ऋग्वेदः सूक्तं ३.७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ३.६ ऋग्वेदः - मण्डल ३
सूक्तं ३.७
गाथिनो विश्वामित्रः
सूक्तं ३.८ →
दे. अग्निः । त्रिष्टुप्


प्र य आरुः शितिपृष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः ।
परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घमायुः प्रयक्षे ॥१॥
दिवक्षसो धेनवो वृष्णो अश्वा देवीरा तस्थौ मधुमद्वहन्तीः ।
ऋतस्य त्वा सदसि क्षेमयन्तं पर्येका चरति वर्तनिं गौः ॥२॥
आ सीमरोहत्सुयमा भवन्तीः पतिश्चिकित्वान्रयिविद्रयीणाम् ।
प्र नीलपृष्ठो अतसस्य धासेस्ता अवासयत्पुरुधप्रतीकः ॥३॥
महि त्वाष्ट्रमूर्जयन्तीरजुर्यं स्तभूयमानं वहतो वहन्ति ।
व्यङ्गेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश ॥४॥
जानन्ति वृष्णो अरुषस्य शेवमुत ब्रध्नस्य शासने रणन्ति ।
दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ॥५॥
उतो पितृभ्यां प्रविदानु घोषं महो महद्भ्यामनयन्त शूषम् ।
उक्षा ह यत्र परि धानमक्तोरनु स्वं धाम जरितुर्ववक्ष ॥६॥
अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितं पदं वेः ।
प्राञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि व्रता गुः ॥७॥
दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति ।
ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः ॥८॥
वृषायन्ते महे अत्याय पूर्वीर्वृष्णे चित्राय रश्मयः सुयामाः ।
देव होतर्मन्द्रतरश्चिकित्वान्महो देवान्रोदसी एह वक्षि ॥९॥
पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवदूषुः ।
उतो चिदग्ने महिना पृथिव्याः कृतं चिदेनः सं महे दशस्य ॥१०॥
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥११॥

 


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननं ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वंदे विद्यातीर्थमहेश्वरं ॥

सोमस्येत्यनुवाके द्वादश सूक्तानि । तत्र प्र य आरुरित्येकादशर्चं सप्तमं सूक्तं । मंडलद्रष्टा विश्वामित्र ऋषिः । अनुक्तत्वात् त्रिष्टुप् छंदः । मंडलादिपरिभाषयाग्निर्देवता ॥ प्रातरनुवाकाश्विनशस्त्रयोः सूक्तत्रयस्य प्रत्यग्निरुषसस्त्रीणीति विनियोग उक्तः । तत्रेदं तृतीयं सूक्तं ॥


प्र य आ॒रुः शि॑तिपृ॒ष्ठस्य॑ धा॒सेरा मा॒तरा॑ विविशुः स॒प्त वाणीः॑ ।

प॒रि॒क्षिता॑ पि॒तरा॒ सं च॑रेते॒ प्र स॑र्स्राते दी॒र्घमायुः॑ प्र॒यक्षे॑ ॥१

प्र । ये । आ॒रुः । शि॒ति॒ऽपृ॒ष्ठस्य॑ । धा॒सेः । आ । मा॒तरा॑ । वि॒वि॒शुः॒ । स॒प्त । वाणीः॑ ।

प॒रि॒ऽक्षिता॑ । पि॒तरा॑ । सम् । च॒रे॒ते॒ इति॑ । प्र । स॒र्स्रा॒ते॒ इति॑ । दी॒र्घम् । आयुः॑ । प्र॒ऽयक्षे॑ ॥१

प्र। ये। आरुः । शितिऽपृष्ठस्य । धासेः । आ । मातरा। विविशुः । सप्त। वाणीः ।

परिऽक्षिता। पितरा।सं। चरेते इति । प्र। सर्स्राते इति । दीर्घं। आयुः। प्रऽयक्षे ॥१॥

शितिपृष्ठस्य नीलपृष्ठस्य धासेः सर्वस्य धारयितुरग्नेर्ये रश्मयः प्रारुः प्रकर्षेणोद्गच्छंति ते रश्मयो मातरा मातरौ द्यावापृथिव्यावाविविशुः । सर्वतः प्रविष्टाः । सप्त सर्पणस्वभावा वाणीर्वननीया नदीश्चाविविशुः । परिक्षिता परितो वर्तमाने पितरा पितरौ द्यावापृथिव्यौ तेनाग्निना संचरेते । सम्यक् व्यवहरतः । तथा प्रयक्षे प्रकर्षेण यष्टुं दीर्घमायुरग्नेश्चिरं जीवनं प्रभूतमन्नं वा प्रसर्स्राते । प्रसारयतः । संपादयत इत्यर्थः । यद्वा द्यावापृथिव्यौ प्रयक्षे प्रकर्षेण सततं यष्टुं यजमानस्य दीर्घमायुः संपादयतः ॥ प्र । निपातत्वेनाद्युदात्तः । तस्य छंदसि व्यवहिताश्चेति आरुरित्यनेन संबंधः । आरुः । ऋ गतौ । लिट्युसि रूपं । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । शितिपृष्ठस्य । पृष्ठशब्दस्थक्प्रत्ययांतोंऽतोदात्तः । शितेर्नित्याबह्वच् बहुव्रीहावभसदित्युत्तरपदप्रकृतिस्वरत्वं । धासेः । डुधाञ् धारणपोषणयोः । धेट् पाने वा । तस्मात्कर्तर्यौणादिकः सिः । प्रत्ययस्वरः । मातरा। नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृमातृपितृजामातृदुहितृ । उ०२.९६.। इति तृजंतत्वेन निपातनादंतोदात्तः । ऋतो ङीति गुणः । सुपां सुलुगिति सुपो डादेशः । विविशुः । विश प्रवेशने। लिटि असंयोगाल्लिट् किदिति किद्वद्भावाद्गुणाभावः । निघातः । सप्त । सृप्लृ गतौ । सप्यशूभ्यां तुट् च । उ॰ १. १५६.। इति सपेर्विधीयमानः कनिन् तुडागमश्च बाहुलकादेतस्यापि भवति । ऋकारस्याकारश्च । प्रत्ययनित्त्वेऽपि व्यत्ययेनांतोदात्तत्वं । परिक्षिता। क्षि निवासगत्योः । क्विप् चेति क्विप् । पित्वात्तुगागमः । प्रादिसमासः । कृदुत्तरपदप्रकृतिस्वरत्वं । सुपां सुलुगिति सुपो डादेशः । चरेते । चर गतिभक्षणयोः । संपूर्वाच्चरतेः समस्तृतीयायुक्तात् । पा॰ १. ३.५४.। इत्यात्मनेपदं । निघातः । सर्स्राते । सृ गतौ । अयमंतर्भावितण्यर्थः । रेफश्छांदसः । ईदूदेदिति प्रगृह्यसंज्ञा। निघातः । आयुः । इण् गतौ । उसिन्नित्यनुवृत्तौ एतेर्णिच्चेत्युसिन् । णित्त्वाद्वृद्धिः । नित्वादाद्युदात्तः । प्रयक्षे। यज देवपूजासंगतिकरणदानेष्वित्यस्मात्तुमर्थे सेन्प्रत्ययः । प्रादिसमासः । कृदुत्तरपदप्रकृतिस्वरत्वं । कृन्मेजंत इत्यव्ययसंज्ञायां अव्ययादाप्सुप इति सुपो लुक् ।।


दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒ अश्वा॑ दे॒वीरा त॑स्थौ॒ मधु॑म॒द्वह॑न्तीः ।

ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यन्तं॒ पर्येका॑ चरति वर्त॒निं गौः ॥२

दि॒वक्ष॑सः । धे॒नवः॑ । वृष्णः॑ । अश्वाः॑ । दे॒वीः । आ । त॒स्थौ॒ । मधु॑ऽमत् । वह॑न्तीः ।

ऋ॒तस्य॑ । त्वा॒ । सद॑सि । क्षे॒म॒ऽयन्त॑म् । परि॑ । एका॑ । च॒र॒ति॒ । व॒र्त॒निम् । गौः ॥२

दिवक्षसः । धेनवः । वृष्णः । अश्वाः । देवीः । आ । तस्थौ। मधुऽमत्। वहंतीः ।

ऋतस्य । त्वा । सदसि । क्षेमऽयंतं । परि। एका। चरति । वर्तनिं। गौः ॥२॥

वृष्णः कामानां वर्षितुरग्नेरश्वा वाहनरूपा रोहिता दिवक्षसो दिवं व्याप्य वर्तमाना धेनवो ऽग्नेः प्रीणयित्र्यो भवंति । सोऽयमग्निर्मधुमत् माधुर्योपेतमुदकं वहंतीर्देवीर्द्योतनशीला नदीरातस्थौ । आतिष्ठति । प्राप्नोतीत्यर्थः । गोशब्दो माध्यमिकवाग्वाची माध्यमिकां वाचमिति नैरुक्ता इत्यभिधानात् । एका गौः काचिदुक्तविधा वाक् ऋतस्योदकस्य सदसि स्थानेंऽतरिक्ष क्षेमयंतं क्षेममावासमिच्छंतं वर्तनिं ज्वालाः प्रवर्तयंतं त्वा हे अग्ने त्वां परिचरति । सेवते ॥ दिवक्षसः । अक्षू व्याप्तौ । दिवं व्याप्नुवंतीति दिवक्षसः । वक्ष रोषे ।। रोषार्थोऽप्ययं धातुरत्र व्याप्तो वर्तते । दिवं वक्षंति व्याप्नुवंतीति । असुन्नित्यसुन्प्रत्ययः । लोपो व्योर्वलीति वलोपः । कृदुत्तरपदप्रकृतिस्वरत्वं । धेनवः । नुरित्यनुवृत्तौ धेट इच्चेति नुप्रत्ययः । इकारस्य गुणः । प्रत्ययस्वरः ।। वृष्णः । वृष सेचने । कनिन्युवृषितक्षिराजीत्यादिना कनिन् । कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तः । अश्वाः । अशू व्याप्तौ । अशिप्रुषिलटिकणीत्यादिना क्वन् । नित्त्वादाद्युदात्तः । तस्थौ । ष्ठा गतिनिवृत्तौ । छंदसि लुङ्लङ्लिट इति वर्तमाने लिट् । आत औ णल इत्यौकारः । निघातः । मधुमत् । निदित्यनुवृत्तौ फलिपाटिनमिमनिजनामित्यादिना मनेरुप्रत्ययः । तत्संनियोगेन नकारस्य धकारः। नित्त्वादाद्युदात्तः । त्वा । युष्मच्छब्दस्य द्वितीयैकवचनांतस्य त्वामाविति त्वादेशः । अनुदात्तश्च । क्षेमयंतं । क्षि निवासगत्योः । अर्तिस्तुसुहुसृधृक्षीत्यादिना मन् । क्षेममावासमात्मन इच्छंतं । सुप आत्मनः क्यजिति क्यच् । क्यचि चेतीत्वं अकृत्सार्वधातुकयोर्दीर्घ इति दीर्घत्वं च न छंदस्यपुत्रस्येति प्रतिषिध्यते । क्यचश्चित्त्वादंतोदात्तः । तदंताच्छतृप्रत्ययः । शप् । शपः पित्त्वादनुदात्तत्वं शतुश्च सार्वधातुकस्वरेण । तयोः क्यचा सहैकादेशे कृते एकादेश उदात्तेनोदात्त इत्येकादेश उदात्तः । अम्। सुप्त्वादनुदात्तः । उदात्तादनुदात्तस्येत्यमः स्वरितत्वं । एका । इण् गतौ । इण्भीकापेत्यादिना कन् । तदंतादाप् । नित्स्वरः । वर्तनिं । वृतु वर्तने । अंतर्भावितण्यर्थः । वृतेश्च । उ°२. १०७.। इत्यनिः । गुणः । व्यत्ययेनांतोदात्तत्वं । गौः । गम्लृ गतौ । गमेर्डोः । उ० २.६७.। इति डोप्रत्ययः । डित्वाट्टिलोपः । गोतो णिदि। सुपो णित्त्वाद्वृद्धिः । प्रत्ययस्वरः ॥


आ सी॑मरोहत्सु॒यमा॒ भव॑न्ती॒ः पति॑श्चिकि॒त्वान्र॑यि॒विद्र॑यी॒णाम् ।

प्र नील॑पृष्ठो अत॒सस्य॑ धा॒सेस्ता अ॑वासयत्पुरु॒धप्र॑तीकः ॥३

आ । सी॒म् । अ॒रो॒ह॒त् । सु॒ऽयमाः॑ । भव॑न्तीः । पतिः॑ । चि॒कि॒त्वान् । र॒यि॒ऽवित् । र॒यी॒णाम् ।

प्र । नील॑ऽपृष्ठः । अ॒त॒सस्य॑ । धा॒सेः । ताः । अ॒वा॒स॒य॒त् । पु॒रु॒धऽप्र॑तीकः ॥३

आ। सीं। अरोहत्। सुऽयमः । भवंतीः। पतिः। चिकित्वान्। रयिऽवित्। रयीणां।

प्र। नीलऽपृष्ठः । अतसस्य । धासेः । ताः । अवासयत् । पुरुधऽप्रतीकः ॥३॥

रयीणां रयिवित् धनानां मध्ये विशिष्टधनस्य लंभयिता चिकित्वान् ज्ञानवान् पतिरश्वानां पतिरग्निः सीं सर्वतः सुयमाः सुखेन नियंतुं शक्या भवंतीर्या वडवा आरोहत् आरोहयति स्म नीलपृष्ठः पुरुधप्रतीको बहुधाविक्षिप्तांगः सोऽग्निरतसस्य सततगमनस्य धासेः पोषणार्थं ता अश्वाः प्रावासयत् । प्रकर्षेण वासयति स्म । निवासेन श्रमे ऽपनीते सततगमनं पोषयितुं शक्यमित्यर्थः ॥ सीं। चादयोऽनुदात्ता इत्यनुदात्तः। अरोहत्। रुह प्रादुर्भावे । लङि रूपं । निघातः । सुयमाः । यम उपरमे । अस्माच्छक्यार्थ ईषद्दुःसुष्विति खल् । कृदुत्तरपदप्रकृतिस्वरत्वं । पतिः । पा रक्षणे । पातेर्डतिरिति डित्त्वाट्टिलोपः । प्रत्ययस्वरः । चिकित्वान्। चिति संज्ञाने। क्वसौ रूपं । रयिवित् । विद्लृ लाभे । क्विप् । रयीणां । नामन्यतरस्यामिति विभक्ते रुदात्तत्वं । नीलपृष्ठः । नीलशब्दो वृषादित्वादाद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं । अतसस्य । अत सातत्यगमन इत्यस्मादत्यविचमितमिनमिरभिलभिनभितपिपतिपनिपणिमहिभ्यः । उ० ३.११७.। इत्यसच् । चित्स्वरः । अवासयत् । वस निवासे । हेतुमतीति णिच् लुङ्लङ्लृङ्क्ष्वडित्यडागसः । तिंङ्ङतिङ इति निघातः । पुरुधप्रतीकः । पुरुशब्द इह संख्यावाची । संख्याया विधार्थे धेति धाप्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं । ह्रस्वश्छांदसः ॥


महि॑ त्वा॒ष्ट्रमू॒र्जय॑न्तीरजु॒र्यं स्त॑भू॒यमा॑नं व॒हतो॑ वहन्ति ।

व्यङ्गे॑भिर्दिद्युता॒नः स॒धस्थ॒ एका॑मिव॒ रोद॑सी॒ आ वि॑वेश ॥४

महि॑ । त्वा॒ष्ट्रम् । ऊ॒र्जय॑न्तीः । अ॒जु॒र्यम् । स्त॒भु॒ऽयमा॑नम् । व॒हतः॑ । व॒ह॒न्ति॒ ।

वि । अङ्गे॑भिः । दि॒द्यु॒ता॒नः । स॒धऽस्थे॑ । एका॑म्ऽइव । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ ॥४

महि। त्वाष्ट्रं। ऊर्जयंतीः । अजुर्यं । स्तभुऽयमानं। वहतः । वहंति।।

वि। अंगेभिः। दिद्युतानः। सधऽस्थे। एकांऽइव। रोदसी इति। आ। विवेश ॥४॥

ऊर्जयंतीरबलं बलिनं कुर्वंत्यो वहतो वहनपरा नद्यो महि महांतं त्वाष्ट्रं त्वष्टुः सुतमजुर्यं जरयितुमनर्हं स्तभूयमानं लोकानां स्तंभनं धारणमिच्छंतमग्निं वहंति । धारयंति । सधस्थेऽपां समीपेंऽगेभिरवयवैर्दिद्युतानो दीप्यमानः सन् अग्नी रोदसी द्यावापृथिव्यौ व्याविवेश । विविधं प्रविष्टवान् । रोदस्योर्दृष्टांतः । एकामिव । यथा पुमानेकां स्त्रियं प्रविशति । तद्वत् ॥ त्वाष्ट्रं। त्वष्टुरपत्यमित्यर्थे तस्यापत्यमित्यण् । प्रत्ययस्वरः। स्तभूयमानं। स्तभु स्तंभनं । तदिच्छंतं । सुप आत्मनः क्यच् । अकृत्सार्वधातुकयोरिति दीर्घः । तदंताद्व्यत्ययेन शानच् । अकारांतत्वादाने मुक् । शानचो लसार्वधातुकस्वरेणानुदात्तत्वे कृते क्यजंताद्धातुस्वरः शिष्यते । अंगेभिः । बहुलं छंदसीति भिस ऐसादेशाभावः । बहुवचने झल्येदित्येत्वं । दिद्युतानः । द्युत दीप्तौ । छंदसि लिट् । तस्य कानजादेशः । द्विवचनं । हलादिशेषे कृते द्यु इत्यस्याभ्यासस्य द्युतिस्वाप्योः संप्रसारणं । पा० ७.४.६७.। इति संप्रसारणं । संप्रसारणाच्चेति पूर्वरूपत्वं । चित्त्वादंतोदात्तत्वं । एकामिव । इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं चेति वचनात्पूर्वपदप्रकृतिस्वरः । विवेश । विश प्रवेशन इत्यस्माल्लिटि रूपं । निघातः ॥


जा॒नन्ति॒ वृष्णो॑ अरु॒षस्य॒ शेव॑मु॒त ब्र॒ध्नस्य॒ शास॑ने रणन्ति ।

दि॒वो॒रुचः॑ सु॒रुचो॒ रोच॑माना॒ इळा॒ येषां॒ गण्या॒ माहि॑ना॒ गीः ॥५

जा॒नन्ति॑ । वृष्णः॑ । अ॒रु॒षस्य॑ । शेव॑म् । उ॒त । ब्र॒ध्नस्य॑ । शास॑ने । र॒ण॒न्ति॒ ।

दि॒वः॒ऽरुचः॑ । सु॒ऽरुचः॑ । रोच॑मानाः । इळा॑ । येषा॑म् । गण्या॑ । माहि॑ना । गीः ॥५

जानंति । वृष्णः । अरुषस्य । शेवं। उत। ब्रध्नस्य । शासने। रणंति ।

दिवःऽरुचः । सुरुचः । रोच॑मानाः। इळा। येषां। गण्या माहिना । गीः ॥५॥

वृष्णः कामानां वर्णितुररुषस्य । रुषा हिंसकाः । तद्रहितस्य । शत्रुराहित्येन रोचमानस्येत्यर्थः । तथाविधस्याग्नेः शेवमाश्रयविषयं सुखं जना जानंति । उत अपि च जानंतस्ते ब्रघ्नस्य महतोऽग्नेः शासन आज्ञायां सर्वे जना रणंति । रमंते । तथा च मंत्रः । म १.६०. २.। अस्य शासुरुभयासः सचंते हविष्मंत उशिजो ये च मर्ता इति । अपि च । येषां मनुष्याणामग्निविषया माहिना महतीळा गीः स्तुतिरूपा वाक् गण्या गणनीया पूज्या ते दिवोरुचो द्युलोकस्य रोचकाः सुरुचः शोभनदीप्तयो रोचमाना देदीप्यमाना भवंति ॥ जानंति । ज्ञा अवबोधने । क्र्यादित्वात्तस्य ज्ञाजनोर्जेति जादेशः । प्रत्ययस्वरः । अरुषस्य । रुष रिष हिंसार्थाः । रोषंतीति रुषा हिंसकाः । इगुपधज्ञेति कः । न संति रुषा यस्यासावरुषः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वं । शेवं। शीङ स्वप्ने । इण्शीङ्भ्यां वन्निति वन्। नित्स्वरः । शासने । शासु अनुशिष्टौ । अस्माद्भावे ल्युट् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वं । रणंति । निघातः । दिवोरुचः । रुच दीप्तौ । अस्मात्क्विप् । तत्पुरुषे कृति बहुलमिति षष्ट्या अलुक् । कृदुत्तरपदप्रकृतिस्वरत्वं । सुरुचः । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वं । इळा। ईळ स्तुतौ । ह्रस्वश्छांदसः । यथा वाक्शब्दष्टावंतस्तद्वत् । पित्त्वादनुदात्तत्वे धातुस्वरः। गण्या। गण संख्याने । स्वार्थे ण्यंतादचो यत् । यतोऽनाव इत्याद्युदात्तत्वं । माहिना । महेरिनण् चेति इनण् । णित्त्वादुपधावृद्धिः । व्यत्ययेनाद्युदात्तः । गीः । गॄ शब्दे। अस्मात्क्विप् । ऋत इद्धातोरितीत्वं। र्वोरुपधाया इति दीर्घः। प्रातिपदिकस्वरः॥ ॥१॥


उ॒तो पि॒तृभ्यां॑ प्र॒विदानु॒ घोषं॑ म॒हो म॒हद्भ्या॑मनयन्त शू॒षम् ।

उ॒क्षा ह॒ यत्र॒ परि॒ धान॑म॒क्तोरनु॒ स्वं धाम॑ जरि॒तुर्व॒वक्ष॑ ॥६

उ॒तो इति॑ । पि॒तृऽभ्या॑म् । प्र॒ऽविदा॑ । अनु॑ । घोष॑म् । म॒हः । म॒हत्ऽभ्या॑म् । अ॒न॒य॒न्त॒ । शू॒षम् ।

उ॒क्षा । ह॒ । यत्र॑ । परि॑ । धान॑म् । अ॒क्तोः । अनु॑ । स्वम् । धाम॑ । ज॒रि॒तुः । व॒वक्ष॑ ॥६

उतो इति। पितृऽभ्याँ। प्रऽविदा। अनु। घोषं। महः। महत्ऽभ्याँ। अनयंत। शूषं।

उक्षा। ह। यत्र । परि। धानं। अक्तोः । अनु। स्वं । धाम। जरितुः । ववक्ष ॥६॥

उतो अपि च महो महद्भ्यां महतो महद्भ्यां पितृभ्यां द्यावापृथिवीभ्यां प्रविदा प्रवेदनेनानु घोषमनुघुष्यमाणं शूषं सुखं । शूषं शुनमिति सुखनामसु पाठात् । तत्सुखं यजमाना अग्निमनयंत । अग्निं प्रापितवंतः ।। सोऽग्निर्यत्र यजमानेषूक्षा वृष्ट्युत्पादनेनोदकस्य सेक्ताक्तोः । अक्तुशब्दो रात्रिमाचष्टे । शर्वरी अक्तुरिति तन्नामसु पाठात अज्यते सिच्यते नीहारेण जगदस्यामिति व्युत्पत्तेश्च । तस्या रात्रेः परि धानं परितो धारकं स्वमात्मीयं धाम तेजो जरितुः स्तोतुः स्तुतिश्रवणार्थमनु ववक्ष ह। समीपे वहति खलु । संनिहितं करोतीत्यर्थः ॥ उतो। ऊदिति प्रगृह्यसंज्ञा । एवमादित्वादंतोदात्तः । घोषं । घुषिर् शब्दे । अस्मात्कर्मणि घञ्। लघूपधगुणः । त्रित्स्वरः । महः । अकारतकारयोर्लोपश्छांदसः । बृहन्महतोरुपसंख्यानमिति विभक्तेरुदात्तत्वं । अनयंत । णीञ् प्रापण इत्यस्य लङि रूपं । निघातः । उक्षा । उक्ष सेचने। श्वन्नुक्षन्नित्यादिना कनिन्प्रत्ययांतत्वेनोक्षन्शब्दो निपातितः । व्यत्ययेनांतोदात्तः । ह । चादित्वादनुदात्तः । यत्र । लितीति प्रत्ययात्पूर्वस्योदात्तत्वं । अक्तोः । अंजू व्यक्तिगतिम्रक्षणेष्वित्यस्मात् व्याज्यर्तिभ्यः क्तुरिति क्तुः । कित्त्वादनिदितामिति नलोपः । प्रत्ययस्वरः । ववक्ष। वह प्रापणे । छंदसि लुङ्लिङ्लिट इति वर्तमाने लिट् । सकारग्छांदसः । तिपो णलादेशः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वं ॥


अ॒ध्व॒र्युभिः॑ प॒ञ्चभिः॑ स॒प्त विप्राः॑ प्रि॒यं र॑क्षन्ते॒ निहि॑तं प॒दं वेः ।

प्राञ्चो॑ मदन्त्यु॒क्षणो॑ अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ॥७

अ॒ध्व॒र्युऽभिः॑ । प॒ञ्चऽभिः॑ । स॒प्त । विप्राः॑ । प्रि॒यम् । र॒क्ष॒न्ते॒ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः ।

प्राञ्चः॑ । म॒द॒न्ति॒ । उ॒क्षणः॑ । अ॒जु॒र्याः । दे॒वाः । दे॒वाना॑म् । अनु॑ । हि । व्र॒ता । गुरिति॒ गुः ॥७

अध्वर्युऽभिः। पंचऽभिः। सप्त। विप्राः। प्रियं । रक्षंते। निऽहितं । पदं । वेरिति वेः ।

प्रांचः। मदंति। उक्षणः। अजुर्याः। देवाः। देवानां। अनु। हि। व्रता। गुरिति गुः ॥७॥

उद्गातृवर्गव्यतिरिक्ता द्वादशर्त्विजो भवंति । तत्र सप्त वषङ्कर्तारः । पंचान्येऽध्वरं नयंति । तैः पंचभिरध्वर्युभिः सह सप्त विप्रा मेधाविनो होत्रका वेर्गमनस्वभावस्याग्नेः प्रियं निहितमाहवनीयाख्यं पदं रक्षंते । पालयंति । प्रांचः सोमपानार्थं प्राङ्मुखा गच्छंतोऽजुर्या जरयितुमशक्या उक्षणः सोमरसस्य सेक्तारो देवाः स्तोतारो मदंति । हृष्यंति । किंच ते देवा देवानां संबंधीनि व्रता व्रतानि यज्ञाननुगुः । अन्वगच्छन् । हि प्रसिद्धौ । अग्नेः प्रसादाद्देवा यज्ञान् लब्धवंत इत्यर्थः ॥ रक्षंते । रक्ष पालने । व्यत्ययेनात्मनेपदं । निघातः । निहितं । डुधाञ् धारणपोषणयोरित्यस्य कर्मणि निष्ठायां दधातेर्हिरिति हिरादेशः । गतिरनंतर इति गतेः। प्रकृतिस्वरत्वं । वेः । वी कांतिगत्यादिषु । अस्माद्विच् । सार्वधातुकार्धधातुकयोः । पा० ७. ३.८४.। इति गुणः । ङसिङसोश्चेति पूर्वरूपत्वं । प्रांचः । अनिगंतोंऽचताविति पूर्वपदप्रकृतिस्वरत्वं । मदंति । मदी हर्षे । निघातः । गुः । इण् गतावित्यस्माल्लुङि रूपं । इणो गा लुङीति गादेशः । आत इति झेर्जुसादेशः । बहुलं छंदसीत्यडभावः । हिशब्दयोगान्न निहन्यते ॥


दैव्या॒ होता॑रा प्रथ॒मा न्यृ॑ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदन्ति ।

ऋ॒तं शंस॑न्त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥८

दैव्या॑ । होता॑रा । प्र॒थ॒मा । नि । ऋ॒ञ्जे॒ । स॒प्त । पृ॒क्षासः॑ । स्व॒धया॑ । म॒द॒न्ति॒ ।

ऋ॒तम् । शंस॑न्तः । ऋ॒तम् । इत् । ते । आ॒हुः॒ । अनु॑ । व्र॒तम् । व्र॒त॒ऽपाः । दीध्या॑नाः ॥८

दैव्या। होतारा। प्रथमा। नि। ऋंजे। सप्त। पृक्षासः । स्वधया। मदंति।।

ऋतं । शंसंतः । ऋतं । इत् । ते । आहुः । अनु । व्रतं । व्रतऽपाः । दीध्यानाः ॥ ८॥

दैव्या दैव्यौ देवतारूपौ होतारा होतारौ होमनिष्पादकौ प्रथमा प्रथमौ मुख्याविमं चामुं चाग्नी न्यृंजे। ऋंजतिः प्रसाधनकर्मेति यास्कः । मंत्रद्रष्टा विश्वामित्रोऽहं प्रसाधयामि । सप्त पृक्षासः सप्त होत्रकाः स्वधया सोमेन मदंति । हृष्यंति । ऋतं स्तोत्रं शंसंतो व्रतपा व्रतस्य यज्ञकर्मणो रक्षितारो दीध्याना दीप्यमानास्ते होत्रका अनु व्रतं यज्ञे कर्मणि ऋतमित् सत्यमेवाग्निमाहुः । वदंति ॥ ऋंजे । ऋजि भृजी भर्जने । निपूर्वोऽयं धातुः प्रसाधने वर्तते । निघातः । स्वधया । स्वं लोकं यजमानस्य दधाति विदधातीति स्वधा सोमः । आतो ऽनुपसर्गे क इति कः । उत्तरपदप्रकृतिस्वरत्वं । आहुः । ब्रूञ् व्यक्तायां वाचीत्यस्य लटि ब्रुवः पंचानामादित


वृ॒षा॒यन्ते॑ म॒हे अत्या॑य पू॒र्वीर्वृष्णे॑ चि॒त्राय॑ र॒श्मयः॑ सुया॒माः ।

देव॑ होतर्म॒न्द्रत॑रश्चिकि॒त्वान्म॒हो दे॒वान्रोद॑सी॒ एह व॑क्षि ॥९

वृ॒ष॒ऽयन्ते॑ । म॒हे । अत्या॑य । पू॒र्वीः । वृष्णे॑ । चि॒त्राय॑ । र॒श्मयः॑ । सु॒ऽया॒माः ।

देव॑ । हो॒तः॒ । म॒न्द्रऽत॑रः । चि॒कि॒त्वान् । म॒हः । दे॒वान् । रोद॑सी॒ इति॑ । आ । इ॒ह । व॒क्षि॒ ॥९

वृषऽयंते । महे । अत्याय । पूर्वीः । वृष्णे । चित्राय । रश्मयः । सुऽयामाः।

देव। होतः। मंद्रऽतरः।चिकित्वान्।महः। देवान्।रोदसी इति।आ। इह। वक्षि ॥९॥

देव देदीप्यमान होतर्दैवानामाह्वातः हे अग्ने महे महतेऽत्याय सर्वानप्यतिक्रम्य वर्तमानाय चित्राय नानाविधवर्णाय । यद्वा चित्राय देवैश्चायनीयाय पूज्याय । वृष्णे कामानां वर्षित्रे तुभ्यं त्वदर्थं पूर्वीः प्रभूताः सुयामा अतिशयेन विस्तृता रश्मयः सर्वतो व्याप्ता ज्वाला वृषयंते । वृषेवाचरंति । सेचका इव भवंति । होतारो ज्वालाभिः समिद्धमग्निं दृष्ट्वा सोमाज्यपयःप्रभृतीनि हवींषि तत्र प्रक्षिपंतीति ज्वालानां वृषत्वं । यद्वा षष्ठ्यर्थे चतुर्थी । तथा च महतोऽत्यस्य चित्रस्य वृष्णोऽग्नेर्बहवो रश्मयो वृषेवाचरंति । वृष्ट्युत्पादनद्वारा पर्जन्यवदाचरंतीत्यर्थः । अपि च । मंद्रतरो यजमानस्य मादयितृतमश्चिकित्वाञ्ज्ञानोपेतः स त्वं महो महतः पूज्यान् यष्टव्यान् देवान् रोदसी द्यावापृथिव्यौ चेह वैदिकेऽस्मिन्कर्मण्यावक्षि । आवह ॥ वृषायंते । उपमानादित्यनुवृत्तौ कर्तुः क्यङ् सलोपश्चेति क्यङ्। अकृत्सार्वधातुकयोरिति दीर्घः । पादादित्वान्न निघातः । धातुस्वरः। महे। अकारतकारयोर्लोपश्छांदसः । बृहन्महतोरिति विभक्तेरुदात्तत्वं । पूर्वीः । पॄ पालनपूरणयोरित्यस्मात् कुरित्यनुवृत्तौ पॄभिदिव्यधिगृधीत्यादिना कुप्रत्ययः । कित्त्वाद्गुणप्रतिषेधे उदोष्ठ्यपूर्वस्येत्युत्वं । उरण् रपरः । तस्माद्वोतो गुणवचनादिति ङीष् । यणादेशे कृते हलि चेति दीर्घः । वा छंदसीति सवर्णदीर्घः ।। रश्मयः । अशू व्याप्तौ । अश्नुवते सर्वं जगदिति मिरित्यनुवृत्तौ अश्नोते रश्च । उ॰ ४.४६.। इति मिप्रत्ययो रशादेशश्च । प्रत्ययस्वरः । सुयामाः । यमनं यामः । भावे घन्। बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वं ।। देव । अपादादाविति पर्युदासात्षाष्टिकमाद्युदात्तत्वं । होतः । ह्वयतेस्ताच्छीलिकस्तृन् । बहुलं छंदसीति संप्रसारणं । अपादाद्यामंत्रितत्वान्निघातः । मंद्रतरः । मदि स्तुत्यादिषु । स्फायितंचिवंचीत्यादिना रक् । इदित्त्वान्नुम् । तरपः पित्त्वादनुदात्तत्वे रक्प्रत्ययस्वरः । वक्षि । वह प्रापण इत्यस्य बहुलं छंदसीति शपो अनुक् । टत्वकत्वषत्वानि । निघातः ॥


पृ॒क्षप्र॑यजो द्रविणः सु॒वाचः॑ सुके॒तव॑ उ॒षसो॑ रे॒वदू॑षुः ।

उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देन॒ः सं म॒हे द॑शस्य ॥१०

पृ॒क्षऽप्र॑यजः । द्र॒वि॒णः॒ । सु॒ऽवाचः॑ । सु॒ऽके॒तवः॑ । उ॒षसः॑ । रे॒वत् । ऊ॒षुः॒ ।

उ॒तो इति॑ । चि॒त् । अ॒ग्ने॒ । म॒हि॒ना । पृ॒थि॒व्याः । कृ॒तम् । चि॒त् । एनः॑ । सम् । म॒हे । द॒श॒स्य॒ ॥१०

पृक्षऽप्रयजः। द्रविणः । सुऽवाचः। सुऽकेतवः। उषसः । रेवत् । ऊषुः ।

उतो इति।चित्।अग्ने।महिना। पृथिव्याः। कृतं । चित्। एनः।सं। महे। दशस्य ॥१०॥

द्रविणः । द्रवति सततं गच्छतीति द्रविणःशब्देनाग्निरभिधीयते । द्रविणः सततगमनस्वभाव हे अग्ने पृक्षप्रयजः पृक्षाणि हविर्लक्षणान्यन्नानि प्रकर्षेण यष्टुं प्रक्रम्यते यासूषःसु ताः पृक्षप्रयजः । सुवाचः प्रातरनुवाकादिशोभना वाचो यासां ताः । सुकेतवो वयसां मनुष्याणां च शब्दैः सुप्रज्ञानाः । एवंविधा उषसो रेवत् अस्माकं धनयुक्तं यथा भवति तथोषुः । व्युच्छंति । उतो चित् अपि च हे अग्ने पृथिव्या विस्तीर्णाया ज्वालाया महिना महत्त्वेन कृतं संपादितं चित् यत्किंचिदेनः प्राण्युपघातादिलक्षणं पापं महे महते यजमानाय मह्यं मदर्थ संदशस्य । संक्षपय ॥ पृक्षप्रयजः । अन्येभ्योऽपि दृश्यंत इति कर्मणि विच् दृशिग्रहणादधिकृतो भवत्तीत्युक्तं । बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरत्वं । द्रविणः । द्रु गतावित्यस्मात् द्रुदक्षिभ्यामिनन्नितीनप्रत्ययः । गुणावादेशौ। संबुद्धौ सोर्लोपाभावग्छांदसः । आमंत्रितत्वान्निघातः । सुवाचः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वं । रेवत् । रयिर्धनमस्मिन्विद्यत इति मतुप् । ह्रस्वनुड्भ्यामिति मतुबुदात्तः । छंदसीर इति वत्वं । रयेर्मतौ बहुलं छंदसीति संप्रसारणं । परपूर्वत्वे गुणः । ऊषुः । उष दाहे । दाहार्थोऽप्ययं धातुरत्र प्रकाशने वर्तते । छंदसि लुङ्ङिति वर्तमाने लिट् । उसि रूपं । निघातः । पृथिव्याः । प्रथ प्रख्यान इत्यस्मात्प्रथेः षिवन् संप्रसारणं चेति षिवन्प्रत्ययः । तत्संनियोगेन धातोः संप्रसारणं । षिद्गौरादिभ्यश्चेति ङीष् । प्रत्ययस्वरेणांतोदात्तः । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वं । दशस्य । निघातः ॥


इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥११

इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।

स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥११

इळां । अग्ने। पुरुऽदंसं । सनिं । गोः। शश्वत्तमं । हव॑मानाय । साध।

स्यात्।नः। सूनुः। तनयः।विजाऽवा। अग्ने।सा।ते। सुऽमतिः। भूतु। अस्मे इति ॥११॥

हे अग्ने पुरुदंसं । अपोऽप्नो दंसो वेष इति कर्मनामसु पठितत्वाद्दंसःशब्दः कर्मवाची । पुरूणि बहूनि दंसांसि कर्माणि यस्याः सा । तां बहुकर्माणं गोः सनिं गवादिपशून्संपादयित्रीमिळामेतन्नामिकां गोरूपां देवतां शश्वत्तमं निरंतरं हवमानाय यजमानाय मह्यं साध। साधय । किंच नोऽस्माकं सूनुः पुत्रस्तनयः पौत्रः स्याद्भवत्विति ते तव या सुमतिः शोभना बुद्धिः सा विजावाबंध्या सत्यस्मे अस्माकं भूतु । भवतु ॥ शश्वत्तमं । उच्छादिषु पाठादंतोदात्तत्वं । साध। राध साध संसिद्धौ। अंतर्भावितण्यर्थोऽयं । लोटि व्यत्ययेन शप् । सेर्ह्यपिच्चेति हिरादेशः । तस्यातो हेरिति लुक् । निघातः । विजावा। जनी प्रादुर्भावे । अस्मादन्येभ्योऽपि दृश्यंत इति वनिप् । विड्वनोरनुनासिकस्यादित्यात्वं । कृदुत्तरपदप्रकृतिस्वरत्वं । लिंगव्यत्ययः । भूतु । भू सत्तायां । बहुलं छंदसीति शपो लुक् । भूसुवोस्तिङीति गुणप्रतिषेधः ॥ ॥२॥


[सम्पाद्यताम्]

३.७.११

टिप्पणी

तृतीये मण्डले अन्या सार्वत्रिक ऋचा अयं अस्ति – इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध। स्यान्नः सूनुस्तनयो विजावा अग्ने सा ते सुमतिर्भूत्वस्मे।। -ऋ. ३.७.११ अस्मिन् ऋचायां कथनमस्ति – हे अग्नि, स्तुतिकर्त्रे(हवमानाय) इडां/इरां साधय, प्रापय। कीदृशीं इरां – या इरा गवामर्थे पुरुदंसं सनिरस्ति एवं शश्वत्तमा अस्ति। तृणादि वनस्पतीनां संज्ञा इरा अस्ति। इरायाः वर्धनं गुरुत्वाकर्षण शक्तेः विपरीतायां दिशायां भवति। विपरीतदिशायां वर्धने अग्निः, पृथिव्याः सारभूता शक्तिः उत्तरदायी अस्ति। अनेन कारणेन अत्र अग्नेः स्तुतिरस्ति। यथा – यथा पृथिव्यां अग्नेः विकासं भविष्यति, जड पदार्थस्य गुरुत्वाकर्षण शक्तेः पराभवं भविष्यति। ऋचानुसारेण, अयं इरा गौ हेतु पुरुदंसं सनिः अस्ति। अत्र सनि शब्दस्य अर्थं बोधनीयमस्ति। लौकिक भाषायां गवामर्थे प्रयुक्तं तृणादिकं सानी इत्युच्यते। सम्प्रति भाषायां धातुरूपेण सन, सनि इत्यादीनां अस्तित्वं नास्ति, किन्तु भाषायां अस्य प्रयोगेण एव अस्य अर्थं बोधनीयमस्ति। सनकादि कौमारसर्गस्य ऋषीणां शक्तिः स्मृतिः उच्यते(गर्ग संहिता ५.१५.२४)। अयं संकेतमस्ति यत् सनि शब्दस्य पूर्वरूपं शनिरस्ति। यदा शनेः मंदतायाः लोपं भविष्यति, तदा तत् सनिः भविष्यति। सनिः स्मृत्या सह सम्बद्धमस्ति। मेधा श्रुत्या सह, अयं प्रतीयते। अनेन कारणेन ऋग्वेदे प्रयोगमस्ति – सनिं मेधां अयासिषम्(ऋ. १.१८.६), सनिं मेधां अरिष्टं दुष्टरं सहः(ऋ. २.३४.७)। अत्र भौतिक रूपेण या गौः अस्ति, सूक्ष्म रूपेण सा बुद्धिः प्रतीयते। यदा इळायाः विकासं भवति, तदा सा सुमतिर्भविष्यति।

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.७&oldid=329780" इत्यस्माद् प्रतिप्राप्तम्