ऋग्वेदः सूक्तं ३.५७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ३.५६ ऋग्वेदः - मण्डल ३
सूक्तं ३.५७
गाथिनो विश्वामित्रः।
सूक्तं ३.५८ →
दे. विश्वे देवाः। त्रिष्टुप्।


प्र मे विविक्वाँ अविदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपाम् ।
सद्यश्चिद्या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः ॥१॥
इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे ।
विश्वे यदस्यां रणयन्त देवाः प्र वोऽत्र वसवः सुम्नमश्याम् ॥२॥
या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन् ।
अच्छा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि ॥३॥
अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा ।
इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः ॥४॥
या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची ।
तयेह विश्वाँ अवसे यजत्राना सादय पायया चा मधूनि ॥५॥
या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद्देव चित्रा ।
तामस्मभ्यं प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम् ॥६॥

सायणभाष्यम्

‘प्र मे विविक्वान्' इति षडृचं चतुर्थं सूक्तम् । विश्वामित्र ऋषिः । त्रिष्टुप् छन्दः । विश्वेदेवाः देवता । अत्रानुक्रमणिका- प्र मे षट् ' इति । सूक्तविनियोगो लैङ्गिकः ॥


प्र मे॑ विवि॒क्वाँ अ॑विदन्मनी॒षां धे॒नुं चर॑न्तीं॒ प्रयु॑ता॒मगो॑पाम् ।

स॒द्यश्चि॒द्या दु॑दु॒हे भूरि॑ धा॒सेरिन्द्र॒स्तद॒ग्निः प॑नि॒तारो॑ अस्याः ॥१

प्र । मे॒ । वि॒वि॒क्वान् । अ॒वि॒द॒त् । म॒नी॒षाम् । धे॒नुम् । चर॑न्तीम् । प्रऽयु॑ताम् । अगो॑पाम् ।

स॒द्यः । चि॒त् । या । दु॒दु॒हे । भूरि॑ । धा॒सेः । इन्द्रः॑ । तत् । अ॒ग्निः । प॒नि॒तारः॑ । अ॒स्याः॒ ॥१

प्र । मे । विविक्वान् । अविदत् । मनीषाम् । धेनुम् । चरन्तीम् । प्रऽयुताम् । अगोपाम् ।

सद्यः । चित् । या । दुदुहे । भूरि । धासेः । इन्द्रः । तत् । अग्निः । पनितारः । अस्याः ॥१

“विविक्वान् विवेकवानिन्द्रोऽग्निर्वा “मे मम “मनीषां देवताविषयां स्तुतिं “प्र “अविदत् प्रकर्षेण जानातु । तत्र दृष्टान्तः । “चरन्तीं यवसे इतस्ततो गच्छन्तीं “प्रयुतां पृथग्भूतामेकाकिनीम् "अगोपां गोप्तृरहितां यथाकामं चरन्तीं “धेनुं नवसूतिका गामिव देवतानां प्रीणयित्रीं स्तुतिमविददित्यन्वयः । “या स्तुतिरूपा धेनुः “सद्यश्चित् तदानीमेव “धासेः । धारयति प्राणान् धीयते दीयते अर्थिभ्यः इति वा धासिरन्नम् । कर्मणि षष्ठी । “भूरि बह्वन्नमपेक्षितं फलं “दुदुहे दुग्धे “इन्द्रः “अग्निः अन्ये च देवाः “अस्याः स्तुतिरूपाया धेनोः “तत् तस्यान्नभूतस्य पयसः "पनितारः स्तोतारो भवन्ति । यद्वा । इन्द्राग्नी स्तोतारो वयं चास्या धेनोस्तत्पयः प्राप्नुमः ॥ विविक्वान् । ‘ विचिर् पृथग्भावे इत्यस्य क्वसौ रूपम् । अविदत् ।' विद ज्ञाने ' इत्यस्य लङि • बहुलं छन्दसि ' इति शः । दुदुहे। ‘ दुह प्रपूरणे' इत्यस्य लिटि रूपम् । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । पनितारः। ‘पन स्तुतौ ' इत्यस्य तृचि रूपम् ॥


इन्द्र॒ः सु पू॒षा वृष॑णा सु॒हस्ता॑ दि॒वो न प्री॒ताः श॑श॒यं दु॑दुह्रे ।

विश्वे॒ यद॑स्यां र॒णय॑न्त दे॒वाः प्र वोऽत्र॑ वसवः सु॒म्नम॑श्याम् ॥२

इन्द्रः॑ । सु । पू॒षा । वृष॑णा । सु॒ऽहस्ता॑ । दि॒वः । न । प्री॒ताः । श॒श॒यम् । दु॒दु॒ह्रे॒ ।

विश्वे॑ । यत् । अ॒स्या॒म् । र॒णय॑न्त । दे॒वाः । प्र । वः॒ । अत्र॑ । व॒स॒वः॒ । सु॒म्नम् । अ॒श्या॒म् ॥२

इन्द्रः । सु । पूषा । वृषणा । सुऽहस्ता । दिवः । न । प्रीताः । शशयम् । दुदुह्रे ।

विश्वे । यत् । अस्याम् । रणयन्त । देवाः । प्र । वः । अत्र । वसवः । सुम्नम् । अश्याम् ॥२

“वसवः सर्वस्य वासयितारो हे देवाः “इन्द्रः “पूषा च “वृषणा अभिमतफलस्य सेक्तारौ "सुहस्ता कल्याणपाणी नासत्यौ मित्रावरुणौ वा । ‘राजाना मित्रावरुणा सुपाणी' इत्यादिषु दृष्टत्वात् । एते सर्वे देवाः । “न इति संप्रत्यर्थे । इदानीं “प्रीताः सन्तः “शशयं नभसि शयानं मेघं “दिवः नभसः सकाशात् “सु “दुदुहे । वृष्टिद्वारापेक्षितं फलं सुष्ठु दुहन्ति । “यत् यस्मात् “विश्वे सर्वे "देवाः “अस्यां वेद्यां “रणयन्त रमयन्ते “वः युष्माकं संबन्धिनि "अत्र लोके "सुम्नं सुखकरमपेक्षितं फलं “प्र “अश्यां प्राप्नुयाम् ॥ सुहस्ता । हसेः ‘असिहसि°' इत्यादिना तन्प्रत्ययः । नित्त्वादाद्युदात्तः । बहुव्रीहौ ' आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । दुदुहे । ‘दुह प्रपूरणे' इत्यस्य लिटि ‘इरयो रे । रणयन्त। ‘रमु क्रीडायाम्'। ण्यन्तस्य लङि रूपम् । वर्णव्यापत्तिः । अश्याम् । 'अशू व्याप्तौ ' इत्यस्य लिङि • बहुल छन्दसि ' इति विकरणस्य लुक् । व्यत्ययेन परस्मैपदम् ॥


या जा॒मयो॒ वृष्ण॑ इ॒च्छन्ति॑ श॒क्तिं न॑म॒स्यन्ती॑र्जानते॒ गर्भ॑मस्मिन् ।

अच्छा॑ पु॒त्रं धे॒नवो॑ वावशा॒ना म॒हश्च॑रन्ति॒ बिभ्र॑तं॒ वपूं॑षि ॥३

याः । जा॒मयः॑ । वृष्णे॑ । इ॒च्छन्ति॑ । श॒क्तिम् । न॒म॒स्यन्तीः॑ । जा॒न॒ते॒ । गर्भ॑म् । अ॒स्मि॒न् ।

अच्छ॑ । पु॒त्रम् । धे॒नवः॑ । वा॒व॒शा॒नाः । म॒हः । च॒र॒न्ति॒ । बिभ्र॑तम् । वपूं॑षि ॥३

याः । जामयः । वृष्णे । इच्छन्ति । शक्तिम् । नमस्यन्तीः । जानते । गर्भम् । अस्मिन् ।

अच्छ । पुत्रम् । धेनवः । वावशानाः । महः । चरन्ति । बिभ्रतम् । वपूंषि ॥३

“या “जामयः । जमन्ति वर्षाकाले प्रादुर्भवन्तीति जामय ओषधयः । "वृष्णे अपां वर्षकायेन्द्राय “शक्तिं सेचनसामर्थ्यम् “इच्छन्ति । “नमस्यन्तीः प्रह्वीभूतास्ता ओषधयः “अस्मिन् इन्द्रे “गर्भं वृष्टिद्वारा पुष्पफलादिलक्षणगर्भाधानादिसामर्थ्यं “जानते जानन्ति । “वावशानाः फलं कामयमानाः “धेनवः सर्वस्य प्रणयित्र्य ओषधयः "महः महान्ति नानाप्रकाराणि “वपूंषि रूपाणि “बिभ्रतं व्रीहियवनीवारादिफललक्षणं “पुत्रं तनयम् "अच्छ आभिमुख्येन “चरन्ति प्राप्नुवन्ति । लोके हि हम्भारवं कुर्वाणाः धेनवः वत्समभिलक्ष्य गच्छन्ति । तद्वत् । यद्वा जामयः । जमन्ति सर्वत्र प्रसरन्तीति जामयः सूर्यदीप्तयः । वृष्णेऽपां वर्षकाय । स्वरश्मिभिर्भौमान् रसानादाय पुनर्वर्षतीति वर्षकः सूर्यः । ‘ आदित्याज्जायते वृष्टिः ' इति स्मृतेश्च । तस्मै वर्षणशक्तिम् इच्छन्ति । ता दीप्तयोऽस्मिन्नादित्ये गर्भम् अब्रूपगर्भाधानसामर्थ्यं जानन्ति ॥ जामयः । जमतेर्गतिकर्मणः ‘ जनिघसिभ्यामिण् ' इति विधीयमानो बहुलवचनादस्मादपि भवति । नमस्यन्तीः । नमःशब्दात् 'नमोवरिवश्चित्रङः क्यच् इति क्यच् । तदन्ताच्छतरि रूपम् । प्रत्ययस्वरः । जानते । ज्ञा अवबोधने ' इत्यस्य लटि रूपम् । अच्छ। 'निपातस्य च ' इति संहितायां दीर्घः ॥


अच्छा॑ विवक्मि॒ रोद॑सी सु॒मेके॒ ग्राव्णो॑ युजा॒नो अ॑ध्व॒रे म॑नी॒षा ।

इ॒मा उ॑ ते॒ मन॑वे॒ भूरि॑वारा ऊ॒र्ध्वा भ॑वन्ति दर्श॒ता यज॑त्राः ॥४

अच्छ॑ । वि॒व॒क्मि॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । ग्राव्णः॑ । यु॒जा॒नः । अ॒ध्व॒रे । म॒नी॒षा ।

इ॒माः । ऊं॒ इति॑ । ते॒ । मन॑वे । भूरि॑ऽवाराः । ऊ॒र्ध्वाः । भ॒व॒न्ति॒ । द॒र्श॒ताः । यज॑त्राः ॥४

अच्छ । विवक्मि । रोदसी इति । सुमेके इति सुऽमेके । ग्राव्णः । युजानः । अध्वरे । मनीषा ।

इमाः । ऊं इति । ते । मनवे । भूरिऽवाराः । ऊर्ध्वाः । भवन्ति । दर्शताः । यजत्राः ॥४

“अध्वरे यज्ञे “ग्राव्णः सोमाभिषवार्थमुपलान् "युजानः प्रयुञ्जानोऽहं “सुमेके सुरूपे “रोदसी द्यावापृथिव्यौ “मनीषा मनस ईषया स्तुतिलक्षणया वाचा “अच्छ “विवक्मि आभिमुख्येन स्तौमि । हे अग्ने “ते तव “भूरिवाराः यजमानैर्बहुवारं वरणीयाः “दर्शताः कमनीयतया दर्शनीयाः “यजत्राः पूज्याः “इमाः दीप्तयः “मनवे मनुष्यव्यवहारार्थम् “ऊर्ध्वाः ऊर्ध्वमुखाः “भवन्ति ॥ विवक्मि। ‘वच परिभाषणे ' । लटि ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ अर्तिपिपर्त्योश्च, बहुलं छन्दसि' इत्यभ्यासस्य इत्वम् । चकारस्य कुत्वं व्यत्ययेन । युजानः । ‘युजिबुधिदृशः किच्च' इति आनच् । कित्त्वात् अगुणः । चित्त्वादन्तोदात्तः । मनीषा । सुपो डादेशः ॥


या ते॑ जि॒ह्वा मधु॑मती सुमे॒धा अग्ने॑ दे॒वेषू॒च्यत॑ उरू॒ची ।

तये॒ह विश्वाँ॒ अव॑से॒ यज॑त्रा॒ना सा॑दय पा॒यया॑ चा॒ मधू॑नि ॥५

या । ते॒ । जि॒ह्वा । मधु॑ऽमती । सु॒ऽमे॒धाः । अग्ने॑ । दे॒वेषु॑ । उ॒च्यते॑ । उ॒रू॒ची ।

तया॑ । इ॒ह । विश्वा॑न् । अव॑से । यज॑त्रान् । आ । सा॒द॒य॒ । पा॒यय॑ । च॒ । मधू॑नि ॥५

या । ते । जिह्वा । मधुऽमती । सुऽमेधाः । अग्ने । देवेषु । उच्यते । उरूची ।

तया । इह । विश्वान् । अवसे । यजत्रान् । आ । सादय । पायय । च । मधूनि ॥५

हे “अग्ने “ते तव "मधुमती उदकवती “सुमेधाः । शोभना मेधा प्रज्ञा यस्याः सा । सर्वस्य ज्ञापयित्री “या “जिह्वा ज्वाला “उरूची बहुव्याप्तिः सती "देवेषु मध्ये आह्वानार्थम् "उच्यते प्रेर्यते “तया जिह्वया “यजत्रान् यजनीयान् विश्वान् देवान् “इह कर्मण्यस्माकम् “अवसे रक्षणाय “आ “सादय उपवेशय । किंच तान् विश्वान् देवान् “मधूनि मदकरान् सोमान् "पायय ॥ सुमेधाः । नित्यमसिच्प्रजामेधयोः' इति असिच् । उच्यते । ‘वच परिभाषणे ' । कर्मणि यकि रूपम् । यद्वृत्तयोगादनिघातः । उरूची । अञ्चतेः क्विन् । ‘ अञ्चतेश्चोपसंख्यानम् ' इति ङीप् । ' अनुदात्तस्य च यत्रोदात्तलोपः' इति ङीप उदात्तत्वम् । पायय । ‘पा पाने ' इत्यस्य णौ परतः ‘शाच्छासाह्वाब्यावेपां युक्' इति युक् । तिङ उत्तरत्वादनिघातः ॥


या ते॑ अग्ने॒ पर्व॑तस्येव॒ धारास॑श्चन्ती पी॒पय॑द्देव चि॒त्रा ।

ताम॒स्मभ्यं॒ प्रम॑तिं जातवेदो॒ वसो॒ रास्व॑ सुम॒तिं वि॒श्वज॑न्याम् ॥६

या । ते॒ । अ॒ग्ने॒ । पर्व॑तस्यऽइव । धारा॑ । अस॑श्चन्ती । पी॒पय॑त् । दे॒व॒ । चि॒त्रा ।

ताम् । अ॒स्मभ्य॑म् । प्रऽम॑तिम् । जा॒त॒ऽवे॒दः॒ । वसो॒ इति॑ । रास्व॑ । सु॒ऽम॒तिम् । वि॒श्वऽज॑न्याम् ॥६

या । ते । अग्ने । पर्वतस्यऽइव । धारा । असश्चन्ती । पीपयत् । देव । चित्रा ।

ताम् । अस्मभ्यम् । प्रऽमतिम् । जातऽवेदः । वसो इति । रास्व । सुऽमतिम् । विश्वऽजन्याम् ॥६

“देव दीप्यमान हे "अग्ने “चित्रा नानारूपा “असश्चन्ती अस्मादन्यत्र संगतिमकुर्वाणा “या “ते तव प्रमतिः प्रकृष्टा बुद्धिः “पीपयत् अपेक्षितफलदानेनास्मान् वर्धयति । तत्र दृष्टान्तः। “पर्वतस्येव ”धारा । यथा पर्वतस्य मेघस्योदकधारा ओषधिवनस्पत्यादिषु संगतिं कुर्वाणा तान् वर्धयति तद्वत् । “वसो सर्वस्य वासयितः "जातवेदः जातप्रज्ञ हे अग्ने “तां “प्रमतिं परहितकरणसमर्थां बुद्धिम् “अस्मभ्यं “रास्व दत्स्व । तथा “विश्वजन्यां सर्वजनहितां “सुमतिं शोभनां बुद्धिं दत्स्व ॥ असश्चन्ती । सश्चतिर्गतिकर्मा । शतरि • उगितश्च' इति ङीप् । नञा समासे नञ्स्वरः । पीपयत् । “पा पाने'। ण्यन्तस्य लुडि चङि रूपम् । ‘चङयन्यतरस्याम्' इति चडि परतः पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः । प्रमतिम् । तादौ च निति कृत्यतौ ' इति गतेः प्रकृतिस्वरत्वम् । रास्व । ‘रा दाने ' । व्यत्ययेन आत्मनेपदम् । लोटि रूपम् । आमन्त्रितस्याविद्यमानत्वात् निघाताभावः ॥

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.५७&oldid=197999" इत्यस्माद् पुनः प्राप्तिः