गोपथ ब्राह्मणम्/भागः १ (पूर्वभागः)/प्रपाठकः ५
1.5.1
ओम् अभिप्लवः षडहः। षड् ढ्य् अहानि भवन्ति ज्योतिर् गौर् आयुर् गौर् आयुर् ज्योतिः। अभिप्लवः पञ्चाहः। पञ्च ह्य् एवाहानि भवन्ति। यद् ध्य् एव प्रथमम् अहस् तद् उत्तमम् अहः। अभिप्लवश् चतुरहः। चत्वारो हि स्तोमा भवन्ति त्रिवृत् पञ्चदशः सप्तदश एकविंश एव। अभिप्लवस् त्र्यहस्। त्र्यावृत्तिर् ज्योतिर् गौर् आयुः। अभिप्लवो द्व्यहः। द्वे ह्येव सामनी भवतो बृहद्रथन्तरे एव। अभिप्लव एकाह। एकाहस्य हि स्तोमैस् तायते। चतुर्णाम् उक्थ्यानां द्वादश स्तोत्राण्य् अतिरिच्यन्ते। स सप्तमो ऽग्निष्टोमस्। तथा खलु सप्ताग्निष्टोमा मासि संपद्यन्त इति ब्राह्मणम् ॥ १ ॥। ।
1.5.2
अथातो गाधप्रतिष्ठा। समुद्रं वा एते प्रतरन्ति ये संवत्सराय दीक्षन्ते। तेषां तीर्थम् एव प्रायणीयो ऽतिरात्रस्। तीर्थेन हि प्रतरन्ति। तद् यथा समुद्रं तीर्थेन प्रतरेयुस् तादृक् तत्। गाधं प्रतिष्ठा चतुर्विंशम् अहर् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्। प्रस्नयो ऽभिप्लवः। प्रस्नेयः पृष्ठ्यः। गाधं प्रतिष्ठाभिजिद् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्। नीविदग्ध एव प्रथमः स्वरसामा। जानुदग्धो द्वितीयः। कुल्फदग्धस् तृतीयः। द्वीपः प्रतिष्ठा विषुवान् यथोपकक्षदग्धं वा कण्ठदन्घं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्। कुल्फदग्ध एव प्रथमो ऽर्वाक् स्वरसामा। जानुदग्धो द्वितीयः। नीविदग्धस् तृतीयः। गाधं प्रतिष्ठा विश्वजिद् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्। प्रस्नेयः पृष्ठ्यः प्रस्नेयो ऽभिप्लवः प्रस्नेये गवायुषी प्रस्नेयो दशरात्रः। गाधं प्रतिष्ठा महाव्रतं यथोपकक्षदग्धं वा क्ण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्। तेषां तीर्थम् एवोदयनीयो ऽतिरात्रस्। तीर्थेन ह्य् उद्यन्ति। तद् यथा समुद्रं तीर्थेनोदेयुस् तादृक् तत्। अथ ह स्माह श्वेतकेतुर् आरुणेयः संवत्सराय न्व् अहं दीक्षा इति [एद्. दिक्षा]। तस्य ह पिता मुखम् उदीक्ष्योवाच वेत्थ नु त्वम् आयुष्मन्त् संवत्सरस्य गाधप्रतिष्ठे इति [एद्. वत्थ, चोर्र्. ড়त्यल्]। वेदेति। एतद् ध स्मैतद् विद्वानाहेति ब्राह्मणम् ॥ २ ॥
1.5.3
पुरुषो वाव संवत्सरस्। तस्य पादाव् एव प्रायणीयो ऽतिरात्रः। पादाभ्यां हि प्रयन्ति तयोर् यच् छुक्लं तद् अह्नो रूपम्। यत् कृष्णं तद् रात्रेः। नखानि नक्षत्राणां रूपम्। लोमान्य् ओषधिवनस्पतीनाम्। ऊरू चतुर्विंशम् अहः। उरो ऽभिप्लवः। पृष्ठं पृष्ठ्यः। शिर एव त्रिवृत् त्रिवृतं ह्य् एव शिरो भवति त्वग् अस्थि मज्जा मस्तिष्कम्। ग्रीवाः पञ्चदशश् चतुर्दश ह्य् एवैतस्यां करूकराणि भवन्ति। वीर्यं पञ्चदशम्। तस्माद् आभिरण्वीभिः सतीभिर् गुरुं भारं हरति। तस्माद् ग्रीवाः पञ्चदशः। उरः सप्तदश.। अष्टाव् अन्ये जत्रवो ऽष्टाव् अन्य उरः सप्तदशम्। तस्माद् उरः सप्तदशः। उदरम् एकविंशः। विंशतिर् ह्य् एवैतस्यान्तर उदरे कुन्तापानि भवन्त्य् उदरम् एकविंशम्। तस्माद् उदरम् एकविंशः। पार्श्वे त्रिणवस्। त्रयोदशान्याः पर्शवस् त्रयोदशान्याः पार्श्वे त्रिणवे। तस्मात् पार्श्वे त्रिणवः। अनूकं त्रयस्त्रिंशः। द्वात्रिंशतिर् ह्य् एवैतस्य पृष्टीकुण्डीलानि भवन्ति। अनूकं त्रयस्त्रिशम्। तस्माद् अनूकं त्रयस्त्रिंशस्। तस्यायम् एव दक्षिणो बाहुर् अभिजित्। तस्येमे दक्षिणे त्रयः प्राणाः स्वरसामानः। आत्मा विषुवान्। तस्येमे सव्ये त्रयः प्राणा अर्वाक् स्वरसामानस्। तस्यायं सव्यो बाहुर् विश्वजित्। उक्तौ पृष्ठ्याभिप्लवौ। याव् अवाञ्चौ प्राणौ ते गवायुषी। अङ्गानि दशरात्रः। मुखं महाव्रतम्। तस्य हस्ताव् एवोदयनीयो ऽतिरात्रः। हस्ताभ्यां ह्य् उद्यन्ति ॥ ३ ॥
1.5.4
पुरुषो वाव संवत्सरस्। तस्य प्राण एव प्रायणीयो ऽतिरात्रः। प्राणेन हि प्रयन्ति। वाग् आरम्भणीयम् अहः। यद्यद् आरभते वाग् आरभते। वाचैव तद् आरभते। तस्यायम् एव दक्षिणः पाणिर् अभिप्लवस्। तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्। गायत्र्या आयतने। तस्माद् इयम् अस्यै ह्रसिष्ठा। तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्। त्रिष्टुभ आयतने। तस्माद् इयम् अस्यै वरिष्ठा। तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्। जगत्या आयतने। तस्माद् इयम् अनयोर् वरिष्ठा। तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्। पङ्क्त्या आयतने। पृथुर् इव वै पङ्क्तिस्। तस्माद् इयम् आसां प्रथिष्ठा। तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्। विराज आयतने। अन्नं वै श्रीः। विराड् अन्नाद्यम्। अन्न्नाद्यस्य श्रियो ऽवरुद्ध्यै। तस्माद् इयम् आसां वरिष्ठा। तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्। अतिछन्दस आयतने। अतिछन्दो वै छन्दसाम् आयतनम्। तस्माद् इदं प्रथिष्ठं फलकम्। तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्। स इतः स इतो ऽभिप्लवः स इत आत्मा पृष्ठ्यः। प्लवतीवाभिप्लवस्। तिष्ठतीव पृष्ठ्यः। प्लवत इव ह्य् एवम् अङ्गैस्। तिष्ठतीवात्मना। तस्यायम् एव दक्षिणः कर्णो ऽभिजित्। तस्य यद् दक्षिणम् अक्ष्णः शुक्लं स प्रथमः स्वरसामा। यत् कृष्णं स द्वितीयः। यन् मण्डलं स तृतीयः। नासिके विषुवान् मण्डलम् एव प्रथमो ऽर्वाक् स्वरसामा। यत् कृष्णं स द्वितीयः। यच् छुक्लं स तृतीयस्। तस्यायं सव्यः कर्णो विश्वजित्। उक्तौ पृष्ठ्याभिप्लवौ। याव् अवाञ्चौ प्राणौ ते गवायुषी। अङ्गानि दशरात्रः। मुखं महाव्रतम्। तस्योदान एवोदयनीयो ऽतिरात्रः। उदानेन ह्य् उद्यन्ति ॥ ४ ॥
1.5.5
पुरुषो वाव संवत्सरः। पुरुष इत्य् एकम्। संवत्सर इत्य् एकम्। अत्र तत् समम्। द्वे अहोरात्रे संवत्सरस्य। द्वाव् इमौ पुरुषे प्राणाव् इति। अत्र तत् समम्। त्रयो वा ऋतवः संवत्सरस्य। त्रय इमे पुरुषे प्राणा इति। अत्र तत् समम्। षड् वा ऋतवः संवत्सरस्य। षड् इमे पुरुषे प्राणा इति। अत्र तत्समम्। सप्त वा ऋतवः संवत्सरस्य। सप्तेमे पुरुषे प्राणा इति। अत्र तत् समम्। द्वादश मासाः संवत्सरस्य। द्वादशेमे पुरुषे प्राणा इति। अत्र तत् समम्। त्रयोदश मासाः संवत्सरस्य। त्रयोदशेमे पुरुषे प्राणा इति। अत्र तत् समम्। चतुर्विंशतिर् अर्धमासाः संवत्सरस्य। चतुर्विंशो ऽयं पुरुषः। विंशत्यङ्गुलिश् चतुरङ्ग इति। अत्र तत् समम्। षड्विंशतिर् अर्धमासाः संवत्सरस्य। षड्विंशो ऽयं पुरुषः। प्रतिष्ठे षड्विंशे इति। अत्र तत् समम्। त्रीणि च ह वै शतानि षष्टिश् च संवत्सरस्याहोरात्राणीति। एतावन्त एव पुरुषस्य प्राणा इति। अत्र तत् समम्। सप्त च ह वै शतानि विंशतिश् च संवत्सरस्याहानि च रात्रयश् चेति। एतावन्त एव पुरुषस्यास्थीनि च मज्जानश् चेति। अत्र तत् समम्। चतुर्दश च ह वै शतानि चत्वारिंशच् च संवत्सरस्यार्धाहाश् चार्धरात्रयश् चेति। एतावन्त एव पुरुषस्य स्थूरा मांसानीति। अत्र तत् समम्। अष्टाविंशतिश् च ह वै शतान्य् अशीतिश् च संवत्सरस्य पादाहाश् च पादरात्रयश् चेति। एतावन्त एव पुरुषस्य स्नावा बन्ध्या इति। अत्र तत् समम्। दश च ह वै सहस्राण्य् अष्टौ च शतानि संवत्सरस्य मुहूर्ता इति। एतावन्त एव पुरुषस्य पेशशमरा इति। अत्र तत् समम्। यावन्तो मुहूर्ताः पञ्चदश कृत्वस् तावन्तः प्राणाः। यावन्तः प्राणाः पञ्चदश कृत्वस् तावन्तो ऽपानाः। यावन्तो ऽपानाः पञ्चदश कृत्वस् तावन्तो व्यानाः। यावन्तो व्यानाः पञ्चदश कृत्वस् तावन्तः समानाः। यावन्तः समानाः पञ्चदश कृत्वस् तावन्त उदानाः। यावन्त उदानाः पञ्चदश कृत्वस् तावन्त्य् एतादीनि। यावन्त्य् एतादीनि तावन्त्य् एतर्हीणि। यावन्त्य् एतर्हीणि तावन्ति स्वेदायनानि। ब्यावन्ति स्वेदायनानि तावन्ति क्षिप्रायणानि। च्यावन्ति क्षिप्रायणानि तावन्तो रोमकूपाः। द्यावन्तो रोमकूपाः पञ्चदश कृत्वस् तावन्तो वर्षतो धारास्। तद् एतत् क्रोशशतिकं परिमाणम्। तद् अप्य् एतद् ऋचोक्तं <श्रमाद् अन्यत्र परिवर्तमानश् चरन् वासीनो यदि वा स्वपन्न् अपि । अहोरात्राभ्यां पुरुषः क्षणेन कति कृत्वः प्राणिति चापानीति च शतं शतानि परिवत्सराणाम् अष्टौ च शतानि संवत्सरस्य मुहूर्तान् यान् वदन्त्य् अहोरात्राभ्यां पुरुषः समेन कति कृत्वः प्राणिति चापानीति च [शब्रा १२.३.२.७-८>इति ब्राह्मणम् ॥ ५ ॥।
1.5.6
संवत्सरस्य समता वेदितव्येति ह स्माह वास्युः। एकम् एव पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्त्य् एकम् उपरिष्टात्। त्रिपञ्चाशतम् एव पुरस्ताद् विषुवतो ऽग्निष्टोमान् उपयन्ति त्रिपञ्चाशतम् उपरिष्टात्। विंशतिशतम् एव पुरस्ताद् विषुवत उक्थ्यान् उपयन्ति विंशतिशतम् उपरिष्टात्। षड् एव पुरस्ताद् विषुवतः षोडशिन उपयन्ति षड् उपरिष्टात्। त्रिंशद् एव पुरस्ताद् विषुवतः षडहान् उपयन्ति त्रिंशद् उपरिष्टात्। सैषा संवत्सरस्य समता। स य एवम् एतां संवत्सरस्य समतां वेद संवत्सरेण सात्मा सलोको भूत्वा देवान् अप्येतीति ब्रह्मणम् ॥ ६ ॥
1.5.7
अथातो यज्ञक्रमाः। अग्न्याधेयम्। अग्न्याधेयात् पूर्णाहुतिः। पूर्णहुतेर् अग्निहोत्रम्। अग्निहोत्राद् दर्शपूर्णमासौ। दर्शपूर्णमासाभ्याम् आग्रयणम्। आग्रयणाच् चातुर्मास्यानि। चातुर्मास्येभ्यः पशुबन्धः। पशुबन्धाद् अग्निष्टोमः। अग्निष्टोमाद् राजसूयः। राजसूयाद् वाजपेयः। वाजपेयाद् अश्वमेधः। अश्वमेधात् पुरुषमेधः। पुरुषमेधात् सर्वमेधः। सर्वमेधाद् दक्षिणावन्तः। दक्षिणावद्भ्यो ऽदक्षिणाः। अदक्षिणाः सहस्रदक्षिणे प्रत्यतिष्ठन्। ते वा एते यज्ञक्रमाः। स य एवम् एतान् यज्ञक्रमान् वेद यज्ञेन सात्मा सलोको भूत्वा देवान् अप्येतीति ब्राह्मणम् ॥ ७ ॥
1.5.8
प्रजापतिर् अकामयतानन्त्यम् अश्नुवीयेति। सो ऽग्नीन् आधाय पूर्णाहुत्यायजत। सो ऽन्तम् एवापश्यत्। सो ऽग्निहोत्रेणेष्ट्वान्तम् एवापश्यत्। स दर्शपूर्णमासाभ्याम् इष्ट्वान्तम् एवापश्यत्। स आग्रयणेनेष्ट्वान्तम् एवापश्यत्। स चातुर्मास्यैर् इष्ट्वान्तम् एवापश्यत्। स पशुबन्धेनेष्ट्वान्तम् एवापश्यत्। सो ऽग्निष्टोमेनेष्ट्वान्तम् एवापश्यत्। स राजसूयेनेष्ट्वा राजेति नामाधत्त। सो ऽन्तम् एवापश्यत्। स वाजपेयेनेष्ट्वा सम्राड् इति नामाधत्त। सो ऽन्तम् एवापश्यत्। सो ऽश्वमेधेनेष्ट्वा स्वराड् इति नामाधत्त। सो ऽन्तम् एवापश्यत्। स पुरुषमेधेनेष्ट्वा विराड् इति नामाधत्त। सो ऽन्तम् एवापश्यत्। स सर्वमेधेनेष्ट्वा सर्वराड् इति नामाधत्त। सो ऽन्तम् एवापश्यत्। सो ऽहीनैर् दक्षिणावद्भिर् इष्ट्वान्तम् एवापश्यत्। सो ऽहीनैर् अदक्षिणावद्भिर् इष्ट्वान्तम् एवापश्यत्। स सत्त्रेणोभयतो ऽतिरात्रेणान्ततो ऽयजत। वाचं ह वै होत्रे प्रायच्छत्। प्राणम् अध्वर्यवे चक्षुर् उद्गात्रे मनो ब्रह्मणे ऽङ्गानि होत्रकेभ्य आत्मानं सदस्येभ्यः। एवम् आनन्त्यम् आत्मानं दत्त्वानन्त्यम् आश्नुत। तद् या दक्षिणा आनयत् ताभिर् आत्मानं निष्क्रीणीय। तस्माद् एतेन ज्योतिष्टोमेनाग्निष्टोमेनात्मनिष्क्रयणेन सहस्रदक्षिणेन पृष्ठशमनीयेन त्वरेत। यो ह्य् अनिष्ट्वा पृष्ठशमनीयेन प्रैत्यात्मानं सो ऽनिष्क्रीय प्रैतीति ब्राह्मणम् ॥ ८ ॥
1.5.9
यद् वै संवत्सराय संवत्सरसदो दीक्षन्ते कथम् एषाम् अग्निहोत्रम् अनन्तरितं भवति। व्रतेतेति ब्रूयात्। कथम् एषां दर्शो ऽनन्तरितो भवति। दध्ना च पुरोडाशेन चेति ब्रूयात्। कथम् एषां पौर्णमासम् अनन्तरितं भवति। आज्येन च पुरोडाशेन चेति ब्रूयात्। कथम् एषाम् आग्रयणम् अनन्तरितं भवति। सौम्येन चरुणेति ब्रूयात्। कथम् एषां चातुर्मास्यान्य् अनन्तरितानि भवन्ति। पयस्ययेति ब्रूयात्। कथम् एषां पशुबन्धो ऽनन्तरितो भवति। पशुना च पुरोडाशेन चेति ब्रूयात्। कथम् एषां सौम्यो ऽध्वरो ऽनन्तरितो भवति। ग्रहैर् इति ब्रूयात्। कथम् एषां गृहमेधो ऽनन्तरितो भवति। धानाकरम्भैर् इति ब्रूयात्। कथम् एषां पितृयज्ञो ऽनन्तरितो भवति। औपासनैर् इति ब्रूयात्। कथम् एषां मिथुनम् अनन्तरितं भवति। हिंकारेनेति ब्रूयात्। सैषा संवत्सरे यज्ञक्रतूनाम् अपीतिः। स य एवम् एतां संवत्सरे यज्ञक्रतूनाम् अपीतिं वेद यज्ञेन सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ ९ ॥।
1.5.10
देवा ह वै सहस्रसंवत्सराय दिदीक्षिरे। तेषां पञ्च शतानि संवत्सराणां पर्युपेतान्य् आसन्न् अथेदं सर्व शश्राम ये स्तोमा यानि पृष्ठानि यानि शस्त्राणि। ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा। को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति। तद् अयातयाम मध्ये यज्ञस्यापश्यन्। तेनायातयाम्ना या वेदे व्यष्टिर् आसीत् तां पञ्चस्व् अपश्यन्न् ऋचि यजुषि साम्नि शान्ते ऽथ घोरे। ता वा एताः पञ्च व्याहृतयो भवन्त्य् ओ श्रावयास्तु श्रौषड् यज ये यजामहे वौषड् इति। ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. दवा]। को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति। तत एतं तापश्चितं सहस्रसंवत्सरस्याञ्जस्यम् अपश्यन्। ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि। स खलु द्वादश मासान् दीक्षाभिर् एति द्वादशमासान् उपसद्भिर् द्वाशमासांत् सुत्याभिः। अथ यद् द्वादश मासान् दीक्षाभिर् एति द्वादशमासान् उपसद्भिस् तेनैताव् अग्न्यर्काव् आप्नोति। अथ यद् द्वादश मासांत् सुत्याभिस् तेनेदं महदुक्थम् अवाप्नोति। ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा। को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति। तत एतं संवत्सरंम् तापश्चितस्याञ्जस्यम् अपश्यन्। ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि। ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा। को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति। तत एतं द्वादशाहं संवत्सरस्याञ्जस्यम् अपश्यन्। ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि। स खलु द्वादशाहं दीक्षाभिर् एति द्वादशाहम् उपसद्भिर् द्वादशाहं सुत्याभिः। अथ यद् द्वादशाहं दीक्षाभिर् एति द्वादशाहम् उपसद्भिस् तेनैताव् अग्न्यर्काव् आप्नोति। अथ यद् द्वादशाहं सुत्याभिस् तेनेदं महदुक्थम् अवाप्नोति। ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. इहसमिवासुरुप]। को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति। ब्तत एतं पृष्ठ्यं षडहं द्वादशाहस्याञ्जस्यम् अपश्यन्। ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि। ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा। को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति। तत एतं विश्वजितं पृष्ठ्यषडहस्याञ्जस्यम् अपश्यन्। ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि। ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा। को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति। स वा एष विश्वजिद् यः सहस्रसंवत्सरस्य प्रतिमा। एष ह प्रजानां प्रजापतिर् यद् विश्वजिद् इति ब्राह्मणम् ॥ १० ॥।
1.5.11
पुरुषं ह वै नारायणं प्रजापतिर् उवाच यजस्य यजस्वेति। स होवाच यजस्व यजस्वेत्य् एवं हात्थ मा। त्रिरयक्षतेमे ( त्रिर् अपि क्षत मे- पा.भे.) वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास् तृतीयसवनेन। यज्ञवास्तुन्य् एव पर्यशिषो यज्ञवास्तुम् इत्य् एवम् आशिषो ऽहं वा एतद् वेद यज्ञे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास् तृतीयसवनेन यज्ञवास्तुन्य् एव पर्यशिषो यज्ञवास्तुम् इत्य् एवम् आशिषो विद्वांसो नूनं त्वा याजयेयुः। एते ह वा अविद्वांसो यत्रानृग्विद् धोता भवत्य् अयजुर्विद् अध्वर्युर् असामविद् उद्गाताभृग्वङ्गिरोविद् ब्रह्मा। यजस्वैव हन्त तु ते तद् वक्ष्यामि। यथा सूत्रे मणिर् इव सूत्रम् एतान्य् उक्थाहानि भवन्ति सूत्रम् इव वा मणाव् इति। तस्माद् य एव सर्ववित् स्यात् तं ब्रह्माणं कुर्वीत। एष ह वै विद्वांत् सर्वविद् ब्रह्मा यद् भृग्वङ्गिरोवित्। एते ह वा अस्य सर्वस्य शमयितारः पालयितारस्। तमाद् ब्रह्मा स्तुते बहिःपवमाने वाचयति ॥ ११ ॥
1.5.12
श्येनो ऽसि गायत्रछन्दा। अनु त्वारभे। स्वस्ति मा संपारयेति। स यद् आह श्येनो ऽसीति सोमं वा एतद् आह। एष ह वा अग्निर् भूत्वास्मिंल् लोके संशाययति। तद् यत् संशाययति तस्माच् छेयनस्। तच् छेयनस्य श्येनत्वम्। स यद् आह गायत्रछन्दा अनुत्वारभ इति गायत्रेण छन्दसा वसुर्भिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निं सन्तम् अन्वारभते। स यद् आह स्वस्ति मा संपारयेति गायत्रेणैव छन्दसा वसुभिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निना देवेन स्वस्ति मा संपारयेति गायत्रेणैवैनं तच् छन्दसा वसुभिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निना देवेन स्वस्ति संपद्यते य एवं वेद।
1.5.13
अथ माध्यंदिने पवमाने वाचयति सम्राड् असि त्रिष्टुप्छन्दा। अनु त्वारभे। स्वस्ति मा संपारयेति। स यद् आह सम्राड् असीति सोमं वा एतद् आह। एष ह वै वायुर्भूत्वान्तरिक्षलोके सम्राजति। तद् यत् सम्राजति तस्मात् सम्राट्।। तत् सम्राजस्य सम्राट्त्वम्। स यद् आह त्रिष्टुप्छन्दा अनु त्वारभ इति त्रैष्टुभेन छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने ऽन्तरिक्षलोके वायुं सन्तम् अन्वारभते। स यद् आह स्वस्ति मा संपारयेति त्रैष्टुभेनैव छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति मा संपारयेति। त्रैष्टुभेनैवैनं तच् छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति संपद्यते य एवं वेद ॥ १३ ॥
1.5.14
अथार्भवे पवमाने वाचयति स्वरो ऽसि गयो ऽसि जगच्छन्दा। अनु त्वारभे। स्वस्ति मा संपारयेति। स यद् आह स्वरो ऽसीति सोमं वा एतद् आह। एष ह वै सूर्यो भूत्वामुष्मिंल् लोके स्वरति। तद् यत् स्वरति तस्मात् स्वरस्। तत् स्वरस्य स्वरत्वम्। स यद् आह गयो ऽसीति सोमं वा एतद् आह। एष ह वै चन्द्रमा भूत्वा सर्वांल् लोकान् गच्छति। तद् यद् गच्छति तस्माद् गयस्। तद् गयस्य गयत्वम्। स यद् आह जगच्छन्दा अनु त्वारभ इति जागतेन छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्यं सन्तम् अन्वारभते। स यद् आह स्वस्ति मा संपारयेति जागतेनैव छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्येण देवेन स्वस्ति मा संपारयेति जागतेनैवैनं तच् छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्येण देवेन स्वस्ति संपद्यते य एवं वेद ॥ १४ ॥
1.5.15
अथ संस्थिते संस्थिते सवने वाचयति [१]मयि भर्गो मयि महो मयि यशो मयि सर्वम् इति। पृथिव्य् एव भर्गो ऽन्तरिक्ष एव महो द्यौर् एव यशो ऽप एव सर्वम्। अग्निर् एव [२]भर्गो वायुर् एव मह आदित्या एव यशस् चन्द्रमा एव सर्वम् । वसव एव भर्गो रुद्रा एव मह आदित्या एव यशो विश्वेदेवा एव सर्वम्। गायत्र्येव भर्गस् त्रिष्टुब् एव महो जगत्य् एव यशो ऽनुष्टुब् एव सर्वम्। प्राच्य् एव भर्गः प्रतीच्य् एव मह उदीच्य् एव यशो दक्षिणैव सर्वम्। वसन्त एव भर्गो ग्रीष्म एव महो वर्षा एव यशः शरद् एव सर्वम्। त्रिवृद् एव भर्गः पञ्चदश एव महः सप्तदश एव यश एकविंश एव सर्वम्। ऋग्वेद एव भर्गो यजुर्वेद एव महः सामवेद एव यशो ब्रह्मवेद एव सर्वम्। होतैव भर्गो ऽध्वर्युर् एव मह उद्गातैव यशो ब्रह्मैव सर्वम्। वाग् एव भर्गः प्राण एव महः चक्षुर् एव यशो मन एव सर्वम् ॥ १५ ॥।
1.5.16
स यद् आह मयि भर्ग इति पृथिवीम् एवैतल् लोकानाम् अहाग्निं देवानां वसून् देवान् देवगणानां गायत्रं छन्दसां प्राचीं दिशां वसन्तम् ऋतूनां त्रिवृतं स्तोमानाम् ऋग्वेदं वेदानां हौत्रं होत्रकाणां वाचम् इन्द्रियाणाम् ॥ १६ ॥।
1.5.17
स यद् आह मयि मह इत्य् अन्तरिक्षम् एवैतल् लोकानाम् आह वायुं देवानां रुद्रान् देवान् देवगणानां त्रैष्टुभं छन्दसां प्रतीचीं दिशां ग्रीष्मम् ऋतूनां पञ्चदशं स्तोमानां यजुर्वेदं वेदानाम् आध्वर्यवं होत्रकाणां प्राणम् इन्द्रियाणाम् ॥ १७ ॥
1.5.18
स यद् आह मयि यश इति दिवम् एवैतल् लोकानाम् आहादित्यं देवानाम् आदित्यान् देवगणानां जागतं छन्दसाम् उदीचीं दिशां वर्षा ऋतूनां सप्तदशं स्तोमानां सामवेदं वेदानाम् औद्गात्रं होत्रकाणां चक्षुर् इन्द्रियाणाम् ॥ १७ ॥
1.5.19
स यद् आह मयि सर्वम् इत्य् अप एवैतल् लोकानाम् आह चन्द्रमसं देवानां विश्वान् देवान् देवगणानाम् आनुष्टुभं छन्दसां दक्षिणां दिशां शरदम् ऋतूनाम् एकविंशं स्तोमानां ब्रह्मवेदं वेदानां ब्रह्मत्वं होत्रकाणां मन इन्द्रियाणाम् ॥ १८ ॥
1.5.20
स वा एष दशधा चतुः संपद्यते। दश च ह वै चतुर् विराजो ऽक्षराणि। तं गर्भा उपजीवन्ति। श्रीर् वै विराड्। यशो ऽन्नाद्यम्। श्रियम् एव तद् विराजं यशस्य् अन्नाद्यो प्रतिष्ठापयति। प्रतिष्ठन्तीर् इदं सर्वम् अनुप्रतिष्ठति। प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ २० ॥
1.5.21
अनर्वाणं ह वै देवं दध्यङ्ङ् आङ्गिरस उपसीदं ह यज्ञस्य श्नुष्टिं समश्नवामह इति। स दध्यङ्ङ् आङ्गिरसो ऽब्रवीद् यो वै सप्तदशं प्रजापतिं यज्ञे ऽन्वितं वेद नास्य यज्ञो रिष्यते। न यज्ञपतिं रिष्यन्त इति। ता वा एताः पञ्च व्याहृतयो भवन्त्य् ओ श्रावयास्तु श्रौषड् यज ये यजामहे वौषड् इति। स दध्यङ्ङ् आङ्गिरसो ऽब्रवीन् न वयं विद्मो यदि ब्राह्मणाः स्मो यद्य् अब्राह्मणाः स्मो यदि तस्यर्षेः स्मो वान्यस्येति। अनर्वाणश् च ह वा ऋतावन्तश् च पितरः स्वधायाम् आवृषायन्त वयं वदामहै वयं वदामहा इति। सो ऽयात् स्वायंभुवो वा ऋतावन्तो मदयातां न वयं वदामहा इति। तस्मात् प्रवरे प्रव्रियमाणे वाचयेद् देवाः पितर इति तिस्रः। य एति संयजति स भवति यश् च न ब्रूते यश् च न ब्रूत इति ब्राह्मणम् ॥ २१ ॥।
1.5.22
सावित्रं ह स्मैतं पूर्वे पुरस्तात् पशुम् आलभन्त इत्य् एतर्हि प्राजापत्यम्। यो ह्य् एव सविता स प्रजापतिर् इति वदन्तस्। तस्माद् उ समुप्याग्नींस् तेन यजेरन्। ते समानधिष्ण्या एव स्युर् ओखासंभरणीयायाः। उखासंभरणीयायां विन्युपयाग्नींस् तया यजेरन्। ते नानाधिष्ण्या एव स्युर् आ दीक्षणीयायाः। दीक्षणीयायां संन्युप्याग्नींस् तया यजेरन्। ते समानधिष्ण्या एव स्युर् ओदवसानीयायाः। उदवसानीयायां विन्युप्याग्नींस् तया यजेरन्। ते नानाधिष्ण्या एव स्युः। अथ यदि यजमानस्योपतपेत् पार्श्वतो ऽग्नीन् आधाय तावद् आसीत यावद् अगदः स्यात्। यदि प्रेयात् स्वैर् एव तम् अग्निभिर् दहेत्। अशवाग्निभिर् इतरे यजमाना आसत इति वदन्तस्। तस्य तद् एव ब्राह्मणं यद् अदः पुरःसवने। पितृमेध आशिषो व्याख्याताः ॥ २२ ॥।
1.5.23
सायंप्रातर्होमौ स्थालीपाको नवश् च यः । बलिश् च पितृयज्ञश् चाष्टका सप्तमः पशुः ॥ इत्य् एते पाकयज्ञाः। अग्न्याधेयम् अग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश् चातुर्मास्यानि पशुबन्धो ऽत्र सप्तमः ॥ इत्य् एते हविर्यज्ञाः। अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशिमांस् ततः । वाजपेयो ऽतिरात्रश् चाप्तोर्यामात्र सप्तमः ॥ इत्य् एते सुत्याः। के स्विद् देवा प्रवोवाजाः[३]के स्विद् देवा अभिद्यवः । के स्विद् देवा हविष्मन्तः किं स्विज् जिगाति सुम्नयुः ॥। ऋतव एव प्रवोवाजा मासा देवा अभिद्यवः । अर्धमासा हविष्मन्तस् तज् जिगाति सुम्नयुः ॥। कति स्विद् रात्रयः कत्य् अहानि कति स्तोत्राणि कति शस्त्राण्य् अस्य । कति स्वित् सवनाः संवत्सरस्य स्तोत्रियाः पदाक्षराणि कत्य् अस्य ॥। <द्वाव् अतिरात्रौ षट् शतम् अग्निष्टोमा द्वे विंशतिशते उक्थ्यानां । द्वादश षोडशिनः षष्टिः षडहा वैषुवतं च [Vऐत्ष् ३१.१५]> ॥ अहान्यस्य विंशतिशतानि त्रीण्य् अहश् चैकं तावद् अस्य । संवत्सरस्य सवनाः सहस्रम् असीति त्रीणि च संस्तुतस्य ॥। षट्षष्टिश् च द्वे च शते भवत स्तुतशस्त्राणाम् अयुतं चैकम् अस्य । स्तोत्रियाश् च नवतिसहस्रा द्वे नियुते नवतिश् चाति षट् च ॥। अष्टौ शतान्य् अयुतानि त्रिंशच् चतुर्नवतिश् च पदान्य् अस्य । संवत्सरस्य कविभिर् मितस्यैतावती मध्यमा देवमात्रा ॥। अयुतम् एकं प्रयुतानि त्रिंशद् द्वे नियुते तथा ह्य् अनुसृष्टाः । अष्टौ शतानि नव चाक्षराण्य् एतावान् आत्मा परमः प्रजापतेः ॥। आद्यं वषट्कारः प्रदानान्तम् एतम् अग्निष्टोमे पर्वशः साधु कॢप्तम् । सौभेषजं छन्द ईप्सन् यद् अग्नौ चतुःशतं बहुधा हूयते यत् ॥। प्रातःसवन स्तुत एकविंशो गायत्रस्तोममित एक एव । माध्यंदिनः सप्तदशेन कॢप्तस् त्रयस्त्रिंशेन सवनं तृतीयम् ॥ २३ ॥।
1.5.24
श्रद्धायां रेतस् तपसा तपस्वी वैश्वानरः सिषिचे ऽपत्यम् ईप्सन् । ततो जज्ञे लोकजित् सोमजम्भा ऋषेर् ऋषिर् अङ्गिराः संनभूव ॥। ऋषेर् यज्ञस्य चतुर्विधस्य श्रद्धां यः श्रेयसीं लोकम् अमुं जिगाय । यस्मै वेदाः प्रसृताः सोमबिन्दु युक्ता वहन्ति सुकृताम् उ लोकम् ॥। ऋचो ऽस्य भागांश् चतुरो वहन्त्य् उक्थशस्त्रैः प्रमुदो मोदमानाः । ग्रहैर् हविर्भिश् च कृताकृतश् च यजूंषि भागांश् चतुरो वहन्ति ॥। औदुम्बर्यां सामघोषेण तावत् सविष्टुतिभिश् च स्तोमैः छन्दसा । सामानि भागांश् चतुरो वहन्ति गीत्या स्तोमेन सह प्रस्तावेन च ॥। प्रायश्चित्तैर् भेषजैः संस्तुवन्तो ऽथर्वाणो ऽङ्गिरसश् च शान्ताः । ब्रह्मा ब्रह्मत्वेन प्रमुदो मोदमाना असंसृष्टान् भागांश् चतुरो वहन्ति ॥। यो ब्रह्मवित् सो ऽभिकरो ऽस्तु वः शिवो धिया धीरो रक्षतु धर्मम् एतम् । मा वः प्रमत्ताम् अमृताच् च यज्ञात् कर्माच् च येनान् अङ्गिरसो ऽपियासीत् ॥। मायुं दशं मारुशस्ताः प्रमेष्टा मा मे भूर् युक्ता विदहाथ लोकान् । दिव्यं भयं रक्षत धर्मम् उद्यतं यज्ञं कालाश स्तुतिगोपनायनम् ॥। होता च मैत्रावरुणश् च पादम् अच्छावाकः सह ग्रावस्तुतैकम् । ऋग्भि स्तुवन्तो ऽहरहः पृथिव्या अग्निं पादं ब्रह्मणा धारयन्ति ॥। अध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता निहितं पादम् एकम् । सम् अन्तरिक्षं यजुषा स्तुवन्तो वायुं पादं ब्रह्मणा धारयन्ति ॥। साम्नोद्गाता छादयन्न् अप्रमत्त औदुम्बर्यां स्तोभदेयः सगद्गदः । विद्वान् प्रस्तोता विदहाथ सुष्टुतिं सुब्रह्मण्यः प्रतिहर्ताथ यज्ञे ॥। साम्ना दिव्य् एकं निहितं स्तुवन्तः सूर्यं पादं ब्रह्मणा धारयन्ति । ब्रह्मा हैकं ब्राह्मणाच्छंसिनः सह पोताग्नीध्रो निहितं पादम् एकम् ॥। अथर्वभिर् अङ्गिरोभिश् च गुप्तो ऽप्सु चन्द्रं पादं ब्रह्मणा धारयन्ति । षोडशिकं होत्रका अभिष्टुवन्ति वेदेषु युक्ताः प्रपृथक् चतुर्धा ॥। मनीषिणो दीक्षिताः श्रद्दधाना होतारो गुप्ता अभिवहन्ति यज्ञम् । दक्षिणतो ब्रह्मणस्यों जनद् इत्य् एतां व्याहृतिं जपन् ॥। सप्तदशं सदस्यं तं कीर्तयन्ति पुरा विदुः । अष्टादशी दीक्षिता दीक्षितानां यज्ञे पत्नी श्रद्दधानेह युक्ता ॥। एकोनविंशः शमिता बभूव विंशो यज्ञे गृहपतिर् एव सुन्वन् । एकविंशतिर् एवैषां संस्थायाम् अङ्गिरो वह ॥। वेदैर् अभिष्टुतो लोको नानावेशापराजितः । ॥ २४ ॥
1.5.25
सप्त सुत्याः सप्त च पाकयज्ञाः हविर्यज्ञाः सप्त तथैकविंशतिः । सर्वे ते यज्ञा अङ्गिरसो ऽपियन्ति नूतना यान् ऋषयो सृजन्ति ये च सृष्टाः पुराणैः ॥। एतेषु वेदेष्व् अपि चैकम् एवापव्रजम् ऋत्विजां संभरन्ति । कृट्स्तृपात् सचते ताम् अशस्तिं विष्कन्धम् एनं विसृतं प्रजासु ॥। निवर्तन्ते दक्षिणा नीयमानाः सुते सोमे वितते यज्ञतन्त्रे । मोघाशिषो यन्त्य् अनिवर्तमाना अनिष्टयज्ञा न तरन्ति लोकान् ॥। द्वादशवर्षं ब्रह्मचर्यं पृथग् वेदेषु तत् स्मृतम् । एवं व्यवस्थिता वेदाः सर्व एव स्वकर्मसु ॥। सन्ति चैषां समानाः मन्त्राः कल्पाश् च ब्राह्मणानि च । व्यवस्थानं तु तत् सर्वं पृथग्वेदेषु तत् स्मृतम् ॥। ऋग्वेदस्य पृथिवी स्थानम् अन्तरिक्षस्थानो ऽध्वरः । द्यौ स्थानं सामवेदस्यापो भृग्वङ्गिरसां स्मृतम् ॥। अग्निर् देवत ऋग्वेदस्य यजुर्वेदो वायुदेवतः । आदित्यः सामवेदस्य चन्द्रमा वैद्युतश् च भृग्वङ्गिरसाम् ॥। त्रिवृत्स्तोम ऋग्वेदस्य यजूंषि पञ्चदशेन सह जज्ञिरे । सप्तदशेन सामवेद एकविंशो ब्रह्मसंमितः ॥। वाग् अध्यात्मम् ऋग्वेदस्य यजुषां प्राण उच्यते । चक्षुषी सामवेदस्य मनो भृग्वङ्गिरसां स्मृतम् ॥। ऋग्भिः सह गायत्रं जागतम् आहुर् यजूंषि त्रैष्टुभेन सह जज्ञिरे । उष्णिक्ककुभ्यां भृग्वङ्गिरसो जगत्या सामानि कवयो वदन्ति ॥। ऋग्भिः पृथिवीं यजुषान्तरिक्षं साम्ना दिवं लोकजित् सोमजम्भाः । अथर्वभिर् अङ्गिरोभिश् च गुप्तो यज्ञश् चतुष्पाद् दिवम् उद्वहेत ॥। ऋग्भिः सुशस्तो यजुषा परिष्कृतः सविष्टुतः सामजित् सोमजम्भाः । अथर्वभिर् अङ्गिरोभिश् च गुप्तो यज्ञश् चतुष्पाद् दिवम् आरुरोह ॥। ऋचो विद्वान् पृथिवीं वेद संप्रति यजूंषि विद्वान् बृहद् अन्तरिक्षम् । दिवं वेद सामगो यो विपश्चित् सर्वान् लोकान् यद् भृग्वङ्गिरोवित् ॥। यांश् च ग्रामे यांश् चारण्ये जपन्ति मन्त्रान् नार्थान् बहुधा जनासः । सर्वे ते यज्ञा अङ्गिरसो ऽपियन्ति नूतना सा हि गतिर् ब्रह्मणो यावरार्ध्या ॥। त्रिविष्टपं त्रिदिवं नाकम् उत्तमं तम् एतया त्रय्या विद्ययैति । अत उत्तरे ब्रह्मलोका महान्तो ऽथर्वणाम् अङ्गिरसां च सा गतिः ॥ अथर्वणाम् अङ्गिरसां च सा गतिर् इति ब्राह्मणम् ॥ २५ ॥। । इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे पञ्चमः प्रपाठकः ॥। ।
इति पूर्वब्राह्मणं समाप्तम्। ।
1.5.1
ओम् अभिप्लवः षडहः
षड् ढ्य् अहानि भवन्ति ज्योतिर् गौर् आयुर् गौर् आयुर् ज्योतिः
अभिप्लवः पञ्चाहः
पञ्च ह्य् एवाहानि भवन्ति
यद् ध्य् एव प्रथमम् अहस् तद् उत्तमम् अहः
अभिप्लवश् चतुरहः
चत्वारो हि स्तोमा भवन्ति त्रिवृत् पञ्चदशः सप्तदश एकविंश एव
अभिप्लवस् त्र्यहस्
त्र्यावृत्तिर् ज्योतिर् गौर् आयुः
अभिप्लवो द्व्यहः
द्वे ह्येव सामनी भवतो बृहद्रथन्तरे एव
अभिप्लव एकाह
एकाहस्य हि स्तोमैस् तायते
चतुर्णाम् उक्थ्यानां द्वादश स्तोत्राण्य् अतिरिच्यन्ते
स सप्तमो ऽग्निष्टोमस्
तथा खलु सप्ताग्निष्टोमा मासि संपद्यन्त इति ब्राह्मणम् ॥ १ ॥
1.5.2
अथातो गाधप्रतिष्ठा
समुद्रं वा एते प्रतरन्ति ये संवत्सराय दीक्षन्ते
तेषां तीर्थम् एव प्रायणीयो ऽतिरात्रस्
तीर्थेन हि प्रतरन्ति
तद् यथा समुद्रं तीर्थेन प्रतरेयुस् तादृक् तत्
गाधं प्रतिष्ठा चतुर्विंशम् अहर् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्
प्रस्नयो ऽभिप्लवः
प्रस्नेयः पृष्ठ्यः
गाधं प्रतिष्ठाभिजिद् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्
नीविदग्ध एव प्रथमः स्वरसामा
जानुदग्धो द्वितीयः
कुल्फदग्धस् तृतीयः
द्वीपः प्रतिष्ठा विषुवान् यथोपकक्षदग्धं वा कण्ठदन्घं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्
कुल्फदग्ध एव प्रथमो ऽर्वाक् स्वरसामा
जानुदग्धो द्वितीयः
नीविदग्धस् तृतीयः
गाधं प्रतिष्ठा विश्वजिद् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्
प्रस्नेयः पृष्ठ्यः प्रस्नेयो ऽभिप्लवः प्रस्नेये गवायुषी प्रस्नेयो दशरात्रः
गाधं प्रतिष्ठा महाव्रतं यथोपकक्षदग्धं वा क्ण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्
तेषां तीर्थम् एवोदयनीयो ऽतिरात्रस्
तीर्थेन ह्य् उद्यन्ति
तद् यथा समुद्रं तीर्थेनोदेयुस् तादृक् तत्
अथ ह स्माह श्वेतकेतुर् आरुणेयः संवत्सराय न्व् अहं दीक्षा इति [एद्. दिक्षा]
तस्य ह पिता मुखम् उदीक्ष्योवाच वेत्थ नु त्वम् आयुष्मन्त् संवत्सरस्य गाधप्रतिष्ठे इति [एद्. वत्थ, चोर्र्. ড়त्यल्]
वेदेति
एतद् ध स्मैतद् विद्वानाहेति ब्राह्मणम् ॥ २ ॥
1.5.3
पुरुषो वाव संवत्सरस्
तस्य पादाव् एव प्रायणीयो ऽतिरात्रः
पादाभ्यां हि प्रयन्ति तयोर् यच् छुक्लं तद् अह्नो रूपम्
यत् कृष्णं तद् रात्रेः
नखानि नक्षत्राणां रूपम्
लोमान्य् ओषधिवनस्पतीनाम्
ऊरू चतुर्विंशम् अहः
उरो ऽभिप्लवः
पृष्ठं पृष्ठ्यः
शिर एव त्रिवृत् त्रिवृतं ह्य् एव शिरो भवति त्वग् अस्थि मज्जा मस्तिष्कम्
ग्रीवाः पञ्चदशश् चतुर्दश ह्य् एवैतस्यां करूकराणि भवन्ति
वीर्यं पञ्चदशम्
तस्माद् आभिरण्वीभिः सतीभिर् गुरुं भारं हरति
तस्माद् ग्रीवाः पञ्चदशः
उरः सप्तदश.
अष्टाव् अन्ये जत्रवो ऽष्टाव् अन्य उरः सप्तदशम्
तस्माद् उरः सप्तदशः
उदरम् एकविंशः
विंशतिर् ह्य् एवैतस्यान्तर उदरे कुन्तापानि भवन्त्य् उदरम् एकविंशम्
तस्माद् उदरम् एकविंशः
पार्श्वे त्रिणवस्
त्रयोदशान्याः पर्शवस् त्रयोदशान्याः पार्श्वे त्रिणवे
तस्मात् पार्श्वे त्रिणवः
अनूकं त्रयस्त्रिंशः
द्वात्रिंशतिर् ह्य् एवैतस्य पृष्टीकुण्डीलानि भवन्ति
अनूकं त्रयस्त्रिशम्
तस्माद् अनूकं त्रयस्त्रिंशस्
तस्यायम् एव दक्षिणो बाहुर् अभिजित्
तस्येमे दक्षिणे त्रयः प्राणाः स्वरसामानः
आत्मा विषुवान्
तस्येमे सव्ये त्रयः प्राणा अर्वाक् स्वरसामानस्
तस्यायं सव्यो बाहुर् विश्वजित्
उक्तौ पृष्ठ्याभिप्लवौ
याव् अवाञ्चौ प्राणौ ते गवायुषी
अङ्गानि दशरात्रः
मुखं महाव्रतम्
तस्य हस्ताव् एवोदयनीयो ऽतिरात्रः
हस्ताभ्यां ह्य् उद्यन्ति ॥ ३ ॥
1.5.4
पुरुषो वाव संवत्सरस्
तस्य प्राण एव प्रायणीयो ऽतिरात्रः
प्राणेन हि प्रयन्ति
वाग् आरम्भणीयम् अहः
यद्यद् आरभते वाग् आरभते
वाचैव तद् आरभते
तस्यायम् एव दक्षिणः पाणिर् अभिप्लवस्
तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्
गायत्र्या आयतने
तस्माद् इयम् अस्यै ह्रसिष्ठा
तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्
त्रिष्टुभ आयतने
तस्माद् इयम् अस्यै वरिष्ठा
तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्
जगत्या आयतने
तस्माद् इयम् अनयोर् वरिष्ठा
तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्
पङ्क्त्या आयतने
पृथुर् इव वै पङ्क्तिस्
तस्माद् इयम् आसां प्रथिष्ठा
तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्
विराज आयतने
अन्नं वै श्रीः
विराड् अन्नाद्यम्
अन्न्नाद्यस्य श्रियो ऽवरुद्ध्यै
तस्माद् इयम् आसां वरिष्ठा
तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्
अतिछन्दस आयतने
अतिछन्दो वै छन्दसाम् आयतनम्
तस्माद् इदं प्रथिष्ठं फलकम्
तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्
स इतः स इतो ऽभिप्लवः स इत आत्मा पृष्ठ्यः
प्लवतीवाभिप्लवस्
तिष्ठतीव पृष्ठ्यः
प्लवत इव ह्य् एवम् अङ्गैस्
तिष्ठतीवात्मना
तस्यायम् एव दक्षिणः कर्णो ऽभिजित्
तस्य यद् दक्षिणम् अक्ष्णः शुक्लं स प्रथमः स्वरसामा
यत् कृष्णं स द्वितीयः
यन् मण्डलं स तृतीयः
नासिके विषुवान् मण्डलम् एव प्रथमो ऽर्वाक् स्वरसामा
यत् कृष्णं स द्वितीयः
यच् छुक्लं स तृतीयस्
तस्यायं सव्यः कर्णो विश्वजित्
उक्तौ पृष्ठ्याभिप्लवौ
याव् अवाञ्चौ प्राणौ ते गवायुषी
अङ्गानि दशरात्रः
मुखं महाव्रतम्
तस्योदान एवोदयनीयो ऽतिरात्रः
उदानेन ह्य् उद्यन्ति ॥ ४ ॥
1.5.5
पुरुषो वाव संवत्सरः
पुरुष इत्य् एकम्
संवत्सर इत्य् एकम्
अत्र तत् समम्
द्वे अहोरात्रे संवत्सरस्य
द्वाव् इमौ पुरुषे प्राणाव् इति
अत्र तत् समम्
त्रयो वा ऋतवः संवत्सरस्य
त्रय इमे पुरुषे प्राणा इति
अत्र तत् समम्
षड् वा ऋतवः संवत्सरस्य
षड् इमे पुरुषे प्राणा इति
अत्र तत्समम्
सप्त वा ऋतवः संवत्सरस्य
सप्तेमे पुरुषे प्राणा इति
अत्र तत् समम्
द्वादश मासाः संवत्सरस्य
द्वादशेमे पुरुषे प्राणा इति
अत्र तत् समम्
त्रयोदश मासाः संवत्सरस्य
त्रयोदशेमे पुरुषे प्राणा इति
अत्र तत् समम्
चतुर्विंशतिर् अर्धमासाः संवत्सरस्य
चतुर्विंशो ऽयं पुरुषः
विंशत्यङ्गुलिश् चतुरङ्ग इति
अत्र तत् समम्
षड्विंशतिर् अर्धमासाः संवत्सरस्य
षड्विंशो ऽयं पुरुषः
प्रतिष्ठे षड्विंशे इति
अत्र तत् समम्
त्रीणि च ह वै शतानि षष्टिश् च संवत्सरस्याहोरात्राणीति
एतावन्त एव पुरुषस्य प्राणा इति
अत्र तत् समम्
सप्त च ह वै शतानि विंशतिश् च संवत्सरस्याहानि च रात्रयश् चेति
एतावन्त एव पुरुषस्यास्थीनि च मज्जानश् चेति
अत्र तत् समम्
चतुर्दश च ह वै शतानि चत्वारिंशच् च संवत्सरस्यार्धाहाश् चार्धरात्रयश् चेति
एतावन्त एव पुरुषस्य स्थूरा मांसानीति
अत्र तत् समम्
अष्टाविंशतिश् च ह वै शतान्य् अशीतिश् च संवत्सरस्य पादाहाश् च पादरात्रयश् चेति
एतावन्त एव पुरुषस्य स्नावा बन्ध्या इति
अत्र तत् समम्
दश च ह वै सहस्राण्य् अष्टौ च शतानि संवत्सरस्य मुहूर्ता इति
एतावन्त एव पुरुषस्य पेशशमरा इति
अत्र तत् समम्
यावन्तो मुहूर्ताः पञ्चदश कृत्वस् तावन्तः प्राणाः
यावन्तः प्राणाः पञ्चदश कृत्वस् तावन्तो ऽपानाः
यावन्तो ऽपानाः पञ्चदश कृत्वस् तावन्तो व्यानाः
यावन्तो व्यानाः पञ्चदश कृत्वस् तावन्तः समानाः
यावन्तः समानाः पञ्चदश कृत्वस् तावन्त उदानाः
यावन्त उदानाः पञ्चदश कृत्वस् तावन्त्य् एतादीनि
यावन्त्य् एतादीनि तावन्त्य् एतर्हीणि
यावन्त्य् एतर्हीणि तावन्ति स्वेदायनानि
ब्यावन्ति स्वेदायनानि तावन्ति क्षिप्रायणानि
च्यावन्ति क्षिप्रायणानि तावन्तो रोमकूपाः
द्यावन्तो रोमकूपाः पञ्चदश कृत्वस् तावन्तो वर्षतो धारास्
तद् एतत् क्रोशशतिकं परिमाणम्
तद् अप्य् एतद् ऋचोक्तं <श्रमाद् अन्यत्र परिवर्तमानश् चरन् वासीनो यदि वा स्वपन्न् अपि । अहोरात्राभ्यां पुरुषः क्षणेन कति कृत्वः प्राणिति चापानीति च शतं शतानि परिवत्सराणाम् अष्टौ च शतानि संवत्सरस्य मुहूर्तान् यान् वदन्त्य् अहोरात्राभ्यां पुरुषः समेन कति कृत्वः प्राणिति चापानीति च [श्Bं १२.३.२.७-८]>इति ब्राह्मणम् ॥ ५ ॥
1.5.6
संवत्सरस्य समता वेदितव्येति ह स्माह वास्युः
एकम् एव पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्त्य् एकम् उपरिष्टात्
त्रिपञ्चाशतम् एव पुरस्ताद् विषुवतो ऽग्निष्टोमान् उपयन्ति त्रिपञ्चाशतम् उपरिष्टात्
विंशतिशतम् एव पुरस्ताद् विषुवत उक्थ्यान् उपयन्ति विंशतिशतम् उपरिष्टात्
षड् एव पुरस्ताद् विषुवतः षोडशिन उपयन्ति षड् उपरिष्टात्
त्रिंशद् एव पुरस्ताद् विषुवतः षडहान् उपयन्ति त्रिंशद् उपरिष्टात्
सैषा संवत्सरस्य समता
स य एवम् एतां संवत्सरस्य समतां वेद संवत्सरेण सात्मा सलोको भूत्वा देवान् अप्येतीति ब्रह्मणम् ॥ ६ ॥
1.5.7
अथातो यज्ञक्रमाः
अग्न्याधेयम्
अग्न्याधेयात् पूर्णाहुतिः
पूर्णहुतेर् अग्निहोत्रम्
अग्निहोत्राद् दर्शपूर्णमासौ
दर्शपूर्णमासाभ्याम् आग्रयणम्
आग्रयणाच् चातुर्मास्यानि
चातुर्मास्येभ्यः पशुबन्धः
पशुबन्धाद् अग्निष्टोमः
अग्निष्टोमाद् राजसूयः
राजसूयाद् वाजपेयः
वाजपेयाद् अश्वमेधः
अश्वमेधात् पुरुषमेधः
पुरुषमेधात् सर्वमेधः
सर्वमेधाद् दक्षिणावन्तः
दक्षिणावद्भ्यो ऽदक्षिणाः
अदक्षिणाः सहस्रदक्षिणे प्रत्यतिष्ठन्
ते वा एते यज्ञक्रमाः
स य एवम् एतान् यज्ञक्रमान् वेद यज्ञेन सात्मा सलोको भूत्वा देवान् अप्येतीति ब्राह्मणम् ॥ ७ ॥
1.5.8
प्रजापतिर् अकामयतानन्त्यम् अश्नुवीयेति
सो ऽग्नीन् आधाय पूर्णाहुत्यायजत
सो ऽन्तम् एवापश्यत्
सो ऽग्निहोत्रेणेष्ट्वान्तम् एवापश्यत्
स दर्शपूर्णमासाभ्याम् इष्ट्वान्तम् एवापश्यत्
स आग्रयणेनेष्ट्वान्तम् एवापश्यत्
स चातुर्मास्यैर् इष्ट्वान्तम् एवापश्यत्
स पशुबन्धेनेष्ट्वान्तम् एवापश्यत्
सो ऽग्निष्टोमेनेष्ट्वान्तम् एवापश्यत्
स राजसूयेनेष्ट्वा राजेति नामाधत्त
सो ऽन्तम् एवापश्यत्
स वाजपेयेनेष्ट्वा सम्राड् इति नामाधत्त
सो ऽन्तम् एवापश्यत्
सो ऽश्वमेधेनेष्ट्वा स्वराड् इति नामाधत्त
सो ऽन्तम् एवापश्यत्
स पुरुषमेधेनेष्ट्वा विराड् इति नामाधत्त
सो ऽन्तम् एवापश्यत्
स सर्वमेधेनेष्ट्वा सर्वराड् इति नामाधत्त
सो ऽन्तम् एवापश्यत्
सो ऽहीनैर् दक्षिणावद्भिर् इष्ट्वान्तम् एवापश्यत्
सो ऽहीनैर् अदक्षिणावद्भिर् इष्ट्वान्तम् एवापश्यत्
स सत्त्रेणोभयतो ऽतिरात्रेणान्ततो ऽयजत
वाचं ह वै होत्रे प्रायच्छत्
प्राणम् अध्वर्यवे चक्षुर् उद्गात्रे मनो ब्रह्मणे ऽङ्गानि होत्रकेभ्य आत्मानं सदस्येभ्यः
एवम् आनन्त्यम् आत्मानं दत्त्वानन्त्यम् आश्नुत
तद् या दक्षिणा आनयत् ताभिर् आत्मानं निष्क्रीणीय
तस्माद् एतेन ज्योतिष्टोमेनाग्निष्टोमेनात्मनिष्क्रयणेन सहस्रदक्षिणेन पृष्ठशमनीयेन त्वरेत
यो ह्य् अनिष्ट्वा पृष्ठशमनीयेन प्रैत्यात्मानं सो ऽनिष्क्रीय प्रैतीति ब्राह्मणम् ॥ ८ ॥
1.5.9
यद् वै संवत्सराय संवत्सरसदो दीक्षन्ते कथम् एषाम् अग्निहोत्रम् अनन्तरितं भवति
व्रतेतेति ब्रूयात्
कथम् एषां दर्शो ऽनन्तरितो भवति
दध्ना च पुरोडाशेन चेति ब्रूयात्
कथम् एषां पौर्णमासम् अनन्तरितं भवति
आज्येन च पुरोडाशेन चेति ब्रूयात्
कथम् एषाम् आग्रयणम् अनन्तरितं भवति
सौम्येन चरुणेति ब्रूयात्
कथम् एषां चातुर्मास्यान्य् अनन्तरितानि भवन्ति
पयस्ययेति ब्रूयात्
कथम् एषां पशुबन्धो ऽनन्तरितो भवति
पशुना च पुरोडाशेन चेति ब्रूयात्
कथम् एषां सौम्यो ऽध्वरो ऽनन्तरितो भवति
ग्रहैर् इति ब्रूयात्
कथम् एषां गृहमेधो ऽनन्तरितो भवति
धानाकरम्भैर् इति ब्रूयात्
कथम् एषां पितृयज्ञो ऽनन्तरितो भवति
औपासनैर् इति ब्रूयात्
कथम् एषां मिथुनम् अनन्तरितं भवति
हिंकारेनेति ब्रूयात्
सैषा संवत्सरे यज्ञक्रतूनाम् अपीतिः
स य एवम् एतां संवत्सरे यज्ञक्रतूनाम् अपीतिं वेद यज्ञेन सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ ९ ॥
1.5.10
देवा ह वै सहस्रसंवत्सराय दिदीक्षिरे
तेषां पञ्च शतानि संवत्सराणां पर्युपेतान्य् आसन्न् अथेदं सर्व शश्राम ये स्तोमा यानि पृष्ठानि यानि शस्त्राणि
ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
तद् अयातयाम मध्ये यज्ञस्यापश्यन्
तेनायातयाम्ना या वेदे व्यष्टिर् आसीत् तां पञ्चस्व् अपश्यन्न् ऋचि यजुषि साम्नि शान्ते ऽथ घोरे
ता वा एताः पञ्च व्याहृतयो भवन्त्य् ओ श्रावयास्तु श्रौषड् यज ये यजामहे वौषड् इति
ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. दवा]
को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
तत एतं तापश्चितं सहस्रसंवत्सरस्याञ्जस्यम् अपश्यन्
ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
स खलु द्वादश मासान् दीक्षाभिर् एति द्वादशमासान् उपसद्भिर् द्वाशमासांत् सुत्याभिः
अथ यद् द्वादश मासान् दीक्षाभिर् एति द्वादशमासान् उपसद्भिस् तेनैताव् अग्न्यर्काव् आप्नोति
अथ यद् द्वादश मासांत् सुत्याभिस् तेनेदं महदुक्थम् अवाप्नोति
ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
तत एतं संवत्सरंम् तापश्चितस्याञ्जस्यम् अपश्यन्
ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
तत एतं द्वादशाहं संवत्सरस्याञ्जस्यम् अपश्यन्
ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
स खलु द्वादशाहं दीक्षाभिर् एति द्वादशाहम् उपसद्भिर् द्वादशाहं सुत्याभिः
अथ यद् द्वादशाहं दीक्षाभिर् एति द्वादशाहम् उपसद्भिस् तेनैताव् अग्न्यर्काव् आप्नोति
अथ यद् द्वादशाहं सुत्याभिस् तेनेदं महदुक्थम् अवाप्नोति
ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. इहसमिवासुरुप]
को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
ब्तत एतं पृष्ठ्यं षडहं द्वादशाहस्याञ्जस्यम् अपश्यन्
ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
तत एतं विश्वजितं पृष्ठ्यषडहस्याञ्जस्यम् अपश्यन्
ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
स वा एष विश्वजिद् यः सहस्रसंवत्सरस्य प्रतिमा
एष ह प्रजानां प्रजापतिर् यद् विश्वजिद् इति ब्राह्मणम् ॥ १० ॥
1.5.11
पुरुषं ह वै नारायणं प्रजापतिर् उवाच यजस्य यजस्वेति
स होवाच यजस्व यजस्वेत्य् एवं हात्थ मा
त्रिर् अपि क्षत मे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास् तृतीयसवनेन
यज्ञवास्तुन्य् एव पर्यशिषो यज्ञवास्तुम् इत्य् एवम् आशिषो ऽहं वा एतद् वेद यज्ञे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास् तृतीयसवनेन यज्ञवास्तुन्य् एव पर्यशिषो यज्ञवास्तुम् इत्य् एवम् आशिषो विद्वांसो नूनं त्वा याजयेयुः
एते ह वा अविद्वांसो यत्रानृग्विद् धोता भवत्य् अयजुर्विद् अध्वर्युर् असामविद् उद्गाताभृग्वङ्गिरोविद् ब्रह्मा
यजस्वैव हन्त तु ते तद् वक्ष्यामि
यथा सूत्रे मणिर् इव सूत्रम् एतान्य् उक्थाहानि भवन्ति सूत्रम् इव वा मणाव् इति
तस्माद् य एव सर्ववित् स्यात् तं ब्रह्माणं कुर्वीत
एष ह वै विद्वांत् सर्वविद् ब्रह्मा यद् भृग्वङ्गिरोवित्
एते ह वा अस्य सर्वस्य शमयितारः पालयितारस्
तमाद् ब्रह्मा स्तुते बहिःपवमाने वाचयति ॥ ११ ॥
1.5.12
श्येनो ऽसि गायत्रछन्दा
अनु त्वारभे
स्वस्ति मा संपारयेति
स यद् आह श्येनो ऽसीति सोमं वा एतद् आह
एष ह वा अग्निर् भूत्वास्मिंल् लोके संशाययति
तद् यत् संशाययति तस्माच् छेयनस्
तच् छेयनस्य श्येनत्वम्
स यद् आह गायत्रछन्दा अनुत्वारभ इति गायत्रेण छन्दसा वसुर्भिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निं सन्तम् अन्वारभते
स यद् आह स्वस्ति मा संपारयेति गायत्रेणैव छन्दसा वसुभिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निना देवेन स्वस्ति मा संपारयेति गायत्रेणैवैनं तच् छन्दसा वसुभिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निना देवेन स्वस्ति संपद्यते य एवं वेद
1.5.13
अथ माध्यंदिने पवमाने वाचयति सम्राड् असि त्रिष्टुप्छन्दा
अनु त्वारभे
स्वस्ति मा संपारयेति
स यद् आह सम्राड् असीति सोमं वा एतद् आह
एष ह वै वायुर्भूत्वान्तरिक्षलोके सम्राजति
तद् यत् सम्राजति तस्मात् सम्राट्
तत् सम्राजस्य सम्राट्त्वम्
स यद् आह त्रिष्टुप्छन्दा अनु त्वारभ इति त्रैष्टुभेन छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने ऽन्तरिक्षलोके वायुं सन्तम् अन्वारभते
स यद् आह स्वस्ति मा संपारयेति त्रैष्टुभेनैव छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति मा संपारयेति
त्रैष्टुभेनैवैनं तच् छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति संपद्यते य एवं वेद ॥ १३ ॥
1.5.14
अथार्भवे पवमाने वाचयति स्वरो ऽसि गयो ऽसि जगच्छन्दा
अनु त्वारभे
स्वस्ति मा संपारयेति
स यद् आह स्वरो ऽसीति सोमं वा एतद् आह
एष ह वै सूर्यो भूत्वामुष्मिंल् लोके स्वरति
तद् यत् स्वरति तस्मात् स्वरस्
तत् स्वरस्य स्वरत्वम्
स यद् आह गयो ऽसीति सोमं वा एतद् आह
एष ह वै चन्द्रमा भूत्वा सर्वांल् लोकान् गच्छति
तद् यद् गच्छति तस्माद् गयस्
तद् गयस्य गयत्वम्
स यद् आह जगच्छन्दा अनु त्वारभ इति जागतेन छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्यं सन्तम् अन्वारभते
स यद् आह स्वस्ति मा संपारयेति जागतेनैव छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्येण देवेन स्वस्ति मा संपारयेति जागतेनैवैनं तच् छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्येण देवेन स्वस्ति संपद्यते य एवं वेद ॥ १४ ॥
1.5.15
अथ संस्थिते संस्थिते सवने वाचयति मयि भर्गो मयि महो मयि यशो मयि सर्वम् इति
पृथिव्य् एव भर्गो ऽन्तरिक्ष एव महो द्यौर् एव यशो ऽप एव सर्वम्
अग्निर् एव भर्गो वायुर् एव मह आदित्य एव यशश् चन्द्रमा एव सर्वम् [एद्. आदित्या]
वसव एव भर्गो रुद्रा एव मह आदित्या एव यशो विश्वेदेवा एव सर्वम्
गायत्र्य् एव भर्गस् त्रिष्टुब् एव महो जगत्य् एव यशो ऽनुष्टुब् एव सर्वम्
प्राच्य् एव भर्गः प्रतीच्य् एव मह उदीच्य् एव यशो दक्षिणैव सर्वम्
वसन्त एव भर्गो ग्रीष्म एव महो वर्षा एव यशः शरद् एव सर्वम्
त्रिवृद् एव भर्गः पञ्चदश एव महः सप्तदश एव यश एकविंश एव सर्वम्
ऋग्वेद एव भर्गो यजुर्वेद एव महः सामवेद एव यशो ब्रह्मवेद एव सर्वम्
होतैव भर्गो ऽध्वर्युर् एव मह उद्गातैव यशो ब्रह्मैव सर्वम्
वाग् एव भर्गः प्राण एव महश् चक्षुर् एव यशो मन एव सर्वम् ॥ १५ ॥
1.5.16
स यद् आह मयि भर्ग इति पृथिवीम् एवैतल् लोकानाम् अहाग्निं देवानां वसून् देवान् देवगणानां गायत्रं छन्दसां प्राचीं दिशां वसन्तम् ऋतूनां त्रिवृतं स्तोमानाम् ऋग्वेदं वेदानां हौत्रं होत्रकाणां वाचम् इन्द्रियाणाम् ॥ १६ ॥
1.5.17
स यद् आह मयि मह इत्य् अन्तरिक्षम् एवैतल् लोकानाम् आह वायुं देवानां रुद्रान् देवान् देवगणानां त्रैष्टुभं छन्दसां प्रतीचीं दिशां ग्रीष्मम् ऋतूनां पञ्चदशं स्तोमानां यजुर्वेदं वेदानाम् आध्वर्यवं होत्रकाणां प्राणम् इन्द्रियाणाम् ॥ १७ ॥
1.5.18
स यद् आह मयि यश इति दिवम् एवैतल् लोकानाम् आहादित्यं देवानाम् आदित्यान् देवगणानां जागतं छन्दसाम् उदीचीं दिशां वर्षा ऋतूनां सप्तदशं स्तोमानां सामवेदं वेदानाम् औद्गात्रं होत्रकाणां चक्षुर् इन्द्रियाणाम् ॥ १७ ॥
1.5.19
स यद् आह मयि सर्वम् इत्य् अप एवैतल् लोकानाम् आह चन्द्रमसं देवानां विश्वान् देवान् देवगणानाम् आनुष्टुभं छन्दसां दक्षिणां दिशां शरदम् ऋतूनाम् एकविंशं स्तोमानां ब्रह्मवेदं वेदानां ब्रह्मत्वं होत्रकाणां मन इन्द्रियाणाम् ॥ १८ ॥
1.5.20
स वा एष दशधा चतुः संपद्यते
दश च ह वै चतुर् विराजो ऽक्षराणि
तं गर्भा उपजीवन्ति
श्रीर् वै विराड्
यशो ऽन्नाद्यम्
श्रियम् एव तद् विराजं यशस्य् अन्नाद्यो प्रतिष्ठापयति
प्रतिष्ठन्तीर् इदं सर्वम् अनुप्रतिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ २० ॥
1.5.21
अनर्वाणं ह वै देवं दध्यङ्ङ् आङ्गिरस उपसीदं ह यज्ञस्य श्नुष्टिं समश्नवामह इति
स दध्यङ्ङ् आङ्गिरसो ऽब्रवीद् यो वै सप्तदशं प्रजापतिं यज्ञे ऽन्वितं वेद नास्य यज्ञो रिष्यते
न यज्ञपतिं रिष्यन्त इति
ता वा एताः पञ्च व्याहृतयो भवन्त्य् ओ श्रावयास्तु श्रौषड् यज ये यजामहे वौषड् इति
स दध्यङ्ङ् आङ्गिरसो ऽब्रवीन् न वयं विद्मो यदि ब्राह्मणाः स्मो यद्य् अब्राह्मणाः स्मो यदि तस्यर्षेः स्मो वान्यस्येति
अनर्वाणश् च ह वा ऋतावन्तश् च पितरः स्वधायाम् आवृषायन्त वयं वदामहै वयं वदामहा इति
सो ऽयात् स्वायंभुवो वा ऋतावन्तो मदयातां न वयं वदामहा इति
तस्मात् प्रवरे प्रव्रियमाणे वाचयेद् देवाः पितर इति तिस्रः
य एति संयजति स भवति यश् च न ब्रूते यश् च न ब्रूत इति ब्राह्मणम् ॥ २१ ॥
1.5.22
सावित्रं ह स्मैतं पूर्वे पुरस्तात् पशुम् आलभन्त इत्य् एतर्हि प्राजापत्यम्
यो ह्य् एव सविता स प्रजापतिर् इति वदन्तस्
तस्माद् उ समुप्याग्नींस् तेन यजेरन्
ते समानधिष्ण्या एव स्युर् ओखासंभरणीयायाः
उखासंभरणीयायां विन्युपयाग्नींस् तया यजेरन्
ते नानाधिष्ण्या एव स्युर् आ दीक्षणीयायाः
दीक्षणीयायां संन्युप्याग्नींस् तया यजेरन्
ते समानधिष्ण्या एव स्युर् ओदवसानीयायाः
उदवसानीयायां विन्युप्याग्नींस् तया यजेरन्
ते नानाधिष्ण्या एव स्युः
अथ यदि यजमानस्योपतपेत् पार्श्वतो ऽग्नीन् आधाय तावद् आसीत यावद् अगदः स्यात्
यदि प्रेयात् स्वैर् एव तम् अग्निभिर् दहेत्
अशवाग्निभिर् इतरे यजमाना आसत इति वदन्तस्
तस्य तद् एव ब्राह्मणं यद् अदः पुरःसवने
पितृमेध आशिषो व्याख्याताः ॥ २२ ॥
1.5.23
सायंप्रातर्होमौ स्थालीपाको नवश् च यः । बलिश् च पितृयज्ञश् चाष्टका सप्तमः पशुः ॥ इत्य् एते पाकयज्ञाः
अग्न्याधेयम् अग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश् चातुर्मास्यानि पशुबन्धो ऽत्र सप्तमः ॥ इत्य् एते हविर्यज्ञाः
अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशिमांस् ततः । वाजपेयो ऽतिरात्रश् चाप्तोर्यामात्र सप्तमः ॥ इत्य् एते सुत्याः
के स्विद् देवा प्रवोवाजाः के स्विद् देवा अभिद्यवः । के स्विद् देवा हविष्मन्तः किं स्विज् जिगाति सुम्नयुः ॥
ऋतव एव प्रवोवाजा मासा देवा अभिद्यवः । अर्धमासा हविष्मन्तस् तज् जिगाति सुन्मयुः ॥
कति स्विद् रात्रयः कत्य् अहानि कति स्तोत्राणि कति शस्त्राण्य् अस्य । कति स्वित् सवनाः संवत्सरस्य स्तोत्रियाः पदाक्षराणि कत्य् अस्य ॥
<द्वाव् अतिरात्रौ षट् शतम् अग्निष्टोमा द्वे विंशतिशते उक्थ्यानां । द्वादश षोडशिनः षष्टिः षडहा वैषुवतं च [Vऐत्ष् ३१.१५]> ॥
अहान्यस्य विंशतिशतानि त्रीण्य् अहश् चैकं तावद् अस्य । संवत्सरस्य सवनाः सहस्रम् असीति त्रीणि च संस्तुतस्य ॥
षट्षष्टिश् च द्वे च शते भवत स्तुतशस्त्राणाम् अयुतं चैकम् अस्य । स्तोत्रियाश् च नवतिसहस्रा द्वे नियुते नवतिश् चाति षट् च ॥
अष्टौ शतान्य् अयुतानि त्रिंशच् चतुर्नवतिश् च पदान्य् अस्य । संवत्सरस्य कविभिर् मितस्यैतावती मध्यमा देवमात्रा ॥
अयुतम् एकं प्रयुतानि त्रिंशद् द्वे नियुते तथा ह्य् अनुसृष्टाः । अष्टौ शतानि नव चाक्षराण्य् एतावान् आत्मा परमः प्रजापतेः ॥
आद्यं वषट्कारः प्रदानान्तम् एतम् अग्निष्टोमे पर्वशः साधु कॢप्तम् । सौभेषजं छन्द ईप्सन् यद् अग्नौ चतुःशतं बहुधा हूयते यत् ॥
प्रातःसवन स्तुत एकविंशो गायत्रस्तोममित एक एव । माध्यंदिनः सप्तदशेन कॢप्तस् त्रयस्त्रिंशेन सवनं तृतीयम् ॥ २३ ॥
1.5.24
श्रद्धायां रेतस् तपसा तपस्वी वैश्वानरः सिषिचे ऽपत्यम् ईप्सन् । ततो जज्ञे लोकजित् सोमजम्भा ऋषेर् ऋषिर् अङ्गिराः संनभूव ॥
ऋषेर् यज्ञस्य चतुर्विधस्य श्रद्धां यः श्रेयसीं लोकम् अमुं जिगाय । यस्मै वेदाः प्रसृताः सोमबिन्दु युक्ता वहन्ति सुकृताम् उ लोकम् ॥
ऋचो ऽस्य भागांश् चतुरो वहन्त्य् उक्थशस्त्रैः प्रमुदो मोदमानाः । ग्रहैर् हविर्भिश् च कृताकृतश् च यजूंषि भागांश् चतुरो वहन्ति ॥
औदुम्बर्यां सामघोषेण तावत् सविष्टुतिभिश् च स्तोमैः छन्दसा । सामानि भागांश् चतुरो वहन्ति गीत्या स्तोमेन सह प्रस्तावेन च ॥
प्रायश्चित्तैर् भेषजैः संस्तुवन्तो ऽथर्वाणो ऽङ्गिरसश् च शान्ताः । ब्रह्मा ब्रह्मत्वेन प्रमुदो मोदमाना असंसृष्टान् भागांश् चतुरो वहन्ति ॥
यो ब्रह्मवित् सो ऽभिकरो ऽस्तु वः शिवो धिया धीरो रक्षतु धर्मम् एतम् । मा वः प्रमत्ताम् अमृताच् च यज्ञात् कर्माच् च येनान् अङ्गिरसो ऽपियासीत् ॥
मायुं दशं मारुशस्ताः प्रमेष्टा मा मे भूर् युक्ता विदहाथ लोकान् । दिव्यं भयं रक्षत धर्मम् उद्यतं यज्ञं कालाश स्तुतिगोपनायनम् ॥
होता च मैत्रावरुणश् च पादम् अच्छावाकः सह ग्रावस्तुतैकम् । ऋग्भि स्तुवन्तो ऽहरहः पृथिव्या अग्निं पादं ब्रह्मणा धारयन्ति ॥
अध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता निहितं पादम् एकम् । सम् अन्तरिक्षं यजुषा स्तुवन्तो वायुं पादं ब्रह्मणा धारयन्ति ॥
साम्नोद्गाता छादयन्न् अप्रमत्त औदुम्बर्यां स्तोभदेयः सगद्गदः । विद्वान् प्रस्तोता विदहाथ सुष्टुतिं सुब्रह्मण्यः प्रतिहर्ताथ यज्ञे ॥
साम्ना दिव्य् एकं निहितं स्तुवन्तः सूर्यं पादं ब्रह्मणा धारयन्ति । ब्रह्मा हैकं ब्राह्मणाच्छंसिनः सह पोताग्नीध्रो निहितं पादम् एकम् ॥
अथर्वभिर् अङ्गिरोभिश् च गुप्तो ऽप्सु चन्द्रं पादं ब्रह्मणा धारयन्ति । षोडशिकं होत्रका अभिष्टुवन्ति वेदेषु युक्ताः प्रपृथक् चतुर्धा ॥
मनीषिणो दीक्षिताः श्रद्दधाना होतारो गुप्ता अभिवहन्ति यज्ञम् । दक्षिणतो ब्रह्मणस्यों जनद् इत्य् एतां व्याहृतिं जपन् ॥
सप्तदशं सदस्यं तं कीर्तयन्ति पुरा विदुः । अष्टादशी दीक्षिता दीक्षितानां यज्ञे पत्नी श्रद्दधानेह युक्ता ॥
एकोनविंशः शमिता बभूव विंशो यज्ञे गृहपतिर् एव सुन्वन् । एकविंशतिर् एवैषां संस्थायाम् अङ्गिरो वह ॥
वेदैर् अभिष्टुतो लोको नानावेशापराजितः । ॥ २४ ॥
1.5.25
सप्त सुत्याः सप्त च पाकयज्ञाः हविर्यज्ञाः सप्त तथैकविंशतिः । सर्वे ते यज्ञा अङ्गिरसो ऽपियन्ति नूतना यान् ऋषयो सृजन्ति ये च सृष्टाः पुराणैः ॥
एतेषु वेदेष्व् अपि चैकम् एवापव्रजम् ऋत्विजां संभरन्ति । कृट्स्तृपात् सचते ताम् अशस्तिं विष्कन्धम् एनं विसृतं प्रजासु ॥
निवर्तन्ते दक्षिणा नीयमानाः सुते सोमे वितते यज्ञतन्त्रे । मोघाशिषो यन्त्य् अनिवर्तमाना अनिष्टयज्ञा न तरन्ति लोकान् ॥
द्वादशवर्षं ब्रह्मचर्यं पृथग् वेदेषु तत् स्मृतम् । एवं व्यवस्थिता वेदाः सर्व एव स्वकर्मसु ॥
सन्ति चैषां समानाः मन्त्राः कल्पाश् च ब्राह्मणानि च । व्यवस्थानं तु तत् सर्वं पृथग्वेदेषु तत् स्मृतम् ॥
ऋग्वेदस्य पृथिवी स्थानम् अन्तरिक्षस्थानो ऽध्वरः । द्यौ स्थानं सामवेदस्यापो भृग्वङ्गिरसां स्मृतम् ॥
अग्निर् देवत ऋग्वेदस्य यजुर्वेदो वायुदेवतः । आदित्यः सामवेदस्य चन्द्रमा वैद्युतश् च भृग्वङ्गिरसाम् ॥
त्रिवृत्स्तोम ऋग्वेदस्य यजूंषि पञ्चदशेन सह जज्ञिरे । सप्तदशेन सामवेद एकविंशो ब्रह्मसंमितः ॥
वाग् अध्यात्मम् ऋग्वेदस्य यजुषां प्राण उच्यते । चक्षुषी सामवेदस्य मनो भृग्वङ्गिरसां स्मृतम् ॥
ऋग्भिः सह गायत्रं जागतम् आहुर् यजूंषि त्रैष्टुभेन सह जज्ञिरे । उष्णिक्ककुभ्यां भृग्वङ्गिरसो जगत्या सामानि कवयो वदन्ति ॥
ऋग्भिः पृथिवीं यजुषान्तरिक्षं साम्ना दिवं लोकजित् सोमजम्भाः । अथर्वभिर् अङ्गिरोभिश् च गुप्तो यज्ञश् चतुष्पाद् दिवम् उद्वहेत ॥
ऋग्भिः सुशस्तो यजुषा परिष्कृतः सविष्टुतः सामजित् सोमजम्भाः । अथर्वभिर् अङ्गिरोभिश् च गुप्तो यज्ञश् चतुष्पाद् दिवम् आरुरोह ॥
ऋचो विद्वान् पृथिवीं वेद संप्रति यजूंषि विद्वान् बृहद् अन्तरिक्षम् । दिवं वेद सामगो यो विपश्चित् सर्वान् लोकान् यद् भृग्वङ्गिरोवित् ॥
यांश् च ग्रामे यांश् चारण्ये जपन्ति मन्त्रान् नार्थान् बहुधा जनासः । सर्वे ते यज्ञा अङ्गिरसो ऽपियन्ति नूतना सा हि गतिर् ब्रह्मणो यावरार्ध्या ॥
त्रिविष्टपं त्रिदिवं नाकम् उत्तमं तम् एतया त्रय्या विद्ययैति । अत उत्तरे ब्रह्मलोका महान्तो ऽथर्वणाम् अङ्गिरसां च सा गतिः ॥ अथर्वणाम् अङ्गिरसां च सा गतिर् इति ब्राह्मणम् ॥ २५ ॥
इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे पञ्चमः प्रपाठकः ॥
इति पूर्वब्राह्मणं समाप्तम्