ऋग्वेदः सूक्तं ३.५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ३.५ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ३.४ ऋग्वेदः - मण्डल ३
सूक्तं ३.५
गाथिनो विश्वामित्रः
सूक्तं ३.६ →
दे. अग्निः। त्रिष्टुप्


प्रत्यग्निरुषसश्चेकितानोऽबोधि विप्रः पदवीः कवीनाम्।
पृथुपाजा देवयद्भिः समिद्धोऽप द्वारा तमसो वह्निरावः॥ १ ॥
प्रेद्वग्निर्वावृधे स्तोमेभिर्गीर्भिः स्तोतॄणां नमस्य उक्थैः।
पूर्वीर्ऋतस्य संदृशश्चकानः सं दूतो अद्यौदुषसो विरोके॥ २ ॥
अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र ऋतेन साधन्।
आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्यो मतीनाम्॥ ३ ॥
मित्रो अग्निर्भवति यत्समिद्धो मित्रो होता वरुणो जातवेदाः।
मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम्॥ ४ ॥
पाति प्रियं रिपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य।
पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः॥ ५ ॥
ऋभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान्।
ससस्य चर्म घृतवत्पदं वेस्तदिदग्नी रक्षत्यप्रयुच्छन्॥ ६ ॥
आ योनिमग्निर्घृतवन्तमस्थात्पृथुप्रगाणमुशन्तमुशानः।
दीद्यानः शुचिर्ऋष्वः पावकः पुनःपुनर्मातरा नव्यसी कः॥ ७ ॥
सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति प्रस्वो घृतेन।
आप इव प्रवता शुम्भमाना उरुष्यदग्निः पित्रोरुपस्थे॥ ८ ॥
उदु ष्टुतः समिधा यह्वो अद्यौद्वर्ष्मन्दिवो अधि नाभा पृथिव्याः।
मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद्यजथाय देवान्॥ ९ ॥
उदस्तम्भीत्समिधा नाकमृष्वोऽग्निर्भवन्नुत्तमो रोचनानाम्।
यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे॥ १० ॥
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध।
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे॥ ११ ॥

सायणभाष्यम्

' प्रत्यग्निरुषसः ' इत्येकादशर्चं पञ्चमं सूक्तं वैश्वामित्रं त्रैष्टुभमाग्नेयम् । अत्रानुक्रमणिका- ' प्रत्यग्निः ' इति । प्रातरनुवाकाश्विनशस्त्रयोरिदमादिसूक्तत्रयस्य' विनियोगः । सूत्रितं च- ' प्रत्यग्निरुषस इति त्रीणि ' ( आश्व. श्रौ. ४. १३) इति । ' इळामग्ने ' इत्यस्योक्तो विनियोगः ।।


प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नोऽबो॑धि॒ विप्रः॑ पद॒वीः क॑वी॒नाम् ।

पृ॒थु॒पाजा॑ देव॒यद्भि॒ः समि॒द्धोऽप॒ द्वारा॒ तम॑सो॒ वह्नि॑रावः ॥

प्रति॑ । अ॒ग्निः । उ॒षसः॑ । चेकि॑तानः । अबो॑धि । विप्रः॑ । प॒द॒ऽवीः । क॒वी॒नाम् ।

पृ॒थु॒ऽपाजाः॑ । दे॒व॒यत्ऽभिः॑ । सम्ऽइ॑द्धः । अप॑ । द्वारा॑ । तम॑सः । वह्निः॑ । आ॒व॒रित्या॑वः ॥

प्रति । अग्निः । उषसः । चेकितानः। अबोधि। विप्रः । पदऽवीः । कवीनां।

पृथुऽपाजः। देवयत्ऽभिः। संऽइद्धः।अप। द्वारा। तमसः। वह्निः। आवरित्यवः॥१॥

उषसश्चेकितानो जानन् विप्रो मेधावी कवीनां क्रांतदृशां पदवीर्मार्गान् गच्छन योऽग्निः प्रत्यबोधि प्रतिबुध्यते पृथुपाजाः पृथुतेजा देवयद्भिर्देवकामैः समिद्धः सम्यक् दीप्तः स वह्निस्तमसोऽज्ञानस्य द्वारागमनद्वाराण्यपावः । अपावृणोति ॥


प्रेद्व॒ग्निर्वा॑वृधे॒ स्तोमे॑भिर्गी॒र्भिः स्तो॑तॄ॒णां न॑म॒स्य॑ उ॒क्थैः ।

पू॒र्वीरृ॒तस्य॑ सं॒दृश॑श्चका॒नः सं दू॒तो अ॑द्यौदु॒षसो॑ विरो॒के ॥

प्र । इत् । ऊं॒ इति॑ । अ॒ग्निः । व॒वृ॒धे॒ । स्तोमे॑भिः । गीः॒ऽभिः । स्तो॒तॄ॒णाम् । न॒म॒स्यः॑ । उ॒क्थैः ।

पू॒र्वीः । ऋ॒तस्य॑ । स॒म्ऽदृशः॑ । च॒का॒नः । सम् । दू॒तः । अ॒द्यौ॒त् । उ॒षसः॑ । वि॒ऽरो॒के ॥

प्र। इत्। ऊं इति ।अग्निः। ववृधे। स्तोमेभिः।गीःऽभिः। स्तोतॄणां । नमस्यः। उक्थैः।

पूर्वीः । ऋतस्य । संऽदृशः। चकानः। सं। दूतः। अद्यौत्। उषसः। विऽरोके ॥२॥

नमस्यः पूज्यो योऽग्निः स्तोतॄणां स्तोत्रैर्गीर्भिर्वाग्भिरुक्थैः शस्त्रैश्च प्रववृधे वृद्धिं प्राप्नोति दूतो देवानां दूतः सः पूर्वीर्बह्वीर्ऋतस्यादित्यस्य संदृशो दीप्तीञ्चकानः कामयमानः सन् उषसो विरोके विरोचने प्रातःकाले समद्यौत् । द्योतते ! इत् उ पूरणौ ॥


अधा॑य्य॒ग्निर्मानु॑षीषु वि॒क्ष्व१॒॑पां गर्भो॑ मि॒त्र ऋ॒तेन॒ साध॑न् ।

आ ह॑र्य॒तो य॑ज॒तः सान्व॑स्था॒दभू॑दु॒ विप्रो॒ हव्यो॑ मती॒नाम् ॥

अधा॑यि । अ॒ग्निः । मानु॑षीषु । वि॒क्षु । अ॒पाम् । गर्भः॑ । मि॒त्रः । ऋ॒तेन॑ । साध॑न् ।

आ । ह॒र्य॒तः । य॒ज॒तः । सानु॑ । अ॒स्था॒त् । अभू॑त् । ऊं॒ इति॑ । विप्रः॑ । हव्यः॑ । म॒ती॒नाम् ॥

अधायि । अग्निः । मानुषीषु । विक्षु । अपां। गर्भः। मित्रः । ऋतेन। साधन्।

आ। हर्यतः । यजतः । सानु । अस्थात्। अभूत्। ऊं इति।विप्रः। हव्यः । मतीनां ॥३॥

मित्रो यजमानानां मित्रभूत ऋतेन सत्येन साधन् कामान् साधयन् अपां गर्भोऽग्निर्मानुषीषु मनोः संबंधिनीषु विक्षु प्रजास्वधायि । देवैराहितः । किंच हर्यतः स्पृहणीयो यजतो यष्टव्यः स सानूच्छ्रितं धिष्ण्यमुत्तरवेद्याख्यमास्थात् । अध्यतिष्ठत् । विप्रः प्राज्ञोऽग्निर्मतीनां मातॄणां स्तोतॄणां हव्यः स्तुत्योऽभूत् ॥


मि॒त्रो अ॒ग्निर्भ॑वति॒ यत्समि॑द्धो मि॒त्रो होता॒ वरु॑णो जा॒तवे॑दाः ।

मि॒त्रो अ॑ध्व॒र्युरि॑षि॒रो दमू॑ना मि॒त्रः सिन्धू॑नामु॒त पर्व॑तानाम् ॥

मि॒त्रः । अ॒ग्निः । भ॒व॒ति॒ । यत् । सम्ऽइ॑द्धः । मि॒त्रः । होता॑ । वरु॑णः । जा॒तऽवे॑दाः ।

मि॒त्रः । अ॒ध्व॒र्युः । इ॒षि॒रः । दमू॑नाः । मि॒त्रः । सिन्धू॑नाम् । उ॒त । पर्व॑तानाम् ॥

मित्रः। अग्निः । भवति । यत्। संऽइद्धः । मित्रः । होता। वरुणः । जातऽवेदाः ।

मित्रः । अध्वर्युः । इषिरः । दमूनाः । मित्रः । सिंधूनां । उत। पर्वतानां ॥४॥

इयमृक् अग्निं सर्वात्मकत्वेन स्तौति । यद्यदा समिद्धोऽग्निः तदा मित्रो भवति । सूर्यो भवति । मित्र एव सन् होता भवति । वरुणो भवति जातवेदा जातप्रज्ञः । स मित्रोऽध्वर्युर्भवति दमूना दानमना दांतमना वा । स एवेषिरः प्रेरको वायुर्भवति । उत अपि च सिंधूनां नदीनां पर्वतानां च मित्रः सहायो भवति ॥


पाति॑ प्रि॒यं रि॒पो अग्रं॑ प॒दं वेः पाति॑ य॒ह्वश्चर॑णं॒ सूर्य॑स्य ।

पाति॒ नाभा॑ स॒प्तशी॑र्षाणम॒ग्निः पाति॑ दे॒वाना॑मुप॒माद॑मृ॒ष्वः ॥

पाति॑ । प्रि॒यम् । रि॒पः । अग्र॑म् । प॒दम् । वेः । पाति॑ । य॒ह्वः । चर॑णम् । सूर्य॑स्य ।

पाति॑ । नाभा॑ । स॒प्तऽशी॑र्षाणम् । अ॒ग्निः । पाति॑ । दे॒वाना॑म् । उ॒प॒ऽमाद॑म् । ऋ॒ष्वः ॥

पाति । प्रियं । रिपः । अग्रं । पदं । वेः । पाति। यह्वः । चरणं । सूर्यस्य ।

पाति। नाभा। सप्तऽशीर्षाणं । अग्निः । पाति । देवानां। उपऽमादं । ऋष्वः ॥५॥

ऋष्वो दर्शनीयोऽग्निः वेर्गंत्र्याः सर्वव्याप्ताया रिपो भूम्याः प्रियमग्रं प्रथमं पदं स्थानं पाति । रक्षति । यह्वो महान् सूर्यस्य चरणं । चरत्यत्रेति चरणमंतरिक्षं । पाति । नाभा नाभावंतरिक्षस्य मध्ये सप्तशीर्षाणं मरुद्गणं पाति । देवानामुपमादमुपमादकं यज्ञं पाति । रक्षति ॥ ॥ २४॥


ऋ॒भुश्च॑क्र॒ ईड्यं॒ चारु॒ नाम॒ विश्वा॑नि दे॒वो व॒युना॑नि वि॒द्वान् ।

स॒सस्य॒ चर्म॑ घृ॒तव॑त्प॒दं वेस्तदिद॒ग्नी र॑क्ष॒त्यप्र॑युच्छन् ॥

ऋ॒भुः । च॒क्रे॒ । ईड्य॑म् । चारु॑ । नाम॑ । विश्वा॑नि । दे॒वः । व॒युना॑नि । वि॒द्वान् ।

स॒सस्य॑ । चर्म॑ । घृ॒तऽव॑त् । प॒दम् । वेः । तत् । इत् । अ॒ग्निः । र॒क्ष॒ति॒ । अप्र॑ऽयुच्छन् ॥

ऋभुः। चक्रे । ईड्यं । चारु। नाम । विश्वानि। देवः । वयुनानि । विद्वान् ।

ससस्य । चर्म। घृतऽवत् । पदं। वेः। तत् । इत् । अग्निः । रक्षति। अप्रऽयुच्छन्॥६॥

ऋभुर्महान् विश्वानि सर्वाणि वयुनानि ज्ञातव्यानि पदार्थानि विद्वान् जानन् देवोऽग्निरीड्यं स्तुत्यं चारु मनोज्ञं नाम जलं चक्रे । करोति । नामेत्युदकनामसु पाठात् । वेर्व्याप्तस्य समस्य स्वपतः शांतज्वालस्याप्यनेश्चर्म रूपं घृतवद्दीप्तिमद्भवति । सोऽग्निस्तज्जलमप्रयुच्छन् अप्रमाद्यन् रक्षति । पालयति ॥


आ योनि॑म॒ग्निर्घृ॒तव॑न्तमस्थात्पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः ।

दीद्या॑न॒ः शुचि॑रृ॒ष्वः पा॑व॒कः पुनः॑पुनर्मा॒तरा॒ नव्य॑सी कः ॥

आ । योनि॑म् । अ॒ग्निः । घृ॒तऽव॑न्तम् । अ॒स्था॒त् । पृ॒थुऽप्र॑गानम् । उ॒शन्त॑म् । उ॒शा॒नः ।

दीद्या॑नः । शुचिः॑ । ऋ॒ष्वः । पा॒व॒कः । पुनः॑ऽपुनः । मा॒तरा॑ । नव्य॑सी॒ इति॑ । क॒रिति॑ कः ॥

आ। योनिं । अग्निः । घृतऽवंतं । अस्थात्। पृथुऽप्रगानं । उशंतं । उशानः ।

दीद्यानः । शुचिः । ऋष्वः । पावकः । पुनःऽपुनः । मातरा । नव्यसी इति । करिति कः ॥७॥

उशानः कामयमानोऽग्निर्घृतवंतं दीप्तिमंतं पृथुप्रगाणं पृथुगीतिमुशंतं कामयमानं योनिं स्थानमायतनं आ अस्थात् । आतिष्ठति । दीद्यानो द्योतमानः शुचिर्दर्शनीयः शुद्धो वा ऋष्वो महान् पावकोऽन्येषां शोधयिताग्निर्मातरा मातरौ द्यावापृथिव्यौ पुनःपुनर्नव्यसी नवतरे कः । करोति ॥


स॒द्यो जा॒त ओष॑धीभिर्ववक्षे॒ यदी॒ वर्ध॑न्ति प्र॒स्वो॑ घृ॒तेन॑ ।

आप॑ इव प्र॒वता॒ शुम्भ॑माना उरु॒ष्यद॒ग्निः पि॒त्रोरु॒पस्थे॑ ॥

स॒द्यः । जा॒तः । ओष॑धीभिः । व॒व॒क्षे॒ । यदि॑ । वर्ध॑न्ति । प्र॒ऽस्वः॑ । घृ॒तेन॑ ।

आपः॑ऽइव । प्र॒ऽवता॑ । शुम्भ॑मानाः । उ॒रु॒ष्यत् । अ॒ग्निः । पि॒त्रोः । उ॒पऽस्थे॑ ॥

सद्यः । जातः । ओषधीभिः । ववक्षे। यदि । वर्धंति । प्रऽस्वः। घृतेन ।

आपःऽइव। प्रऽवता। शुंभमानाः । उरुष्यत् । अग्निः । पित्रोः । उपऽस्थे ॥८॥

सद्यो जातोऽग्निर्यदि यदौषधीभिर्ववक्षे उह्यते तदा प्रवता प्रवणेन मार्गेण गच्छंत्य आप इव शुंभमानाः शोभमानास्ता ओषध्यः प्रस्वः फलानि प्रसुवाना घृतेनोदकेन वर्धंति । वर्धयंति । पित्रोद्यावापृथिव्योरुपस्थे मध्यप्रदेशे वर्धमानोऽग्निरुरुष्यत् । अस्मान्रक्षतु ॥


उदु॑ ष्टु॒तः स॒मिधा॑ य॒ह्वो अ॑द्यौ॒द्वर्ष्म॑न्दि॒वो अधि॒ नाभा॑ पृथि॒व्याः ।

मि॒त्रो अ॒ग्निरीड्यो॑ मात॒रिश्वा दू॒तो व॑क्षद्य॒जथा॑य दे॒वान् ॥

उत् । ऊं॒ इति॑ । स्तु॒तः । स॒म्ऽइधा॑ । य॒ह्वः । अ॒द्यौ॒त् । वर्ष्म॑न् । दि॒वः । अधि॑ । नाभा॑ । पृ॒थि॒व्याः ।

मि॒त्रः । अ॒ग्निः । ईड्यः॑ । मा॒त॒रिश्वा॑ । आ । दू॒तः । व॒क्ष॒त् । य॒जथा॑य । दे॒वान् ॥

उत्। ऊं इति। स्तुतः। संऽइधा। यह्वः। अद्यौत् । वर्ष्मन्।दिवः। अधि। नाभा। पृथिव्याः।

मित्रः । अग्निः । ईड्यः । मातरिश्वा। आ । दूतः। वक्षत्। यजथाय। देवान् ॥९॥

उ इति पादपूरणः । स्तुतोऽस्माभिः स्तुतः समिधा समिंधनेन यो महान् अग्निः पृथिव्या उत्तरवेद्या नाभा नाभौ मध्यप्रदेशे स्थितः सन् दिवोंऽतरिक्षस्य वर्ष्मन् वर्ष्मणि रूपे उदद्यौत् । द्योतते । मित्रः सर्वेषां मित्रभूत ईड्यः स्तुत्यो मातरिश्वा । मातर्यंतरिक्षे श्वसिति प्राणिति सूर्यरूपेण चेष्टत इति मातरिश्वा । अथवा मातर्यरण्यां श्वसिति निवसतीति मातरिश्वा । तथाह यास्कः । मातर्यंतरिक्षे श्वसिति मातर्याश्वनितीति वा । नि० ७. २६.। दूतो देवानां दूतः सन् यजथाय यज्ञाय देवानावक्षत् । आवहतु ।।


उद॑स्तम्भीत्स॒मिधा॒ नाक॑मृ॒ष्वो॒३॒॑ऽग्निर्भव॑न्नुत्त॒मो रो॑च॒नाना॑म् ।

यदी॒ भृगु॑भ्य॒ः परि॑ मात॒रिश्वा॒ गुहा॒ सन्तं॑ हव्य॒वाहं॑ समी॒धे ॥

उत् । अ॒स्त॒म्भी॒त् । स॒म्ऽइधा॑ । नाक॑म् । ऋ॒ष्वः । अ॒ग्निः । भव॑न् । उ॒त्ऽत॒मः । रो॒च॒नाना॑म् ।

यदि॑ । भृगु॑ऽभ्यः । परि॑ । मा॒त॒रिश्वा॑ । गुहा॑ । सन्त॑म् । ह॒व्य॒ऽवाह॑म् । स॒म्ऽई॒धे ॥

उत्। अस्तंभीत् । संऽइधा। नाकं । ऋष्वः। अग्निः। भवन्। उत्तमः। रोचनानां।

यदि । भृगुऽभ्यः। परि। मातरिश्वा। गुहा। संतं । हव्यऽवाहं । संऽईधे॥१०॥

ऋष्वो महानग्निः समिधा तेजसा नाकं स्वर्गमुदस्तंभीत् । उदस्तभ्नात् । रोचनानां शोभनानां तेजसां मध्य उत्तमो भवन् उत्कृष्टतमो भवन् मातरिश्वा वायुभृगुभ्य आदित्यस्य रश्मिभ्यो गुहा गुहायां संतं हव्यवाहं हव्यानां वोढारमग्निं यदि यदा समीधे समैंद्ध तदा नाकमस्तभ्नादिति संबंधः ॥


इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥

इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।

स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥

इळां । अग्ने। पुरुऽदंसं । सनिं । गोः । शश्वत्ऽतमं । हव॑मानाय । साध ।

स्यात्। नः। सूनुः।तनयः।विजाऽवा।अग्ने। सा। ते। सुऽमतिः। भूतु । अस्मे इति॥११॥

पूर्वं व्याख्याता ॥ ॥२५॥


मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.५&oldid=196924" इत्यस्माद् पुनः प्राप्तिः