ऋग्वेदः सूक्तं ३.३५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ३.३४ ऋग्वेदः - मण्डल ३
सूक्तं ३.३५
गाथिनो विश्वामित्रः
सूक्तं ३.३६ →
दे. इन्द्रः। त्रिष्टुप्


तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अच्छ ।
पिबास्यन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय ॥१॥
उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि ।
द्रवद्यथा सम्भृतं विश्वतश्चिदुपेमं यज्ञमा वहात इन्द्रम् ॥२॥
उपो नयस्व वृषणा तपुष्पोतेमव त्वं वृषभ स्वधावः ।
ग्रसेतामश्वा वि मुचेह शोणा दिवेदिवे सदृशीरद्धि धानाः ॥३॥
ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू ।
स्थिरं रथं सुखमिन्द्राधितिष्ठन्प्रजानन्विद्वाँ उप याहि सोमम् ॥४॥
मा ते हरी वृषणा वीतपृष्ठा नि रीरमन्यजमानासो अन्ये ।
अत्यायाहि शश्वतो वयं तेऽरं सुतेभिः कृणवाम सोमैः ॥५॥
तवायं सोमस्त्वमेह्यर्वाङ्छश्वत्तमं सुमना अस्य पाहि ।
अस्मिन्यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र ॥६॥
स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम् ।
तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि ॥७॥
इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रन् ।
तस्यागत्या सुमना ऋष्व पाहि प्रजानन्विद्वान्पथ्या अनु स्वाः ॥८॥
याँ आभजो मरुत इन्द्र सोमे ये त्वामवर्धन्नभवन्गणस्ते ।
तेभिरेतं सजोषा वावशानोऽग्नेः पिब जिह्वया सोममिन्द्र ॥९॥
इन्द्र पिब स्वधया चित्सुतस्याग्नेर्वा पाहि जिह्वया यजत्र ।
अध्वर्योर्वा प्रयतं शक्र हस्ताद्धोतुर्वा यज्ञं हविषो जुषस्व ॥१०॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥

सायणभाष्यम्

तिष्ठा हरी इत्येकादशर्चं षष्ठं सूक्तं वैश्वामित्रं त्रैष्टुभमैंद्रं । तिष्ठा हरी इत्यनुक्रमणिका ॥ अग्निष्टुति मरुत्वतीयशस्त्रे निविद्धानं सूक्तं । सूत्रितं च । तिष्ठा हरी यो जात एवेति मध्यंदिनः । आ° ९. ७.। इति ॥ इंद्राग्न्योः कुलायनाम्न्येकाहे ऽप्येतन्मरुत्वतीयनिविद्धानं । सूत्रितं च । तिष्ठा हरी तमु ष्टुहीति मध्यंदिनः । आ° ९. ७.। इति ॥ समूढे दशरात्रे तृतीये छंदोमे मरुत्वतीयशस्त्र एतत्सूक्तं । सूत्रितं च । तिष्ठा हरी प्र मंदिने इमा उ त्वेति मरुत्वतीयं । आ° ८. ७.। इति ॥ अतिरात्रे तृतीये पर्याये होतुः शस्त्रे परिहिते सत्याद्या तिष्ठा हरी इत्येषा शस्त्रयाज्या । सूत्रितं च । विश्वजिते तिष्ठा हरी रथ आ युज्यमानेति याज्या । आ° ६.४.। इति ॥


तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ ।

पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे इन्द्र॒ स्वाहा॑ ररि॒मा ते॒ मदा॑य ॥१

तिष्ठ॑ । हरी॒ इति॑ । रथे॑ । आ । यु॒ज्यमा॑ना । या॒हि । वा॒युः । न । नि॒ऽयुतः॑ । नः॒ । अच्छ॑ ।

पिबा॑सि । अन्धः॑ । अ॒भिऽसृ॑ष्टः । अ॒स्मे इति॑ । इन्द्र॑ । स्वाहा॑ । र॒रि॒म । ते॒ । मदा॑य ॥१

तिष्ठ। हरी इति। रथे। आ। युज्यमाना। याहि । वायुः। न। निऽयुतः। नः । अच्छ।

पिबासि । अंधः। अभिऽसृष्टः । अस्मे इति । इंद्र। स्वाहा। ररिम । ते। मदाय ॥१॥

विश्वामित्रः स्तौति । हे इंद्र रथे स्पंदने युज्यमाना संयुज्यमानौ हरी अश्वावभिलक्ष्य कंचित्कालमा तिष्ठ । तत्र दृष्टांतः । वायुर्नेति । यथा वायू रथे नियुज्यमाना नियुतो वडवा अभिलक्ष्य कंचित्कालं तिष्ठति तद्वत् । अथ रथारूढस्त्वं नोऽस्मानच्छाभिलक्ष्या याहि । शीघ्रमागच्छ। आगत्य चास्मे अस्माभिरभिसृष्टोऽनुज्ञातस्त्वमंधः सोमलक्षणमन्नं पिबासि । पिब । स्वाहा । दत्तश्चायं सोमः । वयं ते तव मदाय हर्षाय स्वाहाकृतमिमं सोमं ररिम । ददाम ॥ अत्र याहि वायुर्न नियुतो नो अच्छेत्यत्र रथेना याहीत्यर्थः । आपश्चित्पिप्युः स्तर्यो न गावः । ऋग्वे° ७. २३. ४.। इत्यत्र तन्न तथेति पदकाले नोत्सृज्यते ॥ तिष्ठ । तिष्ठतेर्लोटि रूपं । तिष्ठादेशस्याद्युदात्तः । याहि । यातेर्लोटि रूपं । हेर्ङित्वादंतोदात्तः । वायुः । वा गतिगंधनयोरित्यस्मात्कृवापेत्यादिना उण्। आतो युक् । प्रत्ययस्वरः । पिबासि । पतिर्लेट्याडागमः। आगमस्यानुदात्तत्वाद्धातुस्वरः । अंधः। अद भक्षणे । अदेर्नुम् धश्चेत्यसुन्नुमागमो धकारश्चांतादेशः । अद्यते प्राणिभिस्तद्वा स्वयमत्तीति । तथा च श्रुतिः । अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते । तै° उ°२.२.। इति । नित्स्वरः । अस्मे । सुपां सुलुगिति तृतीयायाः शे इत्यादेशः । ररिम ! रातेर्लिटि रूपं । वाक्यभेदादनिघातः । प्रत्ययस्वरः ॥


उपा॑जि॒रा पु॑रुहू॒ताय॒ सप्ती॒ हरी॒ रथ॑स्य धू॒र्ष्वा यु॑नज्मि ।

द्र॒वद्यथा॒ सम्भृ॑तं वि॒श्वत॑श्चि॒दुपे॒मं य॒ज्ञमा व॑हात॒ इन्द्र॑म् ॥२

उप॑ । अ॒जि॒रा । पु॒रु॒ऽहू॒ताय॑ । सप्ती॒ इति॑ । हरी॒ इति॑ । रथ॑स्य । धूः॒ऽसु । आ । यु॒न॒ज्मि॒ ।

द्र॒वत् । यथा॑ । सम्ऽभृ॑तम् । वि॒श्वतः॑ । चि॒त् । उप॑ । इ॒मम् । य॒ज्ञम् । आ । व॒हा॒तः॒ । इन्द्र॑म् ॥२

उप । अजिरा। पुरुहूताय। सप्ती इति । हरी इति । रथस्य। धूःऽसु। आ। युनज्मि।

द्रवत् । यथा । संऽभृतं । विश्वतः। चित् । उप। इमं यज्ञं। आ। वहातः । इंद्रं ॥२॥

हे इंद्र पुरुहूताय पुरुभिर्बहुभिर्यजमानैर्यज्ञार्थमाहूताय तुभ्यमजिरा शीघ्रगमनशीलौ सप्ती सर्पणशीलौ हरी हरिनामकावश्वौ रथस्य धूर्षु युगप्रांतेषूपा युनज्मि । अहं तथा योजयामि । द्रवत् स रथो यथा गच्छेत्तथेति शेषः । विश्वतश्चित् सर्वतः संभृतं अग्निर्यजुर्भिः सविता स्तोमैरित्यादियज्ञसंभारैः संपूर्णमिमं यज्ञं प्रतींद्रं त्वामुपा वहातः । तावश्वौ सम्यगावहतां ॥ धूर्षु । धुर्वी हिंसार्थः । क्विप्। राल्लोप इति वकारलोपः ।। र्वोरुपधाया इति दीर्घः। सावेकाच इति विभक्तेरुदात्तता। युनज्मि । युजिर् योगे । रुधादिः । लटि रूपं । निघातः । द्रवत् । द्रु गतावित्यस्य छांदसे लङि रूपं । व्यत्ययेनांतोदात्तत्वं । वहातः । वहेर्लेट्याडागमे रूपं ॥


उपो॑ नयस्व॒ वृष॑णा तपु॒ष्पोतेम॑व॒ त्वं वृ॑षभ स्वधावः ।

ग्रसे॑ता॒मश्वा॒ वि मु॑चे॒ह शोणा॑ दि॒वेदि॑वे स॒दृशी॑रद्धि धा॒नाः ॥३

उपो॒ इति॑ । न॒य॒स्व॒ । वृष॑णा । त॒पुः॒ऽपा । उ॒त । ई॒म् । अ॒व॒ । त्वम् । वृ॒ष॒भ॒ । स्व॒धा॒ऽवः॒ ।

ग्रसे॑ताम् । अश्वा॑ । वि । मु॒च॒ । इ॒ह । शोणा॑ । दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । अ॒द्धि॒ । धा॒नाः ॥३

उपो इति। नयस्व । वृषणा। तपुःऽपा । उत। ईं। अव । त्वं । वृषभ। स्वधाऽवः।

ग्रसेतां। अश्वा । वि। मुच। इह। शोणा। दिवेऽदिवे। सऽदृशीः। अद्धि। धानाः ॥३॥

वृषभ कामानां वर्षक स्वधावोऽन्नवन् हे इंद्र वृषणा सेचनसमर्थौ तपुष्पा तापकेभ्यः शत्रुभ्यो रक्षकावश्वावुपो नयस्व । अस्मत्समीपं प्रापय । उत अपि च त्वमीमेनं यजमानमव । पालय। शोणा शोणवर्णौ तावश्वाविहास्मिन्देवयजने वि मुच। विमुक्तौ तावश्वौ ग्रसेतां । विघसं भक्षयतां । त्वं तु सदृशीरेकरूपान् धाना भृष्टयवान् दिवे दिवे प्रतिदिवसमद्धि । भक्षय ॥ नयस्व । नयतेर्लोटि रूपं । तपुष्पा । पा रक्षणे । आतोऽनुपसर्गे कः । सुपां सुलुगिति डादेशः । इसुसोः सामर्थ्य इति संहितायां विसर्जनीयस्य षत्वं । कृदुत्तरपदप्रकृतिस्वरः । अव । अवतेर्लोटि रूपं । स्वधावः । मतुवसोरिति नकारस्य रुत्वं । निघातः । ग्रसेतां । ग्रसु अदन इत्यस्य लोट्यातामि रूपं । पादादित्वादनिघातः । आतामो लसार्वधातुकस्वरे धातुस्वरः । मुच । मुंचतेर्लोटि रूपं । आगमानुशासनस्यानित्यत्वान्नुमभावः । सदृशीः । समानशब्द उपपदे दृशिर् प्रेक्षण इत्यस्मात्समानान्ययोश्चेति कञ्प्रत्ययः । समानस्य दृग्दृश्वतुष्विति सभावः । टिड्ढाणञ् इत्यादिना ङीप् । तस्य पित्वादनुदात्तत्वे धातुस्वरः । अद्धि । अद भक्षण इत्यस्य लोट्यदादित्वाच्छ्पो लुक् । हुझल्भ्यो हेर्धिरिति ध्यादेशः । निघातः । धानाः । डुधाञ् धारणपोषणयोः । धापॄवस्यज्यतिभ्यो न इति नप्रत्ययः । प्रत्ययस्वरः ॥


चातुर्विंशिकेऽहनि माध्यंदिने सवने ब्राह्मणाच्छंसिशस्त्रे ब्रह्मणा त इत्यारंभणीया। सूत्रितं च । ब्रह्मणा ते ब्रह्मयुजा युनज्म्युरुं नो लोकमनु नेषि विद्वान् । आ° ७. ४.। इति ॥

ब्रह्म॑णा ते ब्रह्म॒युजा॑ युनज्मि॒ हरी॒ सखा॑या सध॒माद॑ आ॒शू ।

स्थि॒रं रथं॑ सु॒खमि॑न्द्राधि॒तिष्ठ॑न्प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम॑म् ॥४

ब्रह्म॑णा । ते॒ । ब्र॒ह्म॒ऽयुजा॑ । यु॒न॒ज्मि॒ । हरी॒ इति॑ । सखा॑या । स॒ध॒ऽमादे॑ । आ॒शू इति॑ ।

स्थि॒रम् । रथ॑म् । सु॒ऽखम् । इ॒न्द्र॒ । अ॒धि॒ऽतिष्ठ॑न् । प्र॒ऽजा॒नन् । वि॒द्वान् । उप॑ । या॒हि॒ । सोम॑म् ॥४

ब्रह्मणा। ते। ब्रह्मऽयुजा। युनज्मि। हरी इति । सखाया। सधऽमादे । आशू इति।

स्थिरं। रथं। सुऽखं। इंद्र।अधिऽतिष्ठन्। प्रऽजानन्। विद्वान्।उप। याहि। सोमं ॥४॥

हे इंद्र ब्रह्मयुजा ब्रह्मणा मंत्रेण योक्तव्यौ सधमादे । माद्यंति योद्धारोऽत्रेति मादो युद्धं । सहमादः सधमादः । तस्मिन्युद्धे सखाया समान प्रसिद्धी अत एवाशू क्षिप्रगमनोपेतौ ते तव हरी अश्वौ ब्रह्मणा स्तोत्रेण युनज्मि । रथे संयोजयामि । स्थिरं सुदृढं सुखं सुष्ठुद्वारं तादृशं रथमधितिष्ठन् आरूढस्त्वं सोमपानार्थमायाहि । प्रजानन्नित्याद्यगमत् ॥ ब्रह्मयुजा । युजेरौणादिकः कर्मणि क्विप् । युनज्मि । युजेर्लटि रूपं । निघातः । सधमादे। मदी हर्षे । अधिकरणे घञ्। सध मादस्थयोश्छंदसीति सहस्य सधादेशः । कृदुत्तरपदप्रकृतिस्वरः। रथं । अधिशीङ्स्थासां कर्मति कर्मसंज्ञा। सुखं । खनु विदारणे । अन्येभ्योऽपि दृश्यत इति डः । कृदुत्तरस्वरः ॥


मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये ।

अ॒त्याया॑हि॒ शश्व॑तो व॒यं तेऽरं॑ सु॒तेभिः॑ कृणवाम॒ सोमैः॑ ॥५

मा । ते॒ । हरी॒ इति॑ । वृष॑णा । वी॒तऽपृ॑ष्ठा । नि । री॒र॒म॒न् । यज॑मानासः । अ॒न्ये ।

अ॒ति॒ऽआया॑हि । शश्व॑तः । व॒यम् । ते॒ । अर॑म् । सु॒तेभिः॑ । कृ॒ण॒वा॒म॒ । सोमैः॑ ॥५

मा। ते। हरी इति । वृषणा। वीतऽपृष्ठा । नि। रीरमन्। यज॑मानासः । अन्ये ।

अति ऽआयाहि । शश्वतः । वयं । ते। अरं । सुतेभिः । कृणवाम । सोमैः ॥५॥

हे इंद्र वृषणा कामानां सेचकौ वीतपृष्ठा कमनीयपृष्ठभागौ ते तव हरी अन्ये अस्मदन्ये यजमानासो यजमाना मा नि रीरमन् । मा हर्षयन्। वयं तु सुतेभिरभिषुतैः सोमैस्ते तवारं पर्याप्तं कृणवाम । यथा तव तृप्तिर्भवति तथा कुर्म इत्यर्थः । त्वं तु अत्यायाहि शश्वतः । बहूनन्यानतिक्रम्य सोमपानार्थं शीघ्रमागच्छ ॥ वीतपृष्ठा । वी कांत्यादिषु । अस्मात् क्तप्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । रीरमन् । रमु क्रीडायामित्यस्य ण्यंतस्य लुङि चङि रूपं । न माङ्योगे इत्यडभावः । निघातः । अत्यायाहि । यातेर्लोटि रूपं । गतिर्गताविति पूर्वस्य निघातः । कृणवाम । कृणोतेर्लोटि रूपं । निघातः ॥ ॥१७॥


तवायं सोम इति माध्यंदिने सवने नेष्टुः प्रस्थितयाज्या। सूत्रितं च । तवायं सोमस्त्वमेह्यर्वाङिन्द्राय सोमाः प्रदिवः । आ°५. ५.। इति ॥

तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ्छ॑श्वत्त॒मं सु॒मना॑ अ॒स्य पा॑हि ।

अ॒स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र ॥६

तव॑ । अ॒यम् । सोमः॑ । त्वम् । आ । इ॒हि॒ । अ॒र्वाङ् । श॒श्व॒त्ऽत॒मम् । सु॒ऽमनाः॑ । अ॒स्य । पा॒हि॒ ।

अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । आ । नि॒ऽसद्य॑ । द॒धि॒ष्व । इ॒मम् । ज॒ठरे॑ । इन्दु॑म् । इ॒न्द्र॒ ॥६

तव। अयं । सोमः । त्वं । आ । इहि । अर्वाङ्। शश्वत्तमं । सुऽमनाः। अस्य । पाहि।

अस्मिन् । यज्ञे । बर्हिर्षि । आ । निऽसद्य । दधिष्व । इमं । जठरे। इंदुं । इंद्र ॥६॥

हे इंद्र अयं सोमस्तव त्वदर्थमभिषुतः । त्वमर्वाङ् सोमाभिमुख्येनैहि । आयाहि । आगत्य च सुमनाः शोभनमनस्को भूत्वा शश्वत्तमं भूयांसमस्येमं सोमं पाहि । पिब । बर्हिषि प्रवृद्धेऽस्मिन्यज्ञे निषद्योपविश्य इंदुं क्लेदनशीलमिमं सोमं जठर आ दधिष्व । धारय । यथा नाभेरधस्तान्न गच्छति तथा धारय ॥ अंगिरोभिरा गहि यज्ञियेभिः । ऋग्वे० १०.१४. ५.। इत्यत्र न यज्ञविशेषणं बर्हिर्भिन्नरूपं वा तदित्यतो नोत्सृज्यते ॥ इहि । इण् गतौ । अस्य लोटि रूपं । निघातः । शश्वत्तमं । उंछादित्वादंतोदात्तत्वं । पाहि। पा पान इत्यस्य लोटि रूपं । बहुलं छंदसीति शपो लुक् । निघातः । निषद्य । सदेर्ल्यपि सदिरप्रतेरिति षत्वं । लित्स्वरः । दधिष्व । दधातेर्लोटि छंदस्युभयथेति थास आर्धधातुकत्वादिडागमः । प्रत्ययस्वरः। इंदुं । उंदी क्लेदने । उंदेरिच्चादेरित्युप्रत्ययः । धातोरादेरिकारादेशः । निदित्यनुवृत्तेराद्युदात्तः ॥


स्ती॒र्णं ते॑ ब॒र्हिः सु॒त इ॑न्द्र॒ सोमः॑ कृ॒ता धा॒ना अत्त॑वे ते॒ हरि॑भ्याम् ।

तदो॑कसे पुरु॒शाका॑य॒ वृष्णे॑ म॒रुत्व॑ते॒ तुभ्यं॑ रा॒ता ह॒वींषि॑ ॥७

स्ती॒र्णम् । ते॒ । ब॒र्हिः । सु॒तः । इ॒न्द्र॒ । सोमः॑ । कृ॒ताः । धा॒नाः । अत्त॑वे । ते॒ । हरि॑ऽभ्याम् ।

तत्ऽओ॑कसे । पु॒रु॒ऽशाका॑य । वृष्णे॑ । म॒रुत्व॑ते । तुभ्य॑म् । रा॒ता । ह॒वींषि॑ ॥७

स्तीर्णं । ते। बर्हिः। सुतः। इंद्र। सोमः । कृताः। धानाः । अत्तवे। ते। हरिऽभ्यां ।

तत्ऽओकसे । पुरुऽशाकाय । वृष्णे। मरुत्वते । तुभ्यं । राता । हवींषि ॥७॥

हे इंद्र ते तवोपवेशनार्थं बर्हिः स्तीर्णं । विस्तृतं । तथा सोमः च त्वदर्थं सुतः । अभिषुतः । ते तव हरिभ्यामत्तवे भक्षणार्थं धाना भृष्टयवाः कृताः । संपादिताः। तदोकसे। तद्बर्हिरोको निलयो यस्य तस्मै । पुरुशाकाय बहुभिः स्तुत्याय यद्वा बहुसहायाय वृष्णे कामानां वर्षित्रे मरुत्वते । मरुतो देवविशः । तद्वते । एवंभूताय तुभ्यं हवींषि सोमाज्यादीनि राता । अस्माभिर्दत्तानि । तानि सेवस्वेति भावः ॥ स्तीर्णं । स्तृञ् आच्छादन इत्यस्य ऋत इद्धातोरितीत्वं । रदाभ्यामिति निष्ठानत्वं । प्रत्ययस्वरः । अत्तवे । अद भक्षणे इत्यस्मात्तुमर्थे तवेन्प्रत्ययः । नित्स्वरः । तदोकसे । बहुव्रीहौ पूर्वपदस्वरः । पुरुशाकाय। शच व्यक्तायां वाचीत्यस्मात्कर्मणि घञ्। चजोः कु घिण्ण्यतोरिति कुत्वं । कृदुत्तरपदस्वरः । मरुत्वते । तसौ मत्वर्थे इति भसंज्ञायां तकारस्य जश्त्वाभावः ।। प्रत्ययस्य पित्त्वादनुदात्तत्वे प्रातिपदिकस्वरः । राता। रा दाने इत्यस्मात्कर्मणि क्तः । प्रत्ययस्वरः ॥


इ॒मं नर॒ः पर्व॑ता॒स्तुभ्य॒माप॒ः समि॑न्द्र॒ गोभि॒र्मधु॑मन्तमक्रन् ।

तस्या॒गत्या॑ सु॒मना॑ ऋष्व पाहि प्रजा॒नन्वि॒द्वान्प॒थ्या॒३॒॑ अनु॒ स्वाः ॥८

इ॒मम् । नरः॑ । पर्व॑ताः । तुभ्य॑म् । आपः॑ । सम् । इ॒न्द्र॒ । गोभिः॑ । मधु॑ऽमन्तम् । अ॒क्र॒न् ।

तस्य॑ । आ॒ऽगत्य॑ । सु॒ऽमनाः॑ । ऋ॒ष्व॒ । पा॒हि॒ । प्र॒ऽजा॒नन् । वि॒द्वान् । प॒थ्याः॑ । अनु॑ । स्वाः ॥८

इमं । नरः । पर्वताः। तुभ्यं । आपः । सं। इंद्र । गोभिः । मधुऽमंतं । अक्रन्।

तस्य।आऽगत्य। सुऽमनाः।ऋष्व।पाहि।प्रऽजानन्।विद्वान्।पथ्याः।अनु।स्वाः॥८॥

हे इंद्र नरः कर्मणां नेतारोऽध्वर्य्वादयः पर्वता ग्रावाण आपश्चैते सर्वे संभूय तुभ्यं त्वदर्थमिमं सोमं गोभिः पयोभिर्मधुमंतं माधुर्योपेतं समक्रन्। सम्यगकार्षुः । ऋष्व दर्शनीय हे इंद्र सुमनाः शोभनमनस्को विद्वान्कर्माभिज्ञः स्वाः स्वकीयाः पथ्या वैदिके पथि कर्मणि साधुभूताः स्तुतीरनु प्रजानन् त्वं तस्य पाहि। इममभिषुतं सोमं पिब ॥ अक्रन् । करोतेलुङि रूपं । निघातः। आगत्य । गमेर्ल्यपि रूपं । लित्स्वरः। पाहि। पातेर्लोटि रूपं ॥


याँ आभ॑जो म॒रुत॑ इन्द्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते॑ ।

तेभि॑रे॒तं स॒जोषा॑ वावशा॒नो॒३॒॑ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिन्द्र ॥९

यान् । आ । अभ॑जः । म॒रुतः॑ । इ॒न्द्र॒ । सोमे॑ । ये । त्वाम् । अव॑र्धन् । अभ॑वन् । ग॒णः । ते॒ ।

तेभिः॑ । ए॒तम् । स॒ऽजोषाः॑ । वा॒व॒शा॒नः । अ॒ग्नेः । पि॒ब॒ । जि॒ह्वया॑ । सोम॑म् । इ॒न्द्र॒ ॥९

यान्। आ। अभजः। मरुतः । इंद्र। सोमे। ये । त्वां । अवर्धन्। अभवन्। गणः । ते।

तेभिः । एतं । सऽजोषाः । वावशानः । अग्नेः। पिब। जिह्वया। सोमं। इंद्र ॥९॥

हे इंद्र यान्मरुतः सोमे सोमपानविषय आभजः समभावयः ये च मरुतस्त्वामवर्धन् युद्धे प्रोत्साहोत्पादनेनावर्धयन् ये च मरुतस्ते तव गणोऽभवन् सहाया अभूवन्नित्यर्थः । हे इंद्र एवंविधस्तेभिस्तैर्मरुद्भिः सजोषाः संगतः सन् एतमभिषुतं सोमं वावशानः कामयमानस्त्वमग्नेराहुत्यधिकरणभूतस्याहवनीयस्य ज्वालारूपया जिह्वयेमं पिब ॥ अभजः । भज सेवायामित्यस्य लङि रूपं । यद्वृत्तयोगादनिघातः । अवर्धन्। वृधु वर्धन इत्यस्य ण्यंतस्य लङि रूपं । छंदस्युभयथेति झेरार्धधातुकत्वाण्णेरनिटीति णिलोपः । अत्रापि यद्योगादनिघातः । अभवन् । वाक्यभेदादनिघातः । वावशानः। वश कांतावित्यस्य यङ्लुकि चानशि रूपं । चित्स्वरः । पिब । पा पाने । निघातः ॥


इन्द्र॒ पिब॑ स्व॒धया॑ चित्सु॒तस्या॒ग्नेर्वा॑ पाहि जि॒ह्वया॑ यजत्र ।

अ॒ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु॑र्वा य॒ज्ञं ह॒विषो॑ जुषस्व ॥१०

इन्द्र॑ । पिब॑ । स्व॒धया॑ । चि॒त् । सु॒तस्य॑ । अ॒ग्नेः । वा॒ । पा॒हि॒ । जि॒ह्वया॑ । य॒ज॒त्र॒ ।

अ॒ध्व॒र्योः । वा॒ । प्रऽय॑तम् । श॒क्र॒ । हस्ता॑त् । होतुः॑ । वा॒ । य॒ज्ञम् । ह॒विषः॑ । जु॒ष॒स्व॒ ॥१०

इंद्र। पिब । स्वधया। चित्। सुतस्य । अग्नेः । वा। पाहि । जिह्वया। यजत्र।

अध्वर्योः । वा। प्रऽयतं । शक्र । हस्तात्। होतुः। वा। यज्ञं। हविषः । जुषस्व ॥१०॥

हे इंद्र स्वधया। स्वमात्मानं दधाति पोषयतीति स्वधा बलं । तेन । चिद्विकल्पार्थः । बलादपहृत्य सुतस्य सुतमभिषुतं हुतं वा पिब । यजत्र यष्टव्येंद्राग्नेर्ज्वालारूपया जिह्वया वाहुतं सोमं पाहि। पिब । हे शक्र समर्थेंद्र अध्वर्योर्हस्ताद्वा प्रयतं दातुमुपक्रांतं सोमं पिब । अथवा होतुर्यज्ञं यजनीयं वषट्कारोपेतं हविषो भागं जुषस्व । सेवस्व । सर्वथापि त्वमवागत्यास्माभिर्दीयमानं सोमं पिबेति भावः ॥ पिब । आमंत्रितस्याविद्यमानत्वेन पादादित्वादनिघातः। अध्वर्योः। अध्वरं कामयतीति क्यच् । कव्यध्वरेत्यकारलोपः। प्रत्ययस्वरः। तत एकादेशस्वरः। प्रयतं । यम उपरम इत्यस्य कर्मणि निष्ठा । शक्र । शक्लृ शक्तौ । स्फायितंचीत्यादिना रक्। हस्तात् । असिहसीत्यादिना तन् । नित्स्वरः । होतुः । जुहोतेस्ताच्छीलिकस्तृन् । नित्स्वरः । जुषस्व । जुषी प्रीतिसेवनयोरित्यस्य लोटि रूपं । निघातः ॥


शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥११

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥११

शुनं। हुवेम। मघऽवानं। इंद्रं । अस्मिन् । भरे। नृऽतमं । वाजऽसातौ।

शृण्वंतं । उग्रं । ऊतये । समत्ऽसु । घ्नंतं। वृत्राणि । संऽजितं । धनानां ॥११॥

पूर्वं व्याख्याता ॥ ॥१८॥


मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.३५&oldid=209112" इत्यस्माद् पुनः प्राप्तिः