सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ३/ब्राह्मण ३

विकिस्रोतः तः


१२.३.३ प्रायश्चित्तसत्रम्।

देवा ह वै सहस्रसंवत्सराय दिदीक्षिरे। तेषां पंच शतानि संवत्सराणां पर्यवेतान्यासुः। अथेदं सर्वमेव शश्राम। ये स्तोमा यानि पृष्ठानि यानि च्छंदांसि॥१२.३.३.१॥

ततो देवा एतद्यज्ञस्यायातयामापश्यन्। तेनायातयाम्ना या वेदे व्यष्टिरासीत् – तां व्याश्नुवत। अयातयामा वा अस्य वेदाः। अयातयाम्न्या हास्य त्रय्या विद्यया आर्त्विज्यं कृतं भवति। य एवमेतद्वेद॥१२.३.३.२॥

तदेतद्यज्ञस्यायातयाम। ओश्रावयास्तु श्रौषड्यज येयजामहे वौषडिति। तासां वा एतासां पंचानां व्याहृतीनां सप्तदशाक्षराणि। ओश्रावयेति चतुरक्षरम्। अस्तु श्रौषडिति चतुरक्षरम्। यजेति द्वयक्षरम्। येयजामह इति पंचाक्षरम्॥१२.३.३.३॥

द्व्यक्षरो वषट्कारः। स एष सप्तदशः प्रजापतिः अधिदेवतं चाध्यात्मं च प्रतिष्ठितः। स यो हैवमेतं सप्तदशं प्रजापतिमधिदेवतं चाध्यात्मं च प्रतिष्ठितं वेद। प्रतितिष्ठति प्रजया पशुभिरस्मिन् लोके। अमृतत्वेनामुष्मिन्॥१२.३.३.४॥

ते ह देवा ऊचुः। उप तं यज्ञक्रतुं जानीत। यः सहस्रसंवत्सरस्य प्रतिमा। को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण समाप्नुयादिति॥१२.३.३.५॥

ते विश्वजितमेव सर्वपृष्ठं पृष्ठ्यस्य षडहस्यांजःसवमपश्यन्। ते हि स्तोमा भवन्ति। तानि पृष्ठानि। तानि च्छन्दांसि॥१२.३.३.६॥

पृष्ठ्यमेव षडहं द्वादशाहस्यांजःसवमपश्यन्। ते हि स्तोमा भवन्ति। तानि पृष्ठानि। तानि च्छन्दांसि॥१२.३.३.७॥

द्वादशाहमेव संवत्सरस्यांजःसवमपश्यन्। ते हि स्तोमा भवन्ति. तानि पृष्ठानि। तानि च्छंदांसि॥१२.३.३.८॥

संवत्सरमेव तापश्चितस्यांजःसवमपश्यन्। ते हि स्तोमा भवन्ति। तानि पृष्ठानि। तानि च्छंदांसि॥१२.३.३.९॥

तापश्चितमेव सहस्रसंवत्सरस्यांजःसवमपश्यन्। ते हि स्तोमा भवन्ति। तानि पृष्ठानि। तानि च्छंदांसि॥१२.३.३.१०॥

स वै संवत्सरं दीक्षाभिरेति। संवत्सरमुपसद्भिः। संवत्सरं सुत्याभिः॥१२.३.३.११॥

स यत्संवत्सरं दीक्षाभिरेति। पूर्वार्द्धमेव तेन सहस्रसंवत्सरस्यावरुन्द्धे। अथ यत्संवत्सरमुपसद्भिः मध्यमेव तेन सहस्रसंवत्सरस्यावरुन्धे। अथ यत्संवत्सरं सुत्याभिः। उत्तरार्द्धमेव तेन सहस्रसंवत्सरस्यावरुन्धे॥१२.३.३.१२॥

स वै द्वादश मासान्दीक्षाभिरेति द्वादशोपसद्भिः। द्वादश सुत्याभिः। तत्षट्त्रिंशत्। षट्त्रिंशदक्षरा वै बृहती। बृहत्या वै देवाः स्वर्गे लोके ऽयतंत। बृहत्या स्वर्गं लोकमाप्नुवन्। तथो एवैष एतद्बृहत्यैव स्वर्गे लोके यतते। बृहत्या स्वर्गं लोकमाप्नोति। अथ यो बृहत्यां कामः। तमेवैतेनैवंविदवरुन्धे॥१२.३.३.१३॥

तद्वा एतत्त्रयं सह क्रियते। अग्निरर्क्यं महदुक्थ्यम्। स यत्संवत्सरं दीक्षाभिरेति, संवत्सरमुपसद्भिः। तेनास्याग्न्यर्कावाप्तौ भवतः। अथ यत्संवत्सरं सुत्याभिरेति, तेनो एवासय महदुक्थ्यमाप्तं भवन्ति। स वा एष एव सहस्रसंवत्सरस्य प्रतिमा, यत्तापश्चितः। एष प्रजानां प्रजात्यै। यत्तापश्चितः॥१२.३.३.१४॥

इति प्रथम प्रपाठके एकादशं ब्राह्मणम्॥