ऋग्वेदः सूक्तं ३.५५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ३.५४ ऋग्वेदः - मण्डल ३
सूक्तं ३.५५
प्रजापतिर्वैश्वामित्रः, प्रजापतिर्वाच्यो वा।
सूक्तं ३.५६ →
दे. विश्वे देवाः। त्रिष्टुप्


उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः ।
व्रता देवानामुप नु प्रभूषन्महद्देवानामसुरत्वमेकम् ॥१॥
मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः ।
पुराण्योः सद्मनोः केतुरन्तर्महद्देवानामसुरत्वमेकम् ॥२॥
वि मे पुरुत्रा पतयन्ति कामाः शम्यच्छा दीद्ये पूर्व्याणि ।
समिद्धे अग्नावृतमिद्वदेम महद्देवानामसुरत्वमेकम् ॥३॥
समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु ।
अन्या वत्सं भरति क्षेति माता महद्देवानामसुरत्वमेकम् ॥४॥
आक्षित्पूर्वास्वपरा अनूरुत्सद्यो जातासु तरुणीष्वन्तः ।
अन्तर्वतीः सुवते अप्रवीता महद्देवानामसुरत्वमेकम् ॥५॥
शयुः परस्तादध नु द्विमाताबन्धनश्चरति वत्स एकः ।
मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकम् ॥६॥
द्विमाता होता विदथेषु सम्राळन्वग्रं चरति क्षेति बुध्नः ।
प्र रण्यानि रण्यवाचो भरन्ते महद्देवानामसुरत्वमेकम् ॥७॥
शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वमायत् ।
अन्तर्मतिश्चरति निष्षिधं गोर्महद्देवानामसुरत्वमेकम् ॥८॥
नि वेवेति पलितो दूत आस्वन्तर्महाँश्चरति रोचनेन ।
वपूंषि बिभ्रदभि नो वि चष्टे महद्देवानामसुरत्वमेकम् ॥९॥
विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृता दधानः ।
अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकम् ॥१०॥
नाना चक्राते यम्या वपूंषि तयोरन्यद्रोचते कृष्णमन्यत् ।
श्यावी च यदरुषी च स्वसारौ महद्देवानामसुरत्वमेकम् ॥११॥
माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची ।
ऋतस्य ते सदसीळे अन्तर्महद्देवानामसुरत्वमेकम् ॥१२॥
अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः ।
ऋतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकम् ॥१३॥
पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ त्र्यविं रेरिहाणा ।
ऋतस्य सद्म वि चरामि विद्वान्महद्देवानामसुरत्वमेकम् ॥१४॥
पदे इव निहिते दस्मे अन्तस्तयोरन्यद्गुह्यमाविरन्यत् ।
सध्रीचीना पथ्या सा विषूची महद्देवानामसुरत्वमेकम् ॥१५॥
आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः ।
नव्यानव्या युवतयो भवन्तीर्महद्देवानामसुरत्वमेकम् ॥१६॥
यदन्यासु वृषभो रोरवीति सो अन्यस्मिन्यूथे नि दधाति रेतः ।
स हि क्षपावान्स भगः स राजा महद्देवानामसुरत्वमेकम् ॥१७॥
वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुरस्य देवाः ।
षोळ्हा युक्ताः पञ्चपञ्चा वहन्ति महद्देवानामसुरत्वमेकम् ॥१८॥
देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान ।
इमा च विश्वा भुवनान्यस्य महद्देवानामसुरत्वमेकम् ॥१९॥
मही समैरच्चम्वा समीची उभे ते अस्य वसुना न्यृष्टे ।
शृण्वे वीरो विन्दमानो वसूनि महद्देवानामसुरत्वमेकम् ॥२०॥
इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा ।
पुरःसदः शर्मसदो न वीरा महद्देवानामसुरत्वमेकम् ॥२१॥
निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पृथिवी बिभर्ति ।
सखायस्ते वामभाजः स्याम महद्देवानामसुरत्वमेकम् ॥२२॥


सायणभाष्यम्

‘ उषसः पूर्वाः' इति द्वाविंशत्यृचं द्वितीयं सूक्तं त्रैष्टुभम् । 'उषसः' इत्यनुक्रमणिका । प्रजापतेरार्षं वैश्वदेवं ‘ प्रजापतिर्हि वैश्वदेवं ह” इति पूर्वसूक्ते हिहशब्दप्रयोगात्। सूक्तविनियोगो लैङ्गिकः । अत्राद्योषस्या ततः परं नवर्चोऽग्न्यादिदेवतास्ततः परा अहोरात्रदेवताका ततश्चतस्रो रोदस्योः पञ्चदशी द्युनिशोर्वा षोडशी दिग्देवताका ततः षड़ृचो वर्षत इन्द्रस्य केचिदग्नेस्त्वष्टुश्चेति मन्यन्ते ॥


उ॒षस॒ः पूर्वा॒ अध॒ यद्व्यू॒षुर्म॒हद्वि ज॑ज्ञे अ॒क्षरं॑ प॒दे गोः ।

व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष॑न्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥१

उ॒षसः॑ । पूर्वाः॑ । अध॑ । यत् । वि॒ऽऊ॒षुः । म॒हत् । वि । ज॒ज्ञे॒ । अ॒क्षर॑म् । प॒दे । गोः ।

व्र॒ता । दे॒वाना॑म् । उप॑ । नु । प्र॒ऽभूष॑न् । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥१

उषसः । पूर्वाः । अध । यत् । विऽऊषुः । महत् । वि । जज्ञे । अक्षरम् । पदे । गोः ।

व्रता । देवानाम् । उप । नु । प्रऽभूषन् । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१

“पूर्वाः उदयकालात् प्राचीनाः “उषसः “यत् यदा “व्यूषुः व्युच्छन्ति "अध तदानीम् “अक्षरम् । न क्षरतीत्यक्षरम् । अविनाश्यादित्याख्यं “महत् प्रभूतं ज्योतिः “गोः उदकस्य “पदे स्थाने समुद्रे नभसि वा “वि “जज्ञे उत्पद्यते । अथोदिते सूर्ये “प्रभूषन् अग्निहोत्रादिकर्मसु प्रभवितुमिच्छन् यजमानः “व्रता कर्माणि "देवानां “नु क्षिप्रम् “उप समीपं नेष्यति । योग्यक्रियाध्याहारः । तदिदं “देवानाम् “एकं मुख्यम् “असुरत्वम्। अस्यति क्षिपति सर्वानित्यसुरः प्रबलः । तस्य भावोऽसुरत्वं प्राबल्यम् । महदैश्वर्यम् ॥ व्यूषुः । 'उष प्लुष दाहे' इत्यस्य विपूर्वस्य लिट्युसि रूपम् । 'सह' इति योगविभागात् समासः । यद्वृत्तयोगादनिघातः । प्रभूषन् । भवतेः सनि द्विर्वचनस्य छन्दसि विकल्पितत्वात् अत्र द्विर्वचनाभावः । तदन्ताच्छतरि रूपम् । प्रादिसमासः । शतुर्लसार्वधातुकस्वरे धातुस्वरः ॥


मो षू णो॒ अत्र॑ जुहुरन्त दे॒वा मा पूर्वे॑ अग्ने पि॒तर॑ः पद॒ज्ञाः ।

पु॒रा॒ण्योः सद्म॑नोः के॒तुर॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥२

मो इति॑ । सु । नः॒ । अत्र॑ । जु॒हु॒र॒न्त॒ । दे॒वाः । मा । पूर्वे॑ । अ॒ग्ने॒ । पि॒तरः॑ । प॒द॒ऽज्ञाः ।

पु॒रा॒ण्योः । सद्म॑नोः । के॒तुः । अ॒न्तः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥२

मो इति । सु । नः । अत्र । जुहुरन्त । देवाः । मा । पूर्वे । अग्ने । पितरः । पदऽज्ञाः ।

पुराण्योः । सद्मनोः । केतुः । अन्तः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥२

हे “अग्ने “अत्र अस्मिन् काले “देवाः “नः अस्मान् "सु सुष्ठु “मो “जुहुरन्त मा हिंस्युः । तथा “पदज्ञाः कर्माण्यनुष्ठाय देवपदमनुभवन्तः “पूर्वे पुरातनाः “पितरः “मा हिंसिषुः । यस्मात् “केतुः यज्ञानां प्रज्ञापकः सूर्यः “पुराण्योः पुरातनयोः “सद्मनोः । सीदन्त्यनयोर्देवमनुष्या इति सद्मनी रोदसी । तयोः “अन्तः मध्ये उदेति । तस्मादत्र मा हिंसन्त्वित्यर्थः । “महद्देवानाम् इत्यादि पूर्ववत् ॥ जुहुरन्त । ‘हृ प्रसह्यकरणे' । लुङि जुहोत्यादित्वात् श्लुः । व्यत्ययेनात्मनेपदम् । 'बहुलं छन्दसि ' इत्युत्वम् । संज्ञापूर्वकस्य विधेरनित्यत्वाददादेशाभावेऽन्तादेशः ।।


वि मे॑ पुरु॒त्रा प॑तयन्ति॒ कामा॒ः शम्यच्छा॑ दीद्ये पू॒र्व्याणि॑ ।

समि॑द्धे अ॒ग्नावृ॒तमिद्व॑देम म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥३

वि । मे॒ । पु॒रु॒ऽत्रा । प॒त॒य॒न्ति॒ । कामाः॑ । शमि॑ । अच्छ॑ । दी॒द्ये॒ । पू॒र्व्याणि॑ ।

सम्ऽइ॑द्धे । अ॒ग्नौ । ऋ॒तम् । इत् । व॒दे॒म॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥३

वि । मे । पुरुऽत्रा । पतयन्ति । कामाः । शमि । अच्छ । दीद्ये । पूर्व्याणि ।

सम्ऽइद्धे । अग्नौ । ऋतम् । इत् । वदेम । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥३

हे अग्ने “मे मम “पुरुत्रा बहवः “कामाः अभिलाषाः “वि “पतयन्ति विविधं गच्छन्ति । “शमि अग्निष्टोमादिलक्षणं कर्म “अच्छ अभिलक्ष्याहं “पूर्व्याणि पुरातनानि स्तोत्राणि तदर्थं “दीद्ये दीपयामि। पश्चात् यज्ञार्थम् “अग्नौ “समिद्धे दीप्यमाने सति “ऋतमित् सत्यमेव “वदेम । अनृतवचने हि यज्ञे वैगुण्यं स्यादिति ॥ पुरुत्रा । देवमनुष्यपुरुष°' इत्यादिना त्राप्रत्ययः । पतयन्ति । पत्लृ गतौ '। स्वार्थिको णिच् ॥


स॒मा॒नो राजा॒ विभृ॑तः पुरु॒त्रा शये॑ श॒यासु॒ प्रयु॑तो॒ वनानु॑ ।

अ॒न्या व॒त्सं भर॑ति॒ क्षेति॑ मा॒ता म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥४

स॒मा॒नः । राजा॑ । विऽभृ॑तः । पु॒रु॒ऽत्रा । शये॑ । श॒यासु॑ । प्रऽयु॑तः । वना॑ । अनु॑ ।

अ॒न्या । व॒त्सम् । भर॑ति । क्षेति॑ । मा॒ता । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥४

समानः । राजा । विऽभृतः । पुरुऽत्रा । शये । शयासु । प्रऽयुतः । वना । अनु ।

अन्या । वत्सम् । भरति । क्षेति । माता । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥४

“समानः साधारणः सर्वेषाम् । यद्वा एक एव । राजा दीप्यमानोऽग्निः “पुरुत्रा बहुषु देशेषु “विभृतः अग्निहोत्रार्थं विहृतो भवति । यद्वा । राजा अभिषुतः सोमः सर्वेषु देशेषु यज्ञार्थं विहृतो भवति । स चाग्निः सोमो वा “शयासु वेदिषु । शेरते हविरादयः पदार्था अत्रेति शया वेद्यः । तासु “शये शेते निवसति । “वनानु अनुवनं वनेश्वरणिरूपेषु काष्ठेषु “प्रयुतः विभक्तोऽग्निर्वर्तते । सोमश्चेत् वनेषु चमसेषु विभक्तो वर्तते । तस्य द्वे मातरौ द्यावापृथिव्यौ। तयोः “अन्या द्यौः अस्याः भूमेः जायमानतया “वत्सं वत्सभूतमग्निं सोमं वा “भरति वृष्ट्यादिरूपेण भरति पोषयति । "माता वसुधा “क्षेति केवलं निवासयति ॥ विभृतः । ‘ हृञ् हरणे ' । कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । पुरुत्रा। अधिकरणे त्राप्रत्ययः । शये । ‘शीङ् स्वप्ने । लोपस्तः' इति तकारलोपः । ‘शीङः सार्वधातुके गुणः । शयासु । ‘शीङ् स्वप्ने । “एरच् ' इत्यधिकरणेऽच् । भरति । भृञ् भरणे । भूवादिः । ‘ एकान्याभ्यां समर्थाभ्याम्' इति पूर्वस्य न निघातः । क्षेति । क्षि निवासगत्योः' इत्यस्य लटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ।।


आ॒क्षित्पूर्वा॒स्वप॑रा अनू॒रुत्स॒द्यो जा॒तासु॒ तरु॑णीष्व॒न्तः ।

अ॒न्तर्व॑तीः सुवते॒ अप्र॑वीता म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥५

आ॒ऽक्षित् । पूर्वा॑सु । अप॑राः । अ॒नू॒रुत् । स॒द्यः । जा॒तासु॑ । तरु॑णीषु । अ॒न्तरिति॑ ।

अ॒न्तःऽव॑तीः । सु॒व॒ते॒ । अप्र॑ऽवीताः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥५

आऽक्षित् । पूर्वासु । अपराः । अनूरुत् । सद्यः । जातासु । तरुणीषु । अन्तरिति ।

अन्तःऽवतीः । सुवते । अप्रऽवीताः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥५

“पूर्वासु जीर्णास्वोषधीषु “आक्षित् आवर्तमानः तथा “अपराः नव्या ओषधीः "अनूरुत् अनुरुन्धन् उत्पत्त्यानुगुण्येनानुतिष्ठन्नग्निः सूर्यो वा “सद्यो “जातासु तदानीमुत्पन्नासु “तरुणीषु पल्लवितास्वोपधीषु “अन्तः वर्तते । ता ओषधयः “अप्रवीताः केनापि पुरुषेणानिषिक्तरेतस्काः अनभ्यक्ता वा “अन्तर्वतीः अग्निना गर्भवत्यो भूत्वा “सुवते फलं पुष्पं चोत्पादयन्ति । तदिदं देवानामैश्वर्यम् ॥ आक्षित् । ‘क्षि निवासगत्योः' । क्विप् । अनूरुत् । ‘ अनो रुध कामे ' । अस्मात् क्विप् । अन्येषामपि दृश्यते ' इति दीर्घः। कृत्स्वरः। तरुणीषु ।' नञ्स्नञीकक्ख्युंस्तरणतलुनानामुपसंख्यानम् ' ( पा. म. ४.१:१५.६ ) इति डीप् । अन्तर्वतीः। ‘ झयः' इति मतुपो वत्वम् । सुवते । ‘ षूङ् प्राणिगर्भविमोचने ' इत्यस्य लटि रूपम् । निघातः ॥ ॥ २८॥


श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ताब॑न्ध॒नश्च॑रति व॒त्स एक॑ः ।

मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥६

श॒युः । प॒रस्ता॑त् । अध॑ । नु । द्वि॒ऽमा॒ता । अ॒ब॒न्ध॒नः । च॒र॒ति॒ । व॒त्सः । एकः॑ ।

मि॒त्रस्य॑ । ता । वरु॑णस्य । व्र॒तानि॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥६

शयुः । परस्तात् । अध । नु । द्विऽमाता । अबन्धनः । चरति । वत्सः । एकः ।

मित्रस्य । ता । वरुणस्य । व्रतानि । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥६

“द्विमाता । द्वे द्यावापृथिव्यौ मातरौ यस्य स द्विमाता । यद्वा द्वयोर्लोकयोर्निर्माता । सूर्यः “परस्तात् पश्चिमायां दिशि अस्तवेलायां “शयुः शयानोऽव्याप्रियमाणो भवति । “अध “नु अथोदयवेलायाम् “एकः द्यावापृथिव्योः साधारणः तयो रसादानात् “वत्सः पुत्रः “अबन्धनः अप्रतिबद्धगतिः अनालम्बनः एकः सन् “चरति नभसि गच्छति । “ता तानीमानि "मित्रस्य “वरुणस्य मित्रावरुणयोः "व्रतानि कर्माणि ॥ शयुः । ‘शीङ् स्वप्ने '। भृमृशीतॄचरि' इत्यादिना उप्रत्ययः । द्विमाता । ‘नद्यृतश्च ' इति प्राप्तस्य कपः ‘ ऋतश्छन्दसि' इति प्रतिषेधः ॥


द्वि॒मा॒ता होता॑ वि॒दथे॑षु स॒म्राळन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः ।

प्र रण्या॑नि रण्य॒वाचो॑ भरन्ते म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥७

द्वि॒ऽमा॒ता । होता॑ । वि॒दथे॑षु । स॒म्ऽराट् । अनु॑ । अग्र॑म् । चर॑ति । क्षेति॑ । बु॒ध्नः ।

प्र । रण्या॑नि । र॒ण्य॒ऽवाचः॑ । भ॒र॒न्ते॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥७

द्विऽमाता । होता । विदथेषु । सम्ऽराट् । अनु । अग्रम् । चरति । क्षेति । बुध्नः ।

प्र । रण्यानि । रण्यऽवाचः । भरन्ते । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥७

“द्विमाता द्वयोर्लोकयोर्निर्माता “विदथेषु यज्ञेषु “होता देवानामाह्वाता “सम्राट् यज्ञेषु सम्यक् राजमानोऽग्निः “अन्वग्रम् अग्रे दिवि “चरति सूर्यभूतस्तत्र वर्तते । “बुध्नः सर्वस्य कर्मणो मूलभूतः सन् “क्षेति भूमौ वसति । यद्वा । अग्रं मुख्यं भागं चरति भक्षयति। क्षेति यज्वनां गृहेषु निवसति । यद्वा । बुध्नः प्रतिष्ठा अन्तेभागी स्विष्टकृद्रूपेण । ‘ प्रतिष्ठा वै स्विष्टकृत्' इति श्रुतेः । किंच “रण्यवाचः रमणीयवाचः स्तोतारः “रण्यानि रमणीयानि स्तोत्राणि “प्र “भरन्ते प्रकर्षेण कुर्वन्ति । तदिदं देवानामैश्वर्यम् ॥ चरति । 'वादिलोपे° ' इति न निघातः ॥


शूर॑स्येव॒ युध्य॑तो अन्त॒मस्य॑ प्रती॒चीनं॑ ददृशे॒ विश्व॑मा॒यत् ।

अ॒न्तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥८

शूर॑स्यऽइव । युध्य॑तः । अ॒न्त॒मस्य॑ । प्र॒ती॒चीन॑म् । द॒दृ॒शे॒ । विश्व॑म् । आ॒ऽयत् ।

अ॒न्तः । म॒तिः । च॒र॒ति॒ । निः॒ऽसिध॑म् । गोः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥८

शूरस्यऽइव । युध्यतः । अन्तमस्य । प्रतीचीनम् । ददृशे । विश्वम् । आऽयत् ।

अन्तः । मतिः । चरति । निःऽसिधम् । गोः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥८

“अन्तमस्य समीपे वर्तमानस्य दावाग्नेः "आयत् अभिमुखमागच्छत् “विश्वं भूतजातं "प्रतीचीनं पराङ्मुखं “ददृशे दृश्यते । तत्र दृष्टान्तः । “शूरस्येव । यथा “युध्यतः युद्धं कुर्वाणस्य शूरस्य समर्थस्य राज्ञः अभिमुखमागच्छत् परबलं पराङ्मुखं दृश्यते तद्वत् । “मतिः सर्वैर्ज्ञायमानः सोऽग्निः “गोः उदकस्य “निष्षिधं हिंसिकां दीप्तिम् “अन्तः “चरति अन्तर्धारयति ॥ युध्यतः । ‘ युध संप्रहारे'। दिवादिः । तस्य शतरि रूपम् । अन्तमस्य । अन्तशब्दात् ‘ अत इनिठनौ ' इति ठन् । अतिशयेनान्तिकः इत्यर्थें तमप् । ‘ तमे तादेश्च' इति तादिलोपः । नित्त्वादाद्युदात्तः । प्रतीचीनम् । प्रतिपूर्वस्याञ्चतेः क्विन् । तस्मात् “ विभाषाञ्चेरदिक्स्त्रियाम्' इति खः । ईनादेशः । प्रत्ययस्वरः । आयत् । “या प्रापणे ' इत्यस्याङ्पूर्वस्य शतरि रूपम् ; आङ्पूर्वस्य • अय पय गतौ ' इत्यस्य शतरि रूपं वेति व्युत्पत्त्यनवधारणादनवग्रहः ॥


नि वे॑वेति पलि॒तो दू॒त आ॑स्व॒न्तर्म॒हाँश्च॑रति रोच॒नेन॑ ।

वपूं॑षि॒ बिभ्र॑द॒भि नो॒ वि च॑ष्टे म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥९

नि । वे॒वे॒ति॒ । प॒लि॒तः । दू॒तः । आ॒सु॒ । अ॒न्तः । म॒हान् । च॒र॒ति॒ । रो॒च॒नेन॑ ।

वपूं॑षि । बिभ्र॑त् । अ॒भि । नः॒ । वि । च॒ष्टे॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥९

नि । वेवेति । पलितः । दूतः । आसु । अन्तः । महान् । चरति । रोचनेन ।

वपूंषि । बिभ्रत् । अभि । नः । वि । चष्टे । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥९

“पलितः पालयिता पूर्णो वा देवानां “दूतः अग्निः “आसु ओषधीषु “नि “वेवेति नितरां व्याप्य वर्तते । 'महान् सोऽग्निः “रोंचनेन सूर्येण सह “अन्तः रोदस्योर्मध्ये “चरति । “वपूंषि नानाविधानि रूपाणि "बिभ्रत् सोऽग्निः “नः अस्मान् यष्टॄन् “अभि “वि “चष्टे विशेषेणानुग्रहदृष्ट्या पश्यति ॥ वेवेति । वी गत्यादिषु । यङ्लुकि ईडभावे रूपम् । रोचनेन । सहार्थे तृतीया । बिभ्रत् ।। डुभृञ् धारणपोषणयोः' इत्यस्य शतरि रूपम् । अभ्यस्तस्वरः ॥


विष्णु॑र्गो॒पाः प॑र॒मं पा॑ति॒ पाथ॑ः प्रि॒या धामा॑न्य॒मृता॒ दधा॑नः ।

अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥१०

विष्णुः॑ । गो॒पाः । प॒र॒मम् । पा॒ति॒ । पाथः॑ । प्रि॒या । धामा॑नि । अ॒मृता॑ । दधा॑नः ।

अ॒ग्निः । ता । विश्वा॑ । भुव॑नानि । वे॒द॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥१०

विष्णुः । गोपाः । परमम् । पाति । पाथः । प्रिया । धामानि । अमृता । दधानः ।

अग्निः । ता । विश्वा । भुवनानि । वेद । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१०

“विष्णुः व्याप्तः “गोपाः सर्वस्य गोपायिता “प्रिया प्रियतमानि “अमृता क्षयरहितानि “धामानि तेजांसि “दधानः सोऽग्निः “परमं “पाथः स्थानं “पाति रक्षति । यद्वा । धामानि लोकधारकाणि अमृता उदकानि दधानः सन् परमं पाथः उदकस्य स्थानमन्तरिक्षं पाति । सः “अग्निः “ता तानि “विश्वा सर्वाणि “भुवनानि भूतजातानि “वेद जानाति ॥ गोपाः । गोपायतेः क्विपि अतोलोपयलोपौ । अग्निष्टा इत्यत्र सहितायां ‘ युष्मत्तत्ततक्षुःष्वन्तःपादम्' इति षत्वम् ॥ ॥ २९ ॥


नाना॑ चक्राते य॒म्या॒३॒॑ वपूं॑षि॒ तयो॑र॒न्यद्रोच॑ते कृ॒ष्णम॒न्यत् ।

श्यावी॑ च॒ यदरु॑षी च॒ स्वसा॑रौ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥११

नाना॑ । च॒क्रा॒ते॒ इति॑ । य॒म्या॑ । वपूं॑षि । तयोः॑ । अ॒न्यत् । रोच॑ते । कृ॒ष्णम् । अ॒न्यत् ।

श्यावी॑ । च॒ । यत् । अरु॑षी । च॒ । स्वसा॑रौ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥११

नाना । चक्राते इति । यम्या । वपूंषि । तयोः । अन्यत् । रोचते । कृष्णम् । अन्यत् ।

श्यावी । च । यत् । अरुषी । च । स्वसारौ । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥११

"यम्या यमरूपे मिथुनभूते अहश्च रात्रिश्चेत्येते “नाना नानाविधानि "वपूंषि शुक्लकृष्णादीनि रूपाणि "चक्राते कुरुतः । “श्यावी कृष्णवर्णा “अरुषी शुक्लतया आरोचमाना “यत् ये परस्परं “स्वसारौ भवतः “तयोः मध्ये “अन्यत् अर्जुनमहः “रोचते किरणसंबन्धाद्दीप्यते । “अन्यत् रात्रिलक्षणं “कृष्णं तमःसंबन्धात् कृष्णवर्णमाभाति ॥ यम्या । सुपो डादेशः । रोचते । ‘ एकान्याभ्यां समर्थाभ्याम्' इति न निघातः ॥


मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे॑ धा॒पये॑ते समी॒ची ।

ऋ॒तस्य॒ ते सद॑सीळे अ॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥१२

मा॒ता । च॒ । यत्र॑ । दु॒हि॒ता । च॒ । धे॒नू इति॑ । स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे॑ । धा॒पये॑ते॒ इति॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची ।

ऋ॒तस्य॑ । ते इति॑ । सद॑सि । ई॒ळे॒ । अ॒न्तः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥१२

माता । च । यत्र । दुहिता । च । धेनू इति । सबर्दुघे इति सबःऽदुघे । धापयेते इति । समीची इति सम्ऽईची ।

ऋतस्य । ते इति । सदसि । ईळे । अन्तः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१२

"माता सर्वेषां निर्मातृत्वान्माता पृथिवी “च “दुहिता दूरे निहिता द्यौः च । 'दुहिता दुर्हिता दूरे हिता दोग्धेर्वा ' (निरु. ३. ४ ) इति यास्कः । एते "सबर्दुघे सबरः स्वीयस्य क्षीररूपरसस्य दोग्ध्र्यौ अत एव “धेनू जगतः प्रीणयित्र्यौ ते द्यावापृथिव्यौ “यत्र अन्तरिक्षे “समीची परस्परं संगते सत्यौ “धापयेते स्वकीयं रसमन्योन्यं पाययेते “ऋतस्य उदकस्य “सदसि स्थानभूते तस्मिन्नन्तरिक्षे “अन्तः स्थिते द्यावापृथिव्यौ “ईळे अहं स्तौमि । यद्वा । वृष्टिलक्षणं रसं द्यौः पृथिवीं धापयते आहुतिलक्षणं रसं द्यां पृथिवीति एवमन्योन्यं माता च दुहिता च भवतः । ऋतस्य सदसि स्थाने यज्ञसदने स्थितोऽहं ते उभे स्तौमि ॥ सबर्दुघे । “ सबःशब्दः क्षीरवाची' इति संप्रदायविद आहुः । तस्मिन्नुपपदे ‘ दुह प्रपूरणे' इत्यस्माद्धातोः ‘ दुहः कब्घश्च ' इति कप्प्रत्ययो घश्चान्तादेशः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । धापयेते । धेट् पाने ' इत्यस्य ण्यन्तस्य लटि निगरणचलनार्थेभ्यश्च' इति परस्मैपदे प्राप्ते ‘पादिषु धेट उपसंख्यानम् ' इत्यात्मनेपदम् । यद्वृत्तयोगादनिघातः ॥ ।


अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूध॑ः ।

ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥१३

अ॒न्यस्याः॑ । व॒त्सम् । रि॒ह॒ती । मि॒मा॒य॒ । कया॑ । भु॒वा । नि । द॒धे॒ । धे॒नुः । ऊधः॑ ।

ऋ॒तस्य॑ । सा । पय॑सा । अ॒पि॒न्व॒त॒ । इळा॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥१३

अन्यस्याः । वत्सम् । रिहती । मिमाय । कया । भुवा । नि । दधे । धेनुः । ऊधः ।

ऋतस्य । सा । पयसा । अपिन्वत । इळा । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१३

“अन्यस्याः पृथिव्याः “वत्सम् अग्निं “रिहती उदकधारारूपया जिह्वया लिहती द्यौः “मिमाय मेघद्वारा ध्वनिं करोति । “धेनुः प्रीणयित्री सा द्यौः "कया जलवर्जितया “भुवा तत्रत्यं जलमादाय स्वकीयम् “ऊधः मेघरूपं “नि “दधे उदकेन निहितमकरोत् । “सा जलवर्जिता “इळा पृथिवी “ऋतस्य सत्यभूतस्यादिस्यस्य “पयसा उदकेन "अपिन्वत वर्षकाले सिक्ता भवति । आदित्याज्जायते वृष्टिः' (मनु. ३.७६ ) इति स्मृतेः ॥ रिहती । ‘ लिह आस्वादने' इत्यस्य शतरि रूपम् । ‘शतुरनुमः' इति ङीप उदात्तत्वम् । अपिन्वत । ' पिवि सेचने' । मुचादिरात्मनेपदी । निघातः ॥


पद्या॑ वस्ते पुरु॒रूपा॒ वपूं॑ष्यू॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा ।

ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥१४

पद्या॑ । व॒स्ते॒ । पु॒रु॒ऽरूपा॑ । वपूं॑षि । ऊ॒र्ध्वा । त॒स्थौ॒ । त्रि॒ऽअवि॑म् । रेरि॑हाणा ।

ऋ॒तस्य॑ । सद्म॑ । वि । च॒रा॒मि॒ । वि॒द्वान् । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥१४

पद्या । वस्ते । पुरुऽरूपा । वपूंषि । ऊर्ध्वा । तस्थौ । त्रिऽअविम् । रेरिहाणा ।

ऋतस्य । सद्म । वि । चरामि । विद्वान् । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१४

"पद्या । जगत्स्रष्टुः परमेश्वरस्य पद्भ्यां जातत्वात् पद्या भूमिः । तथा च मन्त्रवर्णः -- ‘पद्यांया भूमिः' (ऋ. सं. १०.९०.१४) इति । यद्वा पादसंचारे साधुः पद्या भूमिः “पुरुरूपा नानाविधस्वरूपाणि “वपूंषि स्थावरजङ्गमात्मकानि रूपाणि "वस्ते आच्छादयति । सैषा भूमिः “ऊर्ध्वा उत्तरवेद्यात्मनोन्नता सती स्वसारभूतेन हविषा “त्र्यविम् । सार्धसंवत्सरवयस्को वत्सस्त्र्यविरित्युच्यते । तस्प्रमाणमादित्यम्। त्रीन् लोकान् अवति स्वतेजसा व्याप्नोतीति त्र्यविरिति वा । “रेरिहाणा लिहती “तस्थौ । “ऋतस्य सत्यभूतस्यादित्यस्य "सद्म स्थानं “विद्वान् जानानोऽहं “वि “चरामि हविर्भिः तमादित्यं परिचरामि ॥ पद्या । पादशब्दात् ' भवे छन्दसि' इति यत् । “पद्यत्यतदर्थे ' ( पा. सू. ६.३.५३ ) इति पादस्य पद्भावः । यद्वा । तत्र साधुः' इति यत् । यतोऽनावः' इति


प॒दे इ॑व॒ निहि॑ते द॒स्मे अ॒न्तस्तयो॑र॒न्यद्गुह्य॑मा॒विर॒न्यत् ।

स॒ध्री॒ची॒ना प॒थ्या॒३॒॑ सा विषू॑ची म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥१५

प॒दे इ॒वेति॑ प॒देऽइ॑व । निहि॑ते॒ इति॒ निऽहि॑ते । द॒स्मे । अ॒न्तरिति॑ । तयोः॑ । अ॒न्यत् । गुह्य॑म् । आ॒विः । अ॒न्यत् ।

स॒ध्री॒ची॒ना । प॒थ्या॑ । सा । विषू॑ची । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥१५

पदे इवेति पदेऽइव । निहिते इति निऽहिते । दस्मे । अन्तरिति । तयोः । अन्यत् । गुह्यम् । आविः । अन्यत् ।

सध्रीचीना । पथ्या । सा । विषूची । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१५

“पदेइव । पद्येते ज्ञायेते तत्तदसाधारणलिङ्गेनेति पदे । अहश्च रात्रिश्चेत्येते "दस्मे सर्वैर्दर्शनीये ते उभे “अन्तः नभसि मध्ये “निहिते स्थापिते इव वर्तेते । “तयोः अहोरात्रयोः “अन्यत् रात्रिलक्षणं “गुह्यम् अप्रकाशमानतया गूढमिवास्ते । “अन्यत् अहः “आविः सूर्यप्रकाशेन प्रकटं भवति । “सधीचीना अहोरात्रयोः परस्परमेलनरूपा “पथ्या मार्गः । काल इत्यर्थः। “सा “विषूची । पुण्यकृतोऽपुण्यकृतश्च प्राप्नोतीति विषूची भवति । सर्वे जना अहोरात्रयोर्वर्तन्ते । यद्वा । पदेइव देवमनुष्यादीनां स्थानभूते द्यावापृथिव्यौ अन्तरन्तरिक्षे निहिते वर्तेते । तयोरन्यत् अन्या द्यौः गुह्यमस्माभिः अदृश्यमानतया गूढा वर्तते । अन्या पृथिवी आविः सर्वैः दृश्यमानत्वेन प्रकटा भवति। सध्रीचीनेति पूर्ववत् ॥ सध्रीचीना । सहपूर्वादञ्चतेः क्विन् । 'सहस्य सध्रिः' इति सध्र्यादेशः । ‘विभाषाञ्चेरदिक्स्त्रियाम्' इति स्वः(स्वरः) ॥ ॥ ३० ॥


आ धे॒नवो॑ धुनयन्ता॒मशि॑श्वीः सब॒र्दुघा॑ः शश॒या अप्र॑दुग्धाः ।

नव्या॑नव्या युव॒तयो॒ भव॑न्तीर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥१६

आ । धे॒नवः॑ । धु॒न॒य॒न्ता॒म् । अशि॑श्वीः । स॒बः॒ऽदुघाः॑ । श॒श॒याः । अप्र॑ऽदुग्धाः ।

नव्याः॑ऽनव्याः । यु॒व॒तयः॑ । भव॑न्तीः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥१६

आ । धेनवः । धुनयन्ताम् । अशिश्वीः । सबःऽदुघाः । शशयाः । अप्रऽदुग्धाः ।

नव्याःऽनव्याः । युवतयः । भवन्तीः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१६

“धेनवः वृष्टिद्वारा सर्वस्य जगतः प्रीणयित्र्यः “अशिश्वीः शिशुरहिताः । यद्वा शिशवो न भवन्तीत्यशिश्वीः । “शशयाः नभसि शयाना वर्तमानाः केनापि "अप्रदुग्धाः अक्षीणरसाः "सबर्दुघाः उदकलक्षणस्य क्षीरस्य दोग्ध्र्यः “युवतयः परस्परमिश्रणोपेताः “नव्यानव्याः अतिशयेन नूतनाः “भवन्तीः दिशो मेघा वा “आ “धुनयन्ताम् आदुहन्तु । मेघपक्षे अशिश्वीर्भवन्तीरित्यत्र लिङ्गव्यत्ययः ॥


यद॒न्यासु॑ वृष॒भो रोर॑वीति॒ सो अ॒न्यस्मि॑न्यू॒थे नि द॑धाति॒ रेत॑ः ।

स हि क्षपा॑वा॒न्स भग॒ः स राजा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥१७

यत् । अ॒न्यासु॑ । वृ॒ष॒भः । रोर॑वीति । सः । अ॒न्यस्मि॑न् । यू॒थे । नि । द॒धा॒ति॒ । रेतः॑ ।

सः । हि । क्षपा॑ऽवान् । सः । भगः॑ । सः । राजा॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥१७

यत् । अन्यासु । वृषभः । रोरवीति । सः । अन्यस्मिन् । यूथे । नि । दधाति । रेतः ।

सः । हि । क्षपाऽवान् । सः । भगः । सः । राजा । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१७

“वृषभः अपां वर्षकः “यत् यः पर्जन्यात्मेन्द्रः “अन्यासु दिक्षु “रोरवीति मेघद्वारा भृशं शब्दं करोति “सः पर्जन्य इन्द्रः "अन्यस्मिन् “यूथे दिशां वृन्दे “रेतः उदकं “नि “दधाति तत्र वर्षति । लोके' हि वृषभः कासुचिद्गोषु रेतःसेकार्थं रवं करोत्यन्यस्मिन् गोयूथे रेतः सिञ्चति तद्वत् । “सः इन्द्रः “क्षपावान् । क्षिपति शत्रूनुदकं वेति क्षेपणवान् । यद्वा । क्षपा रात्रिः ।' तथा रात्रिपर्याययागानां स्तोत्राणां भागभूता या रात्रिः सोच्यते । तद्वान् । “सः “भगः सर्वैर्भजनीयः । “सः "राजा “हि तत्तत्कर्मानुरूपफलप्रदानेन सर्वेषां राजा खलु ॥ रोरवीति । ‘रु शब्दे' इत्यस्य यङ्लुगन्तस्य लटि रूपम् । एकान्याभ्यां समर्थाभ्याम्' इति प्रथमस्य न निघातः । यूथे । ‘यु मिश्रणे'। ‘ तिथपृष्ठगूथयूथप्रोथाः' ( उ. सू. २. १६९ ) इति थक्प्रत्ययान्तत्वेन निपातनाद्दीर्घः । रेतः । ‘रीङ् क्षरणे' इत्यस्मात् ‘स्रुरीभ्यां तुट् च' इत्यसुन्प्रत्ययस्तुडागमश्च । नित्त्वादाद्युदात्तः ॥


वी॒रस्य॒ नु स्वश्व्यं॑ जनास॒ः प्र नु वो॑चाम वि॒दुर॑स्य दे॒वाः ।

षो॒ळ्हा यु॒क्ताः पञ्च॑प॒ञ्चा व॑हन्ति म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥१८

वी॒रस्य॑ । नु । सु॒ऽअश्व्य॑म् । ज॒ना॒सः॒ । प्र । नु । वो॒चा॒म॒ । वि॒दुः । अ॒स्य॒ । दे॒वाः ।

षो॒ळ्हा । यु॒क्ताः । पञ्च॑ऽपञ्च । आ । व॒ह॒न्ति॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥१८

वीरस्य । नु । सुऽअश्व्यम् । जनासः । प्र । नु । वोचाम । विदुः । अस्य । देवाः ।

षोळ्हा । युक्ताः । पञ्चऽपञ्च । आ । वहन्ति । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१८

हे “जनासः जनाः “वीरस्य शूरस्येन्द्रस्य “स्वश्व्यं शोभनाश्वोपेतत्वं “नु क्षिप्रं “प्र “वोचाम प्रकर्षेण वदाम । तथा “देवाः अपि “अस्य इन्द्रस्य स्वश्वत्वं “नु क्षिप्रं “विदुः जानन्ति । किं तत्स्वश्वत्वम् । तदुच्यते । “षोळ्हा मासाना द्वन्द्वयोगकाले षोढा दृश्यमाना ऋतवोऽश्वा निरूप्यन्ते । ते च षट्संख्याका ऋतवो हेमन्तशिशिरयोः समासेन “पञ्चपञ्च “युक्ताः सन्तः कालात्मकमिन्द्रम् “आ “वहन्ति । तदिदम् इन्द्रस्य स्वश्वत्वं यदृतुभिरूढत्वम् ॥ षोळ्हा । षष्शब्दात् ‘संख्याया विधार्थे धा ' इति धाप्रत्ययः । षष उत्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च' (पा.सू. ६.३. १०९. ३-४) इत्युत्वं ष्टुत्वं च । प्रत्ययस्वरः ॥


त्वष्ट्रे पशौ हविषोऽनुवाक्या देवस्त्वष्टा ' इत्येषा । सूत्रितं च- देवस्त्वष्टा सविता विश्वरूपो देव त्वष्टर्यद्ध चारुत्वमानट् ' ( आश्व. श्रौ. ३.८) इति ॥

दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान ।

इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥१९

दे॒वः । त्वष्टा॑ । स॒वि॒ता । वि॒श्वऽरू॑पः । पु॒पोष॑ । प्र॒ऽजाः । पु॒रु॒धा । ज॒जा॒न॒ ।

इ॒मा । च॒ । विश्वा॑ । भुव॑नानि । अ॒स्य॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥१९

देवः । त्वष्टा । सविता । विश्वऽरूपः । पुपोष । प्रऽजाः । पुरुधा । जजान ।

इमा । च । विश्वा । भुवनानि । अस्य । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥१९

“सविता अन्तर्यामितया सर्वस्य प्रेरकः “विश्वरूपः नानाविधरूपः “त्वष्टा त्वष्टृनामकः “देवः “प्रजाः “पुरुधा बहुधा “जजान जनयति । ताश्च “पुपोष पोषयति । “इमा इमानि “विश्वा विश्वानि सर्वाणि “भुवनानि भूतजातानि “च "अस्य त्वष्टुः संबन्धीनि ॥ विश्वरूपः । ‘ बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् ॥


म॒ही समै॑रच्च॒म्वा॑ समी॒ची उ॒भे ते अ॑स्य॒ वसु॑ना॒ न्यृ॑ष्टे ।

शृ॒ण्वे वी॒रो वि॒न्दमा॑नो॒ वसू॑नि म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥२०

म॒ही इति॑ । सम् । ऐ॒र॒त् । च॒म्वा॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । उ॒भे इति॑ । ते इति॑ । अ॒स्य॒ । वसु॑ना । न्यृ॑ष्टे॒ इति॒ निऽऋ॑ष्टे ।

शृ॒ण्वे । वी॒रः । वि॒न्दमा॑नः । वसू॑नि । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥२०

मही इति । सम् । ऐरत् । चम्वा । समीची इति सम्ऽईची । उभे इति । ते इति । अस्य । वसुना । न्यृष्टे इति निऽऋष्टे ।

शृण्वे । वीरः । विन्दमानः । वसूनि । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥२०

“मही महत्यौ "समीची परस्परं संगते “चम्वा । चमन्त्यदन्त्यनयोः देवमनुष्याः इति चम्वौ। यद्वा । चम्येते अद्येते भूतजातैरिति चम्वौ द्यावापृथिव्यौ । “समैरत् इन्द्रः प्रजापश्वादिभिः सम्यगयोजयत् । “ते “उभे द्यावापृथिव्यौ “अस्य इन्द्रस्य “वसुना तेजसा धनेन वा “न्यृष्टे नितरां व्याप्ते भवतः । “वीरः समर्थः स इन्द्रः “वसूनि शत्रूनभिभूय तदीयानि धनानि "विन्दमानः लभमानः सन् “शृण्वे सर्वैः श्रूयते । ‘तवेदिदमभितश्चेकिते वसु' (ऋ. सं. १.५३.३ ) इत्यादिषु दृष्टत्वात् ॥ ऐरत् । ‘ ईर गतौ ' इत्यस्य लङि रूपम् । न्यृष्टे । 'ऋषी गतौ ' । कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः स्वरः । शृण्वे । ‘ श्रु श्रवणे' इत्यस्य व्यत्ययेन कर्मणि श्नुः । ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः । विन्दमानः । ' विद्लृ लाभे ' इत्यस्य लटि शानचि रूपम् । तस्य लसार्वधातुकस्वरे धातुस्वरः ॥


इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा॑या॒ उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा॑ ।

पु॒र॒ःसद॑ः शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥२१

इ॒माम् । च॒ । नः॒ । पृ॒थि॒वीम् । वि॒श्वऽधा॑याः । उप॑ । क्षे॒ति॒ । हि॒तऽमि॑त्रः । न । राजा॑ ।

पु॒रः॒ऽसदः॑ । श॒र्म॒ऽसदः॑ । न । वी॒राः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥२१

इमाम् । च । नः । पृथिवीम् । विश्वऽधायाः । उप । क्षेति । हितऽमित्रः । न । राजा ।

पुरःऽसदः । शर्मऽसदः । न । वीराः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥२१

“विश्वधायाः विश्वस्य धाता सर्वान्नो वा “नः अस्माकं “राजा इन्द्रः “इमां “पृथिवीम् अन्तरिक्षं “च “उप तयोः समीपे “क्षेति निवसति । तत्र दृष्टान्तः । “हितमित्रो “न । यथा कस्यचित् हितोपदेष्टा सुहृत् समीपे निवसति तद्वत् । “वीराः समर्था युद्धसहाया मरुतः “पुरःसदः युद्धार्थं पुरतो निश्चयेन गन्तार इन्द्रस्य “शर्मसदो “न । नश्चार्थे । शर्मणि गृहे सीदन्तश्च भवन्ति । यत्र यत्रासौ तत्र तत्र संनिधिं कुर्वाणा इत्यर्थः ॥ क्षेति। ‘ क्षि निवासगत्योः' इत्यस्य लटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । निघातः ॥


नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो॑ र॒यिं त॑ इन्द्र पृथि॒वी बि॑भर्ति ।

सखा॑यस्ते वाम॒भाज॑ः स्याम म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥२२

निः॒ऽसिध्व॑रीः । ते॒ । ओष॑धीः । उ॒त । आपः॑ । र॒यिम् । ते॒ । इ॒न्द्र॒ । पृ॒थि॒वी । बि॒भ॒र्ति॒ ।

सखा॑यः । ते॒ । वा॒म॒ऽभाजः॑ । स्या॒म॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥२२

निःऽसिध्वरीः । ते । ओषधीः । उत । आपः । रयिम् । ते । इन्द्र । पृथिवी । बिभर्ति ।

सखायः । ते । वामऽभाजः । स्याम । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥२२

हे पर्जन्यात्मक “इन्द्र “ओषधीः ओषधयः “ते “निष्षिध्वरीः निष्षिध्वर्यो नितरां त्वत्कर्तृकसिद्धिमत्यः । "उत अपि च “आपः त्वत्तो निःसृताः । “पृथिवी “ते तव भोगयोग्यं “रयिं धनं “बिभर्ति । पुरू वसूनि पृथिवी बिभर्ति' (ऋ. सं. ३.५१.५) इति हि निगमः । ततः “ते तव “सखायः हविष्प्रदानेनोपकारकाः स्तोतारः वयं “वामभाजः "स्याम सर्वे वननीयधनभागिनो भवेम । तदेतद्देवानां महदैश्वर्यम् ॥ निष्षिध्वरीः । ‘ षिधु संराद्धौ । संपदादिलक्षणो भावे क्विप् । तदस्यास्ति इत्यर्थे 'छन्दसीवनिपौ° ' इति वनिप् । वनो र च' इति ङीप् रेफश्च । निसा सह समासः । निसः सकारं छान्दसत्वादनादृत्य • उपसर्गात्सुनोति' इत्यादिना षत्वम् । डीपः पित्त्वादनुदात्तत्वे धातुस्वरः । बिभर्ति । ‘ डुभृञ् धारणपोषणयोः' इत्यस्य लटि ‘ भृञामित्' इत्यभ्यासस्येत्वम् । निघातः । वामभाजः । ‘ भज सेवायाम् ' । ‘ भजो ण्विः ' ( पा. सू. ३:२:६२ ) इति ण्विः । कृदुत्तरपदस्वरः ॥ ॥ ३१ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥


इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये तृतीयाष्टके तृतीयोऽध्यायः समाप्तः ॥

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.५५&oldid=197883" इत्यस्माद् पुनः प्राप्तिः