ऋग्वेदः सूक्तं १०.१७४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१७४ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.१७३ ऋग्वेदः - मण्डल १०
सूक्तं १०.१७४
अभीवर्त आङ्गिरसः।
सूक्तं १०.१७५ →
दे. राजा। अनुष्टुप् ।


अभीवर्तेन हविषा येनेन्द्रो अभिवावृते ।
तेनास्मान्ब्रह्मणस्पतेऽभि राष्ट्राय वर्तय ॥१॥
अभिवृत्य सपत्नानभि या नो अरातयः ।
अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥२॥
अभि त्वा देवः सविताभि सोमो अवीवृतत् ।
अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥३॥
येनेन्द्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः ।
इदं तदक्रि देवा असपत्नः किलाभुवम् ॥४॥
असपत्नः सपत्नहाभिराष्ट्रो विषासहिः ।
यथाहमेषां भूतानां विराजानि जनस्य च ॥५॥


सायणभाष्यम्

' अभीवर्तेन ' इति पञ्चर्चं त्रयोविंशं सूक्तमाङ्गिरसस्याभीवर्ताख्यस्यार्षमानुष्टुभम् । पूर्ववद्राजस्तुतिर्देवता । तथा चानुक्रान्तम्-' अभीवर्तेन पञ्चाभीवर्तः ' इति । पुरोहित इदं सूक्तं राजानं युद्धाय कृतसंनाहं वाचयीत । सूत्र्यते हि--' अथैनं सारथमाणमुपारुह्याभीवर्तं वाचयति ' ( आश्व. गृ. ३.१२. १२) इति ।।


अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेन्द्रो॑ अभिवावृ॒ते ।

तेना॒स्मान्ब्र॑ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय ॥१

अ॒भि॒ऽव॒र्तेन॑ । ह॒विषा॑ । येन॑ । इन्द्रः॑ । अ॒भि॒ऽव॒वृ॒ते ।

तेन॑ । अ॒स्मान् । ब्र॒ह्म॒णः॒ । प॒ते॒ । अ॒भि । रा॒ष्ट्राय॑ । व॒र्त॒य॒ ॥१

अभिऽवर्तेन । हविषां । येन । इन्द्रः । अभिऽववृते ।

तेन । अस्मान् । ब्रह्मणः । पते । अभि । राष्ट्राय । वर्तय । । १ । ।

अभीवर्तेन । अभिगच्छत्यनेनेत्यभीवर्तः ।। करणे वम् । थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् । ' उपसर्गस्य घञ्यमनुष्यो बहुलम् ' ( पा. सू. ६.३.१२२) इति दीर्घः ।। ईदृशेन येन हविषा साधनेन इन्द्रः अभिववृते सर्वमभिजगाम तेन हविषेष्टवतः अस्मान् हे ब्रह्मणस्पते राष्ट्राय राज्यं प्राप्तुम् अभि वर्तय अभिगमय ।।


अ॒भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः ।

अ॒भि पृ॑त॒न्यन्तं॑ तिष्ठा॒भि यो न॑ इर॒स्यति॑ ॥२

अ॒भि॒ऽवृत्य॑ । स॒ऽपत्ना॑न् । अ॒भि । याः । नः॒ । अरा॑तयः ।

अ॒भि । पृ॒त॒न्यन्त॑म् । ति॒ष्ठ॒ । अ॒भि । यः । नः॒ । इ॒र॒स्यति॑ ॥२

अभिऽवृत्य । सऽपत्नान् । अभि । याः । नः । अरातयः ।

अभि । पृतन्यन्तम् । तिष्ठः । अभि । यः । नः । इरस्यति ।। २ ।।

हे राजन् सपत्नान् शत्रून् अभिवृत्य अभितो गमयित्वा नः अस्माकं याः अरातयः अदानशीलाः प्रजाः सन्ति ता अपि अभि तिष्ठ अभिभव । पृतन्यन्तं पृतनाः सेना आत्मन इच्छन्तं युयुत्सुं च अभि तिष्ठ ।। पृतनाशब्दात् क्यचि ' कव्यध्वरपृतनस्य' ' इत्यन्तलोपः ।। यः च नः अस्मभ्यम् इरस्यति ईर्ष्यति । इरस् तिरस् ईर्ष्यायां कण्ड्वादिः । तमपि अभि तिष्ठ । यद्वा । प्रकृतो ब्रह्मणस्पतिरेवात्रापि संबोध्यः ।।


अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृतत् ।

अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥३

अ॒भि । त्वा॒ । दे॒वः । स॒वि॒ता । अ॒भि । सोमः॑ । अ॒वी॒वृ॒त॒त् ।

अ॒भि । त्वा॒ । विश्वा॑ । भू॒तानि॑ । अ॒भि॒ऽव॒र्तः । यथा॑ । अस॑सि ॥३

अभि । त्वा । देवः । सविता । अभि । सोमः । अवीवृतत् ।

अभि । त्वा । विश्वा । भूतानि । अभिऽवर्तः । यथा । अससि ।। ३ ।।

हे राजन् देवः दानादिगुणयुक्तः सविता त्वा त्वाम् अभि अवीवृतत् अभिवर्तयतु । अभिगमयतु राष्ट्रम् । सोमः च अभि वर्तयतु । विश्वा विश्वानि सर्वाण्यपि भूतानि पृथिव्यादीनि त्वाम् अभि वर्तयन्तु । यथा येन प्रकारेण त्वम् अभीवर्तः अससि अभितः सर्वत्र वर्तमानो भवसि ।। अस्तेश्छान्दसः शपो लुगभावः ।।


येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।

इ॒दं तद॑क्रि देवा असप॒त्नः किला॑भुवम् ॥४

येन॑ । इन्द्रः॑ । ह॒विषा॑ । कृ॒त्वी । अभ॑वत् । द्यु॒म्नी । उ॒त्ऽत॒मः ।

इ॒दम् । तत् । अ॒क्रि॒ । दे॒वाः॒ । अ॒स॒प॒त्नः । किल॑ । अ॒भु॒व॒म् ॥४

येन । इन्द्रः । हविषा । कृत्वी । अभवत् । द्युम्नी । उत्ऽतमः ।

इदम् । तत् । अक्रि । देवाः । असपत्नः । किल । अभुवम् ।। ४ । ।

येन हविषा अस्माभिर्दत्तेन माद्यन् इन्द्रः कृत्वी वृत्रवधादेः कर्मणः कर्ता अभवत् द्युम्नी द्युम्नं द्योततेर्यशो वान्नं वा । तद्वान् अत एव उत्तमः उत्कृष्टतमश्चाभवत् तत् इदं हविः हे देवाः अक्रि अकारि । यद्वा । अहमकार्षम् । अत एवाहम् असपत्नः किल अभुवम् । शत्रुरहितोऽप्यभवं खलु ।।


अ॒स॒प॒त्नः स॑पत्न॒हाभिरा॑ष्ट्रो विषास॒हिः ।

यथा॒हमे॑षां भू॒तानां॑ वि॒राजा॑नि॒ जन॑स्य च ॥५

अ॒स॒प॒त्नः । स॒प॒त्न॒ऽहा । अ॒भिऽरा॑ष्ट्रः । वि॒ऽस॒स॒हिः ।

यथा॑ । अ॒हम् । ए॒षाम् । भू॒ताना॑म् । वि॒ऽराजा॑नि । जन॑स्य । च॒ ॥५

असपत्नः । सपत्नऽहा । अभिऽराष्ट्रः । विऽससहिः ।

यथा । अहम् । एषाम् । भूतानाम् । विऽराजानि । जनस्य । च ।। ५ ।।

सपत्नहा सपत्नानां शत्रूणां हन्ता अत एव असपत्नः शत्रुरहितोऽहमभूवम् । अभिराष्ट्रः अभिगतराष्ट्रः प्राप्तराज्यः सन् विषासहिः शत्रूणां विशेषेणाभिभविता चाभूवम् । यथा येन प्रकारेण अहमेषां दृश्यमानानां सर्वेषां भूतानां प्राणिनां जनस्य च सेवकस्यामात्यादेश्च विराजानि यथेश्वरो भवानि तथा सपत्नहा विषासहिश्चाभूवमित्यर्थः ।। ।। ३२ ।।


[सम्पाद्यताम्]

टिप्पणी


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१७४&oldid=300107" इत्यस्माद् प्रतिप्राप्तम्