ऋग्वेदः सूक्तं ३.६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ३.६ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ३.५ ऋग्वेदः - मण्डल ३
सूक्तं ३.६
गाथिनो विश्वामित्रः
सूक्तं ३.७ →
दे. अग्निः। त्रिष्टुप्


प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः ।
दक्षिणावाड्वाजिनी प्राच्येति हविर्भरन्त्यग्नये घृताची ॥१॥
आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो ।
दिवश्चिदग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः ॥२॥
द्यौश्च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय ।
यदी विशो मानुषीर्देवयन्तीः प्रयस्वतीरीळते शुक्रमर्चिः ॥३॥
महान्सधस्थे ध्रुव आ निषत्तोऽन्तर्द्यावा माहिने हर्यमाणः ।
आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू ॥४॥
व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ ।
त्वं दूतो अभवो जायमानस्त्वं नेता वृषभ चर्षणीनाम् ॥५॥
ऋतस्य वा केशिना योग्याभिर्घृतस्नुवा रोहिता धुरि धिष्व ।
अथा वह देवान्देव विश्वान्स्वध्वरा कृणुहि जातवेदः ॥६॥
दिवश्चिदा ते रुचयन्त रोका उषो विभातीरनु भासि पूर्वीः ।
अपो यदग्न उशधग्वनेषु होतुर्मन्द्रस्य पनयन्त देवाः ॥७॥
उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः ।
ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ॥८॥
ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः ।
पत्नीवतस्त्रिंशतं त्रीँश्च देवाननुष्वधमा वह मादयस्व ॥९॥
स होता यस्य रोदसी चिदुर्वी यज्ञंयज्ञमभि वृधे गृणीतः ।
प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये ॥१०॥
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥११॥

सायणभाष्यम्

प्र कारव इत्येकादशर्चं षष्ठं सूक्तं वैश्वामित्रमाग्नेयं प्र कारव इत्यनुक्रांतत्वात् ॥ प्रातरनुवाकाश्विनशस्त्रयोः सूक्तविनियोगः पूर्वसूक्त एव प्रत्यग्निरुषसस्त्रीणीत्यनेनोक्तः ॥ आद्याग्नेये पशौ हविषो याज्या । सूत्रितं च । प्र कारवो मनना वच्यमाना एकाचेतत्सरस्वती नदीनां । आ°३. ७.। इति ॥ ऐभिरग्न इति पात्नीवतग्रहस्य याज्या । सूचितं च । आग्नीध्रः पात्नीवतस्य यजत्यैभिरग्ने सरथं याह्यर्वाङिति । आ° ५.१९.।। इति ॥


प्र का॑रवो मन॒ना व॒च्यमा॑ना देव॒द्रीचीं॑ नयत देव॒यन्तः॑ ।

द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये॑ति ह॒विर्भर॑न्त्य॒ग्नये॑ घृ॒ताची॑ ॥

प्र। कारवः। मनना। वच्यमानाः । देवद्रीचीं। नयत । देवऽयंतः।।

दक्षिणाऽवाट्। वाजिनी। प्राची। एति । हविः। भरंती । अग्नये । घृताची ॥१॥

हे कारवः कर्तारो देवयंतो देवकामा यूयं मनना मननेन मंत्रेण वच्यमानाः प्रेर्यमाणाः संतो देवद्रीचीं देवानंचंतीं स्रुचं प्रणयत । प्रकर्षेण नयत। प्रापयत । दक्षिणावाट् आहवनीयस्य दक्षिणत उह्यमाना वाजिन्यन्नवती प्राची प्रागग्रामग्नयेऽग्न्यर्थं हविर्भरंती हविर्धारयंती घृताची घृतेनाक्ता स्रुक् एति । गच्छति ।।


आ रोद॑सी अपृणा॒ जाय॑मान उ॒त प्र रि॑क्था॒ अध॒ नु प्र॑यज्यो ।

दि॒वश्चि॑दग्ने महि॒ना पृ॑थि॒व्या व॒च्यन्तां॑ ते॒ वह्न॑यः स॒प्तजि॑ह्वाः ॥

आ। रोदसी इति । अपृणाः । जायमानः । उत। प्र। रिक्थाः । अध। नु। प्रयज्यो इति प्रऽयज्यो ।

दिवः । चित्। अग्ने। महिना । पृथिव्याः। वच्यंतां । ते। वह्नयः। सप्तऽजिह्वाः ॥२॥

हे अग्ने जायमानस्त्वं रोदसी द्यावापृथिव्यौ आ अपृणाः । आपूरयः । किंच हे प्रयज्यो यष्टव्य दिवश्चित् दिवश्चांतरिक्षात्पृथिव्याश्च महिना महिम्ना प्ररिक्थाः । अतिरिक्तश्चासि। अनेन वह्नेरतिशय उक्तः । एवंविधस्य ते तव वह्नयोऽग्नयोंऽशभूता वह्नय आहवनीयादयो वच्यंतां । किंविधास्ते । सप्तजिह्वाः । सप्तजिह्वात्मकाः ॥


द्यौश्च॑ त्वा पृथि॒वी य॒ज्ञिया॑सो॒ नि होता॑रं सादयन्ते॒ दमा॑य ।

यदी॒ विशो॒ मानु॑षीर्देव॒यन्ती॒ः प्रय॑स्वती॒रीळ॑ते शु॒क्रम॒र्चिः ॥

द्यौः । च । त्वा । पृथिवी। यज्ञियासः । नि। होतारं। सादयंते । दमाय ।

यदि । विशः । मानुषीः । देवऽयंतीः । प्रयस्वतीः । ईळते । शुक्रं । अर्चिः ॥३॥

द्यौश्चांतरिक्षं पृथिवी च यज्ञियासो यज्ञार्हा देवाश्च होतारं त्वा त्वां दमाय । दमो यज्ञः । तस्मा अर्थं निषादयंते । उपशमयंति । यदि यदा मानुषीर्मनोः संबंधिन्यो देवयंतीर्देवकामाः प्रयस्वतीर्हविष्मत्यो विशः प्रजा होतारः शुक्रं दीप्तमर्चिरीळते । स्तुवंति ॥


म॒हान्स॒धस्थे॑ ध्रु॒व आ निष॑त्तो॒ऽन्तर्द्यावा॒ माहि॑ने॒ हर्य॑माणः ।

आस्क्रे॑ स॒पत्नी॑ अ॒जरे॒ अमृ॑क्ते सब॒र्दुघे॑ उरुगा॒यस्य॑ धे॒नू ॥

महान्। सधऽस्थे । ध्रुवः। आ। निऽसत्तः। अंतः। द्यावा। माहिने इति । हर्यमाणः।

आस्क्रे इति । सपत्नी इति सऽपत्नी । अजरे इति । अमृक्ते इति । सबर्दुघे इति सबःऽदुघे। उरुऽगायस्य । धेनू इति ॥४॥

महान् अधिको हर्यमाणो यजमानादिभिः काम्यमानः । यद्वा यजमानाय धनं कामयमानोऽग्निर्द्यावांतर्द्युभूम्योर्मध्ये माहिने महिना युक्ते सधस्थे स्वकीये स्थाने ध्रुवोऽचलः सन् आ निषत्तो निषण्णो भवति । आस्क्रे आक्रमणशीले सपत्नी समान एकः सूर्यः पतिर्ययोस्ते सपत्न्यौ अजरे जरारहिते अमृते अन्येनाहिंसिते सबर्दुघे । सवरित्यमृतमुदकं । तस्य दोग्ध्र्यौ द्यावापृथिव्यावुरुगायस्य पृथुगमनस्याधिकस्तुतेर्वाग्नेर्धेनू प्रीणयित्र्यौ भवतः ॥


व्र॒ता ते॑ अग्ने मह॒तो म॒हानि॒ तव॒ क्रत्वा॒ रोद॑सी॒ आ त॑तन्थ ।

त्वं दू॒तो अ॑भवो॒ जाय॑मान॒स्त्वं ने॒ता वृ॑षभ चर्षणी॒नाम् ॥

व्रता। ते। अग्ने । महतः। महानि । तव । क्रत्वा। रोदसी इति। आ। ततंथ।

त्वं । दूतः। अभवः। जाय॑मानः। त्वं । नेता। वृषभ। चर्षणीनां ॥५॥

हे अग्ने महतः सर्वोत्कृष्टस्य ते तव व्रता व्रतानि त्वत्संबंधीनि कर्माणि महानि महांति भवंति। तव क्रत्वा क्रतुना प्रकाशेन रोदसी द्यावापृथिव्यावाततंथ । विस्तृतवानसि । त्वं दूतोऽभवः । भव । हे वृषभ वर्षणशील त्वं जायमानः सन् चर्षणीनां यजमानानां नेतासि । फलप्रापकोऽसि ॥ ॥२६॥


ऋ॒तस्य॑ वा के॒शिना॑ यो॒ग्याभि॑र्घृत॒स्नुवा॒ रोहि॑ता धु॒रि धि॑ष्व ।

अथा व॑ह दे॒वान्दे॑व॒ विश्वा॑न्स्वध्व॒रा कृ॑णुहि जातवेदः ॥

ऋतस्य । वा । केशिना। योग्याभिः। घृत ऽस्नुवा। रोहिता। धुरि। धिष्व ।।

अथ। आ। वह । देवान्। देव। विश्वान्। सुऽअध्वरा। कृणुहि। जातऽवेदः ॥६॥

हे देव केशिना प्रशस्तकेशवंतौ योग्याभिर्योजनसाधनभूताभी रज्जुभिर्युक्तौ घृतस्नुवा घृतं क्षरंतो रोहिता रोहितावश्वौ ऋतस्य यज्ञस्य ॥ वाशब्दश्चार्थे ॥ धुरि च धिष्व । धेहि । योजयेत्यर्थः । अथानंतरं विश्वान् सर्वान्देवान् रथे समारोप्य आ वह । हे जातवेदः तान् स्वध्वरा स्वध्वरान् शोभनाध्वरान् कृणुहि । कुरु ॥


दि॒वश्चि॒दा ते॑ रुचयन्त रो॒का उ॒षो वि॑भा॒तीरनु॑ भासि पू॒र्वीः ।

अ॒पो यद॑ग्न उ॒शध॒ग्वने॑षु॒ होतु॑र्म॒न्द्रस्य॑ प॒नय॑न्त दे॒वाः ॥

दिवः। चित् । आ। ते। रुचयंत। रोकाः। उषः। विऽभातीः। अनु। भासि। पूर्वीः ।

अपः। यत् । अग्ने। उशधक् । वनेषु । होतुः। मंद्रस्य । पनयंत । देवाः ॥ ७॥

हे अग्ने यत् यदा वनेष्वरण्येष्वप उशधक् कामयमानो दहंश्च वर्तसे तदा ते रोकाश्च त्वदीया दीप्तयो दिवश्चित् सूर्यादप्यारुचयंत । आरोचंते । विभातीर्विशेषेण भांतीः प्रकाशमानाः पूर्वीः पुराणीरुष उषसोऽनु भासि । मंद्रस्य स्तुत्यस्य होतुस्तव रोकान् देवाः स्तोतारः पनयंत । स्तुवंति ॥


उ॒रौ वा॒ ये अ॒न्तरि॑क्षे॒ मद॑न्ति दि॒वो वा॒ ये रो॑च॒ने सन्ति॑ दे॒वाः ।

ऊमा॑ वा॒ ये सु॒हवा॑सो॒ यज॑त्रा आयेमि॒रे र॒थ्यो॑ अग्ने॒ अश्वाः॑ ॥

उरौ। वा। ये। अंतरिक्षे। मदंति । दिवः । वा। ये। रोचने। संति । देवाः ।

ऊमाः। वा। ये। सुऽहवासः । यजत्राः। आऽयेमिरे। रथ्यः । अग्ने। अश्वाः ॥८॥

उरौ विस्तीर्णेंऽतरिक्षे ये देवा मदंति । हृष्यंति । दिवः सूर्यस्य रोचने प्रकाशन आलोके ये देवाः संति । ऊमाः । ऊमसंज्ञकाः पितरः संति । यजत्रा यष्टव्या ये देवाः सुहवासः शोभनाह्वाना आयेमिरे । आयच्छंति । रथ्य रथिनस्तव येऽश्वाः संति हे अग्ने तैः सर्वैः सार्धमायाहीत्युत्तरयर्चा संबंधः ॥


ऐभि॑रग्ने स॒रथं॑ याह्य॒र्वाङ्ना॑नार॒थं वा॑ वि॒भवो॒ ह्यश्वाः॑ ।

पत्नी॑वतस्त्रिं॒शतं॒ त्रीँश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ॥

आ। एभिः। अग्ने।सऽरथं। याहि ।अर्वाङ्। नानाऽरथं। वा। विऽभवः।हि।अश्वाः।

पत्नीऽवतः। त्रिंशतं। त्रीन्। च। देवान्। अनुऽस्वधं । आ। वह। मादयस्व ॥९॥

हे अग्ने एभिः पूर्वोक्तैर्देवगणैः सार्धं सरथं समानरथं नानारथं वा त्वद्रथं समारोप्यायाह्यर्वाङ् अस्मदभिमुखमायाहि । यतः कारणात्तेऽश्वा विभवः प्रभवः समर्थाः ॥ हिः प्रसिद्धौ ॥ पत्नीवतः पत्नीभिः सहितान् त्रिंशतं त्रींश्च त्रयस्त्रिंशतं देवांश्चानुष्वधं बलार्थमन्नार्थं वावह । मादयस्व सोमेनेति विशेषः ।।


स होता॒ यस्य॒ रोद॑सी चिदु॒र्वी य॒ज्ञंय॑ज्ञम॒भि वृ॒धे गृ॑णी॒तः ।

प्राची॑ अध्व॒रेव॑ तस्थतुः सु॒मेके॑ ऋ॒ताव॑री ऋ॒तजा॑तस्य स॒त्ये ॥

सः। होता। यस्य। रोदसी इति। चित्। उर्वी इति। यज्ञंऽयज्ञं। अभि। वृधे। गृणीतः।

प्राची इति। अध्वराऽइव। तस्थतुः । सुमेके इति सुऽमेके। ऋतवरी इत्यृतऽवरी। ऋतऽजातस्य । सत्ये इति ॥१०॥

स एव होता भवति उर्वी विस्तीर्ण रोदसी चित् द्यावापृथिव्यावपि यस्याग्नेर्यज्ञंयज्ञं सर्वं यज्ञं वृधे समृद्धयेऽभिगृणीतः । प्रशंसतः । ऋतजातस्य जातसत्यस्य होतुः सुमेके सुरूपे ऋतावरी उदकवत्यौ सत्ये सत्यस्वरूपे प्राची अनुकूले तस्थतुः । तिष्ठतः । कथमिव । अध्वरेव । अध्वराविव । यज्ञाविव ॥


इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥

इळां । अग्ने । पुरुऽदंसं । सनिं । गोः । शश्वत्तमं । हवमानाय । साध ।

स्यात्। नः।सूनुः। तनयः।विजाऽवा। अग्ने। सा।ते।सुऽमृतिः। भूतु।अस्मे इति ॥११॥

इळामग्न इतीयं पूर्वं व्याख्याता ॥ ॥२७॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये द्वितीयाष्टकेऽष्टमोऽध्यायः समाप्तः ।।


मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.६&oldid=141109" इत्यस्माद् पुनः प्राप्तिः