ऋग्वेदः सूक्तं ३.२७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ३.२६ ऋग्वेदः - मण्डल ३
सूक्तं ३.२७
गाथिनो विश्वामित्रः
सूक्तं ३.२८ →
दे. अग्निः, १ ऋतवो वा। गायत्री


प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या ।
देवाञ्जिगाति सुम्नयुः ॥१॥
ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् ।
श्रुष्टीवानं धितावानम् ॥२॥
अग्ने शकेम ते वयं यमं देवस्य वाजिनः ।
अति द्वेषांसि तरेम ॥३॥
समिध्यमानो अध्वरेऽग्निः पावक ईड्यः ।
शोचिष्केशस्तमीमहे ॥४॥
पृथुपाजा अमर्त्यो घृतनिर्णिक्स्वाहुतः ।
अग्निर्यज्ञस्य हव्यवाट् ॥५॥
तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः ।
आ चक्रुरग्निमूतये ॥६॥
होता देवो अमर्त्यः पुरस्तादेति मायया ।
विदथानि प्रचोदयन् ॥७॥
वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते ।
विप्रो यज्ञस्य साधनः ॥८॥
धिया चक्रे वरेण्यो भूतानां गर्भमा दधे ।
दक्षस्य पितरं तना ॥९॥
नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत ।
अग्ने सुदीतिमुशिजम् ॥१०॥
अग्निं यन्तुरमप्तुरमृतस्य योगे वनुषः ।
विप्रा वाजैः समिन्धते ॥११॥
ऊर्जो नपातमध्वरे दीदिवांसमुप द्यवि ।
अग्निमीळे कविक्रतुम् ॥१२॥
ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः ।
समग्निरिध्यते वृषा ॥१३॥
वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।
तं हविष्मन्त ईळते ॥१४॥
वृषणं त्वा वयं वृषन्वृषणः समिधीमहि ।
अग्ने दीद्यतं बृहत् ॥१५॥


सायणभाष्यम्

‘प्र वो वाजाः' इति पञ्चदशर्चं पञ्चदशं सूक्तम् । अत्रानुक्रमणिका- प्र वः पञ्चोना गायत्रं त्वृतव्या वाद्या' इति । विश्वामित्र ऋषिः । गायत्री छन्दः । अग्निर्देवता । आद्या ऋतुदेवत्या वा । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दस्यस्य सूक्तस्य विनियोगः। ‘प्र वो वाजा उपसद्याय' (आश्व श्रौ. ४.१३ ) इति । आभिप्लविकेषूक्थ्येषु ‘प्र वो वाजाः' इति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितं च--- ‘ प्र वो वाजा अभिद्यवोऽभि प्रयांसि वाहसा' (आश्व. श्रौ. ७.८) इति । सूक्तस्याद्या सामिधेनी । सूत्रितं च- प्र वो वाजा अभिद्यवोग्न आ याहि वीतये' (आश्व. श्रौ. १. २ ) इति । सामिधेनीषु ‘ समिध्यमानः' इत्येका । सूत्रितं च--’ समिध्यमानो अध्वरे समिद्धो अग्न आहुतेति द्वे' (आश्व. श्रौ. १. २) इति । आधाने तृतीयायामिष्टौ समिधेनीष्विध्यमानेद्धवत्योर्मध्ये ‘ पृथुपाजाः' इति द्वे धाय्ये । सूत्रितं च--' प्रागुपोत्तमायाः पृथुपाजा अमर्त्य इति द्वे' (आश्व. श्रौ. २. १) इति । एवमन्यत्रापि यत्र यत्र सप्तदश सामिधेन्यस्तत्र तत्रैते धाय्ये इति द्रष्टव्यम् । विषुवत्येकविंशतिः सामिधेन्यः । तत्र ‘ पृथुपाजा अमर्त्यः' इति षडृचो धाय्याः । ‘ पृथुपाजा अमर्त्य इति षट् धाय्याः सामिधेनीनाम् ' ( आश्व. श्रौ. ८.६) इति सूत्रितम् । महाव्रतेऽपि पञ्चविंशतिसंख्याकाः सामिधेन्यः । तत्राप्येताः षडृचो द्रष्टव्याः । अग्नीषोमप्रणयने ‘होता देवो अमर्त्यः' इति तृचः । सूत्रितं च-’ होता देवो अमर्त्यः पुरस्तादुप त्वाग्ने दिवेदिवे' ( आश्व. श्रौ. ४. १० ) इति । ‘ ईळेन्यो नमस्यस्तिरः' इति तिस्रः सामिधेन्यः । सूत्रितं च-’ ईळेन्यो नमस्यतिरोऽग्निं दूतं वृणीमहे' ( आश्व. श्रौ. १. २) इति ।


प्र वो॒ वाजा॑ अ॒भिद्य॑वो ह॒विष्मं॑तो घृ॒ताच्या॑ ।

दे॒वांजि॑गाति सुम्न॒युः ॥१

प्र । वः॒ । वाजाः॑ । अ॒भिऽद्य॑वः । ह॒विष्म॑न्तः । घृ॒ताच्या॑ ।

दे॒वान् । जि॒गा॒ति॒ । सु॒म्न॒युः ॥

प्र । वः । वाजाः । अभिऽद्यवः । हविष्मन्तः । घृताच्या ।

देवान् । जिगाति । सुम्नयुः ॥

हे ऋतवः “वाजाः । वजन्ति गच्छन्तीति वाजा मासाः । “अभिद्यवः । अभितो द्यवो दिवसा येष्वित्यभिद्यवोऽर्धमासाश्च । “हविष्मन्तः हविर्भाजो देवाः। “घृताच्या । घृतमञ्चतीति घृताची गौः । तथा च तैत्तिरीयकं-- देवा हवि:मन्तो गौर्घृताची' (तै. सं.२.५.७.४) इति । यद्वा हविष्मन्तो हविषः क्षीरादेः प्रदातारः पशवो घृताच्या । घृतमञ्चति प्राप्नोतीति घृताची स्रुक् । तथा च वाजसनेयकं--- ‘ पशवो हविष्मन्तः स्रुग्घृताची' इति । तया घृताच्या सहिता हविष्मन्तो देवाः पशवश्च मासाश्चार्धमासाश्चेति सर्वे “वः युष्माकं यजनार्थं प्रभवन्ति । तेषु वाजादिषु प्रभवत्सु सत्सु "सुम्नयुः सुखमात्मन इच्छन् यजमानः “देवाञ्जिगाति यज्ञद्वारा देवान् प्राप्नोति । उक्तार्थे तैत्तिरीय ब्राह्मणं- प्र वो वाजा इत्यन्वाह मासा वै वाजा अर्धमासा अभिद्यवो देवा हविष्मन्तो गौर्घृताची यज्ञो देवाञ्जिगाति यजमानः सुम्नयुः ' ( तै. सं. २, ५, ७. ४) इति ॥ अभिद्यवः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । घृताच्या । ‘ घृ क्षरणदीप्त्योः '। अस्मात् । अञ्जिघृषिभ्यः क्तः' (उ. सू. ३. ३६९) इति कर्मणि क्तः । घृतमाज्यमञ्चतीति ' ऋत्विग्दधृक्' इत्यादिना क्विन् । “अनिदिताम्' इत्युपधालोपः। 'अञ्चतेश्चोपसंख्यानम् ' इति ङीप् ।' चौ ' इति पूर्वपदान्तोदात्तत्वम् । जिगाति । गातिः गत्यर्थः । छान्दसो जुहोत्यादिः । निघातः । सुम्नयुः । सुम्नं सुखमात्मन इच्छन्निति" ‘सुप आत्मनः क्यच्' । 'क्याच्छन्दसि ' इत्युः । प्रत्ययस्वरः ॥


ईळे॑ अ॒ग्निं वि॑प॒श्चितं॑ गि॒रा य॒ज्ञस्य॒ साध॑नं ।

श्रु॒ष्टी॒वानं॑ धि॒तावा॑नं ॥२

ईळे॑ । अ॒ग्निम् । वि॒पः॒ऽचित॑म् । गि॒रा । य॒ज्ञस्य॑ । साध॑नम् ।

श्रु॒ष्टी॒ऽवान॑म् । धि॒तऽवा॑नम् ॥

ईळे । अग्निम् । विपःऽचितम् । गिरा । यज्ञस्य । साधनम् ।

श्रुष्टीऽवानम् । धितऽवानम् ॥

“विपश्चितं मेधाविन “यज्ञस्य “साधनं यज्ञस्य निर्वाहकं “श्रुष्टीवानं सुखवन्तं यद्वा वेगवन्तं “धितावानम् । वानं वननीयं धनं धितं निहितं यस्य तं निहितधनम् । तमिमम् “अग्निं “गिरा स्तुतिलक्षणया वाचा “ईळे विश्वामित्रोऽहं स्तौमि ।। ईळे । 'ईड स्तुतौ ' । श्रुष्टीवानम् । ' वन षण संभक्तौ' इत्यस्माद्विच् । श्रुष्टी वनतीति श्रुष्टीवा । कृदुत्तरपदस्वरः । धितावानम् । दधातेः निष्ठायां धिरादेशश्छान्दसः । वन संभक्तौ' । कर्मणि घञ् । बहुव्रीहौ निष्ठा ' इति धितशब्दस्य पूर्वनिपातः । पूर्वपदप्रकृतिस्वरः ।।


अग्ने॑ श॒केम॑ ते व॒यं यमं॑ दे॒वस्य॑ वा॒जिनः॑ ।

अति॒ द्वेषां॑सि तरेम ॥३

अग्ने॑ । श॒केम॑ । ते॒ । व॒यम् । यम॑म् । दे॒वस्य॑ । वा॒जिनः॑ ।

अति॑ । द्वेषां॑सि । त॒रे॒म॒ ॥

अग्ने । शकेम । ते । वयम् । यमम् । देवस्य । वाजिनः ।

अति । द्वेषांसि । तरेम ॥

हे “अग्ने “वाजिनः संभृतहविष्काः “वयं “देवस्य द्योतमानस्य' “ते तव “यमं यमनम् आ यज्ञसमाप्तेः अत्रावस्थानं कर्तुं “शकेम शक्यास्म। वाजिनो वेगवतो देवस्य इति वा योजनीयम् । ततः कारणात् “द्वेषांसि अस्मदीयानि पापानि “अति “तरेम पापेभ्य उत्तीर्णा भवेम ॥ शकेम । शक्लृ शक्तौ ' इत्यस्य आशीर्लिंङि ' लिङ्याशिष्यङ्' इत्यङ्प्रत्ययः । ‘ किदाशिषि ' इति यासुट् । सलोपेयादेशयलोपगुणसलोपाः । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । उदात्तनिवृत्तिस्वरः । यमम् । ‘यम उपरमे ' इत्यस्माद्भावे घञ् । ‘यम उपरमे' इति निपातनात् वृद्ध्यभावः । ञित्स्वरः । तरेम । ‘तॄ प्लवनतरणयोः ' । प्रार्थने लिङि रूपम् । निघातः ॥


स॒मि॒ध्यमा॑नो अध्व॒रे॒३॒॑ऽग्निः पा॑व॒क ईड्यः॑ ।

शो॒चिष्के॑श॒स्तमी॑महे ॥४

स॒म्ऽइ॒ध्यमा॑नः । अ॒ध्व॒रे । अ॒ग्निः । पा॒व॒कः । ईड्यः॑ ।

शो॒चिःऽके॑शः । तम् । ई॒म॒हे॒ ॥

सम्ऽइध्यमानः । अध्वरे । अग्निः । पावकः । ईड्यः ।

शोचिःऽकेशः । तम् । ईमहे ॥

यः “अग्निः “अध्वरे यज्ञे “समिध्यमानः घृताज्याहुतिभिः सम्यक् प्रज्वल्यमानः अत एव “शोचिष्केशः ज्वालाकेशः “पावकः शोधकः “ईड्यः स्तोतृभिः प्रशस्यो भवति “तम् इममभिमतफलार्थम् “ईमहे वयं याचामहे ॥ ईड्यः । ‘ ईड स्तुती ' इत्यस्माण्ण्यत् । अस्य ‘ तित्स्वरितम् । इति स्वरितत्वे प्राप्ते 'ईडवन्द ' इत्यादिना आद्युदात्तत्वम् । ईमहे । ई कान्त्यादिषु । अयं धातुरत्र याच्ञार्थः । निघातः ॥


पृ॒थु॒पाजा॒ अम॑र्त्यो घृ॒तनि॑र्णि॒क्स्वा॑हुतः ।

अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ॥५

पृ॒थु॒ऽपाजाः॑ । अम॑र्त्यः । घृ॒तऽनि॑र्निक् । सुऽआ॑हुतः ।

अ॒ग्निः । य॒ज्ञस्य॑ । ह॒व्य॒ऽवाट् ॥

पृथुऽपाजाः । अमर्त्यः । घृतऽनिर्निक् । सुऽआहुतः ।

अग्निः । यज्ञस्य । हव्यऽवाट् ॥

“पृथुपाजाः प्रभूततेजोरूपः "अमर्त्यः मरणधर्मरहितः “घृतनिर्णिक् । घृतस्य विलयनद्वारा शोधनं येनेति घृतनिर्णिक् । “स्वाहुतः सुष्ठु होत्रादिभिः सम्यगिष्टः । एवंभूतः “अग्निर्यज्ञस्य ज्योतिष्टोमादेः 'हव्यवाट् हव्यानां वोढा भवति ॥ पृथुपाजाः । कृदुत्तरपदस्वरः । स्वाहुतः । जुहोतेः कर्मणि क्तः । ' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । हव्यवाट् ।' वहश्च' इति ण्विः ॥ २८ ॥


तं स॒बाधो॑ य॒तस्रु॑च इ॒त्था धि॒या य॒ज्ञवं॑तः ।

आ च॑क्रुर॒ग्निमू॒तये॑ ॥६

तम् । स॒ऽबाधः॑ । य॒तऽस्रु॑चः । इ॒त्था । धि॒या । य॒ज्ञऽव॑न्तः ।

आ । च॒क्रुः॒ । अ॒ग्निम् । ऊ॒तये॑ ॥

तम् । सऽबाधः । यतऽस्रुचः । इत्था । धिया । यज्ञऽवन्तः ।

आ । चक्रुः । अग्निम् । ऊतये ॥

"सबाधः । रक्षोघ्नमन्त्रोच्चारणेन तद्विषयबाधा सह वर्तन्ते इति सबाधः । “यज्ञवन्तः यजनीयहविर्युक्ताः “यतस्रुचः । यताः संयताः स्रुचो जुह्वाद्याः यैस्ते यतस्रुचः ऋत्विजः । “इत्था इत्थमनेन प्रकारेण क्रियमाणया “धिया स्तुत्या “तम् एवंभूतम् अग्निमूतये राक्षसबाधात् रक्षणाय “आ अभिमुखं “चक्रुः कुर्वन्ति ॥ सबाधः । ‘ बाधृ विलोडने ' इत्यस्मात् क्विप् । कृदुत्तरपदस्वरः । इत्था । इदंशब्दात् प्रकारार्थे इदमस्थमुः । तस्य ' सुपां सुलुक्° ' इति डादेशः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । चक्रुः । ‘डुकृञ् करणे' इत्यस्य लिट्युसि यणादेशे कृते तस्य द्विर्वचनेऽचि' इति स्थानिवद्भावात् द्विर्वचनम् । निघातः ॥


होता॑ दे॒वो अम॑र्त्यः पु॒रस्ता॑देति मा॒यया॑ ।

वि॒दथा॑नि प्रचो॒दय॑न् ॥७

होता॑ । दे॒वः । अम॑र्त्यः । पु॒रस्ता॑त् । ए॒ति॒ । मा॒यया॑ ।

वि॒दथा॑नि । प्र॒ऽचो॒दय॑न् ॥

होता । देवः । अमर्त्यः । पुरस्तात् । एति । मायया ।

विदथानि । प्रऽचोदयन् ॥

“होता होमनिष्पादकः “अमर्त्यः मरणधर्मरहितः “देवो द्योतमानः “विदथानि वेदितव्यानि कर्माणि "प्रचोदयन् प्रकर्षेण प्रेरयन् सोऽग्निः “मायया कर्मविषयाभिज्ञानेन युक्तः सन् “पुरस्तात् कर्मप्रारंभकाले एव “एति अस्मानागच्छति ॥ मायया । ' माङ् माने शब्दे च ' इत्यस्मात् ‘ माच्छाससिसूभ्यो यः' इति कर्तरि कर्मणि वा यप्रत्ययः । मिमीते जानीते कर्म मीयतेऽनयेति वा माया कर्मविषयज्ञानम् । प्रत्ययस्वरः। विदथानि । “विद ज्ञाने' इत्यस्मात् ‘ रुदिविदिभ्यां कित्' (उ, सू. ३. ३९५) इति कर्मणि अथप्रत्ययः । कित्त्वादगुणः । प्रत्ययस्वरः ॥


वा॒जी वाजे॑षु धीयतेऽध्व॒रेषु॒ प्र णी॑यते ।

विप्रो॑ य॒ज्ञस्य॒ साध॑नः ॥८

वा॒जी । वाजे॑षु । धी॒य॒ते॒ । अ॒ध्व॒रेषु॑ । प्र । नी॒य॒ते॒ ।

विप्रः॑ । य॒ज्ञस्य॑ । साध॑नः ॥

वाजी । वाजेषु । धीयते । अध्वरेषु । प्र । नीयते ।

विप्रः । यज्ञस्य । साधनः ॥

"वाजी बलवानग्निः “वाजेषु युद्धेषु “धीयते देवैः शत्रुहननार्थं निधीयते । किंच “अध्वरेषु अग्निहोत्रादिषु “प्र “णीयते अध्वर्वा्रदिभिः प्रकर्षेण आहवनीयादिस्थानेषु प्रक्षिप्यते । अत एव “विप्रः मेधावी सन्नग्निः “यज्ञस्य अग्निहोत्रादेः “साधनः साधको भवति ॥ धीयते । दधातेः कर्मणि यक्। घुमास्थागापा ' इत्यादिना ईत्वम् । निघातः । नीयते । ‘णीञ् प्रापणे' इत्यस्य कर्मणि यकि रूपम् । उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । साधनः । ‘ साध संसिद्धौ' । नन्द्यादित्वात्कर्तरि ल्युः । लित्स्वरः ॥


धि॒या च॑क्रे॒ वरे॑ण्यो भू॒तानां॒ गर्भ॒मा द॑धे ।

दक्ष॑स्य पि॒तरं॒ तना॑ ॥९

धि॒या । च॒क्रे॒ । वरे॑ण्यः । भू॒ताना॑म् । गर्भ॑म् । आ । द॒धे॒ ।

दक्ष॑स्य । पि॒तर॑म् । तना॑ ॥

धिया । चक्रे । वरेण्यः । भूतानाम् । गर्भम् । आ । दधे ।

दक्षस्य । पितरम् । तना ॥

योऽग्निः “धिया आधानपवमानेष्टिरूपेण कर्मणा "चक्रे आहवनीयरूपतया कृतोऽभूत् अत एव “वरेण्यः सर्वैर्यजमानैः कर्माङ्गत्वेन वरणीयः यश्चाग्निः “भूतानां स्थावरजङ्गमात्मकानां भूतजातानामन्तः “गर्भं स्वात्मानमेव गर्भरूपतया “आ "दधे सर्वत्र दधार "पितरं सर्वस्य जगतः पालकं तमिममग्निं “दक्षस्य दक्षप्रजापतेः “तना तनया वेदिरूपा भूमिर्दर्शपूर्णमासाग्निहोत्रादिकर्मसिद्ध्यर्थं धारयति । भूमेर्दक्षदुहितृत्वे' मन्त्रवर्णः- अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ' (ऋ. सं. १०. ७२. ५) इति ॥ चक्रे । करोतेः कर्मणि लिटि रूपम् । गर्भम् । 'गॄ निगरणे' इत्यस्मात् ‘अर्तिगॄभ्यां भन्' इति भन् । गिरति गीर्यते वा गर्भः । नित्त्वादाद्युदात्तः । दधे । दधादेर्लिटि रूपम् । पितरम् । • पा रक्षणे'। ‘नप्तृनेष्टृ' इत्यादिना तृजन्तत्वेन निपातनादित्वम् । पाति पालयतीति पिता पालकः । चित्स्वरः । तना । यलोपश्छान्दसः ॥


नि त्वा॑ दधे॒ वरे॑ण्यं॒ दक्ष॑स्ये॒ळा स॑हस्कृत ।

अग्ने॑ सुदी॒तिमु॒शिजं॑ ॥१०

नि । त्वा॒ । द॒धे॒ । वरे॑ण्यम् । दक्ष॑स्य । इ॒ळा । स॒हः॒ऽकृ॒त॒ ।

अग्ने॑ । सु॒ऽदी॒तिम् । उ॒शिज॑म् ॥

नि । त्वा । दधे । वरेण्यम् । दक्षस्य । इळा । सहःऽकृत ।

अग्ने । सुऽदीतिम् । उशिजम् ॥

उक्तार्थः अनयर्चा विव्रियते । “सहस्कृत मथनाख्येन बलेन निष्पन्न हे “अग्ने “सुदीतिं शोभनदीप्तियुक्तम् “उशिजं पुरोडाशादिहविः कामयमानम् । यद्वा कर्मार्थिभिः काम्यमानम् । अत एव “वरेण्यं तैर्वैरणीयं “त्वा एवंविधं त्वां “दक्षस्य दुहिता “इळा वेद्यादिलक्षणा भूमिः "नि “दधे अग्निहोत्रादिकर्मसमृद्य्वर्थं नितरां दधार ॥ इळा । ‘ ईड स्तुतौ ' ।' पुंसि संज्ञायाम् ' इत्यत्र प्रायिकवचनात् स्त्र्यर्थेऽपि घप्रत्ययः । ह्रस्वश्छान्दसः । संज्ञापूर्वकस्य विधेरनित्यत्वात् अगुणः । ईड्यन्ते स्तूयन्तेऽस्यां यजमानैर्देवा इतीळा भूमिः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । प्रत्ययस्वरः । उशिजम् । वश कान्तौ' इत्यस्मात् ' वशः किच्च' इतीजिप्रत्ययः । कित्त्वात्संप्रसारणम् । वष्टि हविः कामयते उश्यते काम्यते कर्मार्थिभिः इति वा उशिक् अग्निः । प्रत्ययस्वरः ॥ ॥ २९ ॥


अ॒ग्निं यं॒तुर॑म॒प्तुर॑मृ॒तस्य॒ योगे॑ व॒नुषः॑ ।

विप्रा॒ वाजैः॒ समिं॑धते ॥११

अ॒ग्निम् । य॒न्तुर॑म् । अ॒प्ऽतुर॑म् । ऋ॒तस्य॑ । योगे॑ । व॒नुषः॑ ।

विप्राः॑ । वाजैः॑ । सम् । इ॒न्ध॒ते॒ ॥

अग्निम् । यन्तुरम् । अप्ऽतुरम् । ऋतस्य । योगे । वनुषः ।

विप्राः । वाजैः । सम् । इन्धते ॥

“वनुषः कर्मसिद्ध्यर्थं संभजमानाः “विप्राः मेधाविनोऽध्वर्वाघादयः “यन्तुरं सर्वस्य नियन्तारम् । यद्वा क्षिप्रं गन्तारम् । “अप्तुरम् अपां प्रेरकं तमिमम् “अग्निम् “ऋतस्य सत्यभूतस्य ज्योतिष्टोमादेः “योगे प्रयोगार्थं “वाजैः हविर्लक्षणैरन्नैः “समिन्धते सम्यग्दीपयन्ति ॥ यन्तुरम् । वर्णव्यत्ययः । यन्तारमित्यर्थः । अप्तुरम् । ‘ तुर त्वरणे' । अपस्तुतोर्ति त्वरयतीति क्विप् । कृदुत्तरपदस्वरः । योगे । ‘ युजिर् योगे'। भावे घञ् । चजोः कुघिण्ण्यतोः' इति कुत्वम् । ञित्स्वरः । वनुषः । ‘ वन षण संभक्तौ । ‘ जनेरुसिः ' इत्यधिकारे बहुलवचनादस्मादपि उसिः । प्रत्ययस्वरः । इन्धते । ‘ ञिइन्धी दीप्तौ ' । निघातः ।।


ऊ॒र्जो नपा॑तमध्व॒रे दी॑दि॒वांस॒मुप॒ द्यवि॑ ।

अ॒ग्निमी॑ळे क॒विक्र॑तुं ॥१२

ऊ॒र्जः । नपा॑तम् । अ॒ध्व॒रे । दी॒दि॒ऽवांस॑म् । उप॑ । द्यवि॑ ।

अ॒ग्निम् । ई॒ळे॒ । क॒विऽक्र॑तुम् ॥

ऊर्जः । नपातम् । अध्वरे । दीदिऽवांसम् । उप । द्यवि ।

अग्निम् । ईळे । कविऽक्रतुम् ॥

“ऊर्जो “नपातं हविर्लक्षणैः अन्नैः समिध्यमानत्वेनान्नस्य पुत्रम् । यद्वान्नस्य चतुर्थम् । यथान्नात् आहुतिराहुतेरादित्य आदित्यादग्निरिति । “उप “द्यवि अन्तरिक्षस्य समीपे 'दीदिवांसम् अतिशयेन दीप्यमानं “कविक्रतुम् । कवयो मेधाविनोऽध्वर्वा आदयो मथनेन क्रतवः कर्तारो यस्येति । अध्वर्य्वादिभिः निष्पाद्यमानं तमिमम् “अग्निम् “अध्वरे अस्मिन्यज्ञे “ईळे स्तुतिलक्षणाभिर्गीर्भिरहं स्तौमि ।। ऊर्जः । ‘ ऊर्ज बले ' इत्यस्मात् ' भ्राजभास' इत्यादिना ताच्छीलिकः क्विप् । ऊर्जयति शरीरमित्यूर्क् अन्नम् । सावेकाचः' इति विभक्तेरुदात्तस्वम् । द्यवि। ‘ द्युत दीप्तौ ' इत्यस्मात् औणादिको डुन्प्रत्ययः । द्योतते किरणसंबन्धादिति द्युः अन्तरिक्षम् । नित्स्वरः । ईळे । लटि रूपम् ॥


ई॒ळेन्यो॑ नम॒स्य॑स्ति॒रस्तमां॑सि दर्श॒तः ।

सम॒ग्निरि॑ध्यते॒ वृषा॑ ॥१३

ई॒ळेन्यः॑ । न॒म॒स्यः॑ । ति॒रः । तमां॑सि । द॒र्श॒तः ।

सम् । अ॒ग्निः । इ॒ध्य॒ते॒ । वृषा॑ ॥

ईळेन्यः । नमस्यः । तिरः । तमांसि । दर्शतः ।

सम् । अग्निः । इध्यते । वृषा ॥

“ईळेन्यः स्तोतृभिरीड्यः अत एव "नमस्यः सर्वैर्नमस्कार्यः “तमांसि “तिरः ध्वान्तानि स्वप्रभाभिस्तिरस्कुर्वन् “दर्शतः कमनीयतया सर्वैर्दर्शनीयः । तादृशः “अग्निः “वृषा यजमानस्य कामानां वर्षिता “सम् “इध्यते आहुतिप्रक्षेपेण प्रज्वाल्यते । उक्तार्थे वाजसनेयकम्-- ईडेन्यो ह्येष नमस्यो ह्येष तिरस्तमांसि ददृशे समिद्धः' इति । ईळेन्यः । ‘ ईड स्तुतौ ' । ‘ कृत्यार्थे तवैकेन्केन्यत्वनः' इति केन्यः । प्रत्ययस्वरः । नमस्यः । नमस्यतेः ‘अचो यत्' इति यत् । अतोलोपयलोपौ ।' तित्स्वरितः ' इति स्वरितः । दर्शतः । ‘ दृशिर् प्रेक्षणे ' । अस्मात्० ‘ भृमृदृशि° ' इत्यादिना कर्मणि अतच्प्रत्ययः । चित्स्वरः । वृषा । ' वृषु सेचने ' इत्यस्मात् 'कनिन्युवृषि° ' इत्यादिना कनिन् । कित्त्वादगुणः । नित्त्वादाद्युदात्तः ॥


वृषो॑ अ॒ग्निः समि॑ध्य॒तेऽश्वो॒ न दे॑व॒वाह॑नः ।

तं ह॒विष्मं॑त ईळते ॥१४

वृषो॒ इति॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । अश्वः॑ । न । दे॒व॒ऽवाह॑नः ।

तम् । ह॒विष्म॑न्तः । ई॒ळ॒ते॒ ॥

वृषो इति । अग्निः । सम् । इध्यते । अश्वः । न । देवऽवाहनः ।

तम् । हविष्मन्तः । ईळते ॥

“वृषो वृषेव कामानां वर्षिता "देववाहनः । देवान् हवींषि वाहयति प्रापयतीति देववाहनः । तत्र दृष्टान्तः । “अश्वो “न इति । यथाश्वो राजानं वाहयति स्वपुरं प्रापयतीति । वाहनमश्वः । तद्वत् वाहनभूतो यः "अग्निः “समिध्यते आज्याहुतिप्रदानेन सम्यक् दीप्यते "तं तादृशमग्निं “हविष्मन्तः संभृतहविष्का यजमानाः “ईळते कर्मसिद्ध्यर्थं स्तुवन्ति ॥ वृषा उ। गुणः । उञमवलम्ब्य प्रगृह्यसंज्ञा । देववाहनः । वह प्रापणे ' इत्यस्माण्ण्यन्तात्कर्तरि ल्युः । लित्स्वरः । समासे कृदुत्तरपदस्वरः ।।


वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑णः॒ समि॑धीमहि ।

अग्ने॒ दीद्य॑तं बृ॒हत् ॥१५

वृष॑णम् । त्वा॒ । व॒यम् । वृ॒ष॒न् । वृष॑णः । सम् । इ॒धी॒म॒हि॒ ।

अग्ने॑ । दीद्य॑तम् । बृ॒हत् ॥

वृषणम् । त्वा । वयम् । वृषन् । वृषणः । सम् । इधीमहि ।

अग्ने । दीद्यतम् । बृहत् ॥

“वृषन् कामानां वर्षितर्हे "अग्ने “वृषणः वृषाण: घृताज्याहुतीनां सेक्तारः “वयं “वृषणम् आहुतिद्वारा उदकस्य सेक्तारम् । तथा च स्मृतिः- अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ' (मनु. ३. ७६)इति । "दीद्यतं दीप्यमानं "बृहत् अत एव महान्तं “त्वा “त्वाम् अग्निं 'समिधीमहि सम्यग्दीपयामः ॥ इधीमहि । ञिइन्धी दीप्तौ ' इत्यस्य प्रार्थने लिङि नकारलोपश्छान्दसः । निघातः । दीद्यतम् । दीदेतिः दीप्तिकर्मा । तस्य शतरि रूपम् ।' अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ ॥ ३० ॥

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.२७&oldid=167537" इत्यस्माद् पुनः प्राप्तिः