शीतं कृतवन्तौ स्थ इत्यर्थः। तथा च निगमान्तरं -- हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम् । ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति' ( ऋ. सं. १, ११६. ८) इति । किंच युवां “सप्तवध्रये अश्वमेधेन राज्ञा केनचिदपराधेन काष्ठमयमञ्जूषायां निहितस्य सप्तवाध्रिनामधेयस्य ऋषेरर्थाय चक्रथुः । मञ्जूषोद्घाटनं कृतवन्तौ स्थ इत्यर्थः । तथा च निगमान्तरं -- वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव । श्रुतं मे अश्विना हवं सप्तवध्रिं च मुञ्चतम्' ( ऋ. सं. ५: ७८. ५) इति ॥


यु॒वं श्वे॒तं पे॒दवे॑ऽश्वि॒नाश्वं॑ न॒वभि॒र्वाजै॑र्नव॒ती च॑ वा॒जिनं॑ ।

च॒र्कृत्यं॑ ददथुर्द्राव॒यत्स॑खं॒ भगं॒ न नृभ्यो॒ हव्यं॑ मयो॒भुवं॑ ॥१०

यु॒वम् । श्वे॒तम् । पे॒दवे॑ । अ॒श्वि॒ना॒ । अश्व॑म् । न॒वऽभिः॑ । वाजैः॑ । न॒व॒ती । च॒ । वा॒जिन॑म् ।

च॒र्कृत्य॑म् । द॒द॒थुः॒ । द्र॒व॒यत्ऽस॑खम् । भग॑म् । न । नृऽभ्यः॑ । हव्य॑म् । म॒यः॒ऽभुव॑म् ॥

युवम् । श्वेतम् । पेदवे । अश्विना । अश्वम् । नवऽभिः । वाजैः । नवती । च । वाजिनम् ।

चर्कृत्यम् । ददथुः । द्रवयत्ऽसखम् । भगम् । न । नृऽभ्यः । हव्यम् । मयःऽभुवम् ॥

हे “अश्विना अश्विनौ "युवं युवां “पेदवे पेदुनामधेयाय राज्ञे “श्वेतं श्वेतवर्णं “वाजिनं बलिनं “नवभिः “नवती नवत्याश्वैः सहितं “चर्कृत्यं संग्रामाणामत्यर्थं कर्तारं शत्रूणां जेतारं वा “द्रवयत्सखं शत्रुसखीनां द्रावयितारं “हव्यं ह्वातव्यं “मयोभुवं सुखस्य भावयितारम् “अश्वं “नृभ्यः मनुष्येभ्यः “भगं “न भजनीयं धनमिव “ददथुः प्रायच्छतम् ॥ ॥ १६ ॥


न तं रा॑जानावदिते॒ कुत॑श्च॒न नांहो॑ अश्नोति दुरि॒तं नकि॑र्भ॒यं ।

यम॑श्विना सुहवा रुद्रवर्तनी पुरोर॒थं कृ॑णु॒थः पत्न्या॑ स॒ह ॥११

न । तम् । रा॒जा॒नौ॒ । अ॒दि॒ते॒ । कुतः॑ । च॒न । न । अंहः॑ । अ॒श्नो॒ति॒ । दुः॒ऽइ॒तम् । नकिः॑ । भ॒यम् ।

यम् । अ॒श्वि॒ना॒ । सु॒ऽह॒वा॒ । रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी । पु॒रः॒ऽर॒थम् । कृ॒णु॒थः । पत्न्या॑ । स॒ह ॥

न । तम् । राजानौ । अदिते । कुतः । चन । न । अंहः । अश्नोति । दुःऽइतम् । नकिः । भयम् ।

यम् । अश्विना । सुऽहवा । रुद्रवर्तनी इति रुद्रऽवर्तनी । पुरःऽरथम् । कृणुथः । पत्न्या । सह ॥

हे “राजानौ ईश्वरौ “अदिते अदीनौ सुहवौ स्वाह्वानौ “रुद्रवर्तनी स्तोत्रयुक्तमार्गौ हे “अश्विना अश्विनौ युवां “यं जनं “पुरोरथम् अग्रतोरथं "पत्न्या "सह स्वयंवरे “कृणुथः कुरुथः “तं जनं “कुतश्चन कुतोऽपि "अंहः पापं न “अश्नोति न व्याप्नोति । “दुरितं दुर्गतिरपि “न अश्नोति । “नकिः न च “भयं संसारभयं न प्राप्नोति ॥


आ तेन॑ यातं॒ मन॑सो॒ जवी॑यसा॒ रथं॒ यं वा॑मृ॒भव॑श्च॒क्रुर॑श्विना ।

यस्य॒ योगे॑ दुहि॒ता जाय॑ते दि॒व उ॒भे अह॑नी सु॒दिने॑ वि॒वस्व॑तः ॥१२

आ । तेन॑ । या॒त॒म् । मन॑सः । जवी॑यसा । रथ॑म् । यम् । वा॒म् । ऋ॒भवः॑ । च॒क्रुः । अ॒श्वि॒ना॒ ।

यस्य॑ । योगे॑ । दु॒हि॒ता । जाय॑ते । दि॒वः । उ॒भे इति॑ । अह॑नी॒ इति॑ । सु॒दिने॒ इति॑ सु॒ऽदिने॑ । वि॒वस्व॑तः ॥

आ । तेन । यातम् । मनसः । जवीयसा । रथम् । यम् । वाम् । ऋभवः । चक्रुः । अश्विना ।

यस्य । योगे । दुहिता । जायते । दिवः । उभे इति । अहनी इति । सुदिने इति सुऽदिने । विवस्वतः ॥

हे अश्विना अश्विनौ “वां युवयोः “यं “रथम् “ऋभवश्चक्रुः अकार्षुः “यस्य रथस्य “योगे संबन्धे सति “दिवः “दुहिता उषाः “जायते प्रादुर्भवति यस्य च योगे “विवस्वतः भास्करात् “उभे "अहनी अहोरात्रे “सुदिने शोभने जायेते “तेन रथेन “मनसः अपि “जवीयसा वेगवत्तरेण “आ “यातं युवामागच्छतम् ॥


ता व॒र्तिर्या॑तं ज॒युषा॒ वि पर्व॑त॒मपि॑न्वतं श॒यवे॑ धे॒नुम॑श्विना ।

वृक॑स्य चि॒द्वर्ति॑कामं॒तरा॒स्या॑द्यु॒वं शची॑भिर्ग्रसि॒ताम॑मुंचतं ॥१३

ता । व॒र्तिः । या॒त॒म् । ज॒युषा॑ । वि । पर्व॑तम् । अपि॑न्वतम् । श॒यवे॑ । धे॒नुम् । अ॒श्वि॒ना॒ ।

वृक॑स्य । चि॒त् । वर्ति॑काम् । अ॒न्तः । आ॒स्या॑त् । यु॒वम् । शची॑भिः । ग्र॒सि॒ताम् । अ॒मु॒ञ्च॒त॒म् ॥

ता । वर्तिः । यातम् । जयुषा । वि । पर्वतम् । अपिन्वतम् । शयवे । धेनुम् । अश्विना ।

वृकस्य । चित् । वर्तिकाम् । अन्तः । आस्यात् । युवम् । शचीभिः । ग्रसिताम् । अमुञ्चतम् ॥

हे “अश्विना अश्विनौ “ता तौ युवां “जयुषा जयशीलेन रथेन “पर्वतम् अद्रिं प्रति “वर्तिः मार्गं “वि “यातं विविधं गच्छथः। तथा च निगमान्तरं -- वि जयुषा रथ्या यातमद्रिं श्रुतं हवं वृषणा वध्रिमत्याः' (ऋ. सं. ६. ६२. ७) इति । किंच युवां “शयवे शयोरर्थाय “धेनुम् अपिन्वतम् । निवृत्तप्रसवां वृद्धां गां प्रभूतस्य पयसो दोग्ध्रीं कृतवन्तौ स्थ इत्यर्थः। तथा च निगमान्तरं -- ’युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय ' (ऋ. सं. १. ११८. ४) इति । किंच “युवं युवां “वृकस्य “अन्तः अनुप्रविष्टां “ग्रसितां वृकेण ग्रस्तां “वर्तिकाम् । वर्तिका नाम चटका। ताम् “आस्यात् वृकस्य मुखात् “शचीभिः प्रज्ञाभिः कर्मभिर्वा “अमुञ्चतम् अमोचयतम् । तथा च निगमान्तरम् - ‘अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य ' (ऋ. सं. १.११७.१६ ) इति ॥


ए॒तं वां॒ स्तोम॑मश्विनावक॒र्मात॑क्षाम॒ भृग॑वो॒ न रथं॑ ।

न्य॑मृक्षाम॒ योष॑णां॒ न मर्ये॒ नित्यं॒ न सू॒नुं तन॑यं॒ दधा॑नाः ॥१४

ए॒तम् । वा॒म् । स्तोम॑म् । अ॒श्वि॒नौ॒ । अ॒क॒र्म॒ । अत॑क्षाम । भृग॑वः । न । रथ॑म् ।

नि । अ॒मृ॒क्षा॒म॒ । योष॑णाम् । न । मर्ये॑ । नित्य॑म् । न । सू॒नुम् । तन॑यम् । दधा॑नाः ॥

एतम् । वाम् । स्तोमम् । अश्विनौ । अकर्म । अतक्षाम । भृगवः । न । रथम् ।

नि । अमृक्षाम । योषणाम् । न । मर्ये । नित्यम् । न । सूनुम् । तनयम् । दधानाः ॥

हे “अश्विना अश्विनौ “वां युवयोः “एतं यथोक्तं “स्तोमं स्तोत्रम् “अकर्म अकुर्म। तदेवाह । “भृगवो न भृगव इव “रथम् “अतक्षाम वयं स्तोत्रं संस्कृतवन्तः । कर्मयोगादृभवो भृगव उच्यन्ते । अथवा रथकारा भृगवः । किंच वयं “नित्यं शाश्वतं “तनयं यागादीनां कर्मणां तनितारं “सूनुं “न औरसं पुत्रमिव स्तोमं “दधानाः धारयन्तः “मयें मनुष्ये “न्यमृक्षाम। युवयोः स्तुतिं नितरां संस्कृतवन्तः । तत्र दृष्टान्तः । “योषणा “न । यथा जायां तद्वदित्यर्थः ॥ ॥ १७ ॥ (भृगवो न रथम् - द्र. ऋभवो न रथम् - ऋ. ४.१६.२०

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.३९&oldid=163661" इत्यस्माद् पुनः प्राप्तिः