ऋग्वेदः सूक्तं १०.१६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१६ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१५ ऋग्वेदः - मण्डल १०
सूक्तं १०.१६
दमनो यामायनः
सूक्तं १०.१७ →
दे. अग्निः। त्रिष्टुप्, ११-१४ अनुष्टुप्
मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

मैनमग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरम् ।
यदा शृतं कृणवो जातवेदोऽथेमेनं प्र हिणुतात्पितृभ्यः ॥१॥
शृतं यदा करसि जातवेदोऽथेमेनं परि दत्तात्पितृभ्यः ।
यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति ॥२॥
सूर्यं चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा ।
अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥३॥
अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः ।
यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥४॥
अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः ।
आयुर्वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः ॥५॥
यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः ।
अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणाँ आविवेश ॥६॥
अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व पीवसा मेदसा च ।
नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्ष्यन्पर्यङ्खयाते ॥७॥
इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् ।
एष यश्चमसो देवपानस्तस्मिन्देवा अमृता मादयन्ते ॥८॥
क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः ।
इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥९॥
यो अग्निः क्रव्यात्प्रविवेश वो गृहमिमं पश्यन्नितरं जातवेदसम् ।
तं हरामि पितृयज्ञाय देवं स घर्ममिन्वात्परमे सधस्थे ॥१०॥
यो अग्निः क्रव्यवाहनः पितॄन्यक्षदृतावृधः ।
प्रेदु हव्यानि वोचति देवेभ्यश्च पितृभ्य आ ॥११॥
उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि ।
उशन्नुशत आ वह पितॄन्हविषे अत्तवे ॥१२॥
यं त्वमग्ने समदहस्तमु निर्वापया पुनः ।
कियाम्ब्वत्र रोहतु पाकदूर्वा व्यल्कशा ॥१३॥
शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।
मण्डूक्या सु सं गम इमं स्वग्निं हर्षय ॥१४॥

सायणभाष्यम्

' मैनम् ' इति चतुर्दशचं षोडशं सूक्तं यमपुत्रस्य दमनस्यार्षम् । आदितो दश त्रिष्टुभः ततश्चतस्रोऽनुष्टुभः । अग्निर्देवता । तथा चानुक्रान्तं-' मैनं दमन आग्नेयं चतुरनुष्टुबन्तम् ' इति । दीक्षितमरण आद्याः षडृचः शंसनीयाः । सूत्रितं च--' मैनमग्ने वि दहो माभि शोच इति षट् पूषा त्वेतश्च्यावयतु प्र विद्वान् ' ( आश्व. श्रौ. ६ १०) इति । दह्यमानस्य प्रेतस्योपस्थानेऽप्येता शंसनीयाः ।।

मैन॑मग्ने॒ वि द॑हो॒ माभि शो॑चो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम् ।

य॒दा शृ॒तं कृ॒णवो॑ जातवे॒दोऽथे॑मेनं॒ प्र हि॑णुतात्पि॒तृभ्यः॑ ॥

मा । एनम् । अग्ने । वि । दहः । मा । अभि । शोचः । मा । अस्य । त्वचम् । चिक्षिपः । मा । शरीरम्

यदा । शृतम् । कृणवः । जातवेदः । अथ । ईम् । एनम् । प्र । हिणुतात् । पितृऽभ्यः । । १ ।।

हे अग्ने एनं प्रेतं मा वि दह । विशेषेण दग्धं मषीभूतं मा कुरु । माभि शोचः अभितः शोकेन संतापेन युक्तं मा कुरु । अस्य त्वचं मा चिक्षिपः इतस्ततो विक्षिप्तां मा कुरु । शरीरम् अपि विक्षिप्तं मा कुरु । हे जातवेदः अग्ने यदा त्वं श्रृतं पक्वं सुदग्धं कृणवः करिष्यसि अथ तदानीम् ईमेनं प्रेतं पितृभ्यः प्र हिणुतात् पितृसमीपे प्रेरय ।।


शृ॒तं य॒दा कर॑सि जातवे॒दोऽथे॑मेनं॒ परि॑ दत्तात्पि॒तृभ्यः॑ ।

य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानां॑ वश॒नीर्भ॑वाति ॥

हे जातवेदः यदा प्रेतशरीरं शृतं पक्वं करसि करिष्यसि अथ ईम् तदानीमेव एनं प्रेतं पितृभ्यः परि दत्तात् प्रयच्छ । यदा अयं प्रेतः एताम् अग्निना कृताम् असुनीतिं प्राणस्य नयनं प्राणप्रेरणं गच्छाति प्राप्नोति अथ तदानीमेव देवानां वशनीः देवानां वशं प्रापितो भवति ।।


सूर्यं॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा ।

अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ॥

हे प्रेत त्वदीयं चक्षुः इन्द्रियं सूर्यं गच्छतु प्राप्नोतु । आत्मा प्राणः वातं बाह्यं वायुं गच्छतु । अपि च त्वमपि धर्मणा सुकृतेन तत्फलं भोक्तुं द्या च । अत्र चशब्दो विकल्पार्थे । द्युलोकं वा पृथिवीं च पृथिवीं वा गच्छ प्राप्नुहि । अपो वा अन्तरिक्षलोकं गच्छ प्राप्नुहि । तत्र अन्तरिक्षे हितं स्थापितं ते तव कर्मफलम् । ओषधीषु शरीरैः शरीरावयवैः प्रति तिष्ठ ।।


अ॒जो भा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः ।

यास्ते॑ शि॒वास्त॒न्वो॑ जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ॥

अजः जननरहितः शरीरेन्द्रियादिभागव्यतिरिक्तोऽन्तरपुरुषलक्षणो यः भागः अस्ति हे अग्ने ते त्वदीयेन तपसा तापनेन तं तादृशं भागं तपस्व तप्तं कुरु । तथा ते तव शोचिः शोकहेतुः ज्वालाविशेषः तं भागं तपतु संस्करोतु । अपि च ते तव अर्चिः भासको ज्वालाविशेषः तं भागं तपतु संस्करोतु । तपःशोचिरर्चिःशब्दानां संतापतारतम्येन भेदः । हे जातवेदः ते तव याः तन्वः मूर्तयः शिवाः सुखहेतवो न तु तापप्रदाः ताभिः एनं तनूभिः प्रेतं सुकृतां शोभनकर्मकारिणां लोकं स्थानं वह प्रापय । उशब्दः पूरणः ।।

अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ ।

आयु॒र्वसा॑न॒ उप॑ वेतु॒ शेष॒ः सं ग॑च्छतां त॒न्वा॑ जातवेदः ॥

हे अग्ने यः प्रेतः पुमान् आहुतः चितौ मन्त्रेण समर्पितः सन् स्वधाभिः स्वधाकारसमर्पितैः उदकादिभिः सह चरति तं प्रेतं पितृभ्यः पितृप्राप्त्यर्थं पुनः अव सृज भूयः प्रेरय । अयं प्रेतः आयुः जीवनं वसानः आच्छादयन् । आयुषा युक्त इत्यर्थः । शेषः शिष्यमाणमस्थिलक्षणं यजनीयं शरीरम् उप वेतु उपगच्छतु । हे जातवेदः तव प्रसादात् तन्वा शरीरेण सं गच्छतां संगतो भवतु ।। ।। २० ।।

यत्ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः ।

अ॒ग्निष्टद्वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ॥

हे मृतशरीर ते तव संबन्धि यत् अङ्गं कृष्णः शकुनः काकाख्यः आतुतोद । आङ् ईषदर्थे । ईषत्तुन्नवान् । तथा पिपीलः पिपीलिका वा सर्पः वा उत वा अपि वा श्वापदः श्व शृगालादिः । एतेषामन्यतमो यदि तुन्नवानित्यर्थः । विश्वात् सर्वस्यात्ता अग्निः तत् तादृशमङ्गम् अगदं कृणोतु दोषरहितं करोतु । संस्करोत्वित्यर्थः । तथा सोमश्च देवतारूप ओषधिरूपो वा संस्करोतु । यः सोमः ब्राह्मणान् ऋत्विगादीन् आविवेश प्रविष्टवान् ।।

अनुस्तरण्या वपया प्रेतस्य मुखम् ' अग्नेर्वर्म ' इत्यनया प्रोर्णुयात् । सूत्रितं च-अनुस्तरण्या वपामुत्खिद्य शिरोमुखं प्रच्छादयेदग्नेर्वर्म परि गोभिर्व्ययस्वेति ' ( आश्व. गृ. ४. ३. १९) इति ।।

अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ पीव॑सा॒ मेद॑सा च ।

नेत्त्वा॑ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्ष्यन्प॑र्य॒ङ्खया॑ते ॥

हे प्रेत अग्नेः स्वभूतं वर्म ज्वालालक्षणं कवचं गोभिः अनुस्तरणीगोचर्मणा परि व्ययस्व परितः संवृणु । किंच पीवसा स्थूलेन मेदसा च सं सम्यक् प्रोर्णुष्व आच्छादय । एवं कृते सति हरसा तेजसा धृष्णुः धर्षणशीलः जर्हृषाणः अत्यर्थं हृष्यन् दधृक् धृष्टः प्रगल्भः । ' ऋत्विक् इत्यादिना दधृक्शब्दो निपातितः । विधक्ष्यन् विविधं भस्मीकरिष्यन् एवंभूतोऽग्निः त्वा त्वां नेत् पर्यङ्खयाते नैव सर्वतो विस्तारयति । अखेर्गत्यर्थाल्लेट्याडागमः ।।

' इममग्ने चमसम् ' इत्यनया प्रणीताप्रणयनमनुमन्त्रयते । सूत्रितं च-' इममग्ने चमसं वा वि जिह्वर इति प्रणीताप्रणयनमनुमन्त्रयते ' ( आश्व. गृ. ४.३.२४) इति ।।

इ॒मम॑ग्ने चम॒सं मा वि जि॑ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म् ।

ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ते ॥

हे अग्ने इमं चमसं प्रणीताप्रणयनं मा वि जिह्वरः मा विचालीः । यश्चमसः देवानाम् इन्द्रादीनां प्रियः उत अपि च सोम्यानां सोमार्हाणां पितॄणां प्रियः । किंच यः एषः चमसः देवपानः । देवाः पिबन्त्यस्मिन्निति । देवपानस्थानीयो भवति तस्मिन् चमसे अमृताः मरणवर्जिताः देवाः पितरश्च मादयन्ते हव्यैः कव्यैश्च हृष्टा भवन्ति ।।

क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः ।

इ॒हैवायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥

आहिताग्निमरण एतदादिके द्वे ऋचावौपासनोद्वासने विनियुक्ते । तत्र प्रथमायाः पूर्वार्धेन दक्षिणस्यां दिशि चतुष्पथादावौपासनाग्निं निरस्यति । उत्तरेण शान्तिकर्मार्थमादत्ते (आश्व. गृ ४ .६)। क्रव्यादम् । क्रव्यमामिषम् । तस्यात्तारं तीव्रम् अग्निं दूरं विप्रकृष्टदेशे प्र प्रहिणोमि प्रगमयामि । ' हि गतौ ' स्वादिः । रिप्रवाहः । रिप्रं पापम् । तस्य वोढा सोऽग्निः यमराज्ञः यमो राजा येषां तान् यमराजकान् अन्यप्रदेशान् गच्छतु प्राप्नोतु । अयं शान्तिकर्मार्थमुपादत्तः इतरः क्रव्यादादन्यः जातवेदाः जातानां वेदिता जातधनो वा प्रजानन् सवैर्विज्ञायमानोऽग्निः इहैव देशे देवेभ्यः देवार्थं हव्यं हवनयोग्यं हविः वहतु प्रापयतु ।।

यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ वो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम् ।

तं ह॑रामि पितृय॒ज्ञाय॑ दे॒वं स घ॒र्ममि॑न्वात्पर॒मे स॒धस्थे॑ ॥

यः क्रव्यादः अग्निः देवो युष्माकं गृहिणां गृहं प्रविवेश प्रविष्टवान् तं क्रव्यादं देवं हरामि । गृहाद्बहिर्निष्क्रामयामीत्यर्थः । किमर्थम् । पितृयज्ञाय तदर्थम् । किं कुर्वन् । इमम् इतरं तस्मादन्यं हव्यवाहं जातवेदसं पश्यन् पर्यालोचयन् । तथा सति क्रव्यादात्परोऽग्निः परमे उत्कृष्टे सधस्थे सहस्थाने घर्मं यज्ञम् इन्वात् प्राप्नोतु । पितृभिर्घर्मपैः सहेति शेषः ।। ।। २१ ।।

महापितृयज्ञे वषट्कारक्रियायां ' यो अग्निः कव्यवाहनः ' इत्येषा स्विष्टकृतो याज्या । सूत्रितं च-' यो अग्निः कव्यवाहनस्त्वमग्न ईळितो जातवेद इति संयाज्ये ' ( आश्व. श्रौ. २.. १९) इति ।।

यो अ॒ग्निः क्र॑व्य॒वाह॑नः पि॒तॄन्यक्ष॑दृता॒वृधः॑ ।

प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥

कव्यवाहनः कव्यस्य हविषो वोढा योऽग्निः पितॄन् ऋतावृधः ऋतस्य यज्ञस्योदकस्य वा वर्धयितॄन् सत्येन वृद्धान् वा देवान् । एतत्पितृविशेषणं वास्तु । तान् यक्षत् यजति । यजेर्लेटि सिबडागमः । सोऽग्निः हव्यानि हवींषि प्र वोचतु पितृयज्ञे प्रब्रवीतु । युष्मदर्थं मयानीतानीति । इद् पूरणौ । केभ्यः । देवेभ्यश्च पितृभ्यः च । आकारः समुच्चये ।।

महापितृयज्ञे ' उशन्तस्त्वा ' इत्येषा सामिधेनी । सूत्र्यते हि-' उशन्तस्त्वा नि धीमहीत्येता त्रिरनवानं ताः सामिधेन्यः ' ( आश्व. श्रौ. २. १९) इति ।।

उ॒शन्त॑स्त्वा॒ नि धी॑मह्यु॒शन्त॒ः समि॑धीमहि ।

उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ॥

हे अग्ने उशन्तः कामयमाना वयं त्वा त्वां नि धीमहि कर्मार्थं स्थापितवन्तः । उशन्तः वयं समिधीमहि संदीपयामः । त्वमपि उशन् कामयमानः हविरादिकम् उशतः आगन्तुकामान् पितॄन् अस्मिन् यज्ञे आ वह । किमर्थम् । हविषे अस्माभिः प्रत्तं हविः अत्तवे अत्तुम् । अदेस्तुमर्थे तवेन्प्रत्ययः । ' क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः संप्रदानसंज्ञा ।

यं त्वम॑ग्ने स॒मद॑ह॒स्तमु॒ निर्वा॑पया॒ पुनः॑ ।

कि॒याम्ब्वत्र॑ रोहतु पाकदू॒र्वा व्य॑ल्कशा ॥

हे अग्ने त्वं पितृदहनकाले यं देशं समदहः पुरा सम्यग्दग्धवानसि । ' तिङि चोदात्तवति ' इलि समो निघातः । तमु तमेव पुनः निर्वापय । अत्र अस्मिन् देशे कियाम्बु कियत्प्रमाणमुदकं यस्मिन् तत् पुष्करिण्यादिकं रोहतु उत्पद्यताम् । किंच व्यल्कशा विविधशाखा पाकदूर्वा परिपक्वदूर्वा चोत्पद्यताम् ।।

अस्थिसंचयने क्षीरोदकेन शमीशाखया त्रिः प्रसव्यं श्मशानायतनं प्रोक्षति ' शीतिके शीतिकावति ' इत्यनया । सूत्रितं च--' क्षीरोदकेन शमीशाखया त्रिः प्रसव्यं परिव्रजन् प्रोक्षति शीतिके शीतिकावतीति ' (आ. गृ. ४.५.३) इति ।।

शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ ह्लादि॑कावति ।

म॒ण्डू॒क्या॒३॒॑ सु सं ग॑म इ॒मं स्व१॒॑ग्निं ह॑र्षय ॥

हे शीतिके शैत्ययुक्ते हे शीतिकावति । शीतिकाः 'शैत्ययुक्ता ओषधयः । ताभिस्तद्वति हे ह्लादिके आह्लादयित्रि हे ह्लादिकावति आह्लादकफलयुक्तैर्वृक्षैस्तद्वति हे पृथिवि मण्डूक्या मण्डूकस्त्रिया वृष्टिप्रियया सु सुष्ठु सं गमः संगच्छस्व । गमेर्लुङि व्यत्ययेन परस्मैपदम् । ततः इमम् अग्निं सु सुष्ठु हर्षय ।। ।। २२ ।। ।। १ ।।


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१६&oldid=139103" इत्यस्माद् पुनः प्राप्तिः