सामग्री पर जाएँ

ऋग्वेदः सूक्तं ३.४७

विकिस्रोतः तः
← सूक्तं ३.४६ ऋग्वेदः - मण्डल ३
सूक्तं ३.४७
गाथिनो विश्वामित्रः ।
सूक्तं ३.४८ →
दे. इन्द्रः। त्रिष्टुप्


मरुत्वाँ इन्द्र वृषभो रणाय पिबा सोममनुष्वधं मदाय ।
आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् ॥१॥
सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।
जहि शत्रूँरप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥२॥
उत ऋतुभिरृतुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः ।
याँ आभजो मरुतो ये त्वान्वहन्वृत्रमदधुस्तुभ्यमोजः ॥३॥
ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ ।
ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः ॥४॥
मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम् ।
विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम ॥५॥


सायणभाष्यम्

‘ मरुत्वान्' इति पञ्चर्चं नवमं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । 'मरुत्वान्' इत्यनुक्रमणिका' । दशरात्रे चतुर्थेऽहनि मरुत्वतीयशस्त्रे एतत् सूक्तं निविद्धानीयम्" । सूत्रितं च-’ श्रुधी हवमिन्द्र मरुत्वाँ इन्द्रेति मरुत्वतीयम्' ( आश्व. श्रौ. ७. ११ ) इति । ऋषभनाम्न्येकाहेऽपि मरुत्वतीयशस्त्रे एतन्निविद्धानम् । सूत्रितं च- मरुत्वाँ इन्द्र युध्मस्य त इति मध्यंदिनः ' ( आश्व. श्रौ. ९. ७) इति ॥


म॒रुत्वाँ॑ इंद्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य ।

आ सिं॑चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वं राजा॑सि प्र॒दिवः॑ सु॒तानां॑ ॥१

म॒रुत्वा॑न् । इ॒न्द्र॒ । वृ॒ष॒भः । रणा॑य । पिब॑ । सोम॑म् । अ॒नु॒ऽस्व॒धम् । मदा॑य ।

आ । सि॒ञ्च॒स्व॒ । ज॒ठरे॑ । मध्वः॑ । ऊ॒र्मिम् । त्वम् । राजा॑ । अ॒सि॒ । प्र॒ऽदिवः॑ । सु॒ताना॑म् ॥१

मरुत्वान् । इन्द्र । वृषभः । रणाय । पिब । सोमम् । अनुऽस्वधम् । मदाय ।

आ । सिञ्चस्व । जठरे । मध्वः । ऊर्मिम् । त्वम् । राजा । असि । प्रऽदिवः । सुतानाम् ॥१

हे “इन्द्र यः “वृषभः अपां वर्षिता "मरुत्वान् । मरुतो देवविशः तद्वान्। स त्वम् “अनुष्वधं स्वधया सवनीयपुरोडाशादिरूपेण अन्नेनानुगतं “सोमं “रणाय रमणीयसंग्रामार्थं “मदाय तं सोमं "पिब । किंच “मध्वः मदकरस्य सोमस्य “ऊर्मिं संघातं बहुरसं “जठरे । जग्धमन्नमस्मिंस्तिष्ठतीति जठरमुदरम् । तस्मिन्नुदरे “आ “सिञ्चस्व सर्वतः क्षारय । यतः “त्वं “प्रदिवः पूर्वेष्वहःसु “सुतानाम् अभिषुतानां सोमानां “राजासि ईशितासि । न केवलमधुनातनानामिति भावः । उक्तमर्थं यास्को ब्रवीति-- मरुत्वानिन्द्र मरुद्भिस्तद्वान् वृषभो वर्षितापां रणाय रमणीयाय संग्रामाय पिब सोममनुष्वधमन्वन्नं मदाय मदनीयाय जैत्रायासिञ्चस्व जठरे मधुन ऊर्मिम् । मधु सोममित्यौपमिकं माद्यतेः । इदमपीतरन्मध्वेतस्मादेव । त्वं राजासि पूर्वेष्वप्यहःसु सुतानाम् ' ( निरु. ४. ८ ) इति ॥ अनुस्वधम् । स्वधामनुगम्य वर्तमानम् । ‘ अत्यादयः क्रान्ताद्यर्थे द्वितीयया ' इति समासः । संहितायां पूर्वपदात्' (पा. सू. ८. ३. १०६ ) इति षत्वम् । निरुदकादित्वादन्तोदात्तत्वम् । ऊर्मिम् । अर्तेरूच्च' ' इति मिप्रत्ययः । धातोः ऊ इत्यादेशो रपरः । प्रत्ययस्वरः ॥


‘सजोषा इन्द्र' इति मरुत्वतीयग्रहस्य याज्या । सूत्रितं च- सजोषा इन्द्र सगणो मरुद्धिरिति भक्षयित्वैतत्पात्रम् ' ( आश्व. श्रौ. ५. १४ ) इति ॥

स॒जोषा॑ इंद्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।

ज॒हि शत्रूँ॒रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥२

स॒ऽजोषाः॑ । इ॒न्द्र॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । सोम॑म् । पि॒ब॒ । वृ॒त्र॒ऽहा । शू॒र॒ । वि॒द्वान् ।

ज॒हि । शत्रू॑न् । अप॑ । मृधः॑ । नु॒द॒स्व॒ । अथ॑ । अभ॑यम् । कृ॒णु॒हि॒ । वि॒श्वतः॑ । नः॒ ॥२

सऽजोषाः । इन्द्र । सऽगणः । मरुत्ऽभिः । सोमम् । पिब । वृत्रऽहा । शूर । विद्वान् ।

जहि । शत्रून् । अप । मृधः । नुदस्व । अथ । अभयम् । कृणुहि । विश्वतः । नः ॥२

हे "शूर बलवन् हे “इन्द्र “सजोषाः संगतो देवैः “मरुद्भिः “सगणः मरुद्भिरेव “वृत्रहा वृत्रस्य हन्ता “विद्वान् कर्मविषयाभिज्ञस्त्वं “सोमं “पिब । ततो नः “शत्रून् “जहि । “मृधः हिंसकान् शत्रून् “अप “नुदस्व । यद्वा मृधः । हिंस्यन्तेऽत्र प्राणिन इति मृधः संग्रामाः । तत्र वर्तमानान् शत्रूनपनुदस्व । “अथ अनन्तरं "नः अस्माकं “विश्वतः सर्वतः “अभयं कृणुहि कुरु । सर्वतो भयरहितानस्मान् कुर्वित्यर्थः ॥ वृत्रहा । हन्तेः ' ब्रह्मभ्रूणवृत्रेषु क्विप् '। अभयम् ।' ञिभी भये ' इत्यस्मात् एर्च् । नञा समासे तस्य स्वरः । विश्वतः । पञ्चम्यास्तसिल् । लित्स्वरः ॥


उ॒त ऋ॒तुभि॑र्ऋतुपाः पाहि॒ सोम॒मिंद्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ ।

याँ आभ॑जो म॒रुतो॒ ये त्वान्वह॑न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ॥३

उ॒त । ऋ॒तुऽभिः॑ । ऋ॒तु॒ऽपाः॒ । पा॒हि॒ । सोम॑म् । इन्द्र॑ । दे॒वेभिः॑ । सखि॑ऽभिः । सु॒तम् । नः॒ ।

यान् । आ । अभ॑जः । म॒रुतः॑ । ये । त्वा॒ । अनु॑ । अह॑न् । वृ॒त्रम् । अद॑धुः । तुभ्य॑म् । ओजः॑ ॥३

उत । ऋतुऽभिः । ऋतुऽपाः । पाहि । सोमम् । इन्द्र । देवेभिः । सखिऽभिः । सुतम् । नः ।

यान् । आ । अभजः । मरुतः । ये । त्वा । अनु । अहन् । वृत्रम् । अदधुः । तुभ्यम् । ओजः ॥३

"उत अपि च हे “ऋतुपाः कालनिर्वाहकतया ऋतूनां पातः । ऋतुषु सोमं पिबतीति वा ऋतुपाः। यद्वा ऋतुभिः मरुद्भिः सह सोमं पिबतीति ऋतुपाः। तादृश हे “इन्द्र "सखिभिः समानख्यानैः “ऋतुभिः मरुद्भिः "देवेभिः देवैः सहितस्त्वं नः संबन्धिनं “सुतम् अभिषुतं “सोमं “पाहि पिब । किंच° “यान् “मरुतः “आभजः युद्धसहायार्थमसेवथाः "ये च मरुतः “त्वा त्वां युद्धे स्वामिनम् “अनु अभजन्त । ततस्त्वं “वृत्रम् "अहन् हतवानसि । ते मरुतः "तुभ्यं त्वदर्थम् "ओजः युद्धे शत्रुहननादिरूपं पराक्रमम् “अदधुः अकुर्वन् ॥ अभजः । ‘ भज सेवायाम् ' इत्यस्य लङि रूपम् । यद्वृत्तयोगादनिघातः । अहन् । 'हन हिंसागत्योः' इत्यस्य लङि सिपो हल्ङ्यादिना लोपः । पादादित्वात्। अनिघातः । अदधुः । दधातेर्लङि झेः ‘ सिजभ्यस्त° ' इति जुस् । वाक्यभेदादनिघातः ॥


मरुत्वतीयशस्त्रे याज्या ‘ ये त्वाहिहत्ये' इत्येषा । सूत्रितं च--- ये त्वाहिहत्ये मघवन्नवर्धन्निति याज्या ' ( आश्व. श्रौ. ५. १४ ) इति ॥

ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्ध॒न्ये शां॑ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ ।

ये त्वा॑ नू॒नम॑नु॒मदं॑ति॒ विप्राः॒ पिबें॑द्र॒ सोमं॒ सग॑णो म॒रुद्भिः॑ ॥४

ये । त्वा॒ । अ॒हि॒ऽहत्ये॑ । म॒घ॒ऽव॒न् । अव॑र्धन् । ये । शा॒म्ब॒रे । ह॒रि॒ऽवः॒ । ये । गोऽइ॑ष्टौ ।

ये । त्वा॒ । नू॒नम् । अ॒नु॒ऽमद॑न्ति । विप्राः॑ । पिब॑ । इ॒न्द्र॒ । सोम॑म् । सऽग॑णः । म॒रुत्ऽभिः॑ ॥४

ये । त्वा । अहिऽहत्ये । मघऽवन् । अवर्धन् । ये । शाम्बरे । हरिऽवः । ये । गोऽइष्टौ ।

ये । त्वा । नूनम् । अनुऽमदन्ति । विप्राः । पिब । इन्द्र । सोमम् । सऽगणः । मरुत्ऽभिः ॥४

हे “मघवन् धनवन् “इन्द्र “ये मरुतः "अहिहत्ये वृत्रहननरूपे कर्मणि “त्वा त्वाम् अवर्धन्। ‘ प्रहर भगवो जहि वीरयस्व' इति बलदानेनावीवृधन् । हे “हरिवः अश्ववन्निन्द्र “ये च “शाम्बरे शम्बरवधसंबन्धिनि युद्धे त्वामवीवृधन् । इन्द्रः शम्बरमवधीदित्यस्मिन्नर्थे मन्त्रवर्ण:-’ यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् । ओजायमानं यो अहिं जघान ' ( ऋ. सं. २. १२. ११) इति । तथा “ये मरुतः "गविष्टौ पणिनामकैरसुरैः सह गवार्थे युद्धे च त्वामवीवृधन् । “विप्राः मेधाविनः "ये च मरुतः "नूनम् इदानीं त्वाम् "अनुमदन्ति मादयन्ति तादृशैस्तैः “मरुद्भिः “सगणः सन् इमं “सोमं “पिब । अहिहत्ये । हन्तेर्भावे • हनस्त च' इति क्यप् । कृदुत्तरपदस्वरः । अवर्धन् ।' वृधु वृद्धौ ' इत्यस्य ण्यन्तस्य लङि रूपम् । 'छन्दस्युभयथा ' इति झेरार्धधातुकत्वात् णेर्लोपः- यद्वृत्तयोगादनिघातः । शाम्बरे । शम्बरस्येदमित्यर्थे ' तस्येदम् ' इत्यण्प्रत्ययः । गविष्टौ । ‘ इषु इच्छायाम्'। भावे क्तिन् । बहुव्रीहौ पूर्वपदस्वरः । अनुमदन्ति । मदि स्तुत्यादिषु इत्यस्य लटि व्यत्ययेन परस्मैपदम् । आगमानुशासनस्यानित्यत्वान्नुमभावः । झेर्लसार्वधातुकस्वरे कृते धातुस्वरः । ‘ तिङि चोदात्तवति' इति गतेर्निघातः ॥


म॒रुत्वं॑तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यं शा॒समिंद्रं॑ ।

वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ॥५

म॒रुत्व॑न्तम् । वृ॒ष॒भम् । व॒वृ॒धा॒नम् । अक॑वऽअरिम् । दि॒व्यम् । शा॒सम् । इन्द्र॑म् ।

वि॒श्व॒ऽसह॑म् । अव॑से । नूत॑नाय । उ॒ग्रम् । स॒हः॒ऽदाम् । इ॒ह । तम् । हु॒वे॒म॒ ॥५

मरुत्वन्तम् । वृषभम् । ववृधानम् । अकवऽअरिम् । दिव्यम् । शासम् । इन्द्रम् ।

विश्वऽसहम् । अवसे । नूतनाय । उग्रम् । सहःऽदाम् । इह । तम् । हुवेम ॥५

हे इन्द्र “मरुत्वन्तं मरुद्भिस्तद्वन्तं “वृषभं मेघभेदनद्वारा अपां वर्षकं “ववृधानं वृत्रहननादिकर्मसु उत्साहेन वर्धमानम् “अकवारिं-प्रभूतशत्रुकं यद्वा अकुत्सितारिम् । तथा च मन्त्रः-’ स्वरिरमत्रो ववक्षे रणाय' (ऋ. सं. १. ६१. ९) इति । "दिव्यं दिवि स्वर्गलोके वर्तमानम् । "शासं हितोपदेशहितपरिहाराभ्यां शासितारं "विश्वासाहं विश्वस्य प्रतिपक्षस्य सर्वस्याभिभवितारम् "उग्रं शत्रुषु उद्गूर्णं "सहोदां युद्धसहकारिणां मरुतां बलप्रदं “तं तादृशसामर्थ्योपेतम् "इन्द्रं "नूतनाय नवतराय "अवसे रक्षणाय "इह कर्मणि "हुवेम त्वामाह्वयेम ॥ नूतनाय । नवशब्दस्य नू इत्यादेशः ।। त्नप्तनखाश्च प्रत्यया वक्तव्याः इति तनप्रत्ययः ॥ ॥ ११ ॥

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.४७&oldid=196942" इत्यस्माद् प्रतिप्राप्तम्