ऋग्वेदः सूक्तं १०.८८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.८८ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.८७ ऋग्वेदः - मण्डल १०
सूक्तं १०.८८
आङ्गिरसो मूर्धन्वान्, वामदेव्यो वा
सूक्तं १०.८९ →
दे. सूर्य-वैश्वानरो अग्निः। त्रिष्टुप्


हविष्पान्तमजरं स्वर्विदि दिविस्पृश्याहुतं जुष्टमग्नौ ।
तस्य भर्मणे भुवनाय देवा धर्मणे कं स्वधया पप्रथन्त ॥१॥
गीर्णं भुवनं तमसापगूळ्हमाविः स्वरभवज्जाते अग्नौ ।
तस्य देवाः पृथिवी द्यौरुतापोऽरणयन्नोषधीः सख्ये अस्य ॥२॥
देवेभिर्न्विषितो यज्ञियेभिरग्निं स्तोषाण्यजरं बृहन्तम् ।
यो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम् ॥३॥
यो होतासीत्प्रथमो देवजुष्टो यं समाञ्जन्नाज्येना वृणानाः ।
स पतत्रीत्वरं स्था जगद्यच्छ्वात्रमग्निरकृणोज्जातवेदाः ॥४॥
यज्जातवेदो भुवनस्य मूर्धन्नतिष्ठो अग्ने सह रोचनेन ।
तं त्वाहेम मतिभिर्गीर्भिरुक्थैः स यज्ञियो अभवो रोदसिप्राः ॥५॥
मूर्धा भुवो भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन् ।
मायामू तु यज्ञियानामेतामपो यत्तूर्णिश्चरति प्रजानन् ॥६॥
दृशेन्यो यो महिना समिद्धोऽरोचत दिवियोनिर्विभावा ।
तस्मिन्नग्नौ सूक्तवाकेन देवा हविर्विश्व आजुहवुस्तनूपाः ॥७॥
सूक्तवाकं प्रथममादिदग्निमादिद्धविरजनयन्त देवाः ।
स एषां यज्ञो अभवत्तनूपास्तं द्यौर्वेद तं पृथिवी तमापः ॥८॥
यं देवासोऽजनयन्ताग्निं यस्मिन्नाजुहवुर्भुवनानि विश्वा ।
सो अर्चिषा पृथिवीं द्यामुतेमामृजूयमानो अतपन्महित्वा ॥९॥
स्तोमेन हि दिवि देवासो अग्निमजीजनञ्छक्तिभी रोदसिप्राम् ।
तमू अकृण्वन्त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः ॥१०॥
यदेदेनमदधुर्यज्ञियासो दिवि देवाः सूर्यमादितेयम् ।
यदा चरिष्णू मिथुनावभूतामादित्प्रापश्यन्भुवनानि विश्वा ॥११॥
विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन् ।
आ यस्ततानोषसो विभातीरपो ऊर्णोति तमो अर्चिषा यन् ॥१२॥
वैश्वानरं कवयो यज्ञियासोऽग्निं देवा अजनयन्नजुर्यम् ।
नक्षत्रं प्रत्नममिनच्चरिष्णु यक्षस्याध्यक्षं तविषं बृहन्तम् ॥१३॥
वैश्वानरं विश्वहा दीदिवांसं मन्त्रैरग्निं कविमच्छा वदामः ।
यो महिम्ना परिबभूवोर्वी उतावस्तादुत देवः परस्तात् ॥१४॥
द्वे स्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् ।
ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च ॥१५॥
द्वे समीची बिभृतश्चरन्तं शीर्षतो जातं मनसा विमृष्टम् ।
स प्रत्यङ्विश्वा भुवनानि तस्थावप्रयुच्छन्तरणिर्भ्राजमानः ॥१६॥
यत्रा वदेते अवरः परश्च यज्ञन्योः कतरो नौ वि वेद ।
आ शेकुरित्सधमादं सखायो नक्षन्त यज्ञं क इदं वि वोचत् ॥१७॥
कत्यग्नयः कति सूर्यासः कत्युषासः कत्यु स्विदापः ।
नोपस्पिजं वः पितरो वदामि पृच्छामि वः कवयो विद्मने कम् ॥१८॥
यावन्मात्रमुषसो न प्रतीकं सुपर्ण्यो वसते मातरिश्वः ।
तावद्दधात्युप यज्ञमायन्ब्राह्मणो होतुरवरो निषीदन् ॥१९॥


सायणभाष्यम्

' हविष्पान्तम् ' इत्येकोनविंशत्यृचं चतुर्थं सूक्तं त्रैष्टुभम् । मूर्धन्वानृषिः । स चाङ्गिरसो वामदेव्यो वा । सूर्यो वैश्वानरगुणकोऽग्निश्च समुदितो देवता । तथा चानुक्रान्तं-' हविरेकोनाङ्गिरसो मूर्धन्वान्वामदेव्यो वा सौर्यवैश्वानरीयम् ' इति । व्यूढस्य दशरात्रस्य पञ्चमेऽहन्याग्निमारुत एतद्वैश्वानरीयनिविद्धानम् । सूत्रितं च-' हविष्पान्तमग्निर्होता गृहपतिः स राजा ' ( आश्व. श्रौ. ८.८) इति ।।


ह॒विष्पान्त॑म॒जरं॑ स्व॒र्विदि॑ दिवि॒स्पृश्याहु॑तं॒ जुष्ट॑म॒ग्नौ ।

तस्य॒ भर्म॑णे॒ भुव॑नाय दे॒वा धर्म॑णे॒ कं स्व॒धया॑ पप्रथन्त ॥१

ह॒विः । पान्त॑म् । अ॒जर॑म् । स्वः॒ऽविदि॑ । दि॒वि॒ऽस्पृशि॑ । आऽहु॑तम् । जुष्ट॑म् । अ॒ग्नौ ।

तस्य॑ । भर्म॑णे । भुव॑नाय । दे॒वाः । धर्म॑णे । कम् । स्व॒धया॑ । प॒प्र॒थ॒न्त॒ ॥

हविः । पान्तम् । अजरम् । स्वःऽविदि । दिविऽस्पृशि । आऽहुतम् । जुष्टम् । अग्नौ ।

तस्य । भर्मणे । भुवनाय । देवाः । धर्मणे । कम् । स्वधया । पप्रथन्त ॥

“पान्तं पानीयं सोमात्मकम् “अजरं जरारहितं “जुष्टं देवानां प्रियं यत् “हविः “स्वर्विदि सूर्यस्य वेदितरि “दिविस्पृशि दिवि स्प्रष्टरि “अग्नौ “आहुतम् अभिहुतं “तस्य सोमात्मकस्य हविषः “भर्मणे भरणाय “भुवनाय भावनाय च “धर्मणे धारणाय च “कं सर्वस्य सुखकरमिमग्निं "देवाः “स्वधया अन्नेन “पप्रथन्त प्रथयन्ति । तथा च यास्कः-’ हविर्यत्पानीयमजरं सूर्यविदि दिविस्पृश्यभिहुतं जुष्टमग्नौ तस्य भरणाय च भावनाय च धारणाय चैतेभ्यः सर्वेभ्यः कर्मभ्यो देवा इममग्निमन्नेनापप्रथन्त' ( निरु. ७, २५) इति ॥


गी॒र्णं भुव॑नं॒ तम॒साप॑गूळ्हमा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ।

तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापोऽर॑णय॒न्नोष॑धीः स॒ख्ये अ॑स्य ॥२

गी॒र्णम् । भुव॑नम् । तम॑सा । अप॑ऽगूळ्हम् । आ॒विः । स्वः॑ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ ।

तस्य॑ । दे॒वाः । पृ॒थि॒वी । द्यौः । उ॒त । आपः॑ । अर॑णयन् । ओष॑धीः । स॒ख्ये । अ॒स्य॒ ॥

गीर्णम् । भुवनम् । तमसा । अपऽगूळ्हम् । आविः । स्वः । अभवत् । जाते । अग्नौ ।

तस्य । देवाः । पृथिवी । द्यौः । उत । आपः । अरणयन् । ओषधीः । सख्ये । अस्य ॥

“गीर्णं पूर्वं निगीर्णं “तमसा अन्धकारेण “अपगूढम् आच्छादितं “स्वः सर्वं “भुवनम् “अग्नौ यस्मिन् वैश्वानरे “जाते उत्पन्ने सति “आविः “अभवत् आविर्भवति “तस्य “अस्य वैश्वानरस्याग्नेः “सख्ये सखिकर्मणि “देवाः इन्द्रादयः “पृथिवी भूमिश्च “द्यौः च “आपः अन्तरिक्षं चोदकानि च “ओषधीः ओषध्यश्च “अरणयन् अरमन्त । प्रीतिं कृतवन्त इत्यर्थः ॥


दे॒वेभि॒र्न्वि॑षि॒तो य॒ज्ञिये॑भिर॒ग्निं स्तो॑षाण्य॒जरं॑ बृ॒हन्त॑म् ।

यो भा॒नुना॑ पृथि॒वीं द्यामु॒तेमामा॑त॒तान॒ रोद॑सी अ॒न्तरि॑क्षम् ॥३

दे॒वेभिः॑ । नु । इ॒षि॒तः । य॒ज्ञिये॑भिः । अ॒ग्निम् । स्तो॒षा॒णि॒ । अ॒जर॑म् । बृ॒हन्त॑म् ।

यः । भा॒नुना॑ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । आ॒ऽत॒तान॑ । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ॥

देवेभिः । नु । इषितः । यज्ञियेभिः । अग्निम् । स्तोषाणि । अजरम् । बृहन्तम् ।

यः । भानुना । पृथिवीम् । द्याम् । उत । इमाम् । आऽततान । रोदसी इति । अन्तरिक्षम् ॥

"यज्ञियेभिः यज्ञार्हैः “देवेभिः देवैरिन्द्रादिभिः “नु क्षिप्रम् “इषितः अहम् “अजरं जरारहितं “बृहन्तं महान्तम् “अग्निं तं वैश्वानराग्निं “स्तोषाणि स्तोषामि । “यः वैश्वानरराग्निः “भानुना तेजसा “पृथिवीं भूमिम् “उत अपि च “इमां “द्यां दिवं च “आततान आतनोति । तदेव दर्शयति । “रोदसी द्यावापृथिव्यौ चाततान आतनोति । विस्तारयतीत्यर्थः ॥


यो होतासी॑त्प्रथ॒मो दे॒वजु॑ष्टो॒ यं स॒माञ्ज॒न्नाज्ये॑ना वृणा॒नाः ।

स प॑त॒त्री॑त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे॑दाः ॥४

यः । होता॑ । आसी॑त् । प्र॒थ॒मः । दे॒वऽजु॑ष्टः । यम् । स॒म्ऽआञ्ज॑न् । आज्ये॑न । वृ॒णा॒नाः ।

सः । प॒त॒त्रि । इ॒त्व॒रम् । स्थाः । जग॑त् । यत् । श्वा॒त्रम् । अ॒ग्निः । अ॒कृ॒णो॒त् । जा॒तऽवे॑दाः ॥

यः । होता । आसीत् । प्रथमः । देवऽजुष्टः । यम् । सम्ऽआञ्जन् । आज्येन । वृणानाः ।

सः । पतत्रि । इत्वरम् । स्थाः । जगत् । यत् । श्वात्रम् । अग्निः । अकृणोत् । जातऽवेदाः ॥

“यः वैश्वानरोऽग्निः “देवजुष्टः देवैः सेवितः “प्रथमः मुख्यः “होता “आसीत् अभूत् “यं च वैश्वानराग्निं यजमानाः “वृणानाः “आज्येन “समाञ्जन् समञ्जन्ति “जातवेदाः जातप्रज्ञो जातधनो वा “सः वैश्वानरः “अग्निः “पतत्रि पतनशीलं पक्षिजातम् “इत्वरं गमनशीलं सरीसृपादिकं “स्थाः स्थावरं वृक्षादिरूपं च “जगत् । स्थावर जङ्गमं च जगदित्यर्थः। “श्वात्रं क्षिप्रमेव “अकृणोत् अजनयत् । तथा च यास्कः-’ स पतत्रि चेत्वरं स्थावरं जङ्गमं च यत्तत्क्षिप्रमग्निरकरोज्जातवेदाः ' (निरु.५.३ )इति ॥


यज्जा॑तवेदो॒ भुव॑नस्य मू॒र्धन्नति॑ष्ठो अग्ने स॒ह रो॑च॒नेन॑ ।

तं त्वा॑हेम म॒तिभि॑र्गी॒र्भिरु॒क्थैः स य॒ज्ञियो॑ अभवो रोदसि॒प्राः ॥५

यत् । जा॒त॒ऽवे॒दः॒ । भुव॑नस्य । मू॒र्धन् । अति॑ष्ठः । अ॒ग्ने॒ । स॒ह । रो॒च॒नेन॑ ।

तम् । त्वा॒ । अ॒हे॒म॒ । म॒तिऽभिः॑ । गीः॒ऽभिः । उ॒क्थैः । सः । य॒ज्ञियः॑ । अ॒भ॒वः॒ । रो॒द॒सि॒ऽप्राः ॥

यत् । जातऽवेदः । भुवनस्य । मूर्धन् । अतिष्ठः । अग्ने । सह । रोचनेन ।

तम् । त्वा । अहेम । मतिऽभिः । गीःऽभिः । उक्थैः । सः । यज्ञियः । अभवः । रोदसिऽप्राः ॥

हे “जातवेदः जातप्रज्ञ “अग्ने “यत् यस्त्वं “भुवनस्य त्रैलोक्यस्य “मूर्धन् मूर्धनि “रोचनेन आदित्येन “सह “अतिष्ठः स्थितवानसि “तं वैश्वानराग्निं “त्वा त्वां “मतिभिः अर्चनीयाभिः “गीर्भिः स्तुतिभिः “उक्थैः शस्त्रैश्च “अहेम प्रपद्यामहे । ' हि गतौ ' इति धातुः । “सः वैश्वानरस्त्वं “रोदसिप्राः द्यावापृथिव्योः पूरयिता “यज्ञियः यज्ञार्हश्व “अभवः भवसि ॥ ॥ १० ॥


मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्तत॒ः सूर्यो॑ जायते प्रा॒तरु॒द्यन् ।

मा॒यामू॒ तु य॒ज्ञिया॑नामे॒तामपो॒ यत्तूर्णि॒श्चर॑ति प्रजा॒नन् ॥६

मू॒र्धा । भु॒वः । भ॒व॒ति॒ । नक्त॑म् । अ॒ग्निः । ततः॑ । सूर्यः॑ । जा॒य॒ते॒ । प्रा॒तः । उ॒त्ऽयन् ।

मा॒याम् । ऊं॒ इति॑ । तु । य॒ज्ञिया॑नाम् । ए॒ताम् । अपः॑ । यत् । तूर्णिः॑ । चर॑ति । प्र॒ऽजा॒नन् ॥

मूर्धा । भुवः । भवति । नक्तम् । अग्निः । ततः । सूर्यः । जायते । प्रातः । उत्ऽयन् ।

मायाम् । ऊं इति । तु । यज्ञियानाम् । एताम् । अपः । यत् । तूर्णिः । चरति । प्रऽजानन् ॥

“अग्निः वैश्वानरोऽग्निः “नक्तं रात्रौ “भुवः भूतजातस्य “मूर्धा शिरोवत्प्रधानभूतः “भवति । रात्रौ सर्वप्राणिनामालोकस्य तदधीनत्वात् । “ततः रात्रेरनन्तरं “प्रातरुद्यन् “सूर्यो “जायते । अहनि स एव वैश्वानरोऽग्निः सूर्यो भवतीत्यर्थः । किंच “यज्ञियानां यज्ञसंपादिनां देवानां “मायामु प्रज्ञामेव “एतां मन्यन्ते कवय इति शेषः । “यत् “प्रजानन् प्रज्ञायमानः सूर्यः “तूर्णिः त्वरमाणः सन् “अपः अन्तरिक्षं कर्म वा “चरति । तथा च यास्कः-’ मूर्धा मूर्तमस्मिन्धीयते मूर्धा यः सर्वेषां भूतानां भवति नक्तमग्निस्ततः सूय जायते प्रातरुद्यन्त्स एव । प्रज्ञां त्वेतां मन्यन्ते यज्ञियानां देवानां यज्ञसंपादिनामपो यत्कर्म चरति प्रजानन्त्सर्वाणि स्थानान्यनुसंचरति त्वरमाणः ' (निरु. ७. २७) इति ॥


दृ॒शेन्यो॒ यो म॑हि॒ना समि॒द्धोऽरो॑चत दि॒वियो॑निर्वि॒भावा॑ ।

तस्मि॑न्न॒ग्नौ सू॑क्तवा॒केन॑ दे॒वा ह॒विर्विश्व॒ आजु॑हवुस्तनू॒पाः ॥७

दृ॒शेन्यः॑ । यः । म॒हि॒ना । सम्ऽइ॑द्धः । अरो॑चत । दि॒विऽयो॑निः । वि॒भाऽवा॑ ।

तस्मि॑न् । अ॒ग्नौ । सू॒क्त॒ऽवा॒केन॑ । दे॒वाः । ह॒विः । विश्वे॑ । आ । अ॒जु॒ह॒वुः॒ । त॒नू॒ऽपाः ॥

दृशेन्यः । यः । महिना । सम्ऽइद्धः । अरोचत । दिविऽयोनिः । विभाऽवा ।

तस्मिन् । अग्नौ । सूक्तऽवाकेन । देवाः । हविः । विश्वे । आ । अजुहवुः । तनूऽपाः ॥

“यः वैश्वानरोऽग्निः “महिना महत्त्वेन “दृशेन्यः सर्वदर्शनीयः “समिद्धः सम्यग्दीप्तः “दिवियोनिः द्युस्थानः “विभावा दीप्तिमांश्च सन् "अरोचत दीप्यते “तस्मिन् वैश्वानरे “अग्नौ “तनूपाः शरीराणां रक्षकाः “विश्वे सर्वे “देवाः “सूक्तवाकेन ‘इदं द्यावापृथिवी' इत्यादिवाक्येन स्तोत्राणां वचनेन वा “हविः “आजुहवुः आभिमुख्येन जुहुवुः ॥


सू॒क्त॒वा॒कं प्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयन्त दे॒वाः ।

स ए॑षां य॒ज्ञो अ॑भवत्तनू॒पास्तं द्यौर्वे॑द॒ तं पृ॑थि॒वी तमापः॑ ॥८

सू॒क्त॒ऽवा॒कम् । प्र॒थ॒मम् । आत् । इत् । अ॒ग्निम् । आत् । इत् । ह॒विः । अ॒ज॒न॒य॒न्त॒ । दे॒वाः ।

सः । ए॒षा॒म् । य॒ज्ञः । अ॒भ॒व॒त् । त॒नू॒ऽपाः । तम् । द्यौः । वे॒द॒ । तम् । पृ॒थि॒वी । तम् । आपः॑ ॥

सूक्तऽवाकम् । प्रथमम् । आत् । इत् । अग्निम् । आत् । इत् । हविः । अजनयन्त । देवाः ।

सः । एषाम् । यज्ञः । अभवत् । तनूऽपाः । तम् । द्यौः । वेद । तम् । पृथिवी । तम् । आपः ॥

“प्रथमं पूर्वं “सूक्तवाकम् इदं द्यावापृथिवी ' इत्यादि वाक्यं मनसा निरूपयन्ति “आदित् अनन्तरमेव “अग्निं मथनेनोत्पादयन्ति । “आदित् अनन्तरमेव “देवाः “हविरजनयन्त जनयन्ति । “सः वैश्वानरोऽग्निः “एषां देवानां “यज्ञः यष्टव्यः “अभवत् भवति । सः “तनूपाः शरीराणां रक्षिता च भवति । “तम् अग्निं “द्यौः द्युलोकः “वेद जानाति । “तम् अग्निं “पृथिवी भूमिरपि च जानाति । “तम् अग्निम् “आपः अन्तरिक्षं च जानाति ।।


यं दे॒वासोऽज॑नयन्ता॒ग्निं यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा॑ ।

सो अ॒र्चिषा॑ पृथि॒वीं द्यामु॒तेमामृ॑जू॒यमा॑नो अतपन्महि॒त्वा ॥९

यम् । दे॒वासः॑ । अज॑नयन्त । अ॒ग्निम् । यस्मि॑न् । आ । अजु॑हवुः । भुव॑नानि । विश्वा॑ ।

सः । अ॒र्चिषा॑ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । ऋ॒जु॒ऽयमा॑नः । अ॒त॒प॒त् । म॒हि॒ऽत्वा ॥

यम् । देवासः । अजनयन्त । अग्निम् । यस्मिन् । आ । अजुहवुः । भुवनानि । विश्वा ।

सः । अर्चिषा । पृथिवीम् । द्याम् । उत । इमाम् । ऋजुऽयमानः । अतपत् । महिऽत्वा ॥

“यं वैश्वानरम् “अग्नि “देवासः देवाः “अजनयन्त उत्पादितवन्तः “यस्मिन् च उत्पन्ने वैश्वानरेऽग्नौ “विश्वा विश्वानि “भुवनानि भूतानि “आजुहवुः अभिमुख्येन जुहुवुः सर्वमेधे “सः वैश्वानरोऽग्निः “अर्चिषा तेजसा “पृथिवीम् अन्तरिक्षम् । ‘ आपः पृथिवी' इत्यन्तरिक्षनामसु पाठात् । “द्या दिवं च “उत अपि च “इमां भूमिं च “ऋजूयमानः ऋजुगमनः “महित्वा महत्त्वेन “अतपत् सर्वं तपति ।।


स्तोमे॑न॒ हि दि॒वि दे॒वासो॑ अ॒ग्निमजी॑जन॒ञ्छक्ति॑भी रोदसि॒प्राम् ।

तमू॑ अकृण्वन्त्रे॒धा भु॒वे कं स ओष॑धीः पचति वि॒श्वरू॑पाः ॥१०

स्तोमे॑न । हि । दि॒वि । दे॒वासः॑ । अ॒ग्निम् । अजी॑जनन् । शक्ति॑ऽभिः । रो॒द॒सि॒ऽप्राम् ।

तम् । ऊं॒ इति॑ । अ॒कृ॒ण्व॒न् । त्रे॒धा । भु॒वे । कम् । सः । ओष॑धीः । प॒च॒ति॒ । वि॒श्वऽरू॑पाः ॥

स्तोमेन । हि । दिवि । देवासः । अग्निम् । अजीजनन् । शक्तिऽभिः । रोदसिऽप्राम् ।

तम् । ऊं इति । अकृण्वन् । त्रेधा । भुवे । कम् । सः । ओषधीः । पचति । विश्वऽरूपाः ॥

“देवासः देवाः “शक्तिभिः कर्मभिः “रोदसिप्रा द्यावापृथिव्योरापूरयितारम् “अग्निं सूर्यात्मकं “दिवि द्युलोके “स्तोमेन “हि स्तुत्या खलु “अजीजनन् उत्पादितवन्तः । अपि च “तमु तमेव “कं सुखकरमग्निं यज्ञे “त्रेधा “भुवे त्रेधाभावाय “अकृण्वन् कुर्वन्ति । “सः पृथिव्यां वर्तमानः “विश्वरूपाः सर्वरूपाः “ओषधीः व्रीह्याद्यास्तेन तेनोपकारेण “पचति । अत्र यास्कः-’ स्तोमेन यं हि दिवि देवा सोऽग्निमजनयन् शक्तिभिः कर्मभिर्द्यावापृथिव्योः पूरणं तमकुर्वंस्त्रेधाभावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः । यदस्य दिवि तृतीयं तदसावादित्य इति हि ब्राह्मणम्' ( निरु. ७.२८) इति ॥ ॥ ११ ॥


य॒देदे॑न॒मद॑धुर्य॒ज्ञिया॑सो दि॒वि दे॒वाः सूर्य॑मादिते॒यम् ।

य॒दा च॑रि॒ष्णू मि॑थु॒नावभू॑ता॒मादित्प्राप॑श्य॒न्भुव॑नानि॒ विश्वा॑ ॥११

य॒दा । इत् । ए॒न॒म् । अद॑धुः । य॒ज्ञिया॑सः । दि॒वि । दे॒वाः । सूर्य॑म् । आ॒दि॒ते॒यम् ।

य॒दा । च॒रि॒ष्णू इति॑ । मि॒थु॒नौ । अभू॑ताम् । आत् । इत् । प्र । अ॒प॒श्य॒न् । भुव॑नानि । विश्वा॑ ॥

यदा । इत् । एनम् । अदधुः । यज्ञियासः । दिवि । देवाः । सूर्यम् । आदितेयम् ।

यदा । चरिष्णू इति । मिथुनौ । अभूताम् । आत् । इत् । प्र । अपश्यन् । भुवनानि । विश्वा ॥

“यदेत् यदैव प्रातः “आदितेयम् अदितेः पुत्रं “सूर्यम् “एनम् अग्निं च “यज्ञियासः यज्ञार्हाः “देवाः “दिवि द्युलोके “अदधुः धृतवन्तः । “यदा चेमौ “चरिष्णू चरणशीलौ सूर्यवैश्वानरौ “मिथुनावभूतां प्रादुरभूताम् । “आदित् अनन्तरमेव “विश्वा विश्वानि “भुवनानि भूतजातानि “प्रापश्यन् तौ पश्यन्ति । अत्र यास्कः-’ यदैनमधुर्यज्ञियाः सर्वे दिवि देवाः सूर्यमदितेः पुत्रं यदा चरिष्णू मिथुनौ प्रादुरभूतां सर्वदा सहचारिणावुषाश्चादित्यश्च । मिथुनौ कस्मान्मिनोतिः श्रयतिकर्मा थु इति नामकरणस्थकारो वा नयतिः परो वनिर्वा समाश्रितावन्योन्यं नयतो वनुतो वा । मनुष्यमिथुनावप्येतस्मादेव मेथन्तावन्योन्यं वनुत इति वा ' ( निरु. ७. २९) इति ।


विश्व॑स्मा अ॒ग्निं भुव॑नाय दे॒वा वै॑श्वान॒रं के॒तुमह्ना॑मकृण्वन् ।

आ यस्त॒तानो॒षसो॑ विभा॒तीरपो॑ ऊर्णोति॒ तमो॑ अ॒र्चिषा॒ यन् ॥१२

विश्व॑स्मै । अ॒ग्निम् । भुव॑नाय । दे॒वाः । वै॒श्वा॒न॒रम् । के॒तुम् । अह्ना॑म् । अ॒कृ॒ण्व॒न् ।

आ । यः । त॒तान॑ । उ॒षसः॑ । वि॒ऽभा॒तीः । अपो॒ इति॑ । ऊ॒र्णो॒ति॒ । तमः॑ । अ॒र्चिषा॑ । यन् ॥

विश्वस्मै । अग्निम् । भुवनाय । देवाः । वैश्वानरम् । केतुम् । अह्नाम् । अकृण्वन् ।

आ । यः । ततान । उषसः । विऽभातीः । अपो इति । ऊर्णोति । तमः । अर्चिषा । यन् ॥

“देवाः इन्द्रादयः “विश्वस्मै “भुवनाय “वैश्वानरं विश्वनरहितम् “अग्निम् “अह्नां दिवसानां “केतुं प्रज्ञापकम् “अकृण्वन् अकुर्वन् । “यः वैश्वानरोऽग्निः “उषसो “विभातीः विविध दीप्यमानः “आ “ततान विस्तारयति । किंच सोऽयं “यन् गच्छन् “तमः अन्धकारम् “अर्चिषा तेजसः “अपो “ऊर्णोति अपगमयति ॥


वै॒श्वा॒न॒रं क॒वयो॑ य॒ज्ञिया॑सो॒ऽग्निं दे॒वा अ॑जनयन्नजु॒र्यम् ।

नक्ष॑त्रं प्र॒त्नममि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षं बृ॒हन्त॑म् ॥१३

वै॒श्वा॒न॒रम् । क॒वयः॑ । य॒ज्ञियाः॑ । अ॒ग्निम् । दे॒वाः । अ॒ज॒न॒य॒न् । अ॒जु॒र्यम् ।

नक्ष॑त्रम् । प्र॒त्नम् । अमि॑नत् । च॒रि॒ष्णु । य॒क्षस्य॑ । अधि॑ऽअक्षम् । त॒वि॒षम् । बृ॒हन्त॑म् ॥

वैश्वानरम् । कवयः । यज्ञियाः । अग्निम् । देवाः । अजनयन् । अजुर्यम् ।

नक्षत्रम् । प्रत्नम् । अमिनत् । चरिष्णु । यक्षस्य । अधिऽअक्षम् । तविषम् । बृहन्तम् ॥

“कवयः मेधाविनः “यज्ञियासः यज्ञार्हा यज्ञसंपादिनो वा "देवाः “अजुर्यं जरावर्जितमहिंस्यं वा “वैश्वानरं विश्वनरहितं सूर्यात्मकम् “अग्निम् “अजनयन् उत्पादितवन्तः । स च देवैरुत्पादितोऽग्निः “नक्षत्रं कृत्तिकादि “प्रत्नं पुराणं “चरिष्णु चरणशीलं “यक्षस्य । यक्षतिः पूजार्थः । ‘प्रयक्षम् (ऋ. सं. २, ५, १ ) इत्यादौ दर्शनात् । यक्षस्य पूज्यस्य देवस्य “अध्यक्षं प्रत्यक्षं स्वामिनं वा “तविषं वृद्धं “बृहन्तं महान्तम् “अमिनत् हिंसितवान् । तेजसाभिभूतवानित्यर्थः ।


वै॒श्वा॒न॒रं वि॒श्वहा॑ दीदि॒वांसं॒ मन्त्रै॑र॒ग्निं क॒विमच्छा॑ वदामः ।

यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी उ॒तावस्ता॑दु॒त दे॒वः प॒रस्ता॑त् ॥१४

वै॒श्वा॒न॒रम् । वि॒श्वहा॑ । दी॒दि॒ऽवांस॑म् । मन्त्रैः॑ । अ॒ग्निम् । क॒विम् । अच्छ॑ । व॒दा॒मः॒ ।

यः । म॒हि॒म्ना । प॒रि॒ऽब॒भूव॑ । उ॒र्वी इति॑ । उ॒त । अ॒वस्ता॑त् । उ॒त । दे॒वः । प॒रस्ता॑त् ॥

वैश्वानरम् । विश्वहा । दीदिऽवांसम् । मन्त्रैः । अग्निम् । कविम् । अच्छ । वदामः ।

यः । महिम्ना । परिऽबभूव । उर्वी इति । उत । अवस्तात् । उत । देवः । परस्तात् ॥

“विश्वहा सर्वदा “दीदिवांसं दीप्तं “कविं क्रान्तप्रज्ञं “वैश्वानरम् “अग्निं “मन्त्रैः “अच्छा “वदामः अभिष्टुमः । “यः वैश्वानरोऽग्निः “महिम्ना महत्त्वेन “उर्वी द्यावापृथिव्यौ “परिबभूव परिभवति । “उत अपि च अयम् “अवस्तात् अधस्तात् तपति । "उत अपि चायं सूर्यात्मकः “देवः “परस्तात् उपरिष्टाच्च तपतीत्यर्थः ॥


द्वे स्रु॒ती अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् ।

ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च ॥१५

द्वे इति॑ । स्रु॒ती इति॑ । अ॒शृ॒ण॒व॒म् । पि॒तॄ॒णाम् । अ॒हम् । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् ।

ताभ्या॑म् । इ॒दम् । विश्व॑म् । एज॑त् । सम् । ए॒ति॒ । यत् । अ॒न्त॒रा । पि॒तर॑म् । मा॒तर॑म् । च॒ ॥

द्वे इति । स्रुती इति । अशृणवम् । पितॄणाम् । अहम् । देवानाम् । उत । मर्त्यानाम् ।

ताभ्याम् । इदम् । विश्वम् । एजत् । सम् । एति । यत् । अन्तरा । पितरम् । मातरम् । च ॥

“पितॄणां “देवानां च “उत अपि “मर्त्यानां मनुष्याणां च “द्वे “स्रुती द्वौ मार्गौ देवयानपितृयाणाख्यौ “अहम् “अशृणवम् अश्रौषम् । “यत् विश्वं “पितरं पालकत्वेन पितृभूतां द्यां “मातरं “च धारकत्वेन मातृभूतां पृथिवीं च "अन्तरा द्यावापृथिव्योर्मध्ये भवति तत् “इदं “विश्वम् अग्निना संस्कृतं सत् “एजत् देवलोकं पितृलोकं च गच्छत् “ताभ्यां देवयानपितृयाणाख्याभ्यां मार्गाभ्यां “समेति गच्छति । तौ च मार्गौ भगवता दर्शितौ -- ’ अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते । शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ' (भ.गी.८.२४-२७) इति॥१२॥


द्वे स॑मी॒ची बि॑भृत॒श्चर॑न्तं शीर्ष॒तो जा॒तं मन॑सा॒ विमृ॑ष्टम् ।

स प्र॒त्यङ्विश्वा॒ भुव॑नानि तस्था॒वप्र॑युच्छन्त॒रणि॒र्भ्राज॑मानः ॥१६

द्वे इति॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । बि॒भृ॒तः॒ । चर॑न्तम् । शी॒र्ष॒तः । जा॒तम् । मन॑सा । विऽमृ॑ष्टम् ।

सः । प्र॒त्यङ् । विश्वा॑ । भुव॑नानि । त॒स्थौ॒ । अप्र॑ऽयुच्छन् । त॒रणिः॑ । भ्राज॑मानः ॥

द्वे इति । समीची इति सम्ऽईची । बिभृतः । चरन्तम् । शीर्षतः । जातम् । मनसा । विऽमृष्टम् ।

सः । प्रत्यङ् । विश्वा । भुवनानि । तस्थौ । अप्रऽयुच्छन् । तरणिः । भ्राजमानः ॥

“समीची संगते “द्वे द्यावापृथिव्यौ “चरन्तं गच्छन्तं “शीर्षतः शिरसः “जातम् उत्पन्नम् । तथा च निगमान्तरम् -- उत मन्येऽहमेनमनयोर्हि शिरस्तोऽयं प्रातर्जायते ' इति । यद्वा । सर्वशिरोभूतादादित्याज्जातमित्यर्थः । “मनसा । मन्यतिरर्चतिकर्मा । अर्चनीयया स्तुत्या “विमृष्टं शोधितं संस्कृतमग्निं “बिभृतः धारयतः । सः “अप्रयुच्छन् अप्रमाद्यन् “तरणिः क्षिप्रकारी “भ्राजमानः दीप्यमानोऽग्निः “विश्वा विश्वानि “भुवनानि “प्रत्यङ् अभिमुखः “तस्थौ तिष्ठति । तथा च श्रूयते-- तस्मात्सर्वं एव मन्यन्ते मां प्रत्युदगात् ' ( तै. सं. ६. ५. ४. २) इति ।


यत्रा॒ वदे॑ते॒ अव॑र॒ः पर॑श्च यज्ञ॒न्योः॑ कत॒रो नौ॒ वि वे॑द ।

आ शे॑कु॒रित्स॑ध॒मादं॒ सखा॑यो॒ नक्ष॑न्त य॒ज्ञं क इ॒दं वि वो॑चत् ॥१७

यत्र॑ । वदे॑ते॒ इति॑ । अव॑रः । परः॑ । च॒ । य॒ज्ञ॒ऽन्योः॑ । क॒त॒रः । नौ॒ । वि । वे॒द॒ ।

आ । शे॒कुः॒ । इत् । स॒ध॒ऽमाद॑म् । सखा॑यः । नक्ष॑न्त । य॒ज्ञम् । कः । इ॒दम् । वि । वो॒च॒त् ॥

यत्र । वदेते इति । अवरः । परः । च । यज्ञऽन्योः । कतरः । नौ । वि । वेद ।

आ । शेकुः । इत् । सधऽमादम् । सखायः । नक्षन्त । यज्ञम् । कः । इदम् । वि । वोचत् ॥

“यत्र यस्मिन्काले “अवरः पार्थिवोऽग्निर्देव्यो होता “परश्च मध्यमो वायुश्च उभौ “वदेते विवादं कुर्वाते “यज्ञन्योः यज्ञस्य नेत्रोः “नौ आवयोर्मध्ये “कतरः भूयिष्ठं यज्ञं “वि “वेद वेत्ति तत्र “सखायः समानख्याना ऋत्विजः “सधमादं यज्ञम् “आ “शेकुः कर्तुं शक्नुवन्ति । तथा “यज्ञं “नक्षन्त अश्नुवतेऽनुतिष्ठन्ति च ये तेषां विदुषां यज्ञमश्नुवानानां मध्ये “कः विद्वाननुष्ठाता वा “इदम् अस्य विवादस्य निर्णयरूपं वाक्यं “वि “वोचत् ब्रवीति । माध्यमिकमिममग्निं ब्रवीति । तथा च यास्कः---- ‘ यत्र विवदेते दैव्यौ होतारावयं चाग्निरसौ च मध्यमः कतरो नौ यज्ञे भूयो वेदेत्याशक्नुवन्ति तस्सहमदनं समानख्याना ऋत्विजस्तेषां यज्ञं समश्नुवानानां को न इदं विवक्ष्यति' (निरु. ७. ३०) इति।


कत्य॒ग्नय॒ः कति॒ सूर्या॑स॒ः कत्यु॒षास॒ः कत्यु॑ स्वि॒दापः॑ ।

नोप॒स्पिजं॑ वः पितरो वदामि पृ॒च्छामि॑ वः कवयो वि॒द्मने॒ कम् ॥१८

कति॑ । अ॒ग्नयः॑ । कति॑ । सूर्या॑सः । कति॑ । उ॒षसः॑ । कति॑ । ऊं॒ इति॑ । स्वि॒त् । आपः॑ ।

न । उ॒प॒ऽस्पिज॑म् । वः॒ । पि॒त॒रः॒ । व॒दा॒मि॒ । पृ॒च्छामि॑ । वः॒ । क॒व॒यः॒ । वि॒द्मने॑ । कम् ॥

कति । अग्नयः । कति । सूर्यासः । कति । उषसः । कति । ऊं इति । स्वित् । आपः ।

न । उपऽस्पिजम् । वः । पितरः । वदामि । पृच्छामि । वः । कवयः । विद्मने । कम् ॥

एवं विवदमानावग्निवायू पितॄन् प्रश्नमेयतुः । तत्र मध्यमस्तान् पच्छति । “कत्यग्नयः । अग्नयः कति कतिसंख्याकाः “सूर्यासः सूर्याश्च कतिसंख्याकाः । “उषासः उषसश्च कतिसंख्याकाः । “आपः च “कति । “उ इति पूरणः । स्विच्छब्दोऽत्र विचारणार्थः । हे “पितरः “वः युष्माकम् “उपस्पिजम् । उपस्पिजमिति स्पर्धायुक्तं वचनमुच्यते । पूर्वोक्तं प्रश्नवचनमेतत् “न “वदामि । किं तर्ह्यहमजानन् हे “कवयः मेधाविनः युष्मान् “विद्मने विज्ञानाय “कं सुखं स्वरूपपर्यालोचनक्लेशमन्तरेण “पृच्छामि । अत्रोत्तराणि वालखिल्यसंहितायां दर्शितानि -- एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः । एकैवोषाः सर्वमिदं विभात्येकं वा इदं वि बभूव सर्वम् ' ( ऋ. सं. ८. ५८. २ ) इति ॥


या॒व॒न्मा॒त्रमु॒षसो॒ न प्रती॑कं सुप॒र्ण्यो॒३॒॑ वस॑ते मातरिश्वः ।

ताव॑द्दधा॒त्युप॑ य॒ज्ञमा॒यन्ब्रा॑ह्म॒णो होतु॒रव॑रो नि॒षीद॑न् ॥१९

या॒व॒त्ऽमा॒त्रम् । उ॒षसः॑ । न । प्रती॑कम् । सु॒ऽप॒र्ण्यः॑ । वस॑ते । मा॒त॒रि॒श्वः॒ ।

ताव॑त् । द॒धा॒ति॒ । उप॑ । य॒ज्ञम् । आ॒ऽयन् । ब्रा॒ह्म॒णः । होतुः॑ । अव॑रः । नि॒ऽसीद॑न् ॥

यावत्ऽमात्रम् । उषसः । न । प्रतीकम् । सुऽपर्ण्यः । वसते । मातरिश्वः ।

तावत् । दधाति । उप । यज्ञम् । आऽयन् । ब्राह्मणः । होतुः । अवरः । निऽसीदन् ॥

प्रकृतस्य वैश्वानरस्य विषये यः प्रश्नस्तस्य निर्णयमनया वदन्ति । हे “मातरिश्वः मातर्यन्तरिक्षे श्वसन् माध्यमिक वायो “यावान्मात्रं यावदेव “सुपर्ण्यः सुपतना रात्रयः “उषसः “प्रतीकं मुखं प्रकाशाख्यं दर्शनं वा । “न इति पूरणः । “वसते आच्छादयन्ति “तावत एव “ब्राह्मणः होता “अवरः निकृष्टः “होतुः अस्याग्नेर्वैश्वानरस्य दैव्यस्य होतुः “निषीदन् हौत्रं कर्म कर्तुमुपविशन् “यज्ञमायन उपगच्छन् “उप “दधाति । होतृकर्म स्वबुद्धौ धारयति । तथा च यास्कः-’ यावन्मात्रमुषसः प्रत्यक्तं भवति प्रतिदर्शनमिति वास्त्युपमानस्य संप्रत्यर्थे प्रयोग इहेव निधेहीति यथा सुपर्ण्यः सुपतना एता रात्रयो वसते मातरिश्वञ्ज्योतिर्वर्णस्य तावदुपदधाति यज्ञमागच्छन् ब्राह्मणो होतास्याग्नेर्होतुरवरो निषीदन् होतृजपस्त्वनग्निर्वैश्वानरीयो भवति' (निरु. ७. ३१ ) इति ॥ ॥ १३ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१


[सम्पाद्यताम्]

टिप्पणी

सौर्यवैश्वानरीयं हि तत्सूक्तमिव दृश्यते ।

ऋगर्धर्चोऽथवा पादो द्वृचो वा यदि वा तृचः ।।१७ ।।

अनेन तु प्रवादेन दृष्टा मूर्धन्वता स्तुतिः ।

सूर्यवैश्वानराग्नीनाम् ऐकात्म्यमिह दृश्यते ।। बृहद्देवता २.१८ ।।


१०.८८.१३

वैश्वानरं कवयो यज्ञियासोऽग्निं देवा अजनयन्नजुर्यम्।

नक्षत्रं प्रत्नममिनच्चरिष्णु यक्षस्याध्यक्षं तविषं बृहन्तम्॥ १०.०८८.१३

कवयः। यः सूक्ष्मस्तरेषु घटितानां क्रियाणां स्थूलस्तरे प्रतिबिंबस्य निर्माणं कर्तुं शक्तः सः कविः। यज्ञसंपादकैः देवैः वैश्वानरस्य अग्नेः जननं अकुर्वन्। सः अग्निः अजुर्यम्, जरारहितमस्ति। तेनाग्निना प्रत्नस्य नक्षत्रस्य हननमभवत्। सः अग्निः यक्षस्य अध्यक्षमस्ति। सः अग्निः त्वेषयुक्तः, बृहदस्ति।

यथा ऋग्वेद २.५.१ ऋचायाः टिप्पण्यां उल्लिखितमस्ति, वेदभाष्येषु यक्षस्यार्थं पूजायां गृहीतमस्ति। पुराणेषु - येन कृत्येन तन्त्रस्य धनात्मकतायाः संरक्षणं संभवमस्ति, तस्य संज्ञा यक्षः अस्ति। पुराणेषु सार्वत्रिकं कथनमस्ति ( द्र. कुबेरोपरि पौराणिकाः संदर्भाः) यत् कुबेरेण तपसा यक्षाणां आधिपत्यं गृहीतवान्। अत्र स्वयं कुबेरः एकवचनस्य यक्षः अस्ति, तस्य आधिपत्यं बहुवचनसंज्ञकानां यक्षाणामुपरि अस्ति। प्रस्तुतायां ऋचायां वैश्वानरः अग्निः एकवचनस्य यक्षस्य अधिपतिः भवति। किमयं यक्षः स्वयं कुबेरः अस्ति, अथवा कोपि अन्या चेतना अस्ति, अयं अन्वेषणीयः। यदा यक्षः बहुवचने अस्ति (यक्षाः), तदा तेषां कृत्येषु का वैशिष्ट्यं भवति। कथनमस्ति यत् पुष्पकविमानोपरि कुबेरस्य आधिपत्यं अस्ति। पुष्पके चतुःषष्टि स्तम्भाः भवन्ति। एते चतुःषष्टि स्तम्भाः चतुःषष्टिकलानां प्रतीकाः सन्ति, अयं अनुमानम्। कला अर्थात् क्षययुक्तं तन्त्रम्। चतुःषष्टिषु तन्त्रेषु क्षयस्य निरोधं कुबेरस्य कर्तव्यमस्ति।

सोमयागे आश्रावय, अस्तु श्रौषट्, यज, ये यजामहे, वौषट् एतानि सप्ताक्षरात्मकानां व्याहृतीनां प्रयोगः भवति ( शतपथब्राह्मणम् १२.३.३.३)। कथनं अस्ति यत् ये षोडशाक्षराः सन्ति, ते कलाः सन्ति। यः सप्तदशः, सः प्रजापतिः। सः षोडशानां कलानां अधिपतिः अस्ति। अपि च, कथनमस्ति यत् असौ वाव वौ, ऋतवः षट् (गोपथब्राह्मणम् २.३.१। एवंरूपेण, यः असौ सूर्यः अस्ति, तस्य पृथिव्योपरि षड् ऋतूनां रूपेण निवेशनस्य वौषट् अस्ति।

अभिधानराजेन्द्रे जिनयक्ष शीर्षके २४ जिनानां वाहकरूपेण वृषादि २४ यक्षवाहकानां उल्लेखमस्ति।

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.८८&oldid=167122" इत्यस्माद् पुनः प्राप्तिः