शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ३/ब्राह्मण ५

विकिस्रोतः तः


१२.३.५.

सावित्रं ह स्मैतं पूर्वे पशुमालभन्ते। अथैतर्हि प्राजापत्यम्। यो ह्येव सविता स प्रजापतिरिति वदन्तः। तस्मात् संन्युप्याग्नीन् तेन यजेरन्। गृहपतेरेवाग्निषु। ययेदं जाघन्या पत्नीः संयाजयन्ति। तस्यां नोप्यऽसदिति। ते ततो यदानिकामं दीक्षन्ते॥१२.३.५.१॥

तदु वा आहुः। नानाधिष्ण्या एव स्युः। यदि दीक्षितस्योपतपेत्। पार्श्वतः अग्निहोत्रं जुह्वत् वसेत्। स यद्यगदो भवति। संसृज्यैनं पुनरुपह्वयन्ते। यद्यु म्रियते।स्वैरेव तमग्निभिर्दहन्ति। अशवाग्निभिरितरे यजमाना आसत इति।तदहैवाहिताग्नेः कर्म। समानधिष्ण्यास्ते भवन्ति। तस्य तदेव ब्राह्मणं यत् पुरश्चरणे॥१२.३.५.२॥

तदाहुः – यत् संवत्सराय संवत्सरसदो दीक्षन्ते। कथमेषामग्निहोत्रमनन्तरितं भवतीति। व्रतेनेति ब्रूयात्॥१२.३.५.३॥

तदाहुः – यत्संवत्सराय संवत्सरसदो दीक्षन्ते। कथमेषां पौर्णमासं हविरनन्तरितं भवतीति। आज्येन च पुरोडाशेन चेति ब्रूयात्॥१२.३.५.४॥

तदाहुः – यत्संवत्सराय संवत्सरसदो दीक्षन्ते। कथमेषां पितृयज्ञोऽनन्तरितो भवतीति। औपासनैरिति ब्रूयात्॥१२.३.५.५॥

तदाहुः – यत्संवत्सराय संवत्सरसदो दीक्षन्ते। कथमेषामामावास्यं हविरनन्तरितं भवतीति। दध्ना च पुरोडाशेन चेति ब्रूयात्॥१२.३.५.६॥

तदाहुः – यत्संवत्सराय दीक्षन्ते। कथमेषामाग्रयणेष्टिरनन्तरिता भवतीति। सौम्येन चरुणेति ब्रूयात्॥१२.३.५.७॥

तदाहुः – यत्संवत्सराय संवत्सरसदो दीक्षन्ते। कथमेषां चातुर्मास्यान्यनन्तरितानि भवन्तीति। पयस्ययेति ब्रूयात्॥१२.३.५.८॥

तदाहुः – यत्संवत्सराय संवत्सरसदो दीक्षन्ते। कथमेषां पशुबन्धोऽनन्तरितो भवतीति। पशुना च पुरोडाशेन चेति ब्रूयात्॥१२.३.५.९॥

तदाहुः – यत् संवत्सराय संवत्सरसदो दीक्षंते। कथमेषां सोमोऽनन्तरितो भवतीति। सवनैरिति ब्रूयात्॥१२.३.५.१०॥

ते वा एवमेते यज्ञक्रतवः संवत्सरमपियन्ति। स यो हैवमेतां यज्ञक्रतूनामपीतिं वेद। अप्यस्य स्वर्गे लोके भवति॥१२.३.५.११॥

संवत्सरस्य समता वेदितव्या। एकं पुरस्तात् विषुवतोऽतिरात्रमुपयन्ति। एकमुपरिष्टात्। त्रयःपञ्चाशतं पुरस्ताद्विषुवतोऽग्निष्टोमानुपयन्ति। त्रयःपंचाशतमुपरिष्टात्। विंशतिशतं पुरस्तात् विषुवत उक्थ्यान्यहान्युपयन्ति। विंशतिशतमुपरिष्टात्। इति नु य उक्थ्यान् स्वरसाम्न उपयन्ति॥१२.३.५.१२॥

अथ येऽग्निष्टोमान् षट्पंचाशतं पुरस्तात् विषुवतोऽग्निष्टोमानुपयंति। षट्पंचाशतमुपरिष्टात्। सप्तदशं शतं पुरस्तात् विषुवत उक्थ्यान्यहान्युपयंति। सप्तदशमुपरिष्टात्। षट्पुरस्ताद्विषुवतः षोडशिन उपयंति। षडुपरिष्टात्। त्रिंशतं पुरस्ताद्विषुवतः षडहान्युपयंति। त्रिंशतमुपरिष्टात्। एषा हास्य समता। समेन ह वा अस्या व्यृद्धेनान्यूनेनानतिरिक्तेनायनेनेतं भवति। य एवमेतद्वेद॥१२.३.५.१३॥

इति द्वितीयप्रपाठके द्वितीयं ब्राह्मणम्॥