ऋग्वेदः सूक्तं ३.४९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ३.४८ ऋग्वेदः - मण्डल ३
सूक्तं ३.४९
गाथिनो विश्वामित्रः
सूक्तं ३.५० →
दे. इन्द्रः। त्रिष्टुप् ।


शंसा महामिन्द्रं यस्मिन्विश्वा आ कृष्टयः सोमपाः काममव्यन् ।
यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः ॥१॥
यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम् ।
इनतमः सत्वभिर्यो ह शूषैः पृथुज्रया अमिनादायुर्दस्योः ॥२॥
सहावा पृत्सु तरणिर्नार्वा व्यानशी रोदसी मेहनावान् ।
भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः ॥३॥
धर्ता दिवो रजसस्पृष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान् ।
क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम् ॥४॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥५॥

सायणभाष्यम्

‘शंसा महाम्' इति पञ्चर्चमेकादशं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । “शंसा महाम्' इत्यनुक्रमणिका। समूळ्हे दशरात्रेऽष्टमेऽहनि मरुत्वतीयशस्त्रे एतत्सूक्तम् । सूत्रितं च- शंसा महां महश्चित्त्वमिन्द्र' (आश्व.श्रौ. ८. ७) इति ।।


शंसा॑ म॒हामिंद्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् ।

यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां॑ ज॒नयं॑त दे॒वाः ॥१

शंस॑ । म॒हाम् । इन्द्र॑म् । यस्मि॑न् । विश्वाः॑ । आ । कृ॒ष्टयः॑ । सो॒म॒ऽपाः । काम॑म् । अव्य॑न् ।

यम् । सु॒ऽक्रतु॑म् । धि॒षणे॒ इति॑ । वि॒भ्व॒ऽत॒ष्टम् । घ॒नम् । वृ॒त्राणा॑म् । ज॒नय॑न्त । दे॒वाः ॥१

शंस । महाम् । इन्द्रम् । यस्मिन् । विश्वाः । आ । कृष्टयः । सोमऽपाः । कामम् । अव्यन् ।

यम् । सुऽक्रतुम् । धिषणे इति । विभ्वऽतष्टम् । घनम् । वृत्राणाम् । जनयन्त । देवाः ॥१

हे होतः “महां महान्तम् “इन्द्रं “शंस शस्त्रैः स्तुहि । “यस्मिन् इन्द्रे रक्षितरि सति “विश्वाः “कृष्टयः सर्वे मनुष्याः “सोमपाः यज्ञमनुष्ठाय सोमपाः सन्तः “कामम् । काम्यते इति कामः स्वर्गादिः । तम् “आ "अव्यन् सर्वतः प्राप्नुवन्ति । “धिषणे देवमनुष्यादीनां धारयित्र्यौ । यद्वा । प्रगल्भे समर्थे स्वाश्रितान् रक्षतुमिति धिषणे द्यावापृथिव्यौ । “देवाः च “सुक्रतुम् । क्रतुः कर्म जगत्पालनादि । शोभनः क्रतुर्यस्यासौ सुक्रतुः । तादृशं “विभ्वतष्टं विभुना ब्रह्मणा तष्टं जगदाधिपत्ये स्थापितं महान्तं “वृत्राणां पापरूपाणां “घनं हन्तारं “यम् इन्द्रं “जनयन्त अजनयन् । शंस। ‘ शन्सु स्तुतौ ' इत्यस्य लोटि रूपम् । पादादित्वादनिघातः । द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः । अव्यन् । वी’ कान्तिगत्यादिषु'। लङि रूपम् । यदुवृत्तयोगादनिघातः । अट्स्वरः । सुक्रतुम् । क्रत्वादयश्च ' इत्युत्तरपदाद्युदात्तः । धिषणे ।' ञिधृषा प्रागल्भ्ये 'इत्यस्मात् ‘धृषेर्धिष च संज्ञायाम् ' इति क्युप्रत्ययः । धिष इत्यादेशः । प्रत्ययस्वरः । घनम् । हन्तेः पुंसि संज्ञायाम् । इति घः । “हो हन्तेः' इति कुत्वम् । प्रत्ययस्वरः । जनयत । जनेर्ष्यन्तस्य लङि रूपम् । यद्वृत्तयोगादनिघातः ॥


यं नु नकिः॒ पृत॑नासु स्व॒राजं॑ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठां ।

इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्योः॑ ॥२

यम् । नु । नकिः॑ । पृत॑नासु । स्व॒ऽराज॑म् । द्वि॒ता । तर॑ति । नृऽत॑मम् । ह॒रि॒ऽस्थाम् ।

इ॒नऽत॑मः । सत्व॑ऽभिः । यः । ह॒ । शू॒षैः । पृ॒थु॒ऽज्रयाः॑ । अ॒मि॒ना॒त् । आयुः॑ । दस्योः॑ ॥२

यम् । नु । नकिः । पृतनासु । स्वऽराजम् । द्विता । तरति । नृऽतमम् । हरिऽस्थाम् ।

इनऽतमः । सत्वऽभिः । यः । ह । शूषैः । पृथुऽज्रयाः । अमिनात् । आयुः । दस्योः ॥२

“पृतनासु । व्याप्रियन्तेऽत्र योद्धार इति पृतनाः संग्रामाः । तेषु "स्वराजं "हरिष्ठां हरिस्थां हरियुक्ते रथे वर्तमानं "नृतमं बलस्य युद्धे नेतृतमं “द्विता युद्धमासाद्य सेनां द्विधा कृत्वा वर्तमानं “यम् इन्द्रं “नकिः न कश्चिदपि “तरति उत्तीर्य गच्छति। न कोऽप्यभ्यस्ति इत्यर्थः । “नु प्रसिद्धौ । स इन्द्रः “इनतमः अतिशयेन सेनास्वामी “सत्वभिः परितः सीदद्भिर्मरुद्भिः सह "यः यान् गच्छन् शूषैः । शोषयन्ति परबलानीति शूषाणि बलानि । तैः “पृथुज्रयाः युद्धं प्रति तीव्रवेगः सन् “दस्योः शत्रोः “आयुः अन्नं प्राणं वा “अमिनात् संग्रामेषु मिनाति हिनस्ति । "ह प्रसिद्धौ । अत्र निरुक्तं-- ‘ पृथुज्रयाः पृथुजवः । पृथुज्रया अमिनादायुर्दस्योः । प्रामापयदायुर्दस्योः' (निरु. ५. ९ ) इति ॥ तरति । ‘ तॄ प्लवनतरणयोः' इत्यस्य लटि रूपम् । यद्वृत्तयोगादनिघातः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यः । ‘ या प्रापणे'। औणादिकः कप्रत्ययः । आतो लोपः । प्रत्ययस्वरः ॥


स॒हावा॑ पृ॒त्सु त॒रणि॒र्नार्वा॑ व्यान॒शी रोद॑सी मे॒हना॑वान् ।

भगो॒ न का॒रे हव्यो॑ मती॒नां पि॒तेव॒ चारुः॑ सु॒हवो॑ वयो॒धाः ॥३

स॒हऽवा॑ । पृ॒त्ऽसु । त॒रणिः॑ । न । अर्वा॑ । वि॒ऽआ॒न॒शिः । रोद॑सी॒ इति॑ । मे॒हना॑ऽवान् ।

भगः॑ । न । का॒रे । हव्यः॑ । म॒ती॒नाम् । पि॒ताऽइ॑व । चारुः॑ । सु॒ऽहवः॑ । व॒यः॒ऽधाः ॥३

सहऽवा । पृत्ऽसु । तरणिः । न । अर्वा । विऽआनशिः । रोदसी इति । मेहनाऽवान् ।

भगः । न । कारे । हव्यः । मतीनाम् । पिताऽइव । चारुः । सुऽहवः । वयःऽधाः ॥३

य इन्द्रः “सहावा बलवान् “पृत्सु संग्रामेषु “तरणिः । शत्रूनुत्तीर्य वर्तते इति तरणिः । तत्र दृष्टान्तः "अर्वा “न । यथार्वा बलवानश्वः शत्रुबलं तरति तथा “रोदसी द्यावापृथिव्यौ “व्यानशिः व्याप्नुवन् “मेहनावान् । मिह्यते सिच्यते दीयतेऽर्थिभ्य इति मेहनं धनम् । तद्वान्भवति । तादृश इन्द्रः “कारे । क्रियते इति कारो यज्ञादिः । तस्मिन् यज्ञे "भगो “न पूषा देव इव “हव्यः हवनीयः “मतीनां स्तोतॄणां स्तुतीनां वा “पितेव पालयिता “चारुः कमनीयः “सुहवः सुष्ट्वाह्वानोपेतः “वयोधाः अन्नस्य दाता' भवति ॥ सहावा । सहोऽस्यास्तीति मतुबर्थे ‘छन्दसीवनिपौ' इति वनिप् । ‘अन्येषामपि दृश्यते ' इति संहितायां दीर्घः । पृत्सु । पृतनाशब्दस्य सौ परतः । मांस्पृत्स्नूनामुपसंख्यानम् ' इति पृदादेशः । ‘ सावेकाचः' इति विभक्तेरुदात्तत्वम् । व्यानशिः । ‘ अशू व्याप्तौ' इत्यस्मात् छन्दसि सदादित्वात् किप्रत्ययः । तस्य लिड्वद्भावः । अत आदेः' इत्यभ्यासस्य दीर्घे कृते ‘ अश्नोतेश्च ' इति नुडागमः । प्रादिसमासः । कारे । करोतेः कर्मणि घञ् । कर्षात्वतो घञोऽन्त उदात्तः' इत्यन्तोदात्तत्वम् । हव्यः । जुहोतेः “ अचो यत्'।' यतोऽनावः' इत्याद्युदात्तत्वम् । सुहवः । ह्वयतेः ‘ भावेऽनुपसर्गस्य' (पा. सू. ३. ३.७५ ) इत्यप्प्रत्ययः । संप्रसारणम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ आद्युदात्तं द्व्यच्छन्दसि ' इति बहुव्रीहौ उत्तरपदाद्युदात्तत्वम् ।।


ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् ।

क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे॑व॒ वाजं॑ ॥४

ध॒र्ता । दि॒वः । रज॑सः । पृ॒ष्टः । ऊ॒र्ध्वः । रथः॑ । न । वा॒युः । वसु॑ऽभिः । नि॒युत्वा॑न् ।

क्ष॒पाम् । व॒स्ता । ज॒नि॒ता । सूर्य॑स्य । विऽभ॑क्ता । भा॒गम् । धि॒षणा॑ऽइव । वाज॑म् ॥४

धर्ता । दिवः । रजसः । पृष्टः । ऊर्ध्वः । रथः । न । वायुः । वसुऽभिः । नियुत्वान् ।

क्षपाम् । वस्ता । जनिता । सूर्यस्य । विऽभक्ता । भागम् । धिषणाऽइव । वाजम् ॥४

स इन्द्रः “दिवः द्युलोकस्य “रजसः अन्तरिक्षस्य च “धर्ता धारकः “पृष्टः सर्वत्र वर्तमानः “रथो “न तदीयो रथ इव “ऊर्ध्वः "वायुः ऊर्ध्वगन्ता “वसुभिः सहायतया निवसद्भिः मरुद्भिः “नियुत्वान् सहायवान् । यद्वा नेत्ययमुत्तरेणापि संबध्यते । यथा वायुर्नियुत्वान् नियुन्नामक वडवाभिः तद्वान् एवमिन्द्रो वसुभिर्मरुद्भिः सहायवान् । तथा “क्षपां “वस्ता रात्रिमाच्छादयन् “सूर्यस्य जगत्प्रकाशकस्यादित्यस्य “जनिता जनयिता “भागं भजनीयं “वाजं कर्मफलरूपमन्नं “विभक्ता साधु विभागकर्ता भवति । तत्र दृष्टान्तः । “धिषणेव । यथा आढ्यानां वाक् अस्येदमिति विभागं करोति तद्वत् ॥ रजसः । रञ्ज रागे' इत्यस्मात् ‘भूरञ्जिभ्यां कित्' ( उ. सू. ४. ६५६ ) इत्यसुन् । कित्त्वान्नलोपः । रज्यते प्रकाशेनेति रजोऽन्तरिक्षम् । नित्त्वादाद्युदात्तः । वस्ता । ‘ वस आच्छादने ' इत्यस्य तृचि रूपम् । जनिता । जनयतेस्तृचि ‘ जनिता मन्त्रे' इति निपातनात् णिलोपः ।। चित्त्वादन्तोदात्तः । विभक्ता । ‘ भज सेवायाम् ' इत्यस्य साधुकारिष्यर्थे तृन् । ' एकाच उपदेशे° : इतीट्प्रतिषेधः । ‘ तादौ च निति कृत्यतौ ' इति गतेः प्रकृतिस्वरत्वम् ॥


शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥५

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥५

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥५

‘ शुनं हुवेम' इति पूर्ववत् ॥ ॥ १३ ॥



मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.४९&oldid=196944" इत्यस्माद् प्रतिप्राप्तम्