ऋग्वेदः सूक्तं १०.१४६
← सूक्तं १०.१४५ | ऋग्वेदः - मण्डल १० सूक्तं १०.१४६ ऐरम्मदो देवमुनिः। |
सूक्तं १०.१४७ → |
दे. अरण्यानी । अनुष्टुप् |
अरण्यान्यरण्यान्यसौ या प्रेव नश्यसि ।
कथा ग्रामं न पृच्छसि न त्वा भीरिव विन्दती३ँ ॥१॥
वृषारवाय वदते यदुपावति चिच्चिकः ।
आघाटिभिरिव धावयन्नरण्यानिर्महीयते ॥२॥
उत गाव इवादन्त्युत वेश्मेव दृश्यते ।
उतो अरण्यानिः सायं शकटीरिव सर्जति ॥३॥
गामङ्गैष आ ह्वयति दार्वङ्गैषो अपावधीत् ।
वसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते ॥४॥
न वा अरण्यानिर्हन्त्यन्यश्चेन्नाभिगच्छति ।
स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ॥५॥
आञ्जनगन्धिं सुरभिं बह्वन्नामकृषीवलाम् ।
प्राहं मृगाणां मातरमरण्यानिमशंसिषम् ॥६॥
सायणभाष्यम्
‘ अरण्यानि' इति षडृचमष्टादशं सूक्तमिरंमदपुत्रस्य देवमुनेरार्षम् । महदरण्यमरण्यानी । तद्देवताकम् । आनुष्टुभम् । तथा चानुक्रान्तम् - ' अरण्यान्यैरंमदो देवमुनिररण्यानीं तुष्टाव ' इति । गतो विनियोगः ।।
अर॑ण्या॒न्यर॑ण्यान्य॒सौ या प्रेव॒ नश्य॑सि ।
क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विन्दती३ँ ॥ १
अर॑ण्यानि । अर॑ण्यानि । अ॒सौ । या । प्रऽइ॑व । नश्य॑सि ।
क॒था । ग्राम॑म् । न । पृ॒च्छ॒सि॒ । न । त्वा॒ । भीःऽइ॑व । वि॒न्द॒तीँ३ ॥१
अरण्यानि । अरण्यानि । असौ । या । प्रऽइव । नश्यसि ।
कथा । ग्रामम् । न । पृच्छसि । न । त्वा । भीःऽइव । विन्दतीँ ॥१
हे "अरण्यानि । अरण्यस्य पालयित्री काचिदधिदेवतारण्यानीति नैरुक्ताः । वैयाकरणास्तु ‘ हिमारण्ययोर्महत्त्वे ' ( पा. सू. ४. १. ४९. १ ) इत्यरण्यस्य महत्त्वे ङीषं स्मरन्ति । अरण्याधिदेवते “अरण्यानि कान्ताराणि प्रति “या असौ त्वं ”प्रेव ”नश्यसि । इवः संप्रत्यर्थे । नशतिः प्राप्तिकर्मा । अत्र व्यत्ययेन इयन् । संप्रति रक्षणाय प्राप्नोषि । यद्वा निजने देशे वर्तमानत्वान्नष्टेव प्रतीयसे । सा त्वं ”कथा कथं ”ग्रामं ”न “पृच्छसि । निर्जनेऽरण्ये कथं रमसे । नूनं “त्वा त्वां “भीः भयं ”न “विन्दति न लभते किम् । वितर्के प्लुतः । इवः संप्रत्यर्थे परिभयार्थे वा । अत्र निरुक्तम् -- ‘ अरण्यान्यरण्यस्य पत्न्यरण्यमपार्णं भवति ग्रामादरमणं भवतीति वा । अरण्यानीत्येनामामन्त्रयते । यासावरण्यानि वनानि पराचीव नश्यसि कथं ग्रामं न पृच्छसि न त्वा भीर्विन्दतीवेतीवः परिभयार्थे वा ' (निरु. ९.२९-३०) इति ॥
वृ॒षा॒र॒वाय॒ वद॑ते॒ यदु॒पाव॑ति चिच्चि॒कः ।
आ॒घा॒टिभि॑रिव धा॒वय॑न्नरण्या॒निर्म॑हीयते ॥ २
वृ॒ष॒ऽर॒वाय॑ । वद॑ते । यत् । उ॒प॒ऽअव॑ति । चि॒च्चि॒कः ।
आ॒घा॒टिभिः॑ऽइव । धा॒वय॑न् । अ॒र॒ण्या॒निः । म॒ही॒य॒ते॒ ॥२
वृषऽरवाय । वदते । यत् । उपऽअवति । चिच्चिकः ।
आघाटिभिःऽइव । धावयन् । अरण्यानिः । महीयते ॥२
“वृषारवाय। वृषा सेचनसमर्थो रवः शब्दो यस्य सूक्ष्मजन्तुविशेषस्य झिल्ल्याख्यस्य स तथोक्तः । कटुकशब्दवानित्यर्थः । तस्मै वृषारवाख्याय “वदते चीचीशब्दं कुर्वते ”चिच्चिकः चीचीशब्दं कुर्वन्नन्यो जन्तुः ”यत् यदा “उपावति वृषारवोक्तस्य शब्दस्य प्रत्युत्तररूपेण चीचीशब्दकरणेनोपगच्छति । उपेत्य पालयति वा । तत्र दृष्टान्तः। ”आघाटिभिरिव । अघाटयो घाटलिकाः काण्डवीणाः। ताभिः “धावयन् निषादादिसप्तस्वराणि शोधयन् गायक इव । तदा “अरण्यानिः सा अरण्यानी महीयते पूज्यते ॥ ‘इन्द्रवरुण' (पा. सू. ४. १. ४९) इत्यादिना ङीष् । तत्संनियोगेनानुगागमः । छान्दसो ह्रस्वः । अत एव हल्यङ्यादिसुलोपाभावः ॥
उ॒त गाव॑ इवादन्त्यु॒त वेश्मे॑व दृश्यते ।
उ॒तो अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति ॥ ३
उ॒त । गावः॑ऽइव । अ॒द॒न्ति॒ । उ॒त । वेश्म॑ऽइव । दृ॒श्य॒ते॒ ।
उ॒तो इति॑ । अ॒र॒ण्या॒निः । सा॒यम् । श॒क॒टीःऽइ॑व । स॒र्ज॒ति॒ ॥३
उत । गावःऽइव । अदन्ति । उत । वेश्मऽइव । दृश्यते ।
उतो इति । अरण्यानिः । सायम् । शकटीःऽइव । सर्जति ॥३
“उत अपि च ”गावइव गवयाद्या मृगा अस्यामरण्यान्याम् ”अदन्ति तृणादिकं भक्षयन्ति । “उत अपि च लतागुल्मादिकं ”वेश्मेव गृहमिव ”दृश्यते। “उतो अपि च "अरण्यानिः इयमरण्यानी “सायं सायंकाले। इवः संप्रत्यर्थे । संप्रति “शकटीः शकटान् दार्वाद्याहरणायागतान् ”सर्जति विसर्जयति । यद्वा । शकटीः सर्जतीव दृश्यते । अहनि महदरण्यं शकटीभिः प्राप्य सर्वे जना अपेक्षितं काष्ठादिकं शकटीष्वध्यारोप्य सायंकाले तस्मान्निर्गच्छन्ति । तदभिप्रायेणेदं वचनम् ॥
गाम॒ङ्गैष आ ह्व॑यति॒ दार्व॒ङ्गैषो अपा॑वधीत् ।
वस॑न्नरण्या॒न्यां सा॒यमक्रु॑क्ष॒दिति॑ मन्यते ॥ ४
गाम् । अ॒ङ्ग । ए॒षः । आ । ह्व॒य॒ति॒ । दारु॑ । अ॒ङ्ग । ए॒षः । अप॑ । अ॒व॒धी॒त् ।
वस॑न् । अ॒र॒ण्या॒न्याम् । सा॒यम् । अक्रु॑क्षत् । इति॑ । म॒न्य॒ते॒ ॥४
गाम् । अङ्ग । एषः । आ । ह्वयति । दारु । अङ्ग । एषः । अप । अवधीत् ।
वसन् । अरण्यान्याम् । सायम् । अक्रुक्षत् । इति । मन्यते ॥४
“अङ्ग हे अरण्यानि “एषः त्वदधिष्ठिते महारण्ये संप्रति वर्तमानः “गाम् “आ “ह्वयति । “एषः चान्यः ”दारु काष्ठम् ”अपावधीत् अपहन्ति । तथा “सायं सायंकाले रात्रौ ”अरण्यान्यां महारण्ये निवसन मनुष्यो नानाविधं पक्षिमृगादिशब्दं शृण्वन् ”अक्रुक्षत् कश्चित्तस्करादिराक्रोशति ”इति भीतः सन् ”मन्यते बुध्यते ॥
न वा अ॑रण्या॒निर्ह॑न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति ।
स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ॥ ५
न । वै । अ॒र॒ण्या॒निः । ह॒न्ति॒ । अ॒न्यः । च॒ । इत् । न । अ॒भि॒ऽगच्छ॑ति ।
स्वा॒दोः । फल॑स्य । ज॒ग्ध्वाय॑ । य॒था॒ऽकाम॑म् । नि । प॒द्य॒ते॒ ॥५
न । वै । अरण्यानिः । हन्ति । अन्यः । च । इत् । न । अभिऽगच्छति ।
स्वादोः । फलस्य । जग्ध्वाय । यथाऽकामम् । नि । पद्यते ॥५
“न “वै न खलु ”अरण्यानिः अरण्यानी “हन्ति तत्र निवसन्तं हिनस्ति । यदि “अन्यः व्याघ्रचौरादिः "नाभिगच्छति । तर्हि ”स्वादोः रसवत आम्रादेः “फलस्य । द्वितीयार्थे षष्ठी। फलं ”जग्ध्वाय भक्षयित्वा तत्र निवसन् पुरुषः ”यथाकामं यथेच्छं ”नि “पद्यते निगच्छति वर्तते ॥ क्त्वाप्रत्यये ‘अदोजग्धिर्ल्यप्ति किति ' ( पा. सू. २. ४. ३६ ) इति जग्ध्यादेशः । ‘ क्त्वो यक् ' ( पा. सू. ७. १. ४७ ) इति यक् ।।
आञ्ज॑नगन्धिं सुर॒भिं ब॑ह्व॒न्नामकृ॑षीवलाम् ।
प्राहं मृ॒गाणां॑ मा॒तर॑मरण्या॒निम॑शंसिषम् ॥ ६
आञ्ज॑नऽगन्धिम् । सु॒र॒भिम् । ब॒हु॒ऽअ॒न्नाम् । अकृ॑षिऽवलाम् ।
प्र । अ॒हम् । मृ॒गाणा॑म् । मा॒तर॑म् । अ॒र॒ण्या॒निम् । अ॒शं॒सि॒ष॒म् ॥६
आञ्जनऽगन्धिम् । सुरभिम् । बहुऽअन्नाम् । अकृषिऽवलाम् ।
प्र । अहम् । मृगाणाम् । मातरम् । अरण्यानिम् । अशंसिषम् ॥६
”आञ्जनगन्धिम् । अञ्जनस्येदमाञ्जनं कस्तूर्यादि । तस्य गन्ध इव गन्धो यस्यास्तादृशी । उपमानाच्च ' (पा. सू. ५. ४. १३७) इति गन्धस्येदन्तादेशः । अत एव “सुरभिं सौरभ्योपेतां “बह्वन्नां बहुभिरन्नैरदनीयैः फलमूलादिभिरुपेताम् ”अकृषीवलाम् । कृषिरेषामस्तीति कृषीवलाः कर्षकाः । ‘ रजःकृषि° (पा. सू. ५.२.११२ ) इत्यादिना वलच् ।' वले ' (पा. सू. ६.३.११८ ) इति दीर्घः । तैर्वियुक्तां तादृशीं ”मृगाणां ”मातरं जनयित्रीम् ”अरण्यानिम् अरण्यानीम् ”अहं “प्र “अशंसिषम् उक्तेन प्रकारेण स्तुतवानस्मि ॥ ॥ ४ ॥
टिप्पणी
ऽथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीयँ सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितँ हिरण्मयम् ॥ छाउ. ८.५. ३ ॥
अरण्यानि अरण्यस्य पत्नी । अरण्यम् अपार्णम् ग्रामात्। अरमणं भवति इति वा । तस्याः एषा भवति । अरण्यानि अरण्यानि असौ या प्र इव नश्यसि । कथा ग्रामं न पृच्छसि न त्वा भीः इव विन्दतीम् । तस्याः एषा भवति । इवः परिभयार्थे वा । अरण्यानि इति एनाम् आमन्त्रयते । या असौ अरण्यानि वनानि पराची इव नश्यसि। कथं ग्रामं न पृच्छसि । न त्वा भीः विन्दति इव इति । । निरुक्तम् ९.३० ।
तै.ब्रा. २.५.५.६
अरण्यानी महाभीमा या नभोमण्डलोपमा । पताकाच्छादिताकाशा सैव संपद्यते पुरी ।। ७ या लतावलिता भीमा भात्यद्य विपिनावली । दिवसैरेव सा याति पुनर्मरुमहीपदम् ।। योगवासिष्ठः ६.१.२८.८
मण्डल १० | ||||
---|---|---|---|---|