ऋग्वेदः सूक्तं ३.८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ३.७ ऋग्वेदः - मण्डल ३
सूक्तं ३.८
गाथिनो विश्वामित्रः
सूक्तं ३.९ →
दे. यूपः, ६-१० यूपाः, ८ विश्वे देवा वा, ११ व्रश्चनः । त्रिष्टुप्, ३,७ अनुष्टुप्।
गोवर्धनधारणम्


अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येन ।
यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थे ॥१॥
समिद्धस्य श्रयमाणः पुरस्ताद्ब्रह्म वन्वानो अजरं सुवीरम् ।
आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय ॥२॥
उच्छ्रयस्व वनस्पते वर्ष्मन्पृथिव्या अधि ।
सुमिती मीयमानो वर्चो धा यज्ञवाहसे ॥३॥
युवा सुवासाः परिवीत आगात्स उ श्रेयान्भवति जायमानः ।
तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः ॥४॥
जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः ।
पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम् ॥५॥
यान्वो नरो देवयन्तो निमिम्युर्वनस्पते स्वधितिर्वा ततक्ष ।
ते देवासः स्वरवस्तस्थिवांसः प्रजावदस्मे दिधिषन्तु रत्नम् ॥६॥
ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः ।
ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः ॥७॥
आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम् ।
सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कृण्वन्त्वध्वरस्य केतुम् ॥८॥
हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः ।
उन्नीयमानाः कविभिः पुरस्ताद्देवा देवानामपि यन्ति पाथः ॥९॥
शृङ्गाणीवेच्छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् ।
वाघद्भिर्वा विहवे श्रोषमाणा अस्माँ अवन्तु पृतनाज्येषु ॥१०॥
वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम ।
यं त्वामयं स्वधितिस्तेजमानः प्रणिनाय महते सौभगाय ॥११॥


सायणभाष्यम्

अंजंतीत्यष्टमं वैश्वामित्रमेकादशर्चं सूक्तं । अत्रानुक्रमणिका । अंजंति यूपस्तुतिः षष्ठ्याद्याभिर्बहवोंऽत्या व्रश्चिन्यष्टमी वैश्वदेवी वा तृतीयासप्तम्यावनुष्टुभाविति । उच्छ्रयस्व वनस्पते ये वृक्णास इत्येते तृतीयासप्तम्यावनुष्टुभौ शिष्टास्त्रिष्टुभः । कृत्स्नस्य सूक्तस्य यूपो देवता। वनस्पते शतवल्श इत्यस्याश्छिन्नयूपस्य मूलभूतः स्थाणुर्दैवता। आदित्या रुद्रा वसव इत्यष्टमी वैश्वदेवी यौपी वा । अत्र षष्ठ्यादीनां बहवो यूपा देवता बहूनां स्तूयमानत्वात्। शिष्टा एकयूपदेवत्याः ॥ यूपांजनेंऽजंति त्वामित्येषा। प्रेषितो यूपायाज्यमानायांजंति त्वामध्वरे देवयंतः । आ°३.१.। इति ॥ यूपोच्छ्रयणे समिद्धस्येति द्वे ऋचौ । उच्छ्रयस्व वनस्पते समिद्धस्य श्रयमाणः पुरस्तात् । आ°३.१.। इति सूत्रितत्वात् ॥ यूपपरिव्ययणे युवा सुवासाः परिवीत आगादिति परिदध्यात् ।आ° ३.१.। इति सूत्रितत्वात् ॥ यूपोच्छूयणे जातो जायते सुदिनत्वे अह्नामित्यर्धर्चं आरमेदिति सूचितं ।। यूपैकादशिन्यामन्यत्रापि बहुयूपयुक्ते कर्मणि यान्वो नर इत्यादिभिः षड्भिः पंचभिर्वा संस्तुयात् । संस्तुयादनभिहिंकृत्य यान्वो नरो देवयंतो नि मिम्युरिति षड्भिः पंचभिर्वा । आ°३.१.। इति ॥


अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे॑व॒यन्तो॒ वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न ।

यदू॒र्ध्वस्तिष्ठा॒ द्रवि॑णे॒ह ध॑त्ता॒द्यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे॑ ॥

अंजंति । त्वां । अध्वरे । देवऽयंतः । वनस्पते । मधुना। दैव्येन।

यत्।ऊर्ध्वः।तिष्ठाः। द्रविणा।इह। धत्तात्। यत्।वा। क्षयः। मातुः।अस्याः। उपऽस्थे॥१॥

वनस्पते खदिरपलाशादिलक्षण हे यूप अध्वरे यज्ञे देवयंतो देवान् कामयमाना अध्वर्य्वादयो दैव्येन मधुना देवसंबंधिना मधुना घृतेन । एतद्वै मधु दैव्यं यदाज्यमित्याम्नानात् । ऐ° ब्रा०२.२.। तेन घृतेन त्वामंजंति। त्वयि घृतं सिंचंतीत्यर्थः । यत् यदि त्वमूर्ध्वस्तिष्ठाः । उन्नतस्तिष्ठसि । यद्वा यदि वा मातुरस्या मातृभूतायाः पृथिव्या उपस्थ उत्संगे ते क्षयो निवासः । यदूर्ध्वस्तिष्ठसि यदि वा भूमौ शयानो वर्तसे उभयथापि त्वमिहास्मासु द्रविणा धनानि धत्तात् । धेहि ॥ ब्राह्मणेनेयमृग्व्याख्याता । अंजंति वामध्वरे देवयंत इत्यन्वाहाध्वरे ह्येनं देवयंतोंऽजंति वनस्पते मधुना दैव्येनेत्येतद्वै मधु दैव्यं यदाज्यं यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थ इति यदि च तिष्ठासि यदि च शयासै द्रविणमेवास्मासु धत्तादित्येव तदाह । ऐ° ब्रा°२.२.। इति । तथा च निरुक्तमपि। अंजंति त्वामध्वरे देवान्कामयमाना वनस्पते मधुना दैव्येन च घृतेन च यदूर्ध्वः स्थास्यसि द्रविणानि च नो दास्यसि यद्वा ते कृतः क्षयो मातुरस्या उपस्थ उपस्थाने । नि० ८.१८.। इति ॥ अंजंति । अंजू व्यक्तिकांतिगतिम्रक्षणषु । रुधादित्वात् श्नम् । तस्य लटि झेर्ङित्त्वादनिदितामित्युपधालोपः ।। श्नसोरल्लोप इत्यल्लोपः । प्रत्ययस्वरेण मध्योदात्तः । त्वां । अमि युष्मच्छब्दस्य त्वमावेकवचन इति त्वादेशः । द्वितीयायां चेत्याकारः । एकादेश उदात्तेनोदात्त इत्येकादेशस्योदात्तत्वं । अध्वरे । न विद्यते ध्वरो हिंसा यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते नसुभ्यामित्युत्तरपदांतोदात्तत्वं । देवयंतः । देवानात्मन इच्छंतः ।। सुप आत्मन इति क्यच् । क्यचि चेतीत्वं अकृत्सार्वधातुकयोरिति दीर्घत्वं च न छंदस्यपुत्रस्येत्यनेन प्रतिषिध्यते । तदंताच्छतृप्रत्ययः । शपः पित्त्वाल्लसार्वधातुकस्वरेण चानुदात्तत्वे कृते तयोरेकादेश उदात्तेनोदात्त इति क्यच एव स्वरः । वनस्पते । आमंत्रितस्य चेत्याद्युदात्तत्वं । मधुना । फलिपाटिनमिमनीत्यादिना उप्रत्ययः । निदित्यनुवृत्तेरायुदात्तत्वं । दैव्येन । देवाद्यञञाविति यञ् । ञित्वाद्वृद्धिः । यस्येति लोपः । ञित्त्वादाद्युदात्तः । तिष्ठाः । ष्ठा गतिनिवृत्तौ । लेटि सिप् । इतश्च लोप इतीकारलोपः । शपः शित्त्वात् पाघ्रेत्यादिना तिष्ठादेशः । लेटो ऽडाटावित्यडागमः । यच्छब्दयोगान्निघाताभावः । तिष्ठादेशस्याद्युदात्तत्वेन निपातितत्वादाद्युदात्तः । द्रविणा । द्रुदक्षिभ्यामिनन्नितीनन्प्रत्ययः । सुपां सुलुगिति सुपो डादेशः । नित्त्वादाद्युदात्तः । इह । इदम्शब्दात्सप्तम्यर्थ इदमो ह इति हः । इदम इशितीशादेशः । शित्त्वात्सर्वादेशः । प्रत्ययस्वरः । धत्तात् । डुधाञ् धारणपोषणयोरित्यस्य प्रार्थने लोट् । सिप् । तस्य सेर्ह्यपिच्चेति हिरादेशः । तुह्योः । पा० ७.१. ३५.। इति तातङादेशः । श्नाभ्यस्तयोरात इत्याकारलोपः । दधस्तथोश्च । पा०८.२.३८.। इति भष्भावः । जश्त्वचर्त्वें । निघातः । वा। चादित्वादनुदात्तः । क्षयः । क्षियंति निवसंत्यस्मिन्नित्यधिकरणे घः । क्षयो निवास इत्याद्युदात्तत्वं । मातुः । नप्तृनेष्टृ इत्यादिना तृजंतत्वेन निपातनादंतोदात्तः । ऋत उदिति ङसः पूर्वपरयोरुकारः । अस्याः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वं । उपस्थे । ष्ठा गतिनिवृत्तौ । आतश्चोपसर्ग इति कः । तत्पुरुषे तुल्यार्थेति मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वं ॥


समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द्ब्रह्म॑ वन्वा॒नो अ॒जरं॑ सु॒वीर॑म् ।

आ॒रे अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय ॥

संऽइद्धस्य। श्रयमाणः । पुरस्तात् । ब्रह्म । वन्वानः । अजरं। सुऽवीरं।

आरे। अस्मत् । अमतिं । बाधमानः । उत्। श्रयस्व। महते। सौभगाय ॥२॥

हे यूप समिद्धस्य दीप्यमानस्याहवनीयाख्यस्याग्नेः पुरस्तात् प्राच्यां दिशि श्रयमाणस्तत्र वर्तमानो ब्रह्मान्नं । ब्रह्म वर्च इत्यन्ननामसु पाठात् । अजरं जरारहितं समृद्धं सुवीरं शोभनापत्ययुक्तं ब्रह्मान्नं वन्वानः प्रयच्छन् अस्मदमतिमस्माकं शत्रुभूतामशनायां । अशनाया वै पाप्मामतिरिति श्रवणात् । तादृशं शत्रुमारे दूरे बाधमानोऽपनुदंस्त्वं महते सौभगाय धनादिसंपत्त्यर्थमुच्छ्रयस्व । उच्छ्रितो भव । उक्तार्थे ब्राह्मणं । समिद्धस्य श्रयमाणः पुरस्तादिति समिद्धस्य ह्येष एतत्पुरस्ताच्छ्रयते ब्रह्म वन्वानो अजरं सुवीरमित्याशिषमेवाशास्त आरे अस्मदमतिं बाधमान इत्यशनाया वै पाप्मामतिस्तामेव तदारान्नुदते यज्ञाच्च यजमानाच्चोच्छ्रयस्व महते सौभगायेत्याशिषमेवाशास्ते । ऐ° ब्रा० २.२.। इति ॥ समिद्धस्य । ञिइंधी दीप्तौ । कर्मणि निष्ठायां श्वोदितो निष्ठायामितीट्प्रतिषेधः । सम्यगिद्ध इति गतिरनंतर इति पूर्वपदप्रकृतिस्वरत्वं । श्रयमाणः । श्रिञ् सेवायामित्यस्य लटः शानच् । तस्य लसार्वधातुकस्वरेणानुदात्तत्वे कृते धातुस्वरः शिष्यते । पुरस्तात् । पूर्वशब्दस्य दिक्शब्देभ्यः सप्तमीपंचमीत्यादिना । पा°५.३.२७.। अस्तातिप्रत्ययः । अस्ताति च । पा°५. ३.४०.। इति पूर्वस्य पुरादेशः । प्रत्ययस्वरः । ब्रह्म । नब्विषयस्यानिसंतस्येत्याद्युदात्तः । वन्वानः । वनु याचने । अत्रायं धातुर्दानार्थं वर्तते । लटः शानच्प्रत्ययः । चित्त्वादंतोदात्तः । अजरं । नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वं । सुवीरं । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वं । आरे । एवमादित्वादंतोदात्तः । अस्मत् । युष्वसिभ्यां मदिगिति मदिक्प्रत्ययः । सुपां सुलुगिति सुपो लुक् । मदिक्प्रत्ययस्वरः । अमतिं । तत्पुरुष इति पूर्वपदप्रकृतिस्वरत्वं । उत् । निपातत्वेनाद्युदात्तः । श्रयस्व । श्रिञ् सेवायामित्यस्य लोण्मध्यमैकवचने थास् । थासः स इत्यादेशः । सवाभ्यां वामावित्येकारस्य वकारः । निघातः । महते । वर्तमाने पृषद्वद्बृहन्महदिति निपातनादंतोदात्तः । बृहन्महतोरुपसंख्यानमिति विभक्तेरुदात्तत्वं । सौभगाय । प्राणभृज्जातिवयोवचनेत्यञ्। हृद्भगसिंध्वंते पूर्वपदस्य चेति वृद्धिः । सर्वविधीनां छंदसि विकल्पितत्वादित्युत्तरपदस्य वृद्धिर्न भवति । जित्स्वरः ॥


उच्छ्र॑यस्व वनस्पते॒ वर्ष्म॑न्पृथि॒व्या अधि॑ ।

सुमि॑ती मी॒यमा॑नो॒ वर्चो॑ धा य॒ज्ञवा॑हसे ॥

उत्। श्रयस्व । वनस्पते। वर्ष्मन् । पृथिव्याः। अधि।

सुऽमिती। मीयमानः । वर्चः । धाः । यज्ञऽवाहसे ॥३॥

हे वनस्पते यूप पृथिव्या अधि पृथिव्यां वर्ष्मन् उत्कृष्टे देवयजनाख्ये देश उच्छ्रयस्व । उच्छ्रितो भव । सुमिती शोभमानया बुद्ध्या अथवा शोभनेन परिमाणेन मीयमान इयत्तया परिच्छिद्यमानस्त्वं यज्ञवाहसे यज्ञनिर्वाहकाय यजमानाय वर्चो धाः । अन्नं धेहि । अयमेवार्थो ब्राह्मणेन दर्शितः । उच्छ्रयस्व वनस्पत इत्युच्छ्रीयमाणायाभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धं । वर्ष्मन्पृथिव्या अधीत्येतद्वै वर्ष्म पृथिव्यै यत्र यूपमुन्मिन्वंति सुमिती मीयमानो वर्चो धा यज्ञवाहस इत्याशिषमाशास्ते । ऐ° ब्रा २. २. ॥ वनस्पते । अपादादित्वादाष्टमिकमनुदात्तत्वं । पृथिव्याः । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वं । सुमिती। माङ् मान इत्यस्य क्तिनि द्यतिस्यतिमास्थेतीकारादेशः । शोभनया मित्या । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वं । सुपां सुलुगिति सवर्णदीर्घः। मीयमानः । माङ् मान इत्यस्य कर्मणि यक् । घुमास्थेतीत्वं । प्रत्ययस्वरः । धाः । धात्रो लोडर्थे छंदसि लुङ्लङ्ङिति लुङ् । इतश्चेति सिप इकारलोपः । गातिस्थेति सिचो लोपः । बहुलं छंदसीत्यडभावः । निघातः । यज्ञवाहसे । यज्ञं वहति प्राप्नोति । वह प्रापण इत्यस्य वहिहाधाञ्भ्यश्छंदसीत्यसुन्। णिदित्यनुवृत्तेरुपधावृद्धिः । गतिकारकयोरिति पूर्वपदप्रकृतिस्वरत्वं चेति पूर्वपदप्रकृतिस्वरः । उ० ४. २२६.॥


युवा॑ सु॒वासा॒ः परि॑वीत॒ आगा॒त्स उ॒ श्रेया॑न्भवति॒ जाय॑मानः ।

तं धीरा॑सः क॒वय॒ उन्न॑यन्ति स्वा॒ध्यो॒३॒॑ मन॑सा देव॒यन्तः॑ ॥

युवा।सुऽवासाः। परिऽवीतः।आ। अगात्। सः। ॐ इति। श्रेयान्।भवति।जाय॑मानः।

तं । धीरासः । कवयः । उत् । नयंति । सुऽआध्यः । मनसा । देवऽयंतः ॥४॥

युवा दृढांगोऽष्टाश्र्यादिलक्षणलक्षित इत्यर्थः । सुवासाः शोभनेन वाससा रशनया युक्तः । परिवीतस्तया रशनया वेष्टितः । एवंविधो यूप आगात्। आगच्छति । स उ स एव यूपः श्रेयान् जायमानः सर्वेभ्यो वनस्पतिभ्य उत्कृष्टतया संपद्यमानो भवति । तमेवंविधं यूपं धीरासः प्राज्ञा मनसा देवयंतो देवान् कामयमानाः स्वाध्यः सुष्ठु सर्वतो ध्यानयुक्ताः कवयः क्रांतदर्शिनोऽध्वर्य्यादय उन्नयंति । उन्नतं कुर्वति । एतस्मिन्नर्थे ब्राह्मणं । युवा सुवासाः परिवीत आगादित्युत्तमया परिदधाति प्राणो वै युवा सुवासाः सोऽयं शरीरैः परिवृतः स उ श्रेयान्भवति जायमान इति श्रेयाञ्छ्रेयान्ह्येष एतद्भवति जायमानस्तं धीरासः कवय उन्नयंति स्वाध्यो मनसा देवयंत इति ये वा अनूचानास्ते कवयस्त एवैनं तदुन्नयंति । ऐ° ब्रा°२.२.। इति ॥ युवा । यौतेः कनिन्युवृषितक्षीत्यादिना कनिन्प्रत्ययः । कित्त्वाद्गुणाभावः । उवङादेशः । नित्त्वादाद्युदात्तत्वं । सुवासाः । वस आच्छादने । असुन्नित्यनुवृत्तौ वसेर्णिदित्यमुन्प्रत्ययः । णित्त्वादुपधावृद्धिः। सोर्मनसी इत्युत्तरपदाद्युदात्तत्वं । परिवीतः। व्येञ् संवरणे । कर्मणि क्तः । यजादित्वात्संप्रसारणं । गतिरनंतर इति पूर्वपदप्रकृतिस्वरत्वं । अगात् । इण् गतावित्यस्य लुङि इणो गा लुङीति गादेशः । गातिस्थेति सिचो लोपः । अडागमः । श्रेयान् । प्रशस्यस्य द्विवचनविभज्योपपदे इतीयसुन्प्रत्ययः । तस्मिन्प्रशस्यस्य श्र इति श्रादेशः । गुणः । नित्वादाद्युदात्तत्वं । एकादेश आद्युदात्तः । स्वाध्यः । ध्यै चिंतायां । स्वाङोरुपसर्गयोः प्राक्प्रयोगः । अन्येभ्योऽपि दृश्यंत इति क्विप् । दृशिग्रहणात्संप्रसारणं । संप्रसारणाच्चेति पूर्वरूपत्वं । हल इति दीर्घः । जसि एरनेकाच इति यणादेशः । कृदुत्तरपदप्रकृतिस्वरत्वं । उदात्तस्वरितयोर्यण इति जसः स्वरितत्वं । देवयंतः । सुप आत्मनः क्यजिति क्यच् । चित्त्वादंतोदात्तः ॥


जा॒तो जा॑यते सुदिन॒त्वे अह्नां॑ सम॒र्य आ वि॒दथे॒ वर्ध॑मानः ।

पु॒नन्ति॒ धीरा॑ अ॒पसो॑ मनी॒षा दे॑व॒या विप्र॒ उदि॑यर्ति॒ वाच॑म् ॥

जातः । जायते । सुदिनऽत्वे । अह्नां । सऽमर्ये । आ । विदथे। वर्धमानः ।।

पुनंति । धीराः । अपसः। मनीषा। देवऽयाः । विप्रः। उत् । इयर्ति। वाचं ॥५॥

जातः पृथिव्यां प्रथममुत्पन्नो यूपः समर्ये । मर्य इति मनुष्यनाम । तैः सहिते विदथे वर्धमानः । विदथ इति यज्ञनाम विदथः सवनमिति यज्ञनामसु पाठात् । तस्मिन्यज्ञ आ वर्धमानो घृतांजनरशनापरिव्ययणादिना सर्वतः शोभमानः सन् अह्नां सुदिनत्वे जायते । पशुनियोजनादिद्वारेण यज्ञनिर्वाहकतयाहानि सुदिनानि करोतीत्यर्थः । अपसः कर्मवंतो धीराः सुप्रज्ञा अध्वर्य्वादयो मनीषा बुद्ध्या तं यूपं पुनंति । प्रक्षालनादिभिः । शोधयंति । देवया देवानां यष्टा देवानां हवींषि प्रापयिता वा विप्रो मेधावी होता च वाचं यूपविषयां स्तुतिलक्षणां वाचमुदियर्ति । प्रेरयति । उच्चारयतीत्यर्थः ॥ उक्तार्थे ब्राह्मणं । जातो जायते सुदिनत्वे अह्नामिति जातो ह्येष एतज्जायते समर्य आ विदथे वर्धमान इति वर्धयंत्येवैनं तत्पुनंति धीरा अपसो मनीषेति पुनंत्येवैनं तद्देवया विप्र उदियर्ति वाचमिति देवेभ्य एवैनं तन्निवेदयति । ऐ• ब्रा० २.२.॥ सुदिनत्वे । सुदिनानां भाव इति तस्य भावस्त्वतलाविति त्वः । प्रत्ययस्वरः। समयें । मृङ् प्राणत्याग इत्यस्माच्छंदसि निष्टर्क्येति क्यप्रत्ययांतत्वेन निपातनाद्गुणः । समासस्येत्यंतोदात्तत्वं । पुनंति । पूञ् पवने । क्र्यादित्वाच्छ्ना। प्वादिवाद्ध्रस्वः । प्रत्ययस्वरः ।। देवयाः । या प्रापणे । आतो मनिन्निति विच्प्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वं । इयर्ति । ऋ गतौ। जुहोत्यादिः । अभ्यासस्यार्तिपिपर्त्यश्चेतीत्वं । अभ्यासस्यासवर्ण इतीयङादेशः । निघातः ॥ ॥३॥


यान्वो॒ नरो॑ देव॒यन्तो॑ निमि॒म्युर्वन॑स्पते॒ स्वधि॑तिर्वा त॒तक्ष॑ ।

ते दे॒वास॒ः स्वर॑वस्तस्थि॒वांसः॑ प्र॒जाव॑द॒स्मे दि॑धिषन्तु॒ रत्न॑म् ॥

यान्। वः । नरः । देवऽयंतः। निऽमिम्युः । वनस्पते । स्वऽधितिः । वा। ततक्ष ।

ते। देवासः। स्वरवः । तस्थिवांसः। प्रजाऽवत्। अस्मे इति। दिधिषंतु । रत्नं ॥६॥

हे यूपा देवयंतो देवान्कामयमाना नरः कर्मणां नेतारोऽध्वर्य्वादयो यान्वो यान्युष्मान्निमिम्युः । अवटेषु प्रचिक्षिपुः । वा अपि च हे वनस्पते स्वधितिः परशुस्त्वदीयान्यूपांस्ततक्ष चिच्छेद देवासो दीप्यमानाः स्वरवः । स्वरुशब्दः स्वशकलवाची। तद्वंतः । लुप्तमत्वर्थीयः । तस्थिवांसस्तिष्ठंतस्ते तादृशा यूपा अस्मे अस्मै यजमानाय प्रजावत् अपत्यसहितं रत्नमुत्तमं धनं दिधिषंतु । धारयंतु । प्रयच्छंत्वित्यर्थः ॥ निमिम्युः । डुमिञ् प्रक्षेपण इत्यस्य लिट्युसि असंयोगाल्लिट् किदिति किद्वद्भावाद्गुणाभावः । यद्वृत्तयोगादनिघातः । सति शिष्टः स्वरो बलीया निति वचनात्प्रत्ययस्वरः । स्वधितिः । स्वशब्दोपपदाद्धा धारण इत्यस्मात् क्तिन् । स्वा स्वकीया निशितधारा धीयते प्रक्षिप्यतेऽनेनेति स्वधितिः खड्गः । ततक्ष । तक्षू त्वक्षू तनूकरण इत्यस्माल्लिटि णलि रूपादनिघातः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वं । स्वरवः । स्वृ शब्दोपतापयोरित्यस्मान्निदित्यनुवृत्ती शृस्वृस्निहित्रपीत्यादिना उप्रत्ययः । नित्त्वादाद्युदात्तः । तस्थिवांसः । ष्ठा गतिनिवृत्तावित्यस्माच्छंदसि लिट् । तस्य क्वसुः । वस्वेकाजातु सामितीडागमः । प्रत्ययस्वरः । प्रजावत् । जनी प्रादुर्भाव इत्यस्मादुपसर्गे च संज्ञायामिति डः । ततष्टाप । तदस्यास्तीति मतुप् । तस्य पित्वादनुदात्तत्वं । एकादेशस्वरः । अस्मे । अस्मच्छब्दस्य सुपां सुलुगिति शे आदेशः ।। दिधिषंतु । धिष धारणे । जुहोत्यादिः । निघातः ॥


ये वृ॒क्णासो॒ अधि॒ क्षमि॒ निमि॑तासो य॒तस्रु॑चः ।

ते नो॑ व्यन्तु॒ वार्यं॑ देव॒त्रा क्षे॑त्र॒साध॑सः ॥

ये वृक्णासो अधि क्षमि निऽमितासः यतस्रुचः ।

ते नः व्यंतु वार्यं देवऽत्रा क्षेत्रऽसाधसः ॥७॥

अधि क्षमि क्षमायां भूमौ वृक्णासः परशुना छिन्ना ये यूपाः । यतस्रुच इति ऋत्विग्वाची यतस्रुचः मरुत इति ऋत्विङ्नामसु पठितत्वात् । यताः स्रुचो यैस्ते यतस्रुचः । तैर्ऋत्विग्भिर्निमितासोऽवटेषु नितरां प्रक्षिप्ताः क्षेत्रसाधसः क्षेत्रस्य यज्ञस्य साधकाः । यथा क्षेत्रं सस्यादिद्वारा फलं प्रयच्छति तथा यज्ञोऽप्यपूर्वद्वारा स्वर्गादिफलं ददातीति क्षेत्रं यज्ञः । एवंविधास्ते यूपा नोऽस्मदीयं वार्यं वारणीयं संभजनीयं हविर्देवत्रा देवेषु व्यंतु । गमयंतु । अस्मदीयं हविर्देवाधीनं कुर्वंत्वित्यर्थः ॥ वृक्णासः । ओव्रश्चू छेदन इत्यस्य निष्ठायां यस्य विभाषेतीट्प्रतिषेधः । कित्त्वाद्वहिज्यावयीत्यादिना संप्रसारणं । ओदितश्चेति निष्ठानत्वं । क्षमि । आतो धातोरित्यत्र आत इति योगविभागादाकारलोपः । निमितासः । डुमिञ प्रक्षेपणे । कर्मणि क्तः । गतिरनंतर इति पूर्वपदप्रकृतिस्वरत्वं । यतस्रुचः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । व्यंतु । इण गतावित्यस्य लोटि रूपं । इकारलोपश्छांदसः । अयमंतर्भावितण्यर्थः । वार्यं । वृङ संभक्तावित्यस्मादृहलोर्ण्यदिति कर्मणि ण्यत् । ईडवं दवृशंसदुहेत्यादिनाद्युदात्तत्वं । देवत्रा । त्रेत्यनुवृत्तौ देवमनुष्यपुरुषपुरुमर्त्येभ्य इत्यादिनाधिकरणे त्राप्रत्ययः । क्षेत्रसाधसः । राध साध संसिद्धावित्यस्मादौणादिकोऽसुन्। कृदुत्तरपदप्रकृतिस्वरः ॥


आ॒दि॒त्या रु॒द्रा वस॑वः सुनी॒था द्यावा॒क्षामा॑ पृथि॒वी अ॒न्तरि॑क्षम् ।

स॒जोष॑सो य॒ज्ञम॑वन्तु दे॒वा ऊ॒र्ध्वं कृ॑ण्वन्त्वध्व॒रस्य॑ के॒तुम् ॥

आदित्याः। रुद्राः । वसवः। सुऽनीथाः। द्यावाक्षामा पृथिवी। अंतरिक्षं।

सऽजोषसः । यज्ञं । अवंतु । देवाः । ऊर्ध्वं । कृण्वंतु। अध्वरस्य । केतुं ॥८॥

सुनीथा यज्ञस्य सुष्ठु नेतार आदित्या द्वादशादित्या रुद्रा एकादश रुद्रा वसवोऽष्टौ वसवः । यद्वा सुष्टुनीथाः सुष्टुतयः । स्तुतशस्त्राणि नीथानि चोक्थामदानि च। ऐ° ब्रा०२:३८। इति हि श्रूयते । द्यावाक्षामा द्यावापृथिव्यौ। पृथिवी। सुब्व्यत्ययः । पृथु विस्तीर्णमंतरिक्षं च । सजोषस एते सर्वे देवा ऐकमत्येन परस्परं संगता भूत्वेममस्मदीयं यज्ञमवंतु । रक्षंतु । किंच । अध्वरस्य यज्ञस्य केतुं ध्वजभूतं प्रज्ञापकं वेमं यूपमूर्ध्वं कृण्वंतु । उच्छ्रितं कुर्वंतु ॥ आदित्याः । अदितेरपत्यानि। दित्यदित्यादित्यपत्युत्तरपदादिति ण्यः । णित्वादादिवृद्धिः । प्रत्ययस्वरः। रुद्राः । रोदयंति सर्वानंतकाले । रोदेर्णिलुक् चेति रक्प्रत्ययः । तत्संनियोगे णिलोपः । प्रत्ययस्वरः । जसः सुप्त्वादनुदात्तत्वे एकादेश उदात्तेनोदात्त इत्येकादेशस्याप्युदात्तत्वं । वसवः । वस निवासे । निदित्यनुवृत्तौ शॄस्वृस्निहित्रप्यसिवसीत्यादिनोप्रत्ययः । नित्त्वादाद्युदात्तः । सुनीथाः। णीञ् प्रापणे । हनिकुषिनीरमिकाशिभ्य इति क्थन । कित्त्वादगुणः । थाथघञ्क्तेत्युत्तरपदांतोदात्तत्वं । द्यावाक्षामा । द्यौश्च क्षामा च । दिवो द्यावेति द्यावादेशः । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वं । पृथिवी । प्रथ प्रख्याने । प्रथेः षिवन् संप्रसारणं चेति षिवन संप्रसारणं च । षिद्गौरादिभ्यश्चेति ङीष् । प्रत्ययस्वरेणांतोदात्तः । अवंतु । अव रक्षणे । निघातः । कृण्वंतु । कृवि हिंसाकरण योरित्यस्माल्लोटि धिन्विकृण्व्योरच्चेत्युप्रत्ययः । अकारश्चांतादेशः । निघातः ॥


हं॒सा इ॑व श्रेणि॒शो यता॑नाः शु॒क्रा वसा॑ना॒ः स्वर॑वो न॒ आगुः॑ ।

उ॒न्नी॒यमा॑नाः क॒विभिः॑ पु॒रस्ता॑द्दे॒वा दे॒वाना॒मपि॑ यन्ति॒ पाथः॑ ॥

हंसाःऽइव। श्रेणिऽशः। यतानाः। शुक्रा। वसानाः । स्वरवः। नः। आ। अगुः ।

उत्ऽनीयमानाः। कविऽभिः। पुरस्तात् । देवाः। देवानां। अपि। यंति। पाथः ॥९॥

शुक्रा शुक्राणि दीप्तानि वासांसि वसाना आच्छादयंतः स्वरवः स्वरुमंतः श्रेणिशः पंक्तिशो यतानाः प्रवर्तमानाः । अत्र दृष्टांतः । हंसा इवेति । यथा नभसि पंक्तिशः पतंतो हंसाः शोभंते तद्वत् शोभमानास्ते यूपा नोऽस्मानागुः । प्रापुः । अपि च कविभिर्मेधाविभिरध्वर्य्वादिभिः पुरस्तादाहवनीयस्य पूर्वभाग उन्नीयमाना उच्छ्रीयमाणा देवा दीप्यमानास्ते यूपा देवानां पाथो देवानां स्थानमंतरिक्षं । पाथोंऽतरिक्षं पथा व्याख्यातमिति यास्कः । पाथोनदीभ्यां ड्यण् । पा° ४.४.१११: । इति सूत्रे पाथोंऽतरिक्षमिति वृत्तिकारोऽप्यवादीत् । तादृशमंतरिक्षमपियंति । प्राप्नुवंति। अध्वर्य्वादिभिरुच्छ्रीयमाणा यूपा अतिदैर्घ्यादंतरिक्षं व्याप्य वर्तंत इत्यर्थः ॥ हंसा इव । इवेन विभक्त्यलोप इति वचनात्पूर्वपदस्वरः । श्रेणिशः । बह्वल्पार्थादिति शस् । प्रत्ययस्वरः । शुक्रा।। शुच दीप्तावित्यस्मादृज्रेंद्राग्रेत्यादिना रन्प्रत्ययांतत्वेन निपातनादंतोदात्तः । अगुः । इण् गतौ । अस्माल्लुङि रूपं । निघातः ॥


शृङ्गा॑णी॒वेच्छृ॒ङ्गिणां॒ सं द॑दृश्रे च॒षाल॑वन्त॒ः स्वर॑वः पृथि॒व्याम् ।

वा॒घद्भि॑र्वा विह॒वे श्रोष॑माणा अ॒स्माँ अ॑वन्तु पृत॒नाज्ये॑षु ॥

शृंगाणिऽइव। इत् । शृंगिणां। सं। ददृश्रे। चषालऽवंतः । स्वरवः । पृथिव्यां ।

वाघत्ऽभिः। वा। विऽहवे। श्रोषमाणाः। अस्मान् । अवंतु । पृतनाज्येषु ॥१०॥

स्वरवः स्वरुमंतश्चषालवंतः प्रतिमुक्तकंटकाः । एवंविधा यूपाः पृथिव्यां शृंगिणां महिषादीनां शृंगाणीवेत्। विषाणानीव संददृश्रे । सम्यक् दृश्यंत एव । वा अपि च विहवे । विविधं ह्वयंते हवींष्यत्रेति विहवो यज्ञः ।। तस्मिन्यज्ञे वाघद्भिर्ऋत्विग्भिः । वाघतो वृक्तबर्हिष इत्यृत्विङ्नामसु पाठात् । श्रोषमाणास्तैः क्रियमाणं स्तुतिलक्षणं शब्दं शृण्वंतः । तादृशा यूपाः पृतनाज्येषु । पृतनाज्यशब्दः संग्रामवाची । आजौ पृतनाज्यमिति संग्रामनामसु पठितत्वात् । पृतनाज्येषु संग्रामेषु । वधस्थलेष्विति यावत् । अस्मान्यजमानानवंतु । रक्षंतु ॥ शृंगाणि । शॄ हिंसायामित्यस्माच्छृणातेर्ह्रस्वश्च । उ॰ १. १२५.। इति गन् नुडागमो धातोर्ह्रस्वश्च । नित्स्वरः । ददृश्रे ।। छंदसि लुङ्लिङ्लिट इति लङर्थे लिट। इरयो र इतीरेचो रे इत्यादेशः । निघातः ॥


वन॑स्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यं रु॑हेम ।

यं त्वाम॒यं स्वधि॑ति॒स्तेज॑मानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ॥

वनस्पते । शतऽवल्शः । वि। रोह। सहस्रऽवल्शाः । वि। वयं । रुहेम।

यं। त्वां । अयं । स्वऽधितिः । तेजमानः । प्रऽनिनाय । महते। सौभगाय ॥११॥

हे वनस्पते छिन्नमूल स्थाणो शतवल्शः शतशाखः सन् विरोह । विशेषेण प्रादुर्भूतो भव । वयमपि सहस्रवल्शाः पुत्रपौत्रादिसंतानपरंपरया सहस्रशाखाः संतो विरुहेम । विशेषेण प्रादुर्भूता भवेम । तेजमानो निशितधारोऽयं स्वधितिः परशुः हे स्थाणो यं त्वां महते सौभगाय महत्सौभाग्यं बहुशाखत्वलक्षणं प्रणिनाय। प्रकर्षेण प्रापयामास ॥ सहस्रवल्शाः । सहस्रशब्दः कर्दमादित्वान्मध्योदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । रुहेम । रुह प्रादुर्भाव इत्यस्मादाशीर्लिङि किदाशिषीति यासुडागमः । स्कोः संयोगाद्योरंते चेति सलोपः । लिङ्याशिष्यङ्ङित्यङ्प्रत्ययः । अतो येय इति इयादेशः । लोपो व्योर्वलीति यलोपः । गुणः । प्रणिनाय । णीञ् प्रापण इत्यस्मात् लिटि णलि रूपं । पादादित्वादनिघातः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वं ॥ ॥ ४ ॥


[सम्पाद्यताम्]

यूपस्य पौराणिकाः संदर्भाः

यूपस्य वैदिकाः संदर्भाः

३.८.५ सुदिनत्वे अह्नाम्

टिप्पणी

योगवासिष्ठ ६.२.४.४२( अहंकार के लीन होने पर अह के प्रकट होने का कथन ), पद्म ३.२६.९५( अह व सुदिन तीर्थों का संक्षिप्त माहात्म्य : सूर्य लोक की प्राप्ति)

३.८.१० चषालोपरि कथनानि

टिप्पणी

चषालः, पुं, (चष्यते वध्यतेऽस्मिन् । चष + “सानसि-वर्णसीति ।” उणां । ४ । १०७ । इति आलप्रत्ययेन निपातनात् साधुः ।) यूपकटकः । इत्य-मरः । २ । ७ । १८ ॥ यज्ञसमाप्तिसूचकं पशु-बन्धनाद्यर्थं यज्ञभूमौ यत् काष्ठमारोप्यते स यूपःतस्य शिरसि वलयाकृतिर्डमरुकाकृतिर्व्वा यःकाष्ठविकारः सः । यूपमूलेविहितलोहवलयश्च ।इति केचित् । इति भरतः ॥ मधुस्थानम् । इतिसंक्षिप्तसारे उणादिवृत्तिः ॥ शब्दकल्पद्रुमः

चषाल पु० न० चष--आलच् अर्द्धर्च्चादि । यूपकटके यज्ञिय- पशुबन्धनार्थे यूपमध्येदेये बलयाकारे काष्ठमये लौहमये वा पदार्थे अमरः । तल्लक्षणादिकमुक्तं का० श्रौ० ६ । १ । २८ । सूत्रादौ “अग्राच्चषालं पृथमात्रमष्टाश्रि मध्यसंगृहीतम्” २८ सू० “यूप परिवासनानन्तरं यदवशिष्टं पृथक्कृतमग्रम् ततश्चषा- लं कर्त्तव्यम् प्रसारिताङ्गुलिः पाणिरामणिवन्धनान् पृथक् इत्युच्यते चषालमिति संज्ञा सं व्यवहारार्था “आ चषाले- क्षणात्” इत्यादौ । अष्टाश्रि अष्टकोणम् तदपि तक्षणेनाष्ट-कोणं कुर्य्यात् तक्षैव । उलूखलवन्मध्ये संकुचितम्” कर्कः । “ऊर्द्धमग्रे प्रतिमुञ्चति” २९ सू० “तच्चषालं यूपस्याग्रे ऊर्द्ध्वं प्रतिमुञ्चति अतएवोर्द्धप्रतिमोकविधानाच्चषालस्य तथा बेधः कार्यः । प्रतिमुञ्चतीति वचनाच्च चूड़ाग्रो यूपः चषालं च ससुषिरमिति गम्यत इति हरिस्वामिनः तथा चाहापस्तम्बः “मूलतोऽतष्टमुपरम् अष्टाश्रिरनु पूर्वोऽग्रतोऽणीयान् प्रज्ञाताष्टाश्रिरिति” कर्क० “द्व्यङ्गुलं त्र्यङ्गुलं वां तर्द्मातिक्रान्तं यूपस्य” ३० सू० “यूपस्य यूपाग्रस्य द्व्यङ्गुलं त्र्यङ्गुलं वा चषालं तर्द्माति- क्रान्तं चषालच्छिद्राग्रवेधादतिक्रान्तं भवति अतिक्रम्योर्द्ध्वं निःसृतं भवति तथा चषालस्योर्द्धं प्रवयणं कर्त्तव्यम् यथा चषालो यूपाग्रादधो द्व्यङ्गुले त्र्यङ्गुले वा तिष्ठ- Source: तीत्यर्थः” कर्कः “भूश्चषालतुलिताङ्गुलीयकम्” माघः वाचस्पत्यम्/चतुर्भाव

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.८&oldid=196927" इत्यस्माद् पुनः प्राप्तिः