ऋग्वेदः सूक्तं ३.२३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ३.२२ ऋग्वेदः - मण्डल ३
सूक्तं ३.२३
देवश्रवा देववातश्च भारतौ
सूक्तं ३.२४ →
दे. अग्निः। त्रिष्टुप्, ३ सतोबृहती


निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य प्रणेता ।
जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अमृतं जातवेदाः ॥१॥
अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम् ।
अग्ने वि पश्य बृहताभि रायेषां नो नेता भवतादनु द्यून् ॥२॥
दश क्षिपः पूर्व्यं सीमजीजनन्सुजातं मातृषु प्रियम् ।
अग्निं स्तुहि दैववातं देवश्रवो यो जनानामसद्वशी ॥३॥
नि त्वा दधे वर आ पृथिव्या इळायास्पदे सुदिनत्वे अह्नाम् ।
दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्ने दिदीहि ॥४॥
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥५॥


सायणभाष्यम्

‘ निर्मथितः सुधितः' इति पञ्चर्चमेकादशं सूक्तम् । अत्र अनुक्रमणिका --' निर्मथितो देवश्रवा देववातश्च भारतौ तृतीया सतोबृहती ' इति । भरतस्य पुत्रौ देवश्रवा देववातश्चैत्युभावस्य ऋषी । तृतीया सतोबृहती । शिष्टास्त्रिष्टुभः । अग्निर्देवता । ‘आ होता' इत्यादिसूक्तदशकस्योक्तो विनियोगः प्रातरनुवाकाश्विनशस्त्रयोः । इलामग्ने ' इत्यस्या विनियोगोऽसकृदुक्तः ।।


निर्म॑थित॒ः सुधि॑त॒ आ स॒धस्थे॒ युवा॑ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता ।

जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा॑ दधे अ॒मृतं॑ जा॒तवे॑दाः ॥१

निःऽम॑थितः । सुऽधि॑तः । आ । स॒धऽस्थे॑ । युवा॑ । क॒विः । अ॒ध्व॒रस्य॑ । प्र॒ऽने॒ता ।

जूर्य॑त्ऽसु । अ॒ग्निः । अ॒जरः॑ । वने॑षु । अत्र॑ । द॒धे॒ । अ॒मृत॑म् । जा॒तऽवे॑दाः ॥१

निःऽमथितः । सुऽधितः । आ । सधऽस्थे । युवा । कविः । अध्वरस्य । प्रऽनेता ।

जूर्यत्ऽसु । अग्निः । अजरः । वनेषु । अत्र । दधे । अमृतम् । जातऽवेदाः ॥१

भारतावृषी स्तोत्रं कुर्वाते । योऽग्निः “निर्मथितः अग्निष्टोमादिकर्मस्वरण्योर्नितरां मथितः सन् “सधस्थे यजमानगृहे “सुधितः गार्हपत्यादिषु त्रिषु कुण्डेषु सुष्ठु निहितः निधाय च काष्ठप्रक्षेपेण प्रज्वाल्यमानः “युवा प्रबुद्धः अत एव “अध्वरस्य ज्योतिष्टोमादेः “प्रणेता प्रकर्षेण नेता निर्वाहकः नेतृत्वादेव “कविः क्रान्तदर्शी । तथाविधः "जातवेदाः सर्वविषयाभिज्ञानवान् सः “अग्निः “वनेषु महारण्येषु “जूर्यत्सु दावाग्निसंबन्धात् जूर्यमाणेषु जरां नाशं प्राप्नुवत्स्वपि स्वयम् “अजरः जरारहितः प्रत्युत दीप्यमानः सन् “अत्र एवं स्तुतिं कुर्वाणेषु यजमानेषु “अमृतं क्षयरहितं प्रभूतमन्नम् “आ “दधे निदधाति ।। सुधितः । दधातेः कर्मणि निष्ठायां सुधितवसुधितनेमधित°' इत्यादिना निपातनात् धि इत्यादेशः । “ गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् । जूर्यत्सु । ‘जूरी घूरी हिंसावयोहान्योः । व्यत्ययेन शतृप्रत्ययः । दिवादित्वात् श्यन् । नित्त्वादाद्युदात्तः । अजरः । ‘जॄ वयोहानौ ' इत्यस्मात् भावे • ऋदोरप्' इत्यप्प्रत्ययः । गुणः । ‘ नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । दधे। दधातेः वर्तमाने लिटि रूपम् । जातवेदाः । जनी प्रादुर्भावे ' इत्यस्य क्ते ‘ जनसनखनां सन्झलोः' इत्याकारः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्॥


अम॑न्थिष्टां॒ भार॑ता रे॒वद॒ग्निं दे॒वश्र॑वा दे॒ववा॑तः सु॒दक्ष॑म् ।

अग्ने॒ वि प॑श्य बृह॒ताभि रा॒येषां नो॑ ने॒ता भ॑वता॒दनु॒ द्यून् ॥२

अम॑न्थिष्टाम् । भार॑ता । रे॒वत् । अ॒ग्निम् । दे॒वऽश्र॑वाः । दे॒वऽवा॑तः । सु॒ऽदक्ष॑म् ।

अग्ने॑ । वि । प॒श्य॒ । बृ॒ह॒ता । अ॒भि । रा॒या । इ॒षाम् । नः॒ । ने॒ता । भ॒व॒ता॒त् । अनु॑ । द्यून् ॥२

अमन्थिष्टाम् । भारता । रेवत् । अग्निम् । देवऽश्रवाः । देवऽवातः । सुऽदक्षम् ।

अग्ने । वि । पश्य । बृहता । अभि । राया । इषाम् । नः । नेता । भवतात् । अनु । द्यून् ॥२

हे "अग्ने "भारता भारतौ भरतस्य पुत्रौ "देवश्रवाः "देववातः चेत्युभौ "सुदक्षं शोभनसामर्थ्योपेतं "रेवत् रयिमन्तम् "अग्निम् अङ्गनादिगुणोपेतं त्वाम् "अमन्थिष्टाम् अग्निष्टोमादिकर्मप्राप्त्यर्थमलूलुडताम् । मथनेन त्वामुत्पादितवन्तावित्यर्थः । तादृशस्त्वं “बृहता प्रभूतेन "राया धनेन सहितः सन् “अभि अभिमुखो भूत्वा “वि "पश्य अस्मान्विशेषेणानुग्रहदृष्ट्या वीक्षस्व । किंच “अनु “द्यून् । द्युशब्दः अहर्वाची ‘ वस्तोः द्युः ' ( नि. १.९.२ ) इति तन्नामसु पाठात् । द्यूननु सर्वेषु दिवसेषु "नः अस्माकम् "इषाम् अन्नानां "नेता आनेता "भवतात् भव ॥ अमन्थिष्टाम् । “ मन्थ विलोडने ' इत्यस्माल्लुङि सिच् ।' वदव्रजहलन्तस्याचः ' ( पा. सू. ७. २. ३ ) इति वृद्धौ प्राप्तायां : नेटि ' इति प्रतिषेधः । तस्थस्थमिपाम् ' इत्यादिना तसस्तामादेशः । पादादित्वादनिघातः । अट्स्वरः । भारता । भरतस्यापत्यमित्यर्थे उत्सादित्वादञ् । तद्धितेष्वचामादेः ' इत्यादिवृद्धिः । ञित्स्वरः । रेवत् । रयिशब्दान्मतुप् । वत्वोदात्तत्वसंप्रसारणपरपूर्वत्वगुणसुब्लोपाः । देवश्रवाः । श्रु श्रवणे'। असुन्' इति कर्मण्यसुन् । देवैः श्रूयते प्रख्याप्यतेऽसाविति देवश्रवा ऋषिः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इस्यौणादिकसूत्रात्पूर्वपदस्वरः । देववातः । ‘ वा गतिगन्धनयोः । अस्मात्कर्मणि क्तः । देवैरिष्यमाणतया प्राप्तो देववातः ऋषिः । ‘ तृतीया कर्मणि ' इति पूर्वपदस्वरः । द्यून् । ‘द्यु अभिगमने' ‘द्युत दीप्तौ ' वा । ‘ ङिच्च ' इत्यनुवृत्तौ ‘ द्युयुभ्यां च ' इति भोजसूत्रेण डुप्रत्ययो ङिच्च । द्युतेः ‘अश्र्वादयश्च' (उ. सू. ५.७०७) इति डुन्प्रत्ययः । अभिगच्छन्त्यस्मिन् स्वं स्वमभिमतं देशं प्राणिनः इति ; द्योतते किरणसंबन्धादिति वा द्युर्दिवसः । ‘ प्रथमयोः' इति सवर्णदीर्घः । तस्माच्छसो नः पुंसि ' ( पा. सू. ६. १. १०३ ) इति सकारस्य नकारः । एकादेशस्वरः ॥


दश॒ क्षिप॑ः पू॒र्व्यं सी॑मजीजन॒न्सुजा॑तं मा॒तृषु॑ प्रि॒यम् ।

अ॒ग्निं स्तु॑हि दैववा॒तं दे॑वश्रवो॒ यो जना॑ना॒मस॑द्व॒शी ॥३

दश॑ । क्षिपः॑ । पू॒र्व्यम् । सी॒म् । अ॒जी॒ज॒न॒न् । सुऽजा॑तम् । मा॒तृषु॑ । प्रि॒यम् ।

अ॒ग्निम् । स्तु॒हि॒ । दै॒व॒ऽवा॒तम् । दे॒व॒ऽश्र॒वः॒ । यः । जना॑नाम् । अस॑त् । व॒शी ॥३

दश । क्षिपः । पूर्व्यम् । सीम् । अजीजनन् । सुऽजातम् । मातृषु । प्रियम् ।

अग्निम् । स्तुहि । दैवऽवातम् । देवऽश्रवः । यः । जनानाम् । असत् । वशी ॥३

हे अग्ने देववातस्य “क्षिपः । क्षिप्यन्ते कर्मकरणार्थमिति क्षिपोऽङ्गुलयः ताश्च "दश । बाहुद्वयस्य मथनसाधनत्वेन तत्रत्या अङ्गुलयो दशसंख्याकाः । तादृश्योऽङ्गुलयः "पूर्व्यं पुरातनं "सीम् एनं त्वाम् "अजीजनन् उदपीपदन् । हे "देवश्रवः "मातृषु मातृभूतारण्योः "सुजातं सुष्टुत्पन्नम् अत एव “प्रियं कमनीयं "दैववातं देववातेन मथितमेनम् "अग्निं स्तुहि । "यः अग्निः "जनानां स्तोतॄणां यजमानानां "वशी वशवर्ती कर्मणां स्वातन्त्र्येण प्रवर्तकः "असत् भवति तं स्तुहीति पूर्वेणान्वयः ॥ दश । ‘दंश दशने' । “कनिन् ' इत्यनुवृत्तौ ‘नुदशोर्गुणश्च' इति कनिन् । नित्स्वरः । क्षिपः । ‘क्षिप प्रेरणे' । औणादिकः कर्मणि क्विप् । क्षिप्यन्ते प्रेर्यन्ते कर्मस्विति क्षिपोऽङ्गुलयः । धातुस्वरः । अजीजनन् । “जनी प्रादुर्भावे ' । हेतुमण्ण्यन्तस्य लुङि चङ्द्विर्वचनसन्वद्भावाभ्यासेत्वदीर्धाः । निघातः । स्तुहि । ' ष्टुञ् स्तुतौ ' इत्यस्य लोटि रूपम् । अदादित्वात शपो लुक् । निघातः । दैववातम् । देववातेन निर्वृत्तमित्यर्थे ' तेन निवृत्तम्' (पा. सू. ४. २.६८) इत्यण् । प्रत्ययस्वरः । असत् । अस भुवि ' । अस्य लेट्यडागमः । यद्वृत्तयोगादनिघातः ॥


नि त्वा॑ दधे॒ वर॒ आ पृ॑थि॒व्या इळा॑यास्प॒दे सु॑दिन॒त्वे अह्ना॑म् ।

दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ॥४

नि । त्वा॒ । द॒धे॒ । वरे॑ । आ । पृ॒थि॒व्याः । इळा॑याः । प॒दे । सु॒दि॒न॒ऽत्वे । अह्ना॑म् ।

दृ॒षत्ऽव॑त्याम् । मानु॑षे । आ॒प॒याया॑म् । सर॑स्वत्याम् । रे॒वत् । अ॒ग्ने॒ । दि॒दी॒हि॒ ॥४

नि । त्वा । दधे । वरे । आ । पृथिव्याः । इळायाः । पदे । सुदिनऽत्वे । अह्नाम् ।

दृषत्ऽवत्याम् । मानुषे । आपयायाम् । सरस्वत्याम् । रेवत् । अग्ने । दिदीहि ॥४

हे "अग्ने “इळायाः गोरूपधारिण्याः "पृथिव्याः भूमेः “वरे वरिष्ठे "पदे उत्तरवेद्याम् "अह्नां “सुदिनत्वे यजनीयदिवसानां शोभनदिनत्वार्थम् । येषु दिनेषु इन्द्रादयो वरीयांसो देवा इज्यन्ते तानि सुदिनानि । तदर्थं “त्वा त्वाम् “आ “नि “दधे आ समन्तान्निदधामि । उत्तमानि स्थानानि दर्शयति । "दृषद्वत्याम् । दृपद्धती नाम काचिन्नदी तस्याम् । "मानुषे मनुष्यसंचरणविषये तीरे । “आपयायाम् । आपया नाम काचिन्नदी तस्याम् । "सरस्वत्यां नद्याम् । एतेषु उत्तमेषु स्थानेषु त्वं “रेवत् धनयुक्तं यथा भवति तथा “दिदीहि दीप्यस्व । महर्षयः सरस्वतीतीरे खलु यज्ञादिकर्माण्यकार्षुः । तथा च ब्राह्मणम् - ‘ ऋषयो वै सरस्वत्यां सत्रमासत ' (ऐ. ब्रा, २. १९) इति ॥ दधे । दधातेः लिट्युत्तमैकवचने रूपम् । वरे। ' वृञ् वरणे । ग्रहवृदृनिश्चिगमश्च' इत्यप्। पित्त्वादनुदात्तत्वे धातुस्वरः । दृषद्वत्याम् । ‘दृ विदारणे'। 'दृणातेः पुग्घ्रस्वश्च ' ( उ. सू.१.१२८) इत्यादिना षुगागमो धातोर्ह्रस्वश्च । दृषदः उपलाः यस्यां सन्तीति मतुप् । ‘झयः' इति तस्य वत्वम् ।' स्वरविधौ व्यञ्जनमविद्यमानवत् ' इत्यस्याः परिभाषाया अत्राश्रयणाभावात् मतुप उदात्तताभावः । अदिप्रत्ययस्वरः । सरस्वत्याम् । सरःशब्दोऽसुनन्तत्वादाद्युदात्तः । तदस्यास्तीति मतुप् । अदुपधत्वान्मस्य वत्वम् । उगित्त्वात् ङीप् । दिदीहि । दिवु क्रीडादौ इत्यस्य यङ्लुकि रूपम् ।।


इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।

स्यान्न॑ः सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥५

इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।

स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥५

इळाम् । अग्ने । पुरुऽदंसम् । सनिम् । गोः । शश्वत्ऽतमम् । हवमानाय । साध ।

स्यात् । नः । सूनुः । तनयः । विजाऽवा । अग्ने । सा । ते । सुऽमतिः । भूतु । अस्मे इति ॥५

व्याख्यातेयमित्युपेक्षिता ॥ ॥ २३ ॥

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.२३&oldid=197160" इत्यस्माद् पुनः प्राप्तिः