ऋग्वेदः सूक्तं ३.५९

विकिस्रोतः तः
Jump to navigation Jump to search

अवाङ्कपाठ्यांशः

← सूक्तं ३.५८ ऋग्वेदः - मण्डल ३
सूक्तं ३.५९
गाथिनो विश्वामित्रः
सूक्तं ३.६० →
दे. मित्रः। त्रिष्टुप्, ६-९ गायत्री।


मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् ।
मित्रः कृष्टीरनिमिषाभि चष्टे मित्राय हव्यं घृतवज्जुहोत ॥१॥
प्र स मित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति व्रतेन ।
न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यन्तितो न दूरात् ॥२॥
अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पृथिव्याः ।
आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम ॥३॥
अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः ।
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥४॥
महाँ आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः ।
तस्मा एतत्पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत ॥५॥
मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि ।
द्युम्नं चित्रश्रवस्तमम् ॥६॥
अभि यो महिना दिवं मित्रो बभूव सप्रथाः ।
अभि श्रवोभिः पृथिवीम् ॥७॥
मित्राय पञ्च येमिरे जना अभिष्टिशवसे ।
स देवान्विश्वान्बिभर्ति ॥८॥
मित्रो देवेष्वायुषु जनाय वृक्तबर्हिषे ।
इष इष्टव्रता अकः ॥९॥

सायणभाष्यम्

‘ मित्रो जनान् ' इति नवर्चं षष्ठं सूक्तं वैश्वामित्रं त्रैष्टुभं मैत्रम् । ‘ मित्रो मैत्रं चतुर्गायत्र्यन्तम् ' इत्यनुक्रमणिका । आदितः पञ्च त्रिष्टुभः शिष्टाश्चतस्रो गायत्र्यः । मित्रो देवता । अग्निहोत्रार्थे पयसि वर्षबिन्दुपतने मित्रो जनान् ' इत्यनया समिधमादध्यात् । सूत्रितं च - ‘ मित्रो जनान्यातयति ब्रुवाण इति समिदाधानम् ' ( आश्व. श्रौ. ३. ११ ) इति ॥


मि॒त्रो जना॑न्यातयति ब्रुवा॒णो मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् ।

मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत ॥१

मि॒त्रः । जना॑न् । या॒त॒य॒ति॒ । ब्रु॒वा॒णः । मि॒त्रः । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।

मि॒त्रः । कृ॒ष्टीः । अनि॑ऽमिषा । अ॒भि । च॒ष्टे॒ । मि॒त्राय॑ । ह॒व्यम् । घृ॒तऽव॑त् । जु॒हो॒त॒ ॥१

मित्रः । जनान् । यातयति । ब्रुवाणः । मित्रः । दाधार । पृथिवीम् । उत । द्याम् ।

मित्रः । कृष्टीः । अनिऽमिषा । अभि । चष्टे । मित्राय । हव्यम् । घृतऽवत् । जुहोत ॥१

“ब्रुवाणः स्तूयमानः शब्दं कुर्वाणो वा “मित्रः । प्रकर्षेण सर्वैर्मीयते ज्ञायते तथा सर्वान् वृष्टिप्रदानेन त्रायत इति वा मित्रः सूर्यः । “जनान् कर्षकादिजनान् “यातयति । कृष्यादिकर्मसु प्रयत्नं कारयति । तथा “मित्रः एव “पृथिवीमुत अपि च “द्याम् एतावुभौ लोकौ वृष्टिद्वारा अन्नं यागांश्च जनयन् “दाधार धारयति । तथा सति “मित्रः “अनिमिषा अनिमिषेणानुग्रहदृष्ट्या "कृष्टीः कर्मवतो मनुष्यान् “अभि “चष्टे सर्वतः पश्यति । एतत्सर्वं ज्ञात्वा हे ऋत्विजः “घृतवत् उपस्तरणाभिघारणयुक्तं "हव्यं हवनयोग्यं पुरोडाशादिकं तस्मै “मित्राय देवाय “जुहोत जुहुत प्रयच्छतेत्यर्थः । उक्तार्थं यास्को ब्रवीति -- ‘ मित्रो जनान्यातयति ब्रुवाणः शब्दं कुर्वन् । मित्र एव धारयति पृथिवीं च दिवं च । मित्रः कृष्टीरनिमिषन्नभिविपश्यतीति । कृष्टय इति मनुष्यनाम कर्मवन्तो भवन्ति विकृष्टदेहा वा । मित्राय हव्यं घृतवज्जुहोतेति व्याख्यातम् । जुहोतिर्दानकर्मा ' ( निरु. १०. २२ ) इति ॥ यातयति । ‘ यती प्रयत्ने' इत्यस्य ण्यन्तस्य लटि रूपम् । दाधार । ‘तुजादीनाम्' इत्यभ्यासस्य दीर्घः । जुहोत । जुहोतेर्लोटि प्रत्ययस्य तबादेशः । गुणः । निघातः ॥


देवसुवां हविःषु मित्रस्य सत्यस्य ‘प्र स मित्र' इति याज्या । एषैव प्रातर्होमस्य कालात्ययनिमित्ते मैत्रे चरौ याज्या । सूत्रितं च--- ‘प्र स मित्र मर्तो अस्तु प्रयस्वांस्त्वां नष्टवान्महिमाय पृच्छते' ( आश्व. श्रौ. ४. ११ ) इति । तत इष्टिर्मित्रः सूर्योऽभि यो महिना दिवं प्र स मित्र मर्तो अस्तु प्रयस्वानिति संस्थितायाम् ' ( आश्व. श्रौ. ३. १२ ) इति च ॥

प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ ।

न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मंहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ॥२

प्र । सः । मि॒त्र॒ । मर्तः॑ । अ॒स्तु॒ । प्रय॑स्वान् । यः । ते॒ । आ॒दि॒त्य॒ । शिक्ष॑ति । व्र॒तेन॑ ।

न । ह॒न्य॒ते॒ । न । जी॒य॒ते॒ । त्वाऽऊ॑तः । न । ए॒न॒म् । अंहः॑ । अ॒श्नो॒ति॒ । अन्ति॑तः । न । दू॒रात् ॥२

प्र । सः । मित्र । मर्तः । अस्तु । प्रयस्वान् । यः । ते । आदित्य । शिक्षति । व्रतेन ।

न । हन्यते । न । जीयते । त्वाऽऊतः । न । एनम् । अंहः । अश्नोति । अन्तितः । न । दूरात् ॥२

हे “आदित्य “व्रतेन यज्ञेन युक्तः “यः मनुष्यः "ते तुभ्यं “शिक्षति हविर्लक्षणमन्नं ददाति हे “मित्र “सः “मर्तः मनुष्यः “प्रयस्वान् अन्नवान् “प्र “अस्तु प्रभवतु । “त्वोतः त्वया रक्षितः सः मनुष्यः केनापि “न “हन्यते न बाध्यते । “न “जीयते नाभिभूयते च । “एनं तुभ्यं हविर्दत्तवन्तं पुरुषम् “अंहः पापम् "अन्तितः समीपात् "न “अश्नोति न प्राप्नोति । “दूरात् अपि “न प्राप्नोति ।। शिक्षतिर्दानकर्मा । व्यत्ययेन परस्मैपदम् । यद्वृत्तयोगादनिघातः । जीयते । जयतेः कर्मणि यकि ‘ अकृत्सार्वधातुकयोः' इति दीर्घः । त्वोतः । तृतीया कर्मणि ' इति पूर्वपदस्वरः । अश्नोति । अशू व्याप्तौ । स्वादिः । व्यत्ययेन परस्मैपदम् ॥


देवसुवां हविःषु मित्रस्य सत्यस्यानुवाक्या । ' अनमीवास इळया मदन्तः प्र स मित्र मर्तो अस्तु प्रयस्वान्' ( आश्व. श्रौ. ४. ११ ) इति सूत्रितम् ॥

अ॒न॒मी॒वास॒ इळ॑या॒ मद॑न्तो मि॒तज्ञ॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः ।

आ॒दि॒त्यस्य॑ व्र॒तमु॑पक्षि॒यन्तो॑ व॒यं मि॒त्रस्य॑ सुम॒तौ स्या॑म ॥३

अ॒न॒मी॒वासः॑ । इळ॑या । मद॑न्तः । मि॒तऽज्ञ॑वः । वरि॑मन् । आ । पृ॒थि॒व्याः ।

आ॒दि॒त्यस्य॑ । व्र॒तम् । उ॒प॒ऽक्षि॒यन्तः॑ । व॒यम् । मि॒त्रस्य॑ । सु॒ऽम॒तौ । स्या॒म॒ ॥३

अनमीवासः । इळया । मदन्तः । मितऽज्ञवः । वरिमन् । आ । पृथिव्याः ।

आदित्यस्य । व्रतम् । उपऽक्षियन्तः । वयम् । मित्रस्य । सुऽमतौ । स्याम ॥३

हे मित्र “अनमीवासः रोगवर्जिताः “इळया अन्नेन “मदन्तः माद्यन्तः “पृथिव्याः “वरिमन् विस्तीर्णे प्रदेशे “मितज्ञवः मितजानुकाः “आ यथाकामं सर्वत्र गच्छन्तः “आदित्यस्य संबन्धि “व्रतं कर्म “उपक्षियन्तः तस्य कर्मणः समीपे निवसन्तः । तदीयं कर्म कुर्वाणा इत्यर्थः । तादृशाः “वयं “मित्रस्य आदित्यस्य “सुमतौ शोभनायामनुग्रहबुद्ध्यां “स्याम वर्तेमहि ॥ मदन्तः । मदी हर्षे ' इत्यस्य शतरि व्यत्ययेन शप् । मितज्ञवः । जानुशब्दस्य ज्ञुश्छान्दसः । वरिमन् । उरुशब्दात् पृथ्वादित्वादिमनिच् । ' प्रियस्थिर' इत्यादिना वरादेशः । ‘ सुपां सुलुक्° ' इति सप्तम्या लुक् । व्यत्ययेनाद्युदात्तः ॥


अ॒यं मि॒त्रो न॑म॒स्य॑ः सु॒शेवो॒ राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः ।

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥४

अ॒यम् । मि॒त्रः । न॒म॒स्यः॑ । सु॒ऽशेवः॑ । राजा॑ । सु॒ऽक्ष॒त्रः । अ॒ज॒नि॒ष्ट॒ । वे॒धाः ।

तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥४

अयम् । मित्रः । नमस्यः । सुऽशेवः । राजा । सुऽक्षत्रः । अजनिष्ट । वेधाः ।

तस्य । वयम् । सुऽमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम ॥४

“अयं पूर्वमन्त्रे प्रतिपादितः “मित्रः सूर्यः “नमस्यः सर्वैर्नमस्करणीयः “सुशेवः शोभनसुखः ।। सुखेन सेव्य इत्यर्थः। “राजा सर्वस्य जगतः प्रकाशप्रदानेन स्वामी “सुक्षत्रः । क्षत्रशब्देन बलमुच्यते । शोभनबलोपेतः “वेधाः सर्वस्य जगतो विधाता । एवंगुणोपेतः सूर्यः “अजनिष्ट प्रादुरभूत् । “तस्य एवंविधगुणोपेतस्य “यज्ञियस्य यज्ञार्हस्य सूर्यस्य “सुमतौ शोभनायां बुद्धौ “भद्रे कल्याणकारिणि “सौमनसे सौमनस्ये "अपि यजमानाः “वयं “स्याम भवेम ॥ नमस्यः । नमसि साधुः । तत्र साधुः इति यत् । तित्स्वरितः । अजनिष्ट । ‘ जनी प्रादुर्भावे' इत्यस्य लुङि सिचि रूपम् । सौमनसे । सुमनस इदमित्यर्थे ' तस्येदम्' इत्यण् । प्रत्ययस्वरः ॥


म॒हाँ आ॑दि॒त्यो नम॑सोप॒सद्यो॑ यात॒यज्ज॑नो गृण॒ते सु॒शेव॑ः ।

तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्ट॑म॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ॥५

म॒हान् । आ॒दि॒त्यः । नम॑सा । उ॒प॒ऽसद्यः॑ । या॒त॒यत्ऽज॑नः । गृ॒ण॒ते । सु॒ऽशेवः॑ ।

तस्मै॑ । ए॒तत् । पन्य॑ऽतमाय । जुष्ट॑म् । अ॒ग्नौ । मि॒त्राय॑ । ह॒विः । आ । जु॒हो॒त॒ ॥५

महान् । आदित्यः । नमसा । उपऽसद्यः । यातयत्ऽजनः । गृणते । सुऽशेवः ।

तस्मै । एतत् । पन्यऽतमाय । जुष्टम् । अग्नौ । मित्राय । हविः । आ । जुहोत ॥५

योऽयम् “आदित्यः “महान् अत एव “नमसा नमस्कारेण “उपसद्य सर्वैरुपसदनीयः “यातयज्जनः । प्रातःप्रातः स्वस्वकर्मणि प्रवर्तनीया जना येनेति स तथोक्तः । “गृणते स्तोत्रं कुर्वते जनाय “सुशेवः च भवति “तस्मै “पन्यतमाय स्तुत्यतमाय “मित्राय आदित्याय “जुष्टं प्रीतिविषयम् “एतत् "हविः “अग्नौ “आ “जुहोत जुहुत ॥ यातयज्जनः । ‘ यती प्रयत्ने' इत्यस्य ण्यन्तस्य शतरि रूपम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरे प्राप्ते मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । गृणते । ‘गॄ शब्दे'। ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । पन्यतमाय । पनतेरघ्न्यादित्वात् यत् । यतोऽनावः' इत्याद्युदात्तत्वम् । जुष्टम् । ‘ नित्यं मन्त्रे 'इत्याद्युदात्तत्वम् ॥ ॥ ५ ॥


अभिप्लवषडहे दशरात्रे च सप्तदशैकविंशादिस्तोमे सति होत्रादिकशस्त्रेष्वावापस्थाने पञ्चसप्तादि संख्याका ऋच आवपनीयाः । तत्र मैत्रावरुणशस्त्रे ‘ मित्रस्य चर्षणीधृतः' इत्याद्याश्चतस्र अवापार्थाः। सूत्रितं च--- मित्रस्य चर्षणीधृत इति चतस्रो मैत्र्यः ' ( आश्व. श्रौ. ७.५ ) इति ।

मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि ।

द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ॥६

मि॒त्रस्य॑ । च॒र्ष॒णि॒ऽधृतः॑ । अवः॑ । दे॒वस्य॑ । सा॒न॒सि ।

द्यु॒म्नम् । चि॒त्रश्र॑वःऽतमम् ॥६

मित्रस्य । चर्षणिऽधृतः । अवः । देवस्य । सानसि ।

द्युम्नम् । चित्रश्रवःऽतमम् ॥६

“चर्षणीधृतः मनुष्याणां वृष्टिप्रदानेन धारकस्य “मित्रस्य “देवस्य संबन्धि “अवः अन्नं “सानसि सर्वैः संभजनीयं “द्युम्नं तदीयं धनं च “चित्रश्रवस्तमम् अतिशयेन चायनीयकीर्तियुक्तम् ॥ सानसि । सनोतेः “ सानसिपर्णसि' इत्यादिना असिच्प्रत्ययान्तत्वेन निपातनादुपधावृद्धिः। चित्त्वादन्तोदात्तः । ‘ स्वमोः०' इति स्वमोर्लुक् ।।


प्रातर्होमस्य कालात्यये मैत्रेष्टिः । तस्याम् ' अभि यो महिना ' इत्यनुवाक्या । सूत्रितं च -- ‘ अभि यो महिना दिवं प्र स मित्र मर्तो अस्तु प्रयस्वान्' ( आश्व. श्रौ. ३. १२ ) इति ॥

अ॒भि यो म॑हि॒ना दिवं॑ मि॒त्रो ब॒भूव॑ स॒प्रथा॑ः ।

अ॒भि श्रवो॑भिः पृथि॒वीम् ॥७

अ॒भि । यः । म॒हि॒ना । दिव॑म् । मि॒त्रः । ब॒भूव॑ । स॒ऽप्रथाः॑ ।

अ॒भि । श्रवः॑ऽभिः । पृ॒थि॒वीम् ॥७

अभि । यः । महिना । दिवम् । मित्रः । बभूव । सऽप्रथाः ।

अभि । श्रवःऽभिः । पृथिवीम् ॥७

“यः “मित्रः “महिना स्वकीयेन महिम्ना “दिवम् अन्तरिक्षम् “अभि “बभूव अभिभवति स मित्रः “सप्रथाः । प्रथः प्रसिद्धिः कीर्तिः । तत्सहितः “श्रवोभिः वृष्टिद्वारोत्पादितैरन्नैः “पृथिवीम् अपि अभिभवति । बह्वन्नयुक्तां करोतीत्यर्थः ॥ सप्रथाः । ‘ प्रथ प्रख्याने '। असुन्। ‘ वोपसर्जनस्य । इति सहस्य सभावः ॥


मि॒त्राय॒ पञ्च॑ येमिरे॒ जना॑ अ॒भिष्टि॑शवसे ।

स दे॒वान्विश्वा॑न्बिभर्ति ॥८

मि॒त्राय॑ । पञ्च॑ । ये॒मि॒रे॒ । जनाः॑ । अ॒भिष्टि॑ऽशवसे ।

सः । दे॒वान् । विश्वा॑न् । बि॒भ॒र्ति॒ ॥८

मित्राय । पञ्च । येमिरे । जनाः । अभिष्टिऽशवसे ।

सः । देवान् । विश्वान् । बिभर्ति ॥८

“पञ्च “जना निषादपञ्चमाश्चत्वारो वर्णाः “अभिष्टिशवसे शत्रूणामभिगन्तृबलयुक्ताय “मित्राय "येमिरे हवींष्युद्यच्छन्ति । “सः तादृशो मित्रः “विश्वान् सर्वान् "देवान् “बिभर्ति । स्वस्वरूपतया धारयति ॥ अभिष्टिशवसे । इषेः ' मन्त्रे वृष ' इत्यादिना क्तिन् ।' तादौ च निति' इत्यभेः अन्तोदात्तत्वम् । शकन्ध्वादित्वात् पररूपत्वम् । बहुव्रीहौ पूर्वपदस्वरः ॥


मि॒त्रो दे॒वेष्वा॒युषु॒ जना॑य वृ॒क्तब॑र्हिषे ।

इष॑ इ॒ष्टव्र॑ता अकः ॥९

मि॒त्रः । दे॒वेषु॑ । आ॒युषु॑ । जना॑य । वृ॒क्तऽब॑र्हिषे ।

इषः॑ । इ॒ष्टऽव्र॑ताः । अ॒क॒रित्य॑कः ॥९

मित्रः । देवेषु । आयुषु । जनाय । वृक्तऽबर्हिषे ।

इषः । इष्टऽव्रताः । अकरित्यकः ॥९

“मित्रः भगवानादित्यः “देवेषु द्योतमानादिगुणयुक्तेषु "आयुषु मनुष्येषु मध्ये यो जनो वृक्तबर्हिः । वृक्तं लूनं बर्हिर्येन सः । बर्हिर्लवनासादनपूर्वं हविषो दाता ऋत्विगित्यर्थः । तस्मै वृक्तबर्हिंषे “जनाय “इष्टव्रताः । इष्टानि कल्याणानि व्रतानि कर्माणि याभिः सिध्यन्ति ताः “इषः तादृशान्यन्नानि “अकः करोति । तस्मै ददातीत्यर्थः ॥ वृक्तबर्हिषे। 'ओव्रश्चू छेदने' । कर्मणि निष्ठायां यस्य विभाषा' इति इट्प्रतिषेधः । बहुव्रीहौ पूर्वपदस्वरः । अकः । करोतेर्लुङि च्ले: ‘ मन्त्रे घस ' इत्यादिना लुक् । सिपो हल्ङ्यादिलोपः । निघातः ॥ ॥ ६ ॥

[सम्पाद्यताम्]

मित्रीकृत्य जना विश्वे यदिमं पर्युपासते । मित्र इत्याह तेनैनं विश्वामित्र स्तुवन्स्वयम् ।। बृहद्देवता २.४९ ।।

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.५९&oldid=198078" इत्यस्माद् पुनः प्राप्तिः