शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ३/ब्राह्मण ४

विकिस्रोतः तः

१२.३.४.

पुरुषं ह नारायणं प्रजापतिरुवाच यजस्वयजस्वेति। स होवाच। यजस्वयजस्वेति वा त्वं मामात्थ। त्रिरयक्षि। वसवः प्रातःसवनेनागुः। रुद्रा माध्यंदिनेन सवनेन। आदित्यास्तृतीयसवनेन। अथ मम यज्ञवास्त्वेव। यज्ञवास्तावेवाहमास इति॥१२.३.४.१॥

स होवाच। यजस्वैव। अहं वै ते तद्वक्ष्यामि। यथा त उक्थ्यानि मणिरिव सूत्र ओतानि भविष्यन्ति। सूत्रमिव वा मणाविति॥१२.३.४.२॥

तस्मा उ हैतदुवाच। प्रातःसवने बहिष्पवमान उद्गातारमन्वरभासै। श्येनोऽसि गायत्रच्छन्दा अनु त्वाऽऽरभे स्वस्ति मा संपारय इति॥१२.३.४.३॥

अथ माध्यन्दिने पवमाने उद्गातारमन्वारभासै। सुपर्णोऽसि त्रिष्टुप्छन्दा अनु त्वाऽऽरभे स्वस्ति मा संपारय इति॥१२.३.४.४॥

अथ तृतीयसवन आर्भवे पवमान उद्गातारमन्वारभासै। ऋभुरसि जगच्छन्दा अनु त्वाऽऽरभे स्वस्ति मा संपारय इति॥१२.३.४.५॥

अथ संस्थितेषु संस्थितेषु सवनेषु जपेः। मयि भर्गो मयि महो मयि यशो मयि सर्वम् इति॥१२.३.४.६॥

अयं वै लोको भर्गः। अंतरिक्षलोको महः।द्यौर्यशः। येऽन्ये लोकास्तत्सर्वम्॥१२.३.४.७॥

अग्निर्वै भर्गः। वायुर्महः। आदित्यो यशः। येऽन्ये देवास्तत्सर्वम्॥१२.३.४.८॥

ऋग्वेदो वै भर्गः। यजुर्वेदो महः। सामवेदो यशः। येऽन्ये वेदास्तत्सर्वम्॥१२.३.४.९॥

वाग्वै भर्गः। प्राणो महः। चक्षुर्यशः। येऽन्ये प्राणास्तत्सर्वम्॥१२.३.४.१०॥

तद्विद्यात् सर्वान् लोकानात्मन्नधिषि। सर्वेषु लोकेषु आत्मानमधाम्। सर्वान् वेदान् आत्मन्नधिषि सर्वेषु वेदेष्वात्मानमधाम्। सर्वान् प्राणानात्मन्नधिषि। सर्वेषु प्राणेष्वात्मानमधामिति। अक्षिता वै लोकाः। अक्षिता देवाः। अक्षिता वेदाः। अक्षिताः प्राणाः। अक्षितं सर्वम्। अक्षिताद्ध वा अक्षितमुपसंक्रामति। अप पुनर्मृत्युं जयति। सर्वमायुरेति। य एवमेतद्वेद॥१२.३.४.११॥


[सम्पाद्यताम्]

टिप्पणी

तु. गोपथब्राह्मणम् १.५.१५