शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ३

विकिस्रोतः तः

ब्राह्मण १ गवामयनपुरुषप्रजापतीनां कलासाम्याभिधानम्

१ गवामयनपुरुषप्रजापतीनां कलासाम्याभिधानम् - तत्र प्रथमं पञ्चभिः श्लोकमन्त्रैर्हे बालाके ! इदमधियज्ञाध्यामाथिदैवं त्रिवृत् सर्वमन्योऽन्यमभिसम्पद्यमानं भवति, ततो यज्ञः पुरुषः प्रजापतिरित्येते त्रयः कथमन्योऽन्यं नातिरिच्यन्ते इति सप्रपञ्चं प्रश्नस्योद्भावनम् , अस्य पुरुषस्य त्रिवृत्स्तोमः शिरः - पञ्चदशस्तोमो ग्रीवा इत्यवयवसाम्यसम्पादनेन चतुर्भिः श्लोकमन्त्रैरुद्भावितप्रश्नस्य सप्रपञ्चमुत्तरप्रतिपादनम्, एवं धीरोऽनुष्ठातोपासकः सर्वस्तोमं सर्वसामानमध्यात्मं प्रविष्टं संवत्सरमात्मना समं कल्पयित्वाऽजातशोकःसन् ब्रध्नस्य विष्टपे आस्ते इत्युक्तोपासनस्य फलनिरूपणं चेत्यादि.

ब्राह्मण २

२ संवत्सरस्य पुरुषस्य च तत्तदवयवानां समत्वस्य यथायथमुपपादनं, तत्र प्रसङ्गाद्वर्षतो मेघस्य स्वेदायनपरिमाणविषयकं विदुषो वार्कलेर्मतनिरूपणम् , तत्प्रसङ्गेनैव द्वाभ्यां श्लोकमन्त्राभ्यां उच्छ्वासनिःश्वासलक्षणयोः प्राणापानयोः संख्याविषये प्रश्नोत्तरयोः प्रदर्शनं चेत्यादि.


ब्राह्मण ३ प्रायश्चित्तसत्रम्

३ प्रायश्चित्तसत्रम् - तत्र सहस्रसंवत्सरसत्राय दीक्षिता देवाः पञ्चशतसंवत्सरेष्वतीतेषु सत्सु श्रान्ताः सन्तो यज्ञस्य सप्तदशाक्षरात्मकं व्याहृतिपञ्चकमयातयामापश्यंस्तत्र यानि सप्तदशाक्षराणि स सप्तदशः प्रजापतिः सम्पन्न इत्याद्यर्थस्याभिधानम् , एवमधिदैवतमध्यात्मं च प्रतिष्ठितं सप्तदश प्रजापतिं वेदितुः फलनिरूपणं, पुनर्देवा यज्ञक्रतुमभिलक्ष्य क एतादृशो मनुष्यः स्यात् योऽस्य सहस्रसंवत्सरस्य प्रतिमां वेद वैनं सहस्रसंवत्सरेण समाप्नुयादिति विचार्य षडहस्य पृष्ठ्यस्य सर्वपृष्ठं विश्वजितं --द्वादशाहस्य षडहं पृष्ठ्यं-संवत्सरस्य द्वादशाहं-तापश्चितस्य संवत्सरं-सहस्रसंवत्सरस्य तापश्चितं अञ्जःसवविधिमपश्यन्नित्यादीतिहासप्रदर्शनम्, सहस्रसंवत्सरस्य संवत्सरात्मभिर्दीक्षोपसत्सुत्याभिः सम्पादनकथनं, सहस्रसंवत्सरस्य द्वादशमासनिर्वर्त्याभिर्द्वादशदीक्षाभिर्द्वादशोपसद्भिर्द्वादशसुत्याभिश्च बृहीत्वसम्पादनम् , बृहत्यात्मनोपासनस्यफलाभिधानसहितं द्योतनं, सफलमग्न्यर्क्य महदुक्थ्यात्मनोपासनस्य द्योतनं चेत्यादि.


ब्राह्मण ४

४ नारायणप्रजापतिसंवादात्मकेतिहासद्वारा संवत्सरसत्रे पवमानत्रये समन्त्रकमुद्गातुरन्वारम्भविधेयताप्रतिपादनम् , संस्थितेषु संस्थितेषु सवनेषु जपविधानं जपमन्त्रप्रदर्शनं च, मन्त्रोदितभर्गोमहोयशःसर्वादीनां लोकदेवतावेदप्राणाद्यात्मत्वप्रतिपादनम्, एतेन मन्त्रजपेन च सर्वांल्लोकान्सर्वान्देवान्सर्वान्वेदान्सर्वान् प्राणांश्चात्मन्यधिषि-आत्मानं च तेषु सर्वेषु अधाम्-तथैतेनान्योऽन्यधारणेन सर्वे लोकाः सर्वे देवाः सर्वे वेदाः सर्वे प्राणा अक्षीणाः सर्वं चाक्षीणमिति विद्यादिति विज्ञानाभिधानम्, उक्तविज्ञानं वेदितुः फलाभिधानं चेत्यादि.


ब्राह्मण ५ श्रीकामाणां सत्रिणामेककल्पो गवामयनः क्रतुः

५ श्रीकामाणां सत्रिणामेककल्पो गवामयनः क्रतुः - तत्र पूर्वे सत्रिण इष्टकापशुं सावित्रमालभन्ते स्म-इदानीन्तनाः सत्रिणः प्राजापत्यं पशुमालभन्त इत्याद्यभिधानं, सावित्रप्राजापत्यपश्वोरेकत्वप्रतिपादनं, सत्रेष्वितरेषां सत्रिणां गृहपतेरेव स्वस्वगार्हपत्यसन्निवापस्य सकारणमभिधानं पक्षान्तरेण नानागार्हपत्या एव स्युरित्यस्य कल्पस्य प्रतिपादनं, यदि दीक्षितस्य किञ्चिदङ्गं व्याधिनोपतपेत्तदा स गार्हपत्यादाहवनीयमुद्धृत्य पार्श्वभागे तत्रैव जुहद्वसेदित्यर्थस्याभिधानं स दीक्षितो यदि रोगरहितो भवति तदाऽऽहवनीयं पुनर्गार्हपत्ये संसृज्य तं याजयेदित्यर्थस्याभिधानं, यदि तु स दीक्षितो म्रियेत तदा तं तत्पुत्रादयस्तदीयैरेवाग्निभिर्दहन्तीतरे तु सत्रिणोऽशवाग्निभिरेव यजमानाः सन्त आसत इति सकारणं निरूपणम् यदा च संवत्सरात्मकसत्राय संवत्सरसदः सत्रिणो दीक्षन्ते तदा तेषामग्निहोत्रं पौर्णमासं हविः पिण्डपितृयज्ञ आमावास्यं हविराग्रयणेष्टिश्चातुर्मास्यानि पशुबन्धो ज्योतिष्टोमश्चेत्येते यज्ञक्रतवः कथमन्तरिता न भवन्तीति पर्यायशः प्रश्नानुद्भाव्य तेषां तेनैव क्रमेणपर्यायश एव व्रतेनाज्यपुरोडाशाभ्यामौपासनैर्दधिपुरोडाशाभ्यां सौम्येन चरुणा पयस्यया पशुपुरोडाशाभ्यां सवनैश्चैते सर्वे यज्ञक्रतवः संवत्सरं प्राप्यानन्तरिता भवन्तीत्युत्तरप्रदानवर्णनम्, इमामुक्तां यज्ञक्रतूनामपीतिं वेदितुः फलकथनं, संवत्सरस्य गवामयनेन सह समतायाः सोपपत्तिकं प्रतिपादनम् , उक्तार्थं वेदितुः फलप्रतिपादनं चेत्यादि.