ऋग्वेदः सूक्तं ३.४८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ३.४७ ऋग्वेदः - मण्डल ३
सूक्तं ३.४८
गाथिनो विश्वामित्रः
सूक्तं ३.४९ →
दे. इन्द्रः । त्रिष्टुप् ।


सद्यो ह जातो वृषभः कनीनः प्रभर्तुमावदन्धसः सुतस्य ।
साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य ॥१॥
यज्जायथास्तदहरस्य कामेऽंशोः पीयूषमपिबो गिरिष्ठाम् ।
तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे ॥२॥
उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः ।
प्रयावयन्नचरद्गृत्सो अन्यान्महानि चक्रे पुरुधप्रतीकः ॥३॥
उग्रस्तुराषाळभिभूत्योजा यथावशं तन्वं चक्र एषः ।
त्वष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु ॥४॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥५॥

सायणभाष्यम्

‘सद्यो ह' इति पञ्चर्चं दशमं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । “सद्यो ह' इत्यनुक्रमणिका । अग्निष्टोमे माध्यंदिनसवने मैत्रावरुणशस्त्रे ‘सद्यो ह जातः' इत्येतत्सूक्तम् । सूत्रितं च- सद्यो ह जात एवा त्वामिन्द्रः' (आश्व.श्रौ. ५. १६ ) इति । चातुर्विशिकेऽप्यहनि मैत्रावरुणशस्त्रेऽहरहःशस्यसंज्ञकमेतत्सूक्तम् । सूत्रितं च- सद्यो ह जात इत्यहरहःशस्यं मैत्रावरुणः ' (आश्व. श्रौ. ७. ४) इति । अहर्गणे द्वितीयादिष्वहःसु माध्यंदिनसवनेऽस्मिन् शस्त्र एतत्सूक्तम् । “ अहरहःशस्यानीति होत्रका द्वितीयादिष्वेव ' ( आश्व. श्रौ. ७. १) इति सूत्रितम् । साद्यस्क्रे एकाहे मरुत्वतीये शस्त्रे ‘सद्यो ह जातः ' इत्याद्या सूक्तमुखीया । सूत्रितं च--- सद्यो ह जातो वृषभः कनीनस्त्वं सद्यो अपिबो जात इन्द्र' ( आश्व.श्रौ. ९. ५) इति ॥


स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः॒ प्रभ॑र्तुमाव॒दंध॑सः सु॒तस्य॑ ।

सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते॒ रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑ ॥

स॒द्यः । ह॒ । जा॒तः । वृ॒ष॒भः । क॒नीनः॑ । प्रऽभ॑र्तुम् । आ॒व॒त् । अन्ध॑सः । सु॒तस्य॑ ।

सा॒धोः । पि॒ब॒ । प्र॒ति॒ऽका॒मम् । यथा॑ । ते॒ । रस॑ऽआशिरः । प्र॒थ॒मम् । सो॒म्यस्य॑ ॥

सद्यः । ह । जातः । वृषभः । कनीनः । प्रऽभर्तुम् । आवत् । अन्धसः । सुतस्य ।

साधोः । पिब । प्रतिऽकामम् । यथा । ते । रसऽआशिरः । प्रथमम् । सोम्यस्य ॥ १ ॥

“वृषभः वृष्टिद्वारा अपां वर्षिता सद्यः तदानीमेव "जातः उत्पन्नः "कनीनः कमनीयः इन्द्रः “सुतस्य अभिषुतस्य अन्धसः हविर्लक्षणस्य अन्नस्य सोमस्य "प्रभर्तुं प्रकर्षेण भर्तारं संग्रहीतारं यजमानम् "आवत् रक्षतु । "ह प्रसिद्धौ । किंच तादृशस्त्वं “प्रतिकामं कामे कामे सोमपानेच्छायां सत्यां “ते तव "यथा कामस्य पूर्तिर्भवति तथा “साधोः रसात्मना संसिद्धं "रसाशिरः गोपयोमिश्रणोपेतं “सोम्यस्य सोममयं रसं "प्रथमं सर्वेभ्यो देवेभ्यः पुरस्तात् पिब ।। प्रतिकामम् । कामं कामं प्रति । वीप्सायामव्ययीभावः । समासस्वरः । यथा । अपादान्तत्वादेव लित्स्वरः । रसाशिरः । आङ्पूर्वात् श्रीणातेः क्विपि ‘अपस्पृधेथाम्' इत्यादिना आशिर” इत्यादेशः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । सोम्यस्य । सोमशब्दात् मयडर्थे ' मये च ' इति यप्रत्ययः ।।


यज्जाय॑था॒स्तदह॑रस्य॒ कामे॒ऽंशोः पी॒यूष॑मपिबो गिरि॒ष्ठां ।

तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसिं॑च॒दग्रे॑ ॥२

यत् । जाय॑थाः । तत् । अहः॑ । अ॒स्य॒ । कामे॑ । अं॒शोः । पी॒यूष॑म् । अ॒पि॒बः॒ । गि॒रि॒ऽस्थाम् ।

तम् । ते॒ । मा॒ता । परि॑ । योषा॑ । जनि॑त्री । म॒हः । पि॒तुः । दमे॑ । आ । अ॒सि॒ञ्च॒त् । अग्रे॑ ॥२

यत् । जायथाः । तत् । अहः । अस्य । कामे । अंशोः । पीयूषम् । अपिबः । गिरिऽस्थाम् ।

तम् । ते। माता । परि । योषा । जनित्री । महः। पितुः । दमे। आ। असिञ्चत् । अग्रे ॥२॥

हे इन्द्र त्वं "यत् यस्मिन्नहनि "जायथाः अजायथाः "तदहः तस्मिन्नेवाहनि "अस्य सोमरस्य “कामे पिपासायां सत्यां "गिरिष्ठां गिरिस्थां पर्वतस्य उच्चस्थाने वर्तमानम् "अंशोः सोमलताखण्डविशिष्टस्य ऋजीषस्य पीयूषम् अभिनवं रसम् "अपिबः पीतवानसि । उत्पत्तिक्षणे एव सोमपाने कारणं दर्शयति । "ते तव "जनित्री "माता "योषा युवतिरदितिः "महः महतः "पितुः जनकस्य कश्यपस्य "दमे सूतिकागृहे "अग्रे स्तन्यदानात् प्राक् "तं तादृशं सोमं "परि "आसिञ्चत् तवास्ये परितोऽक्षारयत् ॥ जायथाः । ‘जनी प्रादुर्भावे ' इत्यस्य लडि बहुलं छन्दसि ' इत्यडभावः । यद्वृत्तयोगादनिघातः । जनित्री । ‘जनिता मन्त्रे' इति निपातनात् णेर्लोपः ॥ ।


उ॒प॒स्थाय॑ मा॒तर॒मन्न॑मैट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूधः॑ ।

प्र॒या॒वय॑न्नचर॒द्गृत्सो॑ अ॒न्यान्म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ॥३

उ॒प॒ऽस्थाय॑ । मा॒तर॑म् । अन्न॑म् । ऐ॒ट्ट॒ । ति॒ग्मम् । अ॒प॒श्य॒त् । अ॒भि । सोम॑म् । ऊधः॑ ।

प्र॒ऽय॒वय॑न् । अ॒च॒र॒त् । गृत्सः॑ । अ॒न्यान् । म॒हानि॑ । च॒क्रे॒ । पु॒रु॒धऽप्र॑तीकः ॥३

उपऽस्थाय । मातरम् । अन्नम् । ऐट्ट । तिग्मम् । अपश्यत् । अभि । सोमम् । ऊधः ।।

प्रऽयवयन् । अचरत् । गृत्सः । अन्यान् । महानि । चक्रे । पुरुधऽप्रतीकः ॥ ३ ॥

स इन्द्रः "मातरम् "उपस्थाय प्रार्थयित्वा "अन्नमैट्ट तामन्नमयाचत । ‘ईळिरध्येषणाकर्मा : ( निरु. ७. १५) इति यास्कः । ततस्तस्याः “ऊधः ऊधसि क्षीररूपेण स्थितं तिग्मं दीप्तं “सोमम् अभि “अपश्यत् सर्वतोऽदर्शत्। "गृत्सः । अभिकाङ्क्ष्यते सर्वैर्देवैः शत्रुहननार्थमिति गृत्स इन्द्रः। "अन्यान् सपत्नान् "प्रयवयन” स्वस्वस्थानात् प्रकर्षेणोच्चालयन् "अचरत् सर्वत्र चरति । किंच “पुरुधप्रतीकः तेजोयोगात् बहुधा विक्षिप्ताङ्ग सन् “महानि महान्ति वृत्रहननादीनि कर्माणि “चक्रे ॥ उपस्थाय । तिष्ठतेर्ल्यपि ' घुमास्था" ' इतीत्वे प्राप्ते न ल्यपि ' इति प्रतिषेधः । लित्स्वरः । ऐट्ट । ईळिर्याञ्चार्थः । तस्माल्लङि रूपम् । ‘आडजादीनाम् ' इत्याडागमः । ष्टुत्वम् । निघातः । तिग्मम् । तिज निशाने ' अस्मात् ‘युजिरुचितिजां कुश्च ' इति मक्प्रत्ययः कवर्गादेशश्च । प्रयवयन्।' यु मिश्रणामिश्रणयोः ' इत्यस्य ण्यन्तस्य शतरि रूपम् । लित्स्वरः । गृत्सः । ‘गृधु अभिकाङ्क्षायाम्'। ‘गृधिपण्योर्दकौ च ' इति सप्रत्ययो दकारश्चान्तादेशः । वृषादित्वात् आद्युदात्तः । पुरुधप्रतीकः । पुरुशब्दः' इह संख्यावाची । ‘संख्याया विधार्थे धा' इति धाप्रत्ययः । ह्रस्वछान्दसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥


उ॒ग्रस्तु॑रा॒षाळ॒भिभू॑त्योजा यथाव॒शं त॒न्वं॑ चक्र ए॒षः ।

त्वष्टा॑र॒मिंद्रो॑ ज॒नुषा॑भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ॥४

उ॒ग्रः । तु॒रा॒षाट् । अ॒भिभू॑तिऽओजाः । य॒था॒ऽव॒शम् । त॒न्व॑म् । च॒क्रे॒ । ए॒षः ।

त्वष्टा॑रम् । इन्द्रः॑ । ज॒नुषा॑ । अ॒भि॒ऽभूय॑ । आ॒ऽमुष्य॑ । सोम॑म् । अ॒पि॒ब॒त् । च॒मूषु॑ ॥४

उग्रः । तुराषाट् । अभिभूतिऽओजाः । यथाऽवशम् । तन्वम् । चक्रे । एषः ।

त्वष्टारम् । इन्द्रः । जनुषा । अभिऽभूय । आऽमुष्य । सोमम् । अपिबत् । चमूषु ॥ ४ ॥

यः "एषः इन्द्रः "उग्रः शत्रूणां भयंकरः “तुराषाट् त्वरया शत्रूणामभिभविता अत एव “अभिभूत्योजाः शत्रूणामभिभवनपराक्रमोपेतः सन् "तन्वम् आत्मीयं शरीरं "यथावशं यथाकामं नानाविधरूपोपेतं "चक्रे । तथा च मन्त्रवर्णः- रूपंरूपं मघवा बोभवति' ( ऋ. सं. ३. ५३, ८) इति । सः "इन्द्रः "जनुषा जन्मना सामर्थ्येन "त्वष्टारं त्वष्टृनामकमसुरम् "अभिभूय "चमूषु चमसेषु स्थितम् "आमुष्य चोरयित्वा "सोममपिबत् ।' त्वष्टा हतपुत्रो वीन्द्रम्' इत्यादि ‘प्रासहा सोममपिबत् ' ( तै. सं. २. ४. १२. १ ) इति तैत्तिरीयकम् ॥ तुराषाट् । ‘ञित्वरा संभ्रमे ' । क्विप् । ‘ज्वरत्वर' ' इत्यादिना ऊठ् । सहेः “ छन्दसि सहः' इति ण्विः । ‘कर्तृकरणे कृता बहुलम्' इति समासः । तत्पुरुषे कृति बहुलम्' इति तृतीयायाः अलुक् । ‘सहेः साडः सः ' इति षत्वम् । कृदुत्तरपदस्वरः। यथावशम् । वशं काममनतिक्रम्य इत्यव्ययीभावसमासः । समासस्वरः । आमुष्य । ‘मुष स्तेये ' । ल्यप् । चमूषु ।' चमु अदने '। ‘कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः' इत्यूप्रत्ययः । प्रत्ययस्वरः ॥


शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥५

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥५

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥५॥

सिद्धैषा ॥ ॥ १२ ॥


मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.४८&oldid=196943" इत्यस्माद् पुनः प्राप्तिः