ऋग्वेदः सूक्तं १०.४७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.४७ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.४६ ऋग्वेदः - मण्डल १०
सूक्तं १०.४७
सप्तगुराङ्गिरसः।
सूक्तं १०.४८ →
दे. वैकुण्ठ इन्द्रः। त्रिष्टुप्


जगृभ्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् ।
विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिं दाः ॥१॥
स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम् ।
चर्कृत्यं शंस्यं भूरिवारमस्मभ्यं चित्रं वृषणं रयिं दाः ॥२॥
सुब्रह्माणं देववन्तं बृहन्तमुरुं गभीरं पृथुबुध्नमिन्द्र ।
श्रुतऋषिमुग्रमभिमातिषाहमस्मभ्यं चित्रं वृषणं रयिं दाः ॥३॥
सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसं सुदक्षम् ।
दस्युहनं पूर्भिदमिन्द्र सत्यमस्मभ्यं चित्रं वृषणं रयिं दाः ॥४॥
अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजमिन्द्र ।
भद्रव्रातं विप्रवीरं स्वर्षामस्मभ्यं चित्रं वृषणं रयिं दाः ॥५॥
प्र सप्तगुमृतधीतिं सुमेधां बृहस्पतिं मतिरच्छा जिगाति ।
य आङ्गिरसो नमसोपसद्योऽस्मभ्यं चित्रं वृषणं रयिं दाः ॥६॥
वनीवानो मम दूतास इन्द्रं स्तोमाश्चरन्ति सुमतीरियानाः ।
हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः ॥७॥
यत्त्वा यामि दद्धि तन्न इन्द्र बृहन्तं क्षयमसमं जनानाम् ।
अभि तद्द्यावापृथिवी गृणीतामस्मभ्यं चित्रं वृषणं रयिं दाः ॥८॥


सायणभाष्यम्

‘जगृभ्मा ते' इत्यष्टर्चं पञ्चमं सूक्तमाङ्गिरसस्य सप्तगुनाम्न आर्षं त्रैष्टुभम् । विकुण्ठा नाम असुरस्त्री। सा चेन्द्रसदृशं पुत्रं कामयमाना कृच्छ्रचान्द्रायणादिकं तपस्तेपे । मत्सदृशोऽन्यः कश्चिन्मा जनिष्टेति बुद्ध्येन्द्र एव तस्याः पुत्रोऽजायत । तादृशो वैकुण्ठ इन्द्रो देवता। तथा चानुक्रान्तं -- ‘ जगृभ्माष्टौ सप्तगुर्वैकुण्ठमिन्द्रं तुष्टाव ' इत्यादि । गतो विनियोगः ॥


ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्तं॑ वसू॒यवो॑ वसुपते॒ वसू॑नाम् ।

वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑ः ॥१

ज॒गृ॒भ्म । ते॒ । दक्षि॑णम् । इ॒न्द्र॒ । हस्त॑म् । व॒सु॒ऽयवः॑ । व॒सु॒ऽप॒ते॒ । वसू॑नाम् ।

वि॒द्म । हि । त्वा॒ । गोऽप॑तिम् । शू॒र॒ । गोना॑म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥१

जगृभ्म । ते । दक्षिणम् । इन्द्र । हस्तम् । वसुऽयवः । वसुऽपते । वसूनाम् ।

विद्म । हि । त्वा । गोऽपतिम् । शूर । गोनाम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥१

“वसूनां “वसुपते बहूनां धनानां स्वामिन् हे “इन्द्र “ते तव “दक्षिणं "हस्तं “वसूयवः वसुकामा वयं “जगृभ्म गृह्णीमः । यथा बहुप्रदस्यार्थिनो मह्यमदत्त्वा न गन्तव्यमिति हस्तं गृह्णन्ति तद्वत् । हे "शूर विक्रान्तेन्द्र “त्वा त्वां “गोनां “गोपतिम् । अत्र वृत्त्यवृत्तिभ्यां स्वामित्वं बहुत्वं च प्रतिपाद्यते । बह्वीनां गवां गोपतिं “विद्म जानीमः । अतः “अस्मभ्यं “चित्रं चायनीयं “वृषणं वर्षकं “रयिं धनं “दाः देहि ॥


स्वा॒यु॒धं स्वव॑सं सुनी॒थं चतु॑ःसमुद्रं ध॒रुणं॑ रयी॒णाम् ।

च॒र्कृत्यं॒ शंस्यं॒ भूरि॑वारम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑ः ॥२

सु॒ऽआ॒यु॒धम् । सु॒ऽअव॑सम् । सु॒ऽनी॒थम् । चतुः॑ऽसमुद्रम् । ध॒रुण॑म् । र॒यी॒णाम् ।

च॒र्कृत्य॑म् । शंस्य॑म् । भूरि॑ऽवारम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥२

सुऽआयुधम् । सुऽअवसम् । सुऽनीथम् । चतुःऽसमुद्रम् । धरुणम् । रयीणाम् ।

चर्कृत्यम् । शंस्यम् । भूरिऽवारम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥२

“स्वायुधं शोभनवज्राद्यायुधं “स्ववसं शोभनरक्षणं सुगमनं वा “सुनीथं सुनयनं “चतुःसमुद्रं चतुरः समुद्रान् यो यशसा व्याप्नोति तं “धरुणं धारकम् । केषाम् । “रयीणां धनानाम् । “चर्कत्यं पुनःपुनः कर्तव्यं “शंस्यं स्तुत्यं “भूरिवारं भूरीणां दुःखानां वारकं बहुभिर्वरणीयं वा त्वां विद्मेति शेषः । तादृशोऽस्मभ्यमित्यादि पूर्ववत् । यद्वा । हे इन्द्र उक्तगुणविशिष्ट पुत्राख्यं रयिं दाः देहि ॥


सु॒ब्रह्मा॑णं दे॒वव॑न्तं बृ॒हन्त॑मु॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिन्द्र ।

श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑ः ॥३

सु॒ऽब्रह्मा॑णम् । दे॒वऽव॑न्तम् । बृ॒हन्त॑म् । उ॒रुम् । ग॒भी॒रम् । पृ॒थुऽबु॑ध्नम् । इ॒न्द्र॒ ।

श्रु॒तऽऋ॑षिम् । उ॒ग्रम् । अ॒भि॒मा॒ति॒ऽसह॑म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥३

सुऽब्रह्माणम् । देवऽवन्तम् । बृहन्तम् । उरुम् । गभीरम् । पृथुऽबुध्नम् । इन्द्र ।

श्रुतऽऋषिम् । उग्रम् । अभिमातिऽसहम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥३

हे “इन्द्र त्वं “सुब्रह्माणम् । ब्रह्म परिवृढं स्तुतिलक्षणं कर्म । शोभनस्तुतिकमित्यर्थः। “देववन्तं “बृहन्तं महान्तम् “उरुं विस्तीर्णं “गभीरम् असुरादिभिरगम्यं पृथुबुध्नं विस्तृतमूलं “श्रुतऋषिं श्रुता ऋषयो येन तादृशमृषीणां ख्यापयितारं प्रथितज्ञानं वा “उग्रम् उद्गूर्णबलमत एव “अभिमातिषाहम् अभिमातीनां शत्रूणामभिभवितारं हन्तारम् “अस्मभ्यं “चित्रं पूज्यं “वृषण वर्षकं पुत्रं “रयिं धनं च “दाः देहि । अथवा विशेषणविशेष्यभावः । उक्तलक्षणं पुत्राख्यं रयिं दाः ॥


स॒नद्वा॑जं॒ विप्र॑वीरं॒ तरु॑त्रं धन॒स्पृतं॑ शूशु॒वांसं॑ सु॒दक्ष॑म् ।

द॒स्यु॒हनं॑ पू॒र्भिद॑मिन्द्र स॒त्यम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑ः ॥४

स॒नत्ऽवा॑जम् । विप्र॑ऽवीरम् । तरु॑त्रम् । ध॒न॒ऽस्पृत॑म् । शू॒शु॒ऽवांस॑म् । सु॒ऽदक्ष॑म् ।

द॒स्यु॒हन॑म् । पूः॒ऽभिद॑म् । इ॒न्द्र॒ । स॒त्यम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥४

सनत्ऽवाजम् । विप्रऽवीरम् । तरुत्रम् । धनऽस्पृतम् । शूशुऽवांसम् । सुऽदक्षम् ।

दस्युहनम् । पूःऽभिदम् । इन्द्र । सत्यम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥४

“सनद्वाजं लब्धान्नं विप्रवीरं मेधाविनं पुत्रं “तरुत्रं तारकं “धनस्पृतं धनानां पूरकं स्प्रष्टारं वा । स्पृणोतेः स्पृशतेर्वोत्तरपदम्। “शूशुवांसं वर्धमानं “सुदक्षं शोभनबलं “दस्युहनं शत्रूणां हन्तारं “पूर्भिदं शत्रूणां पुरां भेत्तारं “सत्यं सत्यकर्माणम् । शिष्टमुक्तम् ॥


अश्वा॑वन्तं र॒थिनं॑ वी॒रव॑न्तं सह॒स्रिणं॑ श॒तिनं॒ वाज॑मिन्द्र ।

भ॒द्रव्रा॑तं॒ विप्र॑वीरं स्व॒र्षाम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑ः ॥५

अश्व॑ऽवन्तम् । र॒थिन॑म् । वी॒रऽव॑न्तम् । स॒ह॒स्रिण॑म् । श॒तिन॑म् । वाज॑म् । इ॒न्द्र॒ ।

भ॒द्रऽव्रा॑तम् । विप्र॑ऽवीरम् । स्वः॒ऽसाम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥५

अश्वऽवन्तम् । रथिनम् । वीरऽवन्तम् । सहस्रिणम् । शतिनम् । वाजम् । इन्द्र ।

भद्रऽव्रातम् । विप्रऽवीरम् । स्वःऽसाम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥५

“अश्वावन्तं बहुभिरश्वैरुपेतं “रथिनं रथवन्तं “वीरवन्तं वीरैः पुरुषैरुपेतं "सहस्रिणं सहस्रवन्तं “शतिनं शतवन्तम् । असंख्यातगवादियुक्तमित्यर्थः। “भद्रव्रातं भद्रगणं कल्याणसेवकैः परिवृतं “विप्रवीरं विप्रैर्वीरैश्चोपेतं "स्वर्षां सर्वस्य संभक्तारं “वाजं बलवन्तं हे "इन्द्र । शिष्टमुक्तम् ॥ ॥३॥


प्र स॒प्तगु॑मृ॒तधी॑तिं सुमे॒धां बृह॒स्पतिं॑ म॒तिरच्छा॑ जिगाति ।

य आ॑ङ्गिर॒सो नम॑सोप॒सद्यो॒ऽस्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑ः ॥६

प्र । स॒प्तऽगु॑म् । ऋ॒तऽधी॑तिम् । सु॒ऽमे॒धाम् । बृह॒स्पति॑म् । म॒तिः । अच्छ॑ । जि॒गा॒ति॒ ।

यः । आ॒ङ्गि॒र॒सः । नम॑सा । उ॒प॒ऽसद्यः॑ । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥६

प्र । सप्तऽगुम् । ऋतऽधीतिम् । सुऽमेधाम् । बृहस्पतिम् । मतिः । अच्छ । जिगाति ।

यः । आङ्गिरसः । नमसा । उपऽसद्यः । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥६

“सप्तगुं मां “मतिः स्तुतिदेवविषया “अच्छा “जिगाति अभिगच्छति । कीदृशं सप्तगुम् । “ऋतधीतिं सत्यकर्माणं “सुमेधां शोभनप्रज्ञं बृहस्पतिं बृहतो मन्त्रस्य स्वामिनम्। “यः सप्तगुः “आङ्गिरसः अङ्गिरोगोत्रोत्पन्नोऽहं “नमसा नमस्कारेण देवान् “उपसद्यः उपगतः । यद्वा । नमसान्नेनोपसद्य उपसदनीयः । देवैरनुग्राह्य इत्यर्थः । तादृशाय “अस्मभ्यं मह्यं “चित्रं “वृषणं "रयिं "दाः॥


वनी॑वानो॒ मम॑ दू॒तास॒ इन्द्रं॒ स्तोमा॑श्चरन्ति सुम॒तीरि॑या॒नाः ।

हृ॒दि॒स्पृशो॒ मन॑सा व॒च्यमा॑ना अ॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑ः ॥७

वनी॑वानः । मम॑ । दू॒तासः॑ । इन्द्र॑म् । सोमाः॑ । च॒र॒न्ति॒ । सु॒ऽम॒तीः । इ॒या॒नाः ।

हृ॒दि॒ऽस्पृशः॑ । मन॑सा । व॒च्यमा॑नाः । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥७

वनीवानः । मम । दूतासः । इन्द्रम् । सोमाः । चरन्ति । सुऽमतीः । इयानाः ।

हृदिऽस्पृशः । मनसा । वच्यमानाः । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥७

“वनीवानः वननवन्तः । ‘ छन्दसीवनिपौ ' इति मत्वर्थीयो वनिप् । “मम सप्तगोः “दूतासः दूतसदृशा दूता यथा भर्तुरभिमतार्थं प्रापणीयं प्रापयन्ति तद्वत्स्तुत्यान् गुणान् प्रापयन्तः “स्तोमा: स्तवाः “सुमतीः तस्येन्द्रस्यास्मद्विषया अनुकूला बुद्धीः "इयानाः याचमानाः “इन्द्रं चरन्ति प्राप्नुवन्ति । पुनश्च त एव विशेष्यन्ते । "हृदिस्पृशः हृदये स्पृशन्तः । स्तुत्यस्य प्रियभूता इत्यर्थः । ‘ हृद्द्युभ्यां ङेरुपसंख्यानम्' इति सप्तम्या अलुक् । “मनसा सत्त्वोद्रिक्तेन “वच्यमानाः उच्यमानाः । अस्मभ्यमित्यादि गतम् ॥


यत्त्वा॒ यामि॑ द॒द्धि तन्न॑ इन्द्र बृ॒हन्तं॒ क्षय॒मस॑मं॒ जना॑नाम् ।

अ॒भि तद्द्यावा॑पृथि॒वी गृ॑णीताम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑ः ॥८

यत् । त्वा॒ । यामि॑ । द॒द्धि । तत् । नः॒ । इ॒न्द्र॒ । बृ॒हन्त॑म् । क्षय॑म् । अस॑मम् । जना॑नाम् ।

अ॒भि । तत् । द्यावा॑पृथि॒वी इति॑ । गृ॒णी॒ता॒म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥८

यत् । त्वा । यामि । दद्धि । तत् । नः । इन्द्र । बृहन्तम् । क्षयम् । असमम् । जनानाम् ।

अभि । तत् । द्यावापृथिवी इति । गृणीताम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥८

हे “इन्द्र “त्वा त्वां “यत् वक्ष्यमाणं “यामि याचामि । वर्णलोपश्छान्दसः । याच्यमानं तत् “दद्धि देहि। ‘ दद दाने '। लोटि व्यत्ययेन परस्मैपदम्। 'बहुलं छन्दसि ' इति शपो लुक् । तदिति सामान्येन निर्दिष्टं विशेषयति । “बृहन्तं महान्तं “क्षयं निवासं “जनानाम् अन्येषाम् “असमम् असाधारणं देहि । त्वया दातव्यं “द्यावापृथिवी “अभि “गृणीताम् । अस्मभ्यमित्यादि गतम् ॥॥४॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.४७&oldid=202194" इत्यस्माद् पुनः प्राप्तिः