ऋग्वेदः सूक्तं ३.५४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ३.५४ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ३.५३ ऋग्वेदः - मण्डल ३
सूक्तं ३.५४
प्रजापतिर्वैश्वामित्रः, प्रजापतिर्वाच्यो वा।
सूक्तं ३.५५ →
दे. विश्वे देवाः । त्रिष्टुप्


इमं महे विदथ्याय शूषं शश्वत्कृत्व ईड्याय प्र जभ्रुः ।
शृणोतु नो दम्येभिरनीकैः शृणोत्वग्निर्दिव्यैरजस्रः ॥१॥
महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ्चरति प्रजानन् ।
ययोर्ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः ॥२॥
युवोरृतं रोदसी सत्यमस्तु महे षु णः सुविताय प्र भूतम् ।
इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम् ॥३॥
उतो हि वां पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः ।
नरश्चिद्वां समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः ॥४॥
को अद्धा वेद क इह प्र वोचद्देवाँ अच्छा पथ्या का समेति ।
ददृश्र एषामवमा सदांसि परेषु या गुह्येषु व्रतेषु ॥५॥
कविर्नृचक्षा अभि षीमचष्ट ऋतस्य योना विघृते मदन्ती ।
नाना चक्राते सदनं यथा वेः समानेन क्रतुना संविदाने ॥६॥
समान्या वियुते दूरेअन्ते ध्रुवे पदे तस्थतुर्जागरूके ।
उत स्वसारा युवती भवन्ती आदु ब्रुवाते मिथुनानि नाम ॥७॥
विश्वेदेते जनिमा सं विविक्तो महो देवान्बिभ्रती न व्यथेते ।
एजद्ध्रुवं पत्यते विश्वमेकं चरत्पतत्रि विषुणं वि जातम् ॥८॥
सना पुराणमध्येम्यारान्महः पितुर्जनितुर्जामि तन्नः ।
देवासो यत्र पनितार एवैरुरौ पथि व्युते तस्थुरन्तः ॥९॥
इमं स्तोमं रोदसी प्र ब्रवीम्यृदूदराः शृणवन्नग्निजिह्वाः ।
मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः ॥१०॥
हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे पत्यमानः ।
देवेषु च सवितः श्लोकमश्रेरादस्मभ्यमा सुव सर्वतातिम् ॥११॥
सुकृत्सुपाणिः स्ववाँ ऋतावा देवस्त्वष्टावसे तानि नो धात् ।
पूषण्वन्त ऋभवो मादयध्वमूर्ध्वग्रावाणो अध्वरमतष्ट ॥१२॥
विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः ।
सरस्वती शृणवन्यज्ञियासो धाता रयिं सहवीरं तुरासः ॥१३॥
विष्णुं स्तोमासः पुरुदस्ममर्का भगस्येव कारिणो यामनि ग्मन् ।
उरुक्रमः ककुहो यस्य पूर्वीर्न मर्धन्ति युवतयो जनित्रीः ॥१४॥
इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा ।
पुरंदरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा भूरि पश्वः ॥१५॥
नासत्या मे पितरा बन्धुपृच्छा सजात्यमश्विनोश्चारु नाम ।
युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैरदब्धा ॥१६॥
महत्तद्वः कवयश्चारु नाम यद्ध देवा भवथ विश्व इन्द्रे ।
सख ऋभुभिः पुरुहूत प्रियेभिरिमां धियं सातये तक्षता नः ॥१७॥
अर्यमा णो अदितिर्यज्ञियासोऽदब्धानि वरुणस्य व्रतानि ।
युयोत नो अनपत्यानि गन्तोः प्रजावान्नः पशुमाँ अस्तु गातुः ॥१८॥
देवानां दूतः पुरुध प्रसूतोऽनागान्नो वोचतु सर्वताता ।
शृणोतु नः पृथिवी द्यौरुतापः सूर्यो नक्षत्रैरुर्वन्तरिक्षम् ॥१९॥
शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः ।
आदित्यैर्नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम् ॥२०॥
सदा सुगः पितुमाँ अस्तु पन्था मध्वा देवा ओषधीः सं पिपृक्त ।
भगो मे अग्ने सख्ये न मृध्या उद्रायो अश्यां सदनं पुरुक्षोः ॥२१॥
स्वदस्व हव्या समिषो दिदीह्यस्मद्र्यक्सं मिमीहि श्रवांसि ।
विश्वाँ अग्ने पृत्सु ताञ्जेषि शत्रूनहा विश्वा सुमना दीदिही नः ॥२२॥


सायणभाष्यम्

पञ्चमेऽनुवाके नव सूक्तानि । तत्र ‘इमं महे' इति द्वाविंशत्यृचं प्रथमं सूक्तं त्रैष्टुभं वैश्वदेवं विश्वामित्रपुत्रस्य वाक्पुत्रस्य वा प्रजापतेरार्षम् । अत्रेयमनुक्रमणिका - इमं महे द्वयधिकोक्तगोत्रः प्रजापतिर्हि वैश्वदेवं ह ' इति । अस्मिन् सूक्ते आद्याग्नेयी ततः पराः सप्तर्चो द्यावापृथिव्यास्ततः परा द्युदेवताका । दशमी द्यावापृथिव्यैकादशी सावित्री ततः परं 'सुकृत्' इति त्वाष्ट्री आर्भवी च ‘ विद्युद्रथाः' इति मारुती सारस्वती च ततः परं तिस्रो विष्ण्विन्द्राग्निदेवताकाः ‘स्वदस्व' इत्याग्नेयीति । एवं वैश्वदेवं सूक्तम्। सूक्तविनियोगो लैङ्गिकः । अग्निप्रणयने राजन्यस्य ‘इमं महे ' इति प्रतिपत् । ‘पञ्चम्यां पौर्णमास्याम्' इत्यत्र सूत्रितम् - इमं महे विदथ्याय शूषम् ' (आश्व, श्रौ. २. १७) इति ।।


इ॒मं म॒हे वि॑द॒थ्या॑य शू॒षं शश्व॒त्कृत्व॒ ईड्या॑य॒ प्र ज॑भ्रुः ।

शृ॒णोतु॑ नो॒ दम्ये॑भि॒रनी॑कैः शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः ॥१

इ॒मम् । म॒हे । वि॒द॒थ्या॑य । शू॒षम् । शश्व॑त् । कृत्वः॑ । ईड्या॑य । प्र । ज॒भ्रुः॒ ।

शृ॒णोतु॑ । नः॒ । दम्ये॑भिः । अनी॑कैः । शृ॒णोतु॑ । अ॒ग्निः । दि॒व्यैः । अज॑स्रः ॥१

इमम् । महे । विदथ्याय । शूषम् । शश्वत् । कृत्वः । ईड्याय । प्र । जभ्रुः ।

शृणोतु । नः । दम्येभिः । अनीकैः । शृणोतु । अग्निः । दिव्यैः । अजस्रः ॥१

“महे महते “विदथ्याय विदथे यज्ञे मन्थनेन निष्पाद्यमानाय “ईड्याय सर्वैः स्तुत्यायाग्नये “शूषं सुखकरम् “इमं स्तोमं “शश्वत्कृत्वः भूयो भूयः “प्र “जभ्रुः प्रभरन्ति प्रकर्षेण धारयन्ति । उच्चारयन्तीत्यर्थः । सः “अग्निः “दम्येभिः परेषां दमनकुशलैः दमे गृहे विद्यमानैवर्वा “अनीकैः तेजोभिः युक्तः सन् "नः अस्मदीयमिमं स्तोमं “शृणोतु । “दिव्यैः दिवि भवैस्तेजोभिः "अजस्रः निरन्तरं युक्तोऽग्निरिमं स्तोमं “शृणोतु । शश्वत्कृत्व ईड्याय प्र जभ्रुरिति स्वानामेवैनं तच्छ्रैष्यं । गमयति' (ऐ. ब्रा. १. २८) इति ब्राह्मणानुसारेण महदादिगुणविशिष्टाय यजमानाय इममग्निं प्रजभ्रुः प्रहरन्त्यृत्विज इति वा व्याख्येयम् । उत्तरोऽर्धर्चः समान एव ॥ विदथ्याय। तत्र भव इत्यर्थे ‘भवे छन्दसि ' इति यत्। तित्स्वरितः । ईड्याय । ईडवन्द ' इत्यादिना उदात्तत्वम् । दम्येभिः । तत्र साधुः' इति यत् । ‘ यतो नावः' इत्याद्युदात्तत्वम्। दिव्यैः । दिवमर्हतीत्यर्थे ‘ छन्दसि च ' इति यप्रत्ययः । अजस्रः । ‘ जसु मोक्षणे'। नञ्पूर्वः । ' नमिकम्पि ' इत्यादिना ताच्छीलिको रप्रत्ययः । नञा समासे तस्य स्वरः ॥


महि॑ म॒हे दि॒वे अ॑र्चा पृथि॒व्यै कामो॑ म इ॒च्छञ्च॑रति प्रजा॒नन् ।

ययो॑र्ह॒ स्तोमे॑ वि॒दथे॑षु दे॒वाः स॑प॒र्यवो॑ मा॒दय॑न्ते॒ सचा॒योः ॥२

महि॑ । म॒हे । दि॒वे । अ॒र्च॒ । पृ॒थि॒व्यै । कामः॑ । मे॒ । इ॒च्छन् । च॒र॒ति॒ । प्र॒ऽजा॒नन् ।

ययोः॑ । ह॒ । स्तोमे॑ । वि॒दथे॑षु । दे॒वाः । स॒प॒र्यवः॑ । मा॒दय॑न्ते । सचा॑ । आ॒योः ॥२

महि । महे । दिवे । अर्च । पृथिव्यै । कामः । मे । इच्छन् । चरति । प्रऽजानन् ।

ययोः । ह । स्तोमे । विदथेषु । देवाः । सपर्यवः । मादयन्ते । सचा । आयोः ॥२

हे स्तोतः “महे महत्यै "दिवे द्युलोकदेवतायै महत्यै “पृथिव्यै च "महि महत् त्वं “प्रजानन् स्तोत्रम् “अर्च कुरु। “मे मम “कामः मनोरथः सर्वान् भोगान् “इच्छन् “चरति सर्वत्र वर्तते । "आयोः मनुष्यस्य “विदथेषु यज्ञेषु “ययोः द्यावापृथिव्योः “स्तोमे स्तोत्रे “सपर्यवः पूजाकामाः “देवाः स्तोतारो वा “सचा “मादयन्ते "ह सह माद्यन्ति खलु ।। पृथिव्यै। उदात्तयणः ' इति विभक्तेरुदात्तत्वम् । सपर्यवः । सपर्यामिच्छतीत्यर्थे सुपः क्यच् ॥


यु॒वोरृ॒तं रो॑दसी स॒त्यम॑स्तु म॒हे षु ण॑ः सुवि॒ताय॒ प्र भू॑तम् ।

इ॒दं दि॒वे नमो॑ अग्ने पृथि॒व्यै स॑प॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न॑म् ॥३

यु॒वोः । ऋ॒तम् । रो॒द॒सी॒ इति॑ । स॒त्यम् । अ॒स्तु॒ । म॒हे । सु । नः॒ । सु॒वि॒ताय॑ । प्र । भू॒त॒म् ।

इ॒दम् । दि॒वे । नमः॑ । अ॒ग्ने॒ । पृ॒थि॒व्यै । स॒प॒र्यामि॑ । प्रय॑सा । यामि॑ । रत्न॑म् ॥३

युवोः । ऋतम् । रोदसी इति । सत्यम् । अस्तु । महे । सु । नः । सुविताय । प्र । भूतम् ।

इदम् । दिवे । नमः । अग्ने । पृथिव्यै । सपर्यामि । प्रयसा । यामि । रत्नम् ॥३

हे “रोदसी द्यावापृथिव्यौ “युवोः युवयोः “ऋतम् आनृशंस्यं “सत्यं यथार्थम् “अस्तु । युवां "नः अस्माकं “महे महते “सुविताय अभ्युदयाय यज्ञसमाप्त्यर्थं "सु सुष्टु “प्र “भूतं प्रभवतम् । हे “अग्ने “दिवे “पृथिव्यै च “इदं “नमः अस्तु । “प्रयसा हविर्लक्षणेनान्नेन “सपर्यामि परिचरामि । “रत्नम् उत्तमं धनं “यामि याचे। यातिर्याञ्चाकर्मा ईमह इत्यादिषु पठितत्वात् ॥ सु। संहितायां ‘सुञः ' (पा. सू. ८. ३. १०७ ) इति षत्वम्। नः। संहितायां ‘नश्च धातुस्थोरुषुभ्यः' इति णत्वम् । सुविताय । इण् गतौ । अधिकरणे क्तः । शोभनं गम्यतेऽस्मिन्निति तत् सुवितम् । उवङादेशः छान्दसः। भूतम् । भवतेर्लोटि बहुलं छन्दसि ' इति शपो लुकि रूपम् । यद्वा । छान्दसे लुङि सिचः ‘ गातिस्था° ' इति लुक् । निघातः । दिवे पृथिव्यै । ' नमः स्वस्ति°' (पा. सू. २. ३.१६ ) इत्यादिना चतुर्थी । सपर्यामि । कण्ड्वादिः परिचरणे वर्तते । प्रत्ययस्वरः। यामि । यातेर्लटि रूपम् । वाक्यभेदादनिघातः ।।


उ॒तो हि वां॑ पू॒र्व्या आ॑विवि॒द्र ऋता॑वरी रोदसी सत्य॒वाच॑ः ।

नर॑श्चिद्वां समि॒थे शूर॑सातौ ववन्दि॒रे पृ॑थिवि॒ वेवि॑दानाः ॥४

उ॒तो इति॑ । हि । वा॒म् । पू॒र्व्याः । आ॒ऽवि॒वि॒द्रे । ऋत॑वरी॒ इत्यृत॑ऽवरी । रो॒द॒सी॒ इति॑ । स॒त्य॒ऽवाचः॑ ।

नरः॑ । चि॒त् । वा॒म् । स॒म्ऽइ॒थे । शूर॑ऽसातौ । व॒व॒न्दि॒रे । पृ॒थि॒वि॒ । वेवि॑दानाः ॥४

उतो इति । हि । वाम् । पूर्व्याः । आऽविविद्रे । ऋतवरी इत्यृतऽवरी । रोदसी इति । सत्यऽवाचः ।

नरः । चित् । वाम् । सम्ऽइथे । शूरऽसातौ । ववन्दिरे । पृथिवि । वेविदानाः ॥४

“उतो अपि च हे “ऋतावरी । ऋतं सत्यम् । तद्वत्यौ हे “रोदसी द्यावापृथिव्यौ “पूर्व्याः पूर्वे भवाः पुरातनाः “सत्यवाचः महर्षयः "वां युवाभ्याम् “आविविद्रे “हि तं तमपेक्षितमर्थं लेभिरे खलु । तथा हे “पृथिवि “शूरसातौ शूराणां सातिर्लाभो यस्मिन् तस्मिन् “समिथे संगमननिमित्ते युद्धे “नरश्चित् अद्यतनाः मनुष्याश्च “वां युवयोर्माहात्म्यं “वेविदानाः जानन्तः अतः द्यावापृथिव्यौ “ववन्दिरे स्तुवन्ति ॥ आविविद्रे । “विद्लृ लाभे' इत्ययमुभयपदी । लिटि ‘इरयो रे' इति रे इत्यादेशः । ‘ सह सुपा ' इत्यत्र 'सह ' इति योगविभागादाङा सह समासः । समिथे। ‘ इण् गतौ ' । ' समीणः ' ( उ. सू. २.१६८ ) इति थक्प्रत्ययः । प्रत्ययस्वरः ॥


को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑चद्दे॒वाँ अच्छा॑ प॒थ्या॒३॒॑ का समे॑ति ।

ददृ॑श्र एषामव॒मा सदां॑सि॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥५

कः । अ॒द्धा । वे॒द॒ । कः । इ॒ह । प्र । वो॒च॒त् । दे॒वान् । अच्छ॑ । प॒थ्या॑ । का । सम् । ए॒ति॒ ।

ददृ॑श्रे । ए॒षा॒म् । अ॒व॒मा । सदां॑सि । परे॑षु । या । गुह्ये॑षु । व्र॒तेषु॑ ॥५

कः । अद्धा । वेद । कः । इह । प्र । वोचत् । देवान् । अच्छ । पथ्या । का । सम् । एति ।

ददृश्रे । एषाम् । अवमा । सदांसि । परेषु । या । गुह्येषु । व्रतेषु ॥५

“कः वा “अद्धा सत्यभूतं तादृशमर्थं "वेद वेत्ति । “कः वा “इह अस्मिन् प्रज्ञातमर्थं “प्र “वोचत् प्र ब्रवीति । किं तत्तदुच्यते । “देवान् "अच्छ अभिलक्ष्य “का “पथ्या पथि साधुः समीचीनः को वा मार्गः “समेति सम्यक् प्राप्नोतीति । इममर्थं न कश्चिज्जानाति । न कोऽपि ब्रवीति । किं ते देवा विद्यन्ते । बाढमित्याह । “एषां दिवि स्थितानां नक्षत्ररूपाणां देवानाम् “अवमा अधोमुखानि “सदांसि स्थानानि “ददृशे दृश्यन्ते । तथापि “परेषु उत्तमेषु “गुह्येषु दुर्ज्ञानेषु "व्रतेषु कर्मसु अनुष्ठितेषु “या यानि दिवि देवस्थानानि लभ्यन्ते तत्रागन्तुं को मार्ग इति वेदमन्तरेण न कश्चिज्जानातीत्यभिप्रायः ॥ अद्धा । स्वरादिष्वन्तोदात्तत्वेन पठितत्वादन्तोदात्तः । वोचत् । ‘ब्रूञ् व्यक्तायां वाचि'। लुङि • ब्रुवो वचिः' इति वच्यादेशः । ‘ अस्यतिवक्तिख्यातिभ्योऽङ्' इति च्लेरादेशः । ‘वच उम्' इत्युमागमः । निघातः ॥ ॥ २४ ॥


क॒विर्नृ॒चक्षा॑ अ॒भि षी॑मचष्ट ऋ॒तस्य॒ योना॒ विघृ॑ते॒ मद॑न्ती ।

नाना॑ चक्राते॒ सद॑नं॒ यथा॒ वेः स॑मा॒नेन॒ क्रतु॑ना संविदा॒ने ॥६

क॒विः । नृ॒ऽचक्षाः॑ । अ॒भि । सी॒म् । अ॒च॒ष्ट॒ । ऋ॒तस्य॑ । योना॑ । विघृ॑ते॒ इति॒ विऽघृ॑ते । मद॑न्ती॒ इति॑ ।

नाना॑ । च॒क्रा॒ते॒ इति॑ । सद॑नम् । यथा॑ । वेः । स॒मा॒नेन॑ । क्रतु॑ना । सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने ॥६

कविः । नृऽचक्षाः । अभि । सीम् । अचष्ट । ऋतस्य । योना । विघृते इति विऽघृते । मदन्ती इति ।

नाना । चक्राते इति । सदनम् । यथा । वेः । समानेन । क्रतुना । संविदाने इति सम्ऽविदाने ॥६

“कविः क्रान्तदर्शी "नृचक्षाः नृणां द्रष्टा सूर्यः “सीम् एते द्यावापृथिव्यौ “अभि “अचष्ट सर्वतः पश्यति । “ऋतस्य “योना जलस्य स्थानेऽन्तरिक्षे “मदन्ती हृष्यन्त्यौ “विघृते । घृतमस्या ओषधयो जलममुष्या इति । एवंविधरसोपेते “समानेन । ' समानमेतदुदकमुच्चैत्यव चाहभिः । भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः' (ऋ. सं. १. १६४. ५१ ) इति परस्परप्रीणनाख्येनैकेन “क्रतुना कर्मणा “संविदाने परस्परमैकमत्यं प्राप्ते ते द्यावापृथिव्यौ “नाना पृथग्भूतं “सदनं स्थानं “चक्राते। तथा च श्रुतिः - इमौ वै लोकौ सहास्तां तौ व्यैताम् ' ( ऐ. ब्रा. ४. २७) इति । तत्र दृष्टान्तः । “यथा “वेः कुलायं नाना भवति तद्वत् ॥ अचष्ट । ' चक्षिङ व्यक्तायां वाचि ' इत्यस्य लङि स्कोः संयोगाद्योः' इति ककारलोपः । निघातः । संविदाने । ‘ विद ज्ञाने' इत्यस्य ' समो गमि°' इत्यादिनात्मनेपदे शानच् । चित्त्वादन्तोदात्तः ।


स॒मा॒न्या वियु॑ते दू॒रेअ॑न्ते ध्रु॒वे प॒दे त॑स्थतुर्जाग॒रूके॑ ।

उ॒त स्वसा॑रा युव॒ती भव॑न्ती॒ आदु॑ ब्रुवाते मिथु॒नानि॒ नाम॑ ॥७

स॒मा॒न्या । वियु॑ते॒ इति॒ विऽयु॑ते । दू॒रेअ॑न्ते॒ इति॑ दू॒रेऽअ॑न्ते । ध्रु॒वे । प॒दे । त॒स्थ॒तुः॒ । जा॒ग॒रूके॒ इति॑ ।

उ॒त । स्वसा॑रा । यु॒व॒ती इति॑ । भव॑न्ती॒ इति॑ । आत् । ऊं॒ इति॑ । ब्रु॒वा॒ते॒ इति॑ । मि॒थु॒नानि॑ । नाम॑ ॥७

समान्या । वियुते इति विऽयुते । दूरेअन्ते इति दूरेऽअन्ते । ध्रुवे । पदे । तस्थतुः । जागरूके इति ।

उत । स्वसारा । युवती इति । भवन्ती इति । आत् । ऊं इति । ब्रुवाते इति । मिथुनानि । नाम ॥७

“समान्या समाने परस्परप्रीणनाख्येन कर्मणा ऐकमत्यं गते “वियुते वियुज्य वर्तमाने “दूरेअन्ते । दूरेऽन्तोऽवसानं ययोस्ते दूरेअन्ते अविनाशिन्यौ ते द्यावापृथिव्यौ "जागरूके जागरणशीले सत्यौ “ध्रुवे अविनाशिनि “पदे अन्तरिक्षे “तस्थतुः तिष्ठतः। “उत अपि च “युवती नित्यतरुणे “स्वसारा भगिन्यौ एकस्मादात्मनो जाते इति “भवन्ती भवन्त्यौ तस्थतुरित्यन्वयः । “आदु अनन्तरं “मिथुनानि द्वन्द्वानि “नाम उर्वी, पृथ्वी, बहुले, दूरेअन्ते, रोदसी, पुरोहिते इत्यादीनि नामानि “ब्रुवाते ते परस्परं ब्रूतः । उर्व्यादिभिर्द्वन्द्वनामभिर्द्यावापृथिव्यावुच्येते इत्यर्थः ॥ समान्या । ‘सुपां सुलुक्' इति विभक्तेर्डादेशः । दूरेअन्ते । ‘ इण् गतौ । दुरीणो लोपश्च' ( उ. सू. २. १७७ ) इति रक्प्रत्ययो धातोर्लोपश्च । ‘ रो रि' (पा. सू. ८. ३.१४ ) इति रेफलोपः । ‘ ढ्रलोपे' इति दीर्घः । अन्तशब्दः अमेः ‘असिहसिं° ' इत्यादिना तन्प्रत्ययान्तः । ‘ सप्तम्युपमान ' इति बहुव्रीहिः । ‘ हलदन्तात् ' इति सप्तम्या अलुक् । पूर्वपदस्वरः । जागरूके। ‘जागृ निद्राक्षये' इत्यस्मात् ताच्छील्यार्थे ‘जागुरूकः' ( पा. सू. ३.२.१६५ ) इत्यूकप्रत्ययः । प्रत्ययस्वरः । स्वसारा । न षट्स्वस्रादिभ्यः' इति डीपः प्रतिषेधः ।।


विश्वेदे॒ते जनि॑मा॒ सं वि॑विक्तो म॒हो दे॒वान्बिभ्र॑ती॒ न व्य॑थेते ।

एज॑द्ध्रु॒वं प॑त्यते॒ विश्व॒मेकं॒ चर॑त्पत॒त्रि विषु॑णं॒ वि जा॒तम् ॥८

विश्वा॑ । इत् । ए॒ते इति॑ । जनि॑म । सम् । वि॒वि॒क्तः॒ । म॒हः । दे॒वान् । बिभ्र॑ती॒ इति॑ । न । व्य॒थे॒ते॒ इति॑ ।

एज॑त् । ध्रु॒वम् । प॒त्य॒ते॒ । विश्व॑म् । एक॑म् । चर॑त् । प॒त॒त्रि । विषु॑णम् । वि । जा॒तम् ॥८

विश्वा । इत् । एते इति । जनिम । सम् । विविक्तः । महः । देवान् । बिभ्रती इति । न । व्यथेते इति ।

एजत् । ध्रुवम् । पत्यते । विश्वम् । एकम् । चरत् । पतत्रि । विषुणम् । वि । जातम् ॥८

“एते द्यावापृथिव्यौ “विश्वेत् “जनिम सर्वाण्यपि भूतजातानि "सं “विविक्तः अवकाशप्रदानेन संविभज्य कुरुतः । किंच “महः महतः "देवान् इन्द्रसूर्यादीन् सरित्समुद्रपर्वतादींश्च “बिभ्रती बिभ्राणे अपि ते “न “व्यथेते न खिद्येते । किंच “एजत् जङ्गमात्मकं “ध्रुवं स्थावरात्मकं च “विश्वं जगत् “एकं स्थानं पृथिवीमेव “पत्यते अभिगच्छति । तथा “चरत् चञ्चलं पशुजातं “पतत्रि पक्षिजातं च “विषुणं विष्वक् नानारूपमनयोर्मध्ये "वि तिष्ठते । योग्यक्रियाध्याहारः ॥ विविक्तः । ‘ विचिर् पृथग्भावे ' । जुहोत्यादिः । निघातः । बिभ्रती । ‘ डुभृञ् धारणपोषणयोः' इत्यस्य शतरि ‘ नाभ्यस्ताच्छतुः' इति नुमभावः । अभ्यस्तस्वरः । एजत् । “ एजृ कम्पने ' । शतरि रूपम् ।। पत्यते । ‘पद गतौ ' । दिवादिरात्मनेपदी । दकारस्य तकारो व्यत्ययेन । निघातः ॥


सना॑ पुरा॒णमध्ये॑म्या॒रान्म॒हः पि॒तुर्ज॑नि॒तुर्जा॒मि तन्न॑ः ।

दे॒वासो॒ यत्र॑ पनि॒तार॒ एवै॑रु॒रौ प॒थि व्यु॑ते त॒स्थुर॒न्तः ॥९

सना॑ । पु॒रा॒णम् । अधि॑ । ए॒मि॒ । आ॒रात् । म॒हः । पि॒तुः । ज॒नि॒तुः । जा॒मि । तत् । नः॒ ।

दे॒वासः॑ । यत्र॑ । प॒नि॒तारः॑ । एवैः॑ । उ॒रौ । प॒थि । विऽउ॑ते । त॒स्थुः । अ॒न्तरिति॑ ॥९

सना । पुराणम् । अधि । एमि । आरात् । महः । पितुः । जनितुः । जामि । तत् । नः ।

देवासः । यत्र । पनितारः । एवैः । उरौ । पथि । विऽउते । तस्थुः । अन्तरिति ॥९

हे द्यौः "महः महत्याः “पितुः सर्वस्य पालयित्र्याः “जनितुः जनयित्र्यास्तव “सना सनातनं “पुराणं पूर्वक्रमागतं “नः अस्माकं “तत् “जामि जामित्वम् । सर्वमेकस्मात् जातमिति द्यौर्भगिनी भवति । तादृशं भगिनीत्वं तत् “आरात् अधुना “अध्येमि स्मरामि। दिवः पितृत्वे जनयितृत्वे च मन्त्रवर्णः---- ‘ द्यौर्मे पिता जनिता नाभिरत्र ( ऋ. सं. १. १६४:३३) इति । “यत्र यस्यां दिवि “अन्तः मध्ये “उरौ विस्तीर्णे “व्युते विविक्ते “पथि नभसि “पनितारः त्वां स्तुवन्तः “देवासः देवाः “एवैः गमनसाधनैः स्वैः स्वैर्वाहनैः सहिताः सन्तः “तस्थुः । तत्र स्थित देवा मदीयं स्तोत्रं शृण्वन्त्विति भावः ॥ पुराणम् । पुराशब्दात् शैषिकार्थे ‘ सायंचिरम् । इति ट्युप्रत्ययः । ‘ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु' ( पा. सू. ४. ३. १०५ ) इति निपातनात्तुडभावः । निपातनादेवान्तोदात्तत्वम् । एमि । ‘ इक् स्मरणे' । अदादिः । लटि रूपम् । निघातः । व्युते । ‘ वेञ् तन्तुसंताने ' । कर्मणि क्तः । यजादित्वात् संप्रसारणम् । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरः। तस्थुः । तिष्ठतेर्लिटि रूपम् । यत्रयोगादनिघातः ।।


इ॒मं स्तोमं॑ रोदसी॒ प्र ब्र॑वीम्यृदू॒दरा॑ः शृणवन्नग्निजि॒ह्वाः ।

मि॒त्रः स॒म्राजो॒ वरु॑णो॒ युवा॑न आदि॒त्यास॑ः क॒वय॑ः पप्रथा॒नाः ॥१०

इ॒मम् । स्तोम॑म् । रो॒द॒सी॒ इति॑ । प्र । ब्र॒वी॒मि॒ । ऋ॒दू॒दराः॑ । शृ॒ण॒व॒न् । अ॒ग्नि॒ऽजि॒ह्वाः ।

मि॒त्रः । स॒म्ऽराजः॑ । वरु॑णः । युवा॑नः । आ॒दि॒त्यासः॑ । क॒वयः॑ । प॒प्र॒था॒नाः ॥१०

इमम् । स्तोमम् । रोदसी इति । प्र । ब्रवीमि । ऋदूदराः । शृणवन् । अग्निऽजिह्वाः ।

मित्रः । सम्ऽराजः । वरुणः । युवानः । आदित्यासः । कवयः । पप्रथानाः ॥१०

हे “रोदसी द्यावापृथिव्यौ “इमं युष्मदीयं “स्तोम स्तोत्रं “प्र “ब्रवीमि प्रकर्षेण वदामि । “ऋदूदराः । ऋदु मृदु उदरं येषां ते ऋदूदराः । यद्वा । मृदुरुदरे सोमो येषां ते ऋदूदराः । “अग्निजिह्वाः । अग्निर्जिह्वास्थानीयो येषां ते तथोक्ताः । “सम्राजः सम्यग्दीप्यमानाः “युवानः नित्यतरुणाः । यद्वा । यजमानान् अभिमतफलैर्मिश्रीकुर्वन्तः । “कवयः क्रान्तदर्शिनः “पप्रथानाः स्वानि स्वानि कर्माणि प्रथयन्तो मित्रादयो देवाः “शृणवन् तदिदं स्तोत्रं शृण्वन्तु ॥ शृणवन् । ‘ श्रु श्रवणे ' इत्यस्य लेट्यडागमः । अग्निजिह्वाः । त्रिचक्रादित्वादन्तोदात्तत्वम् । पप्रथानाः । ‘ प्रथ प्रख्याने ' इत्यस्य कानचि रूपम् । चित्त्वादन्तोदात्तः ॥ .॥ २५ ॥


हिर॑ण्यपाणिः सवि॒ता सु॑जि॒ह्वस्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानः ।

दे॒वेषु॑ च सवित॒ः श्लोक॒मश्रे॒राद॒स्मभ्य॒मा सु॑व स॒र्वता॑तिम् ॥११

हिर॑ण्यऽपाणिः । स॒वि॒ता । सु॒ऽजि॒ह्वः । त्रिः । आ । दि॒वः । वि॒दथे॑ । पत्य॑मानः ।

दे॒वेषु॑ । च॒ । स॒वि॒त॒रिति॑ । श्लोक॑म् । अश्रेः॑ । आत् । अ॒स्मभ्य॑म् । आ । सु॒व॒ । स॒र्वऽता॑तिम् ॥११

हिरण्यऽपाणिः । सविता । सुऽजिह्वः । त्रिः । आ । दिवः । विदथे । पत्यमानः ।

देवेषु । च । सवितरिति । श्लोकम् । अश्रेः । आत् । अस्मभ्यम् । आ । सुव । सर्वऽतातिम् ॥११

“हिरण्यपाणिः । दानार्थं हिरण्यं पाणौ हस्ते यस्य स तथोक्तः । यद्वा । देवकर्तृकयागे सवितुर्ऋत्विग्भूतस्य हस्ते प्राशित्रं भक्षणार्थमध्वर्यवो ददुः । तत्प्राशित्रं तस्य हस्तौ चिच्छेद । ततोऽध्वर्यवो हिरण्मयौ हस्तौ कृत्वा संदधुः । ततोऽयं हिरण्यपाणिः । तथा च कौषीतकं -'सवित्रे प्राशित्रं प्रतिजह्रुस्तत्तस्य पाणी प्रचिच्छेद तस्मै हिरण्मयौ प्रतिदधुस्तस्माद्धिरण्यपाणिः' इंति । “सुजिह्वः शोभनवाक् “सविता “विदथे यज्ञे “त्रिः त्रिषु सवनेषु “दिवः नभसः सकाशात् “आ “पत्यमानः आगच्छन् भवतीति शेषः । परोऽधर्चः प्रत्यक्षः । हे “सवितः त्वं “देवेषु स्तोतृषु विद्यमानं च “श्लोकम् । श्लोक्यतेऽनेनेति श्लोकः स्तोत्रम् । तत् "अश्रेः प्राप्नुहि च । “आत् अनन्तरं “सर्वतातिं सर्वमपेक्षितं फलम् “अस्मभ्यम् “आ “सुव प्रेरय ॥ हिरण्यपाणिः । हिरण्यशब्दं यास्को बहुधा निर्वक्ति-- हिरण्यं कस्मात् ह्रियते आयम्यमानमिति वा ह्रियते जनाज्जनम् ' ( निरु. २:१० ) इत्यादिना । पाणिशब्दं च निर्विवेच--- ‘ पाणिः पणायतेः पूजाकर्मणः ' ( निरु. २.२६ इति ॥ ‘ हर्य कान्तिगत्योः । ‘ हर्यतेः कन्यन् हिर च ' इति कन्यन्, हिर इत्ययमादेशो धातोः । नित्त्वदाद्युदात्तः । बहुव्रीहौ पूर्वपदस्वरः । पत्यमानः । ‘पद गतौ ' । दिवादिरात्मनेपदी । दकारस्य तकारश्छान्दसः । अश्रेः । श्रिञ् सेवायाम्' इत्यस्य लङि ‘ बहुलं छन्दसि ' इति शपो लुक् । 'चवायोगे प्रथमा ' इति न निघातः । सुव । 'षू प्रेरणे'। तुदादिः । सर्वतातिम् । सर्वदेवात्तातिल स्वार्थिकः । लित्स्वरः ॥


सु॒कृत्सु॑पा॒णिः स्ववाँ॑ ऋ॒तावा॑ दे॒वस्त्वष्टाव॑से॒ तानि॑ नो धात् ।

पू॒ष॒ण्वन्त॑ ऋभवो मादयध्वमू॒र्ध्वग्रा॑वाणो अध्व॒रम॑तष्ट ॥१२

सु॒ऽकृत् । सु॒ऽपा॒णिः । स्वऽवा॑न् । ऋ॒तऽवा॑ । दे॒वः । त्वष्टा॑ । अव॑से । तानि॑ । नः॒ । धा॒त् ।

पू॒ष॒ण्ऽवन्तः॑ । ऋ॒भ॒वः॒ । मा॒द॒य॒ध्व॒म् । ऊ॒र्ध्वऽग्रा॑वाणः । अ॒ध्व॒रम् । अ॒त॒ष्ट॒ ॥१२

सुऽकृत् । सुऽपाणिः । स्वऽवान् । ऋतऽवा । देवः । त्वष्टा । अवसे । तानि । नः । धात् ।

पूषण्ऽवन्तः । ऋभवः । मादयध्वम् । ऊर्ध्वऽग्रावाणः । अध्वरम् । अतष्ट ॥१२

"सुकृत् सुष्ठु जगतः कर्ता "सुपाणिः कल्याणपाणिः “स्ववान् धनवान् “ऋतावा सत्यसंकल्पः “त्वष्टा “देवः “तानि यान्यस्माकमपेक्षितानि “अवसे रक्षणाय “नः अस्मभ्यं “धात् ददातु । “ऋभवः । उरु भान्तीत्यृभवः । हे ऋभवः “पूषण्वन्तः पूष्णा सहिता यूयं “मादयध्वम् । अस्मान् धनप्रदानेन हृष्टान् कुरुत। “ऊर्ध्वग्रावाणः सोमाभिषवार्थमुद्यतग्रावाणः सन्तः ऋत्विज इममस्मदीयम् “अध्वरमतष्ट अकुर्वन् । अतप्त । ‘ तक्षू त्वक्षू तनूकरणे' । ऊदित्त्वादत्रेडभावः । ‘ झलो झलि' इति सिलोपः । ‘ स्कोः संयोगाद्योः' इति ककारलोपः । बहुवचनस्यैकवचनं छान्दसम् ॥ विद्युथा मरुतं ऋष्टिमन्तौ दिवो मय ऋतजाता अयासः ।


वि॒द्युद्र॑था म॒रुत॑ ऋष्टि॒मन्तो॑ दि॒वो मर्या॑ ऋ॒तजा॑ता अ॒यास॑ः ।

सर॑स्वती शृणवन्य॒ज्ञिया॑सो॒ धाता॑ र॒यिं स॒हवी॑रं तुरासः ॥१३

वि॒द्युत्ऽर॑थाः । म॒रुतः॑ । ऋ॒ष्टि॒ऽमन्तः॑ । दि॒वः । मर्याः॑ । ऋ॒तऽजा॑ताः । अ॒यासः॑ ।

सर॑स्वती । शृ॒ण॒व॒न् । य॒ज्ञिया॑सः । धात॑ । र॒यिम् । स॒हऽवी॑रम् । तु॒रा॒सः॒ ॥१३

विद्युत्ऽरथाः । मरुतः । ऋष्टिऽमन्तः । दिवः । मर्याः । ऋतऽजाताः । अयासः ।

सरस्वती । शृणवन् । यज्ञियासः । धात । रयिम् । सहऽवीरम् । तुरासः ॥१३

“विद्युद्रथाः विद्योतमानरथोपेताः “ऋष्टिमन्तः दीप्तिमन्तः । ऋष्टिरायुधविशेषः तद्वन्तो वा । “दिवः द्योतमानाः “मर्याः शत्रूणां मारयितारः “ऋतजाताः उदकाद्यज्ञाद्वा प्रादुर्भूताः । यद्वा । ऋतमुदकं जातं येभ्यस्ते ऋतजाताः । “अयासः सततगमनशीला: "यज्ञियासः यज्ञार्हाः “मरुतः “सरस्वती । गद्यपद्यरूपेण प्रसरणमस्या अस्तीति सरस्वती । वाग्देवता च । एते सर्वे देवा मदीयमिदं स्तोमं “शृणवन् शृण्वन्तु । “तुरासः अस्माकं फलप्रदाने त्वरणयुक्ता हे मरुतः “सहवीरं पुत्रसहितं “रयिं धनं “धात अस्मभ्यं धत्त ॥ धात । दधातेर्लोटि ‘बहुलं छन्दसि' इति शपो लुक् । ‘ तप्तनप्तनथनाश्च' इति तबादेशः । पादादित्वादनिघातः । तपः पित्त्वादनुदात्तत्वे धातुस्वरः । तुरासः । ‘तुर त्वरणे'। इगुपधलक्षणः कः । आमन्त्रितत्वान्निघातः ॥


विष्णुं॒ स्तोमा॑सः पुरुद॒स्मम॒र्का भग॑स्येव का॒रिणो॒ याम॑नि ग्मन् ।

उ॒रु॒क्र॒मः क॑कु॒हो यस्य॑ पू॒र्वीर्न म॑र्धन्ति युव॒तयो॒ जनि॑त्रीः ॥१४

विष्णु॑म् । स्तोमा॑सः । पु॒रु॒ऽद॒स्मम् । अ॒र्काः । भग॑स्यऽइव । का॒रिणः॑ । याम॑नि । ग्म॒न् ।

उ॒रु॒ऽक्र॒मः । क॒कु॒हः । यस्य॑ । पू॒र्वीः । न । म॒र्ध॒न्ति॒ । यु॒व॒तयः॑ । जनि॑त्रीः ॥१४

विष्णुम् । स्तोमासः । पुरुऽदस्मम् । अर्काः । भगस्यऽइव । कारिणः । यामनि । ग्मन् ।

उरुऽक्रमः । ककुहः । यस्य । पूर्वीः । न । मर्धन्ति । युवतयः । जनित्रीः ॥१४

“स्तोमासः । स्तूयन्त एभिरिति स्तोमाः स्तोत्राणि । “अर्काः अर्चनीयानि शस्त्राणि च "भगस्येव धनस्य “कारिणः कर्तॄणीव स्थितानि तानि “यामनि संततं प्रतायमानेऽस्मिन् यज्ञे “पुरुदस्मं बहुकर्माणम् । यद्वा । बहून् दस्यत्युपक्षपयतीति पुरुदस्मः । तं “विष्णुं देवं “ग्मन् गच्छन्तु । “पूर्वीः बह्व्यः “जनित्रीः सर्वस्य जनयित्र्यः “युवतयः परस्परमसंकीर्णाः “ककुहः । कं स्कुभ्नन्ति विस्तारयन्तीति ककुभो दिशः । यद्वा । ककुबुच्छ्रयार्थः । उच्छ्रिता इव हि दिशो वृक्षाग्रेषूपलभ्यमानाः तिष्ठन्ति । एता दिशो विष्णोराज्ञां न “मर्धन्ति न हिंसन्ति । सः विष्णुः “उरुक्रमः । उरुर्महान् क्रमः पादविक्षेपो यस्य सः । त्रिविक्रमावतारे एकेनैव पादेन सर्वं जगदाक्रम्यातिष्ठत ॥ ग्मन् । गमेर्लुङि • मन्त्रे घस ' इत्यादिना च्लेर्लुक् । ककुभः । पृषोदरादित्वाद्रूपस्वरसिद्धिः ॥


इन्द्रो॒ विश्वै॑र्वी॒र्यै॒३॒॑ः पत्य॑मान उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ।

पु॒रं॒द॒रो वृ॑त्र॒हा धृ॒ष्णुषे॑णः सं॒गृभ्या॑ न॒ आ भ॑रा॒ भूरि॑ प॒श्वः ॥१५

इन्द्रः॑ । विश्वैः॑ । वी॒र्यैः॑ । पत्य॑मानः । उ॒भे इति॑ । आ । प॒प्रौ॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ।

पु॒र॒म्ऽद॒रः । वृ॒त्र॒ऽहा । धृ॒ष्णुऽसे॑णः । स॒म्ऽगृभ्य॑ । नः॒ । आ । भ॒र॒ । भूरि॑ । प॒श्वः ॥१५

इन्द्रः । विश्वैः । वीर्यैः । पत्यमानः । उभे इति । आ । पप्रौ । रोदसी इति । महिऽत्वा ।

पुरम्ऽदरः । वृत्रऽहा । धृष्णुऽसेणः । सम्ऽगृभ्य । नः । आ । भर । भूरि । पश्वः ॥१५

“विश्वैः सर्वैः “वीर्यैः सामर्थ्यैः “पत्यमानः प्राप्यमाणः सः “इन्द्रः “उभे “रोदसी द्यावापृथिव्यौ “महित्वा स्वकीयेन महिम्ना “आ “पप्रौ पूरयामास । शेषः प्रत्यक्षकृतः। “पुरंदरः शत्रुपुरां दारयिता “वृत्रहा वृत्रस्य हन्ता “धृष्णुषेणः पराभिभवनशीलसेनोपेतः स त्वं “पश्वः पशून् “संगृभ्य संगृह्य “नः अस्मभ्यं “भूरि प्रभूतं यथा भवति तथा “आ “भर देहि । यद्वा । पश्वः पशोर्भूरि बहुत्वं बहून् पशूंश्च यच्छेति ॥ पुरंदरः । ‘ दॄ विदारणे' इत्यस्य पुरशब्द उपपदे ‘पू:सर्वयोर्दारिसहोः' इति खच्प्रत्ययः । ‘ वाचंयम पुरंदरौ च ' इति निपातनात् पूर्वपदस्यामागमः । चित्त्वात् अन्तोदात्तः । धृष्णुषेणः । ‘ पूर्वपदात्' इति संहितायां षत्वम् । यदा षत्वं तदा 'रषाभ्याम्°' इति णत्वम् । संगृभ्य । ग्रहेर्ल्यपि स्थानिवद्भावात् संप्रसारणम् । ' ह्रग्रहोर्भश्छन्दसि' इति भत्वम् । ‘ लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । पश्वः । पशुशब्दात् शसः ‘जसादिषु छन्दसि वावचनम्' इति सवर्णदीर्घाभावः ॥


नास॑त्या मे पि॒तरा॑ बन्धु॒पृच्छा॑ सजा॒त्य॑म॒श्विनो॒श्चारु॒ नाम॑ ।

यु॒वं हि स्थो र॑यि॒दौ नो॑ रयी॒णां दा॒त्रं र॑क्षेथे॒ अक॑वै॒रद॑ब्धा ॥१६

नास॑त्या । मे॒ । पि॒तरा॑ । ब॒न्धु॒ऽपृच्छा॑ । स॒ऽजा॒त्य॑म् । अ॒श्विनोः॑ । चारु॑ । नाम॑ ।

यु॒वम् । हि । स्थः । र॒यि॒ऽदौ । नः॒ । र॒यी॒णाम् । दा॒त्रम् । र॒क्षे॒थे॒ इति॑ । अक॑वैः । अद॑ब्धा ॥१६

नासत्या । मे । पितरा । बन्धुऽपृच्छा । सऽजात्यम् । अश्विनोः । चारु । नाम ।

युवम् । हि । स्थः । रयिऽदौ । नः । रयीणाम् । दात्रम् । रक्षेथे इति । अकवैः । अदब्धा ॥१६

हे नासत्यावश्विनौ “बन्धुपृच्छा । हविष्प्रदातृत्वेन बन्धूनस्मान् अपेक्षितमर्थं पृच्छतः इति बन्धूनां प्रष्टारौ । युवां “मे "पितरा पालयितारौ भवतम् । युवयोः “अश्विनोः “सजात्यं सजाते भवं संगतं “चारु “नाम कमनीयं खलु । हे अश्विनौ “युवं युवां “नः अस्मभ्यं “रयीणां धनानां मध्ये “रयिदौ उत्तमस्य धनस्य दातारौ “स्थः “हि भवथः खलु । किंच “अदब्धा केनाप्यतिरस्कृतौ युवां “दात्रं हविषाँ दातारं माम् "अकवैः अकुत्सितैः शोभनैः कर्मभिः “रक्षेथे पालयतम् ॥ नासत्या । ‘ नभ्राण्नपात्°' इत्यादिना निपातनान्नञः प्रकृतिभावः । बन्धुपृच्छा । पृच्छेः क्विप् । ‘सुपां सुलुक्° ' इति सुपो डादेशः । सजात्यम् । सजाते भवम् । ‘भवे छन्दसि ' इति यत् । तित्स्वरितः । स्थः । अस्तेर्लटि रूपम् । हियोगादनिघातः ॥


म॒हत्तद्व॑ः कवय॒श्चारु॒ नाम॒ यद्ध॑ देवा॒ भव॑थ॒ विश्व॒ इन्द्रे॑ ।

सख॑ ऋ॒भुभि॑ः पुरुहूत प्रि॒येभि॑रि॒मां धियं॑ सा॒तये॑ तक्षता नः ॥१७

म॒हत् । तत् । वः॒ । क॒व॒यः॒ । चारु॑ । नाम॑ । यत् । ह॒ । दे॒वाः॒ । भव॑थ । विश्वे॑ । इन्द्रे॑ ।

सखा॑ । ऋ॒भुऽभिः॑ । पु॒रु॒ऽहू॒त॒ । प्रि॒येभिः॑ । इ॒माम् । धिय॑म् । सा॒तये॑ । त॒क्ष॒त॒ । नः॒ ॥१७

महत् । तत् । वः । कवयः । चारु । नाम । यत् । ह । देवाः । भवथ । विश्वे । इन्द्रे ।

सखा । ऋभुऽभिः । पुरुऽहूत । प्रियेभिः । इमाम् । धियम् । सातये । तक्षत । नः ॥१७

हे “कवयः मेधाविनो हे देवाः “वः युष्माकं “तत् तादृशं “महत् प्रभूतं “नाम कर्म नमनं वा “चारु मनोहरं खलु । “यत् येन कर्मणा “विश्वे सर्वे यूयम् “इन्द्रे इन्द्रोपलक्षिते लोके "देवाः “भवथ “ह देवत्वं प्राप्नुथ खलु । हे “पुरुहूत बहुभिराहूत हे इन्द्र त्वं “प्रियेभिः प्रियतमैः “ऋभुभिः । ऋतेन भवन्त्यृतेन भान्तीति वा । ऋभुभिर्देवैः “सखा असि । इन्द्रसहिता ऋभवो यूयम् “इमाम् अस्मदीयां “धियं स्तुतिं “नः अस्माकं “सातये धनादिलाभार्थं “तक्षत स्वीकुरुत ॥ यत् । ‘सुपां सुलुक्° ' इत्यादिना सुपो लुक् । भवथ । भवतेर्लटि रूपम् । यद्वत्तयोगादनिघातः । सख ऋभुभिः इत्यत्र संहितायाम् ‘ऋत्यकः ' इति प्रकृतिभावो ह्रस्वत्वं च ॥


अ॒र्य॒मा णो॒ अदि॑तिर्य॒ज्ञिया॒सोऽद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ ।

यु॒योत॑ नो अनप॒त्यानि॒ गन्तो॑ः प्र॒जावा॑न्नः पशु॒माँ अ॑स्तु गा॒तुः ॥१८

अ॒र्य॒मा । नः॒ । अदि॑तिः । य॒ज्ञिया॑सः । अद॑ब्धानि । वरु॑णस्य । व्र॒तानि॑ ।

यु॒योत॑ । नः॒ । अ॒न॒प॒त्यानि॑ । गन्तोः॑ । प्र॒जाऽवा॑न् । नः॒ । प॒शु॒ऽमान् । अ॒स्तु॒ । गा॒तुः ॥१८

अर्यमा । नः । अदितिः । यज्ञियासः । अदब्धानि । वरुणस्य । व्रतानि ।

युयोत । नः । अनपत्यानि । गन्तोः । प्रजाऽवान् । नः । पशुऽमान् । अस्तु । गातुः ॥१८

"अर्यमा । ऋच्छति सर्वदा गच्छतीत्यर्यमा सूर्यः । “अदितिः देवमाता “यज्ञियासः यज्ञार्हा देवा यस्य “वरुणस्य “व्रतानि कर्माणि “अदब्धानि अहिंसितानि भवन्ति स वरुणः ते चार्यमादयो देवाः “नः अस्मान् रक्षन्त्विति शेषः । ते यूयं “नः अस्माकम् "अनपत्यानि अपत्यानां पुत्राणामहितानि कर्माणि । यद्वा । पतनकारणं न भवतीत्यपत्यम् । तदन्यान्यनपत्यानि पतनकारणानि कर्माणि “गन्तोः सन्मार्गात् 'युयोत पृथक्कुरुत । यथा तान्यहितानि कर्माणि न स्पृशन्ति तथा कुरुतेत्यर्थः । अथ “गातुः । गायन्ति स्तुवन्तीन्द्रादीनत्रेति गातुर्गृहम् । “नः अस्मदीयं गृहं “पशुमान् पश्वादियुक्तं “प्रजावान् अपत्योपेतम् “अस्तु ॥ अर्यमा । ‘ऋ गतौ ' । ‘ श्वन्नुक्षन्प्लीहन्क्लेदन्' इत्यादिना निपातनात् रूपसिद्धिः। अदितिः । ‘दीङ् क्षये' इत्यस्य कर्तरि क्तिच् । नञा समासः। अदितिरदीना' ( निरु. ४. २२) इति यास्कः । छान्दसं ह्रस्वत्वम् । नञः स्वरः । युयोत । यौतेः अमिश्रीभावकर्मणो लोटि ‘बहुलं छन्दसि' इति शपः श्लुः । ‘तप्तनप् । इति तप्रत्ययस्य तबादेशः । गन्तोः । ‘ गम्लृ गतौ । ‘सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यः" इति तुन्प्रत्ययः । नित्त्वादाद्युदात्तः । गातुः । ‘ °गायाहिभ्यश्च' (उ. सू. १. ७२ ) इति तुप्रत्ययः ॥


दे॒वानां॑ दू॒तः पु॑रु॒ध प्रसू॒तोऽना॑गान्नो वोचतु स॒र्वता॑ता ।

शृ॒णोतु॑ नः पृथि॒वी द्यौरु॒ताप॒ः सूर्यो॒ नक्ष॑त्रैरु॒र्व१॒॑न्तरि॑क्षम् ॥१९

दे॒वाना॑म् । दू॒तः । पु॒रु॒ध । प्रऽसू॑तः । अना॑गान् । नः॒ । वो॒च॒तु॒ । स॒र्वऽता॑ता ।

शृ॒णोतु॑ । नः॒ । पृ॒थि॒वी । द्यौः । उ॒त । आपः॑ । सूर्यः॑ । नक्ष॑त्रैः । उ॒रु । अ॒न्तरि॑क्षम् ॥१९

देवानाम् । दूतः । पुरुध । प्रऽसूतः । अनागान् । नः । वोचतु । सर्वऽताता ।

शृणोतु । नः । पृथिवी । द्यौः । उत । आपः । सूर्यः । नक्षत्रैः । उरु । अन्तरिक्षम् ॥१९

“पुरुध पुरुषु बहुषु देशेषु “प्रसूतः अग्निहोत्रार्थं विहितः । यद्वा । पुरुभिर्यजमानैः प्रसूतो यष्टव्यदेवाह्वानार्थं प्रेरितः “देवानां “दूतः । तथा च तैत्तिरीयकम् -‘अग्निर्देवानां दूत आसीत् इति । तादृशोऽग्निः कर्मकर्तृसाधनवैगुण्येन सापराधान् “नः अस्मान् “अनागान् अनागसः “सर्वताता सर्वत्र “वोचतु ब्रवीतु । किंच “पृथिवी “द्यौः च “उत अपि च “आपः “सूर्यः च नक्षत्रैरुरु विस्तीर्णम् “अन्तरिक्षं च । एते सर्वे देवाः “नः अस्मदीयां स्तुतिं “शृणोतु शृण्वन्तु । प्रत्येकविवक्षया एकवचनम् ॥ प्रसूतः । “षू प्रेरणे'। कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरः । अनागान् । शसि सकारलोपश्छान्दसः । सवर्णदीर्घे कृते “ तस्माच्छसो नः' इति नत्वम् । वोचतु । ‘वच परिभाषणे'। ‘ व्यत्ययो बहुलम्' इति शपोऽङादेशः । वच उम् । गुणः । निघातः । नक्षत्रैः । ‘ नक्ष गतौ ' । ' अमिनक्षियजिबन्धिपतिभ्योऽत्रन्' इत्यत्रन्प्रत्ययः । नित्त्वादाद्युदात्तः । यद्वा । न क्षरति न क्षीयते इति वा नक्षत्रम् । ‘ नभ्राण्नपात्' इति नञः प्रकृतिभावः । नञः स्वरः॥


शृ॒ण्वन्तु॑ नो॒ वृष॑ण॒ः पर्व॑तासो ध्रु॒वक्षे॑मास॒ इळ॑या॒ मद॑न्तः ।

आ॒दि॒त्यैर्नो॒ अदि॑तिः शृणोतु॒ यच्छ॑न्तु नो म॒रुत॒ः शर्म॑ भ॒द्रम् ॥२०

शृ॒ण्वन्तु॑ । नः॒ । वृष॑णः । पर्व॑तासः । ध्रु॒वऽक्षे॑मासः । इळ॑या । मद॑न्तः ।

आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शृ॒णो॒तु॒ । यच्छ॑न्तु । नः॒ । म॒रुतः॑ । शर्म॑ । भ॒द्रम् ॥२०

शृण्वन्तु । नः । वृषणः । पर्वतासः । ध्रुवऽक्षेमासः । इळया । मदन्तः ।

आदित्यैः । नः । अदितिः । शृणोतु । यच्छन्तु । नः । मरुतः । शर्म । भद्रम् ॥२०

“वृषणः अभिमतफलसेचका मरुतः “पर्वतासः । पृणन्ति पूरयन्त्यर्थिनां कामानिति पर्वता ग्रावाभिमानिनो देवाः “ध्रुवक्षेमासः निश्चलस्थानाः “इळया हविर्लक्षणेनान्नेन “मदन्तः माद्यन्तः सन्तः “नः अस्मदीयां स्तुतिं “शृण्वन्तु । किंच "आदित्यैः अपत्यभूतैरादित्यैः उपेता “अदितिः “नः अस्मदीयां स्तुतिं “शृणोतु । “मरुतः च “नः अस्मभ्यं “भद्रं कल्याणकरं "शर्म सुखं “यच्छन्तु ददतु॥ आदित्यैः । अदितेरपत्यानीत्यर्थे ' दित्यदिति° ' इति ण्यः । प्रत्ययस्वरेणान्तोदात्तः । सुपा सहैकादेशे कृते एकादेश उदात्तः ॥


प्रवत्स्यन्यजमानः सदा सुगः' इत्यृचं जपन् गच्छेत् । सूत्रितं च -- सदा सुगः पितुमाँ अस्तु पन्था इति पन्थानमवरुह्य ' (आश्व. श्रौ. २. ५) इति ॥

सदा॑ सु॒गः पि॑तु॒माँ अ॑स्तु॒ पन्था॒ मध्वा॑ देवा॒ ओष॑धी॒ः सं पि॑पृक्त ।

भगो॑ मे अग्ने स॒ख्ये न मृ॑ध्या॒ उद्रा॒यो अ॑श्यां॒ सद॑नं पुरु॒क्षोः ॥२१

सदा॑ । सु॒ऽगः । पि॒तु॒ऽमान् । अ॒स्तु॒ । पन्थाः॑ । मध्वा॑ । दे॒वाः॒ । ओष॑धीः । सम् । पि॒पृ॒क्त॒ ।

भगः॑ । मे॒ । अ॒ग्ने॒ । स॒ख्ये । न । मृ॒ध्याः॒ । उत् । रा॒यः । अ॒श्या॒म् । सद॑नम् । पु॒रु॒ऽक्षोः ॥२१

सदा । सुऽगः । पितुऽमान् । अस्तु । पन्थाः । मध्वा । देवाः । ओषधीः । सम् । पिपृक्त ।

भगः । मे । अग्ने । सख्ये । न । मृध्याः । उत् । रायः । अश्याम् । सदनम् । पुरुऽक्षोः ॥२१

हे अग्ने अस्माकं “पन्थाः मार्गः “सदा सर्वदा “सुगः सुखेन गन्तुं शक्यः “पितुमान् अन्नवांश्च “अस्तु । हे “देवाः “मध्वा माधुर्योपेतेनोदकेन “ओषधीः "सं “पिपृक्त संपर्चयत । सेचयतेत्यर्थः । हे “अग्ने त्वया “सख्ये संजाते सति “मे मम “भगः धनं “न “मृध्या: न विनश्यतु । किंच “रायः धनस्य “पुरुक्षोः बह्वन्नस्य च “सदनं स्थानम् "उत् “अश्यां प्राप्नुयाम् ॥ सदा । स्वरादिवाद्युदात्तत्वेन पाठादाद्युदात्तः। पिपृक्त।' पृची संपर्के'। लोटि ' बहुलं छन्दसि ' इति शपः श्लुः । बहुलं छन्दसि' इति अभ्यासस्य इत्वम् । मृध्याः। मृधिर्हिंसार्थः । लिङि • तिङा तिङो भवन्ति' इति तिपः सिप् ॥


पशौ पुरोडाशस्विष्टकृतः ‘ स्वदस्व हव्या' इति याज्या । सूत्रितं च - स्वदस्व हव्या समिषो दिदीहीति पुरोडाशस्विष्टकृतः ' ( आश्व. श्रौ. ३. ५) इति ।

स्वद॑स्व ह॒व्या समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ।

विश्वाँ॑ अग्ने पृ॒त्सु ताञ्जे॑षि॒ शत्रू॒नहा॒ विश्वा॑ सु॒मना॑ दीदिही नः ॥२२

स्वद॑स्व । ह॒व्या । सम् । इषः॑ । दि॒दी॒हि॒ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि ।

विश्वा॑न् । अ॒ग्ने॒ । पृ॒त्ऽसु । तान् । जे॒षि॒ । शत्रू॑न् । अहा॑ । विश्वा॑ । सु॒ऽमनाः॑ । दी॒दि॒हि॒ । नः॒ ॥२२

स्वदस्व । हव्या । सम् । इषः । दिदीहि । अस्मद्र्यक् । सम् । मिमीहि । श्रवांसि ।

विश्वान् । अग्ने । पृत्ऽसु । तान् । जेषि । शत्रून् । अहा । विश्वा । सुऽमनाः । दीदिहि । नः ॥२२

हे “अग्ने “हव्या हवनयोग्यानि हवींषि “स्वदस्व स्वादय । अस्माकम् “इषः अन्नानि “सं “दिदीहि सम्यक् प्रकाशय। दीपितानि तानि “श्रवांसि अन्नानि "अस्मद्र्यक् अस्मदभिमुखानि “सं “मिमीहि संमानय । कुरु इत्यर्थः । ततः “पृत्सु संग्रामेषु “तान् बाधकानू “विश्वान् सर्वान् “शत्रून् “जेषि जय । अथ “सुमनाः शोभनमनस्कः सन् “नः अस्माकं “विश्वा "अहा सर्वाण्यहानि “दीदिहि अग्निहोत्रादिकर्मयोग्यानि प्रकाशय ॥ स्वदस्व। ‘स्वद आस्वादने'। लोटि रूपम् । थासो लसार्वधातुकस्वरे धातुस्वरः । दिदीहि । ‘दिवु क्रीडादौ ' इत्यस्य लोटि ‘बहुलं छन्दसि' इति विकरणस्य श्लुः । परत्वात् ‘हलि च' इति दीर्घत्वे कृते पश्चात् वलि लोपः । निघातः । अस्मद्र्यक् । अस्मानञ्चति इति अञ्चतेः क्विप् । ' विष्वग्देवयोश्च टेः' इति" टेरद्र्यादेशः । सुपां सुलुगिति सुपो लुक् । अद्र्यादेशस्यान्तोदात्तत्वेन निपातनात् यणादेशे कृते ‘ उदात्तस्वरितयोः० ' इति यणः स्वरितत्वम् । मिमीहि । ‘माङ् माने शब्दे च'। जुहोत्यादिः । तस्य लोटि व्यत्ययेन परस्मैपदम् । निघातः । सुमनाः । ‘ सोर्मनसी ' इत्युत्तरपदाद्युदात्तत्वम् । दीदिहि । दिवेर्यङ्लुकि लोटि तुजादित्वाभ्यासस्य दीर्घः । वलि लोपः ॥ ॥ २७ ॥

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.५४&oldid=197253" इत्यस्माद् पुनः प्राप्तिः