सामग्री पर जाएँ

शब्दकल्पद्रुमः/चन्द्रकं

विकिस्रोतः तः
पृष्ठ २/४२८

चन्द्रकं, क्ली, (चन्द्र इव चन्द्रप्रभा इव कायतीति ।

कै + कः । वर्णसादृश्यात्तथात्वम् ।) सितमरि-
चम् । इति राजनिर्घण्टः ॥

चन्द्रकः, पुं, (चन्द्र इव कायति प्रकाशते इति । कै

+ कः ।) वर्हनेत्रम् । मयूरपुच्छेर चाँद इति
भाषा । तत्पर्य्यायः । मेचकः २ । इत्यमरः ।
२ । ५ । ३१ ॥ (यथा, गीतगोविन्दे । २ । ३ ।
“चन्द्रकचारुमयूरशिखण्डकमण्डलवलयित-
केशम् ॥”)
नखः । इति शब्दचन्द्रिका ॥ मत्स्यविशेषः ।
चाँदा माछ इति भाषा । अस्य गुणाः । अन-
भिष्यन्दित्वम् । मधुरत्वम् । बलवर्द्धनत्वञ्च । इति
राजनिर्घण्टः ॥ तत्पर्य्यायः । चलत्पूर्णिमा २
चन्द्रचञ्चला ३ चन्द्रिका ४ । इति शब्दरत्ना-
वली ॥ (मण्डलम् । यथा, माघे । ५ । ४० ।
“यां चन्द्रकैर्मदजलस्य महानदीनां
नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः ॥”
“चन्द्रकैश्चन्द्राकारैर्मण्डलैर्महानदीनाम् ।” इति
मल्लिनाथः ।) चन्द्रशब्दात् स्वार्थे के चन्द्रश्च ॥

चन्द्रकला, स्त्री, (चन्द्रं चन्द्राकारं मुखभागं कल-

यतीति । कलि + अच् टाप् च ।) द्रगड-
वाद्यम् । वाचामत्स्यः । इति शब्दरत्नावली ॥
(चन्द्रस्य कला ।) चन्द्रस्य षोडशभागेषु भागः ।
तद्यथा, --
“पूषा यशा सुमनसा रतिः प्राप्तिस्तथा धृतिः ।
ऋद्धिः सौम्या मरीचिश्च तथा चैवांशुमालिनी ॥
अङ्गिरा शशिनी चेति छाया सम्पूर्णमण्डला ।
तष्टिश्चैवामृता चेति कलाः सोमस्य षोडश ॥”
आसां प्रयोजनं तिथिभेदे स्त्रीणामङ्गविशेषे
स्थितस्य कामस्य प्रणवादिसबिन्दुप्रत्येकस्वरयुक्त-
नमोऽन्ततत्तत्प्रत्येककलानामरूपैर्मन्त्रैश्चालनम् ।
इति कामशास्त्रम् ॥ * ॥ तन्त्रोक्ता कला यथा,
“अमृता मानदा पूषा पुष्टिस्तुष्टी रतिर्धृतिः ।
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीति-
रङ्गदा ॥
पृर्णापूर्णामृताकामदायिन्यः शशिनः कलाः ।
आसां प्रयोजनं कलावतीदीक्षादौ पूजनम् ॥”
इति रुद्रयामलम् ॥
(चन्द्रः । यथा, कथासरित्सागरे । १ । ३९ ।
“स च दक्षमखस्तेन नाशितो मन्युना मया ।
ततो जाता हिमाद्रेस्त्वमब्धेश्चन्द्रकला यथा ॥”)

चन्द्रकान्तं, क्ली, (चन्द्रवत् कान्तं कान्तिः कम-

नीयता अस्य ।) श्रीखण्डचन्दनम् । कैरवम् ।
इति रत्नमाला ॥

चन्द्रकान्तः, पुं, (चन्द्रः कान्तः प्रियो यस्य ।) कैरवम् ।

(चन्द्रैव कान्तः कान्तियुक्तः । चन्द्रः कान्तः
अभीष्टो अधिष्ठातृदेवोऽस्येति वा ।) मणिभेदः ।
इति मेदिनी । ते । १९५ ॥ अस्य पर्य्यायाः । चन्द्र-
मणिः २ चान्द्रः ३ चन्द्रोपलः ४ । इति हेम-
चन्द्रः । ४ । १३२ ॥ इन्दुकान्तः ५ चन्द्राश्मा ६
संप्रवोपलः ७ शीताश्मा ८ चन्द्रिकाद्रावः ९
शशिकान्तः १० । (यथा, पञ्चतन्त्रे । १ । ८८ ।
“परीक्षका यत्र न सन्ति देशे
नार्घन्ति रत्नानि समुद्रजानि ।
आभीरदेशे किल चन्द्रकान्तं
त्रिभिर्वराटैर्विपणन्ति गोपाः ॥”)
अस्य गुणाः । शिशिरत्वम् । स्निग्धत्वम् । अस्र-
दाहग्रहालक्ष्मीनाशित्वम् । शिवप्रीतिकरत्वम् ।
स्वच्छत्वञ्च ॥ * ॥ तदुद्भववारिगुणाः । विमलत्वम् ।
लघुत्वम् । पित्तमूर्च्छापित्तास्रदाहकासमदात्यय-
रोगनाशित्वञ्च । इति राजनिर्घण्टः ॥

चन्द्रकान्ता, स्त्री, (चन्द्रः कान्तः प्रियो यस्याः ।)

रात्रिः । इति शब्दचन्द्रिका ॥ (चन्द्रस्य
कान्ता ।) चन्द्रपत्नी च ॥

चन्द्रकालानलं, क्ली, चक्रविशेषः । यथा, --

“चन्द्रकालानलं चक्रं व्योमाकारं लिखेद्बुधः ।
चतुर्द्दिक्षु त्रिशूलानि मध्यभिन्नानि कारयेत् ॥
पूर्ब्बत्रिशूलमध्यस्थं दिन ऋक्षादि लिख्यते ।
त्रिशूले च वहिर्मध्ये मध्ये वहिस्त्रिशूलके ॥
मृत्युस्त्रिशूले नामर्क्षे मध्यमं वहिरष्टके ।
क्षेमलाभजयप्रज्ञा नामर्क्षे चन्द्रगर्भगे ॥
वर्जनीयं प्रयत्नेन प्रथमाष्टत्रिपञ्चकम् ॥”
इति समयामृतम् ॥

चन्द्रकी, पुं, स्त्री, (चन्द्रको विद्यतेऽत्रेति अच् ।

चन्द्रक + ङीष् ।) मयूरः । इति त्रिकाण्डशेषः ॥

चन्द्रकुण्डः, पुं, (चन्द्रस्य कुण्डः चन्द्ररश्मिनिर्म्मितः

कुण्डो वा । चन्द्राधिष्ठातृकः कुण्ड इत्यर्थः ।)
कामरूपस्थसरोवरविशेषः । (यथा, कालिका-
पुराणे कामाख्यारूपनिर्णये ८१ अध्याये ।
“चन्द्ररश्मिसमुद्भूत ! चन्द्रकुण्ड ! महोदधे ! ॥”)

चन्द्रकूटः, पुं, (चन्द्राख्यः कूटः पर्व्वतः । यद्बा, चन्द्रः

कूटे शृङ्गे यस्य । प्रतिदने चन्द्रप्रदक्षिणकरणा-
देवास्य तथात्वम् ।) कामरूपस्थपर्व्वतभेदः ।
यथा, --
“पूर्ब्बं वायुगिरेः शैलश्चन्द्रकूट इति स्मृतः ।
त्रिकोणस्ताम्रसङ्काशस्तदूर्द्ध्वे चन्द्रमण्डलम् ॥
द्वितीयवर्गस्याद्यन्तु बिन्द्विन्दुभ्यामलङ्कृतम् ।
चन्द्रबीजमिति प्रोक्तं तेन चन्द्रं प्रपूजयेत् ॥
अद्यापि प्रतिदर्शे तु पर्व्वतं तं निशापतिः ।
प्रदक्षिणीकरोत्येव दशभी रश्मिभिर्युतः ॥
तस्यैव पूर्ब्बभागे तु सोमकुण्डाह्वयं सरः ।
तत्र स्नात्वा च पीत्वा च नरः कैवल्यमश्नुते ॥
स्वर्गादषभृतश्चन्द्रः कामाख्यासेवने यदा ।
तदा तद्रश्मिसंघातनिःसृतास्तोयराशयः ॥
तैस्तोयैर्व्वासवः कुण्डमकरोदिन्द्रचन्द्रयोः ।
मध्ये पुण्यतमस्थाने स्वयं ब्रह्मशिलोपरि ॥
चन्द्ररश्मिसमुद्भूत ! चन्द्रकुण्ड ! महोदधे ! ।
सुधास्रवण ! साह्लाद ! त्वं चन्द्र ! कलुषं हर ॥
इत्यनेन तु मन्त्रेण सुस्नाय चन्द्रपाथसि ।
चन्द्रकूटं समारुह्य पूजयेद्यस्तु तं नरः ॥
अविच्छिन्ना सन्ततिस्तु सुकान्ता तस्य जायते ।
परत्र चन्द्रभवनं भित्त्वा याति परं पदम् ॥
तोरे तु चन्द्रकूटस्य नन्दनो नाम वै गिरिः ।
तस्मिन् वसति शक्रस्तु कामाख्यासेवने रतः ॥
न्यञ्चभावं समासाद्य सर्व्वदेवेश्वरो हरिः ।
सेवितुं त्रिदशेशानीं सततं वर्त्तते नरः ॥
चन्द्रकूटस्य तु गिरेर्नन्दनस्य तथा गिरेः ॥
प्रतिदर्शं तथा चन्द्रः प्रदक्षिणयति त्रिधा ॥
चन्द्रकुण्डजले स्नात्वा समारुह्याथ नन्दनम् ।
आराध्य शक्रं लोकेशं महाफलमवाप्नुयात् ॥”
इति कालिकापुराणे कामाख्यारूपनिर्णये
८१ अध्यायः ॥

चन्द्रगुप्तः, पुं, (चन्द्रेण गुप्तः रक्षितः । चन्द्र-

वदाह्लादजनकरूपगुणवत्त्वात्तथात्वं वा ।) राज-
विशेषः । (यथा, भागवते । १२ । १ । ११ -- १२ ।
“नवनन्दान् द्विजः कश्चित् प्रपन्नानुद्धरिष्यति ।
तेषामभावे जगतीं मौर्य्या भोक्ष्यन्ति वै कलौ ।
स एव चन्द्रगुप्तं वै द्विजो राज्येऽभिषेक्ष्यति ॥”)
चित्रगुप्तः । इति केचित् ॥

चन्द्रगोलस्थाः, पुं, (चन्द्र एव गोलः चन्द्रगोलक-

स्थानं चन्द्रलोक इत्यर्थः । तत्र तिष्ठन्ति ये ।)
दिव्यपितरः । इति त्रिकाण्डशेषः ॥ बहुवच-
नान्तोऽयं शब्दः ॥

चन्द्रगोलिका, स्त्री, (चन्द्रगोलः साधनत्वेना-

स्त्यस्याः । इति ठन् टाप् च ।) ज्योत्स्ना ।
इति हेमचन्द्रः । २ । २० ॥

चन्द्रचञ्चला, स्त्री, (चन्द्र इव चलज्जलस्थचन्द्रवत्

चञ्चला ।) चन्द्रकमत्स्यः । इति शब्दरत्ना-
वली जटाधरश्च ॥

चन्द्रदाराः, पुं, (चन्द्रस्य दाराः पत्न्यः ।) अश्वि-

न्यादिनक्षत्राणि । इति हलायुधः ॥ बहुवच-
नान्तोऽयम् ॥

चन्द्रपुष्पा, स्त्री, (चन्द्र इव पुष्पमस्याः ।) श्वेत-

कण्टकारी । इति राजनिर्घण्टः ॥

चन्द्रप्रभः, पुं, (चन्द्र इव प्रभा यस्य ।) वृत्ताह-

द्विशेषः । इति हेमचन्द्रः । १ । २७ ॥ (चन्द्र-
प्रभाविशिष्टे, त्रि । यथा, महाभारते । ६ । २० । ८ ।
“चन्द्रप्रभं श्वेतमप्यातपत्रं
सौवर्णस्रग्भ्राजते चोत्तमाङ्गे ॥”)

चन्द्रप्रभा, स्त्री, (चन्द्रवत् प्रभा स्निग्धादिगुण-

वत्तास्याः ।) वाकुची । इति राजनिर्घण्टः ॥
औषधविशेषः यथा, सुखवोधे ।
“कृमिरिपुदहनव्योषत्रिफलामरदारुचव्यभू-
निम्बम् ।
मागधिमूलं मुस्तं सशठीवचामाक्षिकञ्चैव ॥
लवणक्षारनिशायुगकुस्तुम्बुरुगजकणातिविषाः ।
कर्षांशकान्येव समानि कुर्य्यात्
पलाष्टकं चाश्मजतोर्विदध्यात् ।
निष्पत्रशुद्धस्य पुरस्य धीमान्
पलद्वयं लौहरजस्तथैव ॥
सिताचतुष्कं पलमत्र वंश्या
निकुम्भकुम्भत्रिसुगन्धियुक्तम् ।
चन्द्रप्रभेयं गुडिका प्रयोज्या
चार्शांसि निर्णाशयते षडेव ॥
भगन्दरं पाण्डुरकामलाञ्च
निर्नष्टवह्रेः कुरुते च दीप्तिम् ।
पृष्ठ २/४२९
हन्त्यामयान् पित्तकफानिलोत्था-
न्नाडीगते मर्म्मगते व्रणे च ॥
ग्रन्थ्यर्व्वुदे विद्रधिराजयक्ष्मणो-
र्मेहे भगाख्ये प्रबले च योज्या ।
शुक्रक्षये चाश्मरिमूत्रकृच्छ्रे
शुक्रप्रवाहेऽप्युदरामये च ॥
भक्तस्य पूर्ब्बं सततं प्रयोज्या
तक्रानुपानं त्वथ मस्तुपानम् ।
आजो रसो जाङ्गलजो रसो वा
पयोऽथवा शीतजलानुपानम् ॥
बलेन नागस्तुरगो जवेन
दृष्ट्या सुपर्णः श्रवणे वराहः ॥
वलीपलितनिर्मुक्तो वृद्धोऽपि तरुणायते ॥
न पानभोज्ये परिहार्य्यमस्ति
न शीतवातातपमैथुनेषु ।
शम्भुं समभ्यर्च्च्य कृतप्रसादे-
नाप्ता गुडी चन्द्रमसः प्रसादात् ॥”
(“मृतसूताभ्रकं लौहं नागं वङ्गं समं समम् ।
एलाबीजं लवङ्गञ्च जातीकोषफलन्तथा ॥
मधूकं मधुयष्टी च धात्री च समशर्करा ।
कर्पूरं खादिरं सारं शताह्वा कण्टकारिका ॥
अम्लवेतसतुल्यांशमम्ललोणीद्रवैर्दिनम् ।
भावयेन्मेषशृङ्ग्या च नागवल्ल्या दिनं दिनम् ॥
वटिकां वदरास्थ्याभां नाम्ना चन्द्रप्रभां पराम् ।
भक्षयेत्तीव्रमेहार्त्तः सर्व्वमेहकुलान्तकम् ॥
धात्री पटोलपत्रं वा कषायं वामृतायुतम् ।
सक्षौद्रं पाययेच्चानु सर्व्वमेहप्रशान्तये ॥”
इति चन्द्रप्रभावटी ।
इति वैद्यकरसेन्द्रसारसंग्रहे प्रमेहाधिकारे ॥)

चन्द्रभागः, पुं, (भज् + भावे घञ् । चन्द्रस्य भागो-

विभागो यत्र इति ।) पर्व्वतविशेषः । यथा, --
ऋषय ऊचुः ।
“चन्द्रभागा कथं सिन्धुस्तत्रोत्पन्ना महागिरौ ।
कीदृक् सरस्तद्बिप्रेन्द्र ! बृहल्लोहितसंज्ञकम् ॥
कथं स पर्व्वतश्रेष्ठश्चन्द्रभागाह्वयोऽभवत् ।
चन्द्रभागाह्वया कस्मान्नदी जाता वृषोदका ॥
एतन्नः श्रोष्यमाणानां जायते कौतुकं महत् ।
माहात्म्यं चन्द्रभागायाः कासारस्य गिरेस्तदा ॥
मार्कण्डेय उवाच ।
श्रूयतां चन्द्रभागाया उत्पत्तिर्द्विजसत्तमाः ।
युष्माभिश्चन्द्रभागस्य माहात्म्यं नामकारणम् ॥
हिमवत्गिरिसंसक्तशतयोजनविस्तृतः ।
योजनत्रय उच्छ्रायः कुन्देन्दुधवलो गिंरिः ॥
तस्मिन् गिरौ पुरा वेधाश्चन्द्रं शुद्धं सुधानिधिम् ।
विभज्य कल्पयामास देवार्थं स पितामहः ॥
पित्रर्थञ्च तथा तस्य तिथिवृद्धिक्षयात्मकम् ।
कल्पयामास जगतां हिताय कमलासनः ॥
विभक्तश्चन्द्रमा यस्मात् तस्मिन् पर्व्वतसत्तमे ।
अतो देवाश्चन्द्रभागं नाम्ना चक्रुः पुरा गिरिम् ॥”
इत्यादि कालिकापुराणे २० अध्यायः ॥

चन्द्रभागा, स्त्री, (चन्द्रभागः पर्व्वतविशेषः स

उत्पत्तिस्थानत्वेनास्त्यस्याः । “अर्श आदिभ्यो-
ऽच् ।” ५ । २ । १२७ । इत्यच् ततष्टाप् । चन्द्र-
भागात् पर्व्वतविशेषात् जाता इति वा ।)
नदीविशेषः । इत्यमरः । १ । १० । ३४ ॥ तत्-
पर्य्यायः । चन्द्रभागी २ चन्द्रिका ३ । इति
शब्दरत्नावली ॥ सा तु काश्मीरदेशे प्रसिद्धा ।
तस्या उत्पत्तिर्यथा, --
मार्कण्डेय उवाच ।
“यत्र देवसभा भूता सानौ तस्य महागिरेः ।
तत्र जाता देवनदी शीताख्या वचनाद्विधेः ॥
स्नापयित्वा यथा चन्द्रं शीतातोयैर्म्मनोहरैः ।
चन्द्रं पपुर्ब्रह्मवाक्यात् सर्व्वे ते त्रिदिवौकसः ॥
तदा शीताजलं चन्द्रस्नानयोगाच्च सामृतम् ।
भूत्वा निपतितं तस्मिन् वृहल्लोहितसंज्ञके ॥
तद्विवृद्धं तदा तोयं तस्मिन् सरसि निर्म्मलम् ।
तद्ददर्श स्वयं ब्रह्मा विवृद्धं साधु तज्जलम् ॥
तद्दर्शनाज्जलात्तस्मादुत्थिता कन्यकोत्तमा ।
चन्द्रभागेति तन्नाम विधिश्चक्रे स्वयं ततः ॥
भार्य्यार्थे सागरस्तान्तु जग्राह ब्रह्मसम्मते ।
तत्रैवाधिष्ठितं तोयं गदाग्रेण निशापतिः ॥
निर्भिद्य पश्चिभे पार्श्वे गिरिं तत्तु प्रवाहयत् ।
तत् सामृतजलं भित्त्वा बृहल्लोहितसंज्ञकम् ॥
कासारं सागरं जातं चन्द्रभागा नदी तु सा ।
सागरोऽपि तदा भार्य्यां चन्द्रभागां महानदीम् ॥
तेन तोयप्रवाहेण निनाय भवनं स्वकम् ।
एवं तस्मिन् समुत्पन्ना चन्द्रभागाह्वया नदी ॥
चन्द्रभागे महाशैले गुणैर्गङ्गासमा सदा ।”
इति कालिकापुराणे २२ अध्यायः ॥
अस्या जलस्य गुणः । सुशीतलत्वम् । दाहपित्त-
वातनाशित्वञ्च । इति राजनिर्घण्टः ॥

चन्द्रभागी, स्त्री, (चन्द्रभागस्य तदाख्यया प्रसिद्धस्य

पर्व्वतस्य इयम् । चन्द्रभागपर्व्वतसञ्जातत्वात्तथा-
त्वम् । चन्द्रभाग + “तस्येदम् ।” ४ । ३ १२० ॥
इत्यण् । अत्र न वृद्ध्विः । ततः “बह्वादिभ्यश्च ।”
४ । १ । ४५ । इति ङीष् ।) चन्द्रभागानदी ।
इति शब्दरत्नावली ।

चन्द्रभूति, क्ली, (चन्द्रस्येव शुक्ला भूतिः सम्पत्

कान्तिरिति यावत् यस्य । चन्द्रवत् शुभ्रदीप्ति-
तयास्य तथात्वम् ।) रूप्यम् । इति राज-
निर्घण्टः ॥

चन्द्रमणिः, पुं, (चन्द्रप्रियश्चन्द्रकान्त इत्यर्थः मणिः ।

शाकपार्थिववत् समासः ।) चन्द्रकान्तमणिः ।
इति हेमचन्द्रः । ४ । १३३ ॥

चन्द्रमण्डलं, क्ली, (चन्द्रस्य मण्डलम् ।) चन्द्रविम्बम् ।

चन्द्रपरिवेशः ॥ (यथा, गोःरामायणे । ५ । ३२ । ४८ ।
“तस्याश्च विमलं वक्त्रं सुदन्तं सुगुणैर्युतम् ।
यथा राहुविनिर्मु क्तमभवच्चन्द्रमण्डलम् ॥”)

चन्द्रमाः, [स्] पुं, (चन्द्रमानन्दं मिमीते यद्वा

चन्द्रं कर्पूरं सादृश्येन माति परिमातीति ।
मा + “चन्द्रे मो डित् ।” उणां । ४ । २२८ ।
इति असिः स च डित् । चन्द्रं रजतं अमृतञ्च
तदिव मीयते चन्द्र इति वा मीयते इति दासी-
भारादिव्युत्पादने हरदत्तः ।) चन्द्रः । इत्य-
मरः । १ । ३ । १३ ॥ (यथा, पञ्चतन्त्रे । ३ । ६८ ।
“एकोपि कोपि सेव्यो यः क्षीणं क्षीणं पुनर्नवम् ।
अनुद्विग्नः करोत्येव सूर्य्यश्चन्द्रमसं यथा ॥”)

चन्द्रमौलिः, पुं, (चन्द्रः मौलौ शेखरे यस्य ।)

शिवः । इति हारावली । ८ ॥ (यथा, कुमारे ।
५ । ८६ ।
“अद्य प्रभृत्यवनताङ्गि ! तवास्मि दासः
क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ ॥”)

चन्द्ररेखा, स्त्री, (चन्द्रस्य रेखा इव आकृति-

र्यस्याः ।) वागुजी । इति भैषज्यरत्नावली ॥
हाकुच इति भाषा ॥ (यथा, भैषज्यरत्नावल्यां
कुष्ठाधिकारे ।
“गुडुची चन्द्ररेखा च सोमराट् चक्रमर्द्दकम् ॥”
वाकुचीशब्दे विवरणमस्या ज्ञातव्यम् ॥)

चन्द्ररेणुः, पुं, (चन्द्र आह्लादको रेणुर्यत्र ।)

काव्यचौरः । इति त्रिकाण्डशेषः ॥

चन्द्रलेखा, स्त्री, (चन्द्रस्य लेखा इव आकृति-

र्यस्याः ।) वाकुची । इति राजनिर्घण्टः ॥
(अप्सरोविशेषः । यथा, काशीखण्डे । ९ । ७ ।
“उर्व्वशी मेनका रम्भा चन्द्रलेखा तिलोत्तमा ॥”
छन्दोविशेषः । यथा, छन्दोमञ्जर्य्याम् ।
“म्रौ मो यौ चेद्भवेतां सप्ताष्टकैश्च न्द्रलेखा ॥”)

चन्द्रलोहकं, क्ली, (चन्द्र इव शुभ्रं लोहकं धातु-

द्रव्यम् ।) रूप्यम् । इति राजनिर्घण्टः ॥

चन्द्रवंशः, पुं, (चन्द्रस्य वंशः अन्ववायः ।) चन्द्र-

सन्तानः । यथा । ब्रह्मणः पुत्त्रः अत्रिः तस्य
पुत्त्रश्चन्द्रः तस्य बुधः तस्य वैवस्वतमनुकन्यायां
इलायां भार्य्यायां पुरूरवाः स प्रतिष्ठाननगरे
इदानीं विठोरसंज्ञे राजचक्रवर्त्ती आसीत् ।
तस्योर्व्वश्यां षट् पुत्त्रा आसन्तेषां आयुर्ज्येष्ठः ।
तस्य पुत्त्रो नहुषस्तस्य ययातिश्चक्रवर्त्ती । तस्य
द्वे भार्य्ये वृषपर्व्वणो दानवराजस्य सुता
शर्म्मिष्ठा शुक्रस्य कन्या देवयानी च । देव-
यान्यां ययातेर्द्बौ पुत्त्रौ यदुस्तुर्व्वसुश्च । शर्म्मि-
ष्ठायां त्रयः पुत्त्राः द्रुह्युः अनुः पूरुश्च । तत्र
यदुप्रभृतयश्चत्वारः पितुराज्ञाहेलनं कृतवन्तः
पित्रा शप्ताः । ज्येष्ठपुत्त्रं यदुं शशाप तव वंशे-
राजचक्रवर्त्ती माभूत् । तुर्व्वसुद्रुह्य्वनून् शशाप
युष्माकं वंश्या वेदवाह्या म्लेच्छा भविष्यन्ति ।
पूरुस्तु पितुराज्ञया दुष्करं कर्म्म कृत्वा पितु-
रतिप्रिय आसीत् । ययातिः स्वमरणसमये
कनिष्ठपुत्रं पूरुं राजचक्रवर्त्तिनं कृतवान् ।
यदवे दक्षिणस्यां दिशि किञ्चिद्राज्यखण्डं
दत्तवान् । तथा द्रुह्यवे पूर्ब्बस्यां दिशि, पश्चि-
मायां तुर्व्वसवे, उत्तरस्यां अनवे सर्व्वान् पूरो-
रधीनांश्चक्रे । यदुरतीवधर्म्मशीलस्तद्वंशे द्वापर
युगस्यान्ते श्रीकृष्णोऽवतीर्णः । तच्चरितं सर्व्व-
शास्त्रप्रसिद्धम् ॥ (अधुना यदोर्घंश उच्यते ।
यदोः पुत्त्रः क्रोष्टा (क्रोष्टु) तस्य वृजिनिवान्
तस्य आहिः तस्य उशङ्गुः तस्य चित्ररथः
तस्य शशविन्दुः तस्यःपृथुकीर्त्तिः पृथुजयः पृथु-
दानः पृथुश्रवा इति चत्वारः पुत्त्राः । पृथु
पृष्ठ २/४३०
श्रवसः तमः तस्य उशनाः तस्य शितायुः तस्य
रुक्मकवचः तस्य ज्यामघः तस्य विदर्भः तस्य
क्रथः तस्य कुन्तिः तस्य वृष्टिः तस्य निवृत्तिः
तस्य दशार्हः तस्य व्योमः तस्य जिमूतः तस्य
विकृतिः तस्य भीमरथः तस्य मधुरथः तस्य
शकुनिः तस्य करन्तिः तस्य देवमतः तस्य
देवक्षेत्रः तस्य मधुः तस्य कुरुवशः तस्य अनु-
रथः तस्य पुरुहोत्रः तस्य अंशुः तस्य सत्यश्रुतः
तस्य वृष्णिः देवावृधः अन्धकः महाभुजः इति
चत्वारः पुत्त्राः । तेषु वृष्णिज्यष्ठः तस्य सुमित्रः
तस्य अनमित्रः तस्य वृष्टिः तस्य चित्रकः तस्य
विदूरथः तस्य शूरः तस्य भजमानः तस्य शिनिः
तस्य भोजः तस्य राधिकः तस्य देवमीढः तस्य
शूरसेनः तस्य वसुदेवः तस्य पुत्त्रो भगवान्
श्रीकृष्णः ॥ * ॥) ययातिपुत्त्रस्य पूरोरतिविस्तीर्णो
वंश उच्यते । पूरोः पुत्त्रो जनमेजयः तस्य
प्रचिन्वान् तस्य प्रवीरः तस्य मनस्युः तस्य चारु-
पदः तस्य सुद्युः तस्य बहुगवः तस्य संयातिः
तस्य अहंयातिः तस्य रौद्राश्वः तस्य ऋचेयुः
तस्य रन्तिनारः तस्य सुमतिः (तंसुः) तस्य रैभ्यः
(सुरोधः) तस्य दुष्मन्तश्चक्रवर्त्ती । तस्य शकुन्त-
लायां भार्य्यायां भरतश्चक्रवर्त्ती आसीत् । यस्त्रय-
स्त्रिंशच्छतमश्वमेधान् कृतवान् पञ्चाशद्राज-
सूयान् एवमन्यान् नानाविधान् यज्ञान् अकरोत्
बहूनि धनरत्नादीनि दत्तवान् सप्तविंशतिसहस्र-
वत्सरान् एकच्छत्रं राज्यं कृतवान् । तस्य पुत्त्रो
वितथः तस्य मन्युः तस्य बृहत्क्षेत्रः तस्य हस्ती
येन हस्तिनापुरं निर्म्मितम् । तस्य अजमीढः
तस्य ऋक्षः तस्य सम्बरणः तस्य सूर्य्यकन्यायां
तपत्यां कुरुः तस्य जह्गुः तस्य सुरथः तस्य विदू-
रथः तस्य सार्व्वभौमः तस्य जयत्सेनः तस्य
राधिकः तस्य अयुतायुः तस्य ऋक्षः तस्य
दिलीपः तस्य प्रतीपः तस्य देवापिः शान्तनुः
वाह्लीक इति त्रयः पुत्त्राः । तत्र देवापिः कलाप-
ग्रामे योगी भूत्वा वर्त्तते । स कलौ चन्द्रवंशे लुप्ते
कलेरन्ते पुनः सत्ययुगे चन्द्रवंशं भावयिष्यति ॥ * ॥
तत्र शान्तनू राजा अभवत् स चक्रवर्त्ती तस्य
गङ्गायां भीष्मः पुत्त्रो जातः स परमधर्म्मात्मा
महावीरः येन पितुर्दाशकन्याविवाहार्थं पितृ-
राज्यं त्यक्तम् । यः स्वस्य विवाहं त्यक्त्रा ऊर्द्ध्व-
रेता जातः । शान्तनोर्दाशकन्यायां द्वौ पुत्त्रौ
जातौ चित्राङ्गदो विचित्रवीर्य्यश्च । सत्यवत्यां
कन्याकाले पराशरात् व्यासो जातः । पुनर्भुने-
र्वरात् व्यासजन्मानन्तरं सा कन्यारूपाभवत् ।
चित्राङ्गदो युद्ध्वे गन्धर्व्वेण हतः । विचित्रवीर्य्यस्य
क्षेत्रे सत्यवत्याज्ञया व्यासः धृतराष्ट्रं पाण्डुञ्च
जनयामास । धृतराष्ट्रस्यान्धस्य गान्धार्य्यां
भार्य्यायां दुर्य्योधनज्येष्ठं पुत्त्रशतं बभूव । पाण्डो-
र्द्बेभार्य्ये कुन्ती माद्री च । मृगीभूतस्य मुनेःशापा-
न्मैथुनरहितस्य पाण्डोराज्ञया कुन्ती धर्म्माद्-
युधिष्ठिरं पवनाद्भीमं इन्द्रादर्ज्जुनं जनयामास ।
माद्री अश्विनीकुमाराभ्यां नकुलसहदेवौ जन-
यामास । युधिष्ठिरस्तु राजसूययाजी । अर्ज्जु-
नस्य सुभद्रायां भार्य्यायां अभिमन्युस्तस्य उत्त-
रायां भार्य्यायां परिक्षित् । युधिष्ठिरादनन्तरं
कलियुगस्यारम्भे स राजासीत् चक्रवर्त्ती । तस्य
जनमेजयः तस्य शतानीकः तस्य सहसानीकः
तस्य अश्वमेधजः तस्य असीमकृष्णः तस्य नेमि-
चक्रः स हस्तिनानगरे नद्याहृते कौशाम्ब्यां
पुर्य्यां राजासीत् । तस्य उप्तः तस्य चित्ररथः
तस्य शुचिरथः तस्य वृष्टिमान् तस्य सुसेनः
तस्य सुनीथः तस्य नृचक्षः तस्य सुखीनलः तस्य
परिप्लवः तस्य सुनयः तस्य मेधावी तस्य नृप-
ञ्जयः तस्य दूर्व्वः तस्य तिमिः तस्य बृहद्रथः
तस्य सुदासः तस्य शतानीकः तस्य दुर्द्दमनः
तस्य महीनरः तस्य दण्डपाणिः तस्य निमिः
तस्य क्षेमकः । एतत्पर्य्यन्तमस्य वंशस्य
शान्तिः एते कलेः सहस्रवर्षपर्य्यन्तं स्थिताः ॥ * ॥
सोमवंशशाखान्तरे मगधवंश्या राजानः कलौ
बहुकालं स्थिताः । अतस्ते वर्ण्यन्ते । तत्र
युधिष्ठिरसमकालीनो जरासन्धसुतः सहदेवो
मगधेषु राजासीत् । तस्य मार्जारिः तस्य
श्रुतश्रवाः तस्य अयुतायुः तस्य निरमित्रः
तस्य सुनक्षत्रः तस्य बृहत्सेनः तस्य कर्म्म-
जित् तस्य श्रुतञ्जयः तस्य विप्रः तस्य शुचिः
तस्य क्षेमः तस्य सुव्रतः तस्य धर्म्मसूत्रः तस्य
समः तस्य दृढसेनः तस्य सुमतिः तस्य सुबलः
तस्य सुनीथः तस्य सत्यजित् तस्य विश्वजित्
तस्य पुरञ्जयः एते राजानः कलेः सहस्रवत्सर-
पर्य्यन्तं राज्यं कृतवन्तः ॥ * ॥ ततः पुरञ्जयस्य
मन्त्री शुनकः पुरञ्जयं हत्वा तस्य पुत्त्रं प्रद्योतं
राजानं कृतवान् । तदारभ्य राजानो वर्णसङ्कर-
दोषदुष्टा जाताः । प्रद्योतपुत्त्रः पालकः तस्य
विशाखयूपः तस्य राजकः तस्य नन्दिवर्द्धनः ।
एते पञ्च अष्टत्रिंशोत्तरशतवर्षं भूमिपा
आसन् ॥ * ॥ नन्दिवर्द्धनस्य पुत्त्रः शिशुनागः
तस्य काकवर्णः तस्य क्षेमधर्म्मा तस्य क्षेत्रज्ञः
तस्य विधिसारः तस्य अजातशत्रुः तस्य दर्भकः
तस्य अजयः तस्य नन्दिवर्द्धनः तस्य महानन्दिः
एते दश नृपाः षष्ट्युत्तरशतत्रयं वत्सरान्
भूमिपाला आसन् ॥ * ॥ महानन्दिसुतो नन्दः
शूद्रायां समुत्पन्नः राजासीत् तस्य सुमाल्याद्या
अष्टौ पुत्त्रा आसन् । ते शतवत्सरान् राज्यं
कृतवन्तः । चाणक्यनामा कश्चिद्ब्राह्मणः नन्दं
तत्पुत्त्रांश्च हत्वा मौर्य्यं चन्द्रगुप्तं राजानं कृत-
वान् । कलौ नन्दान्तः क्षत्त्रियवंशः । इति
श्रीभागवतं महाभारतञ्च ॥

चन्द्रवल्लरी, स्त्री, (चदि आह्लादे + रक् । चन्द्रा

आनन्ददायिकावल्लरी । सुधातुल्यमधुस्रावित्वा-
त्तथात्वम् । चन्द्रस्य वल्लरी लता इति केचित् ।)
सोमवल्लरी । सोमलता इति ख्याता । ब्रह्मी-
शाकमिति केचित् । इत्यमरटीकायां भरतः ॥

चन्द्रवल्ली, स्त्री, (चन्द्र इव आनन्ददायिका वल्ली ।)

प्रसारणी । माधवीलता । इति राजनिर्घण्टः ॥
सोमलता च ॥ (सोमलताशब्दे गुणादयोऽस्या
ज्ञेयाः ॥)

चन्द्रवाला, स्त्री, (चन्द्रं कर्पूरमपि वलते संवृणोति

स्वगन्धेन इति । वलसंवरणे + अण् । ततष्टाप् ।)
स्थूलैला । इत्यमरः । २ । ४ । १२५ ॥ (पर्य्यायो
ऽस्या यथा, --
“एला स्थूला च बहुला पृथ्वीका त्रिपुटापि च ।
भद्रैला बृहदेला च चन्द्रवाला च निष्कुटिः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

चन्द्रविहङ्गमः, पुं, (चन्द्र इव शुभ्रो विहङ्गमः ।)

वकपक्षी । इति त्रिकाण्डशेषः ॥

चन्द्रव्रतं, क्ली, (चन्द्राय चन्द्रलोकप्राप्तये यत् व्रतम् ।

यद्वा, चन्द्रस्य ह्रासवृद्धिभ्यां कृतं यद्व्रतं तत् ।)
चान्द्रायणम् । इति स्मृतिः ॥ (एतद्विवरणं
चान्द्रायणशब्दे द्रष्टव्यम् ॥)

चन्द्रशाला, स्त्री, (चन्द्रेण शालते शोभते इति ।

शाल + अच् । ततष्टाप् ।) ज्योत्स्ना । इति
त्रिकाण्डशेषः ॥ (चन्द्र इव शालते श्लाघते इति ।
उच्चस्थानस्थितत्वादेव तथात्वम् ।) प्रासादो-
परिगृहम् । तत्पर्य्यायः । शिरोगृहम् २ । इति
हेमचन्द्रः । ४ । ६१ ॥ चन्द्रशालिका ३ वडभी ४
कूटागारम् ५ । इति त्रिकाण्डशेषः ॥ (यथा,
रधुः । १३ । ४० ।
“तस्यायमन्तर्हितसौधभाजः
प्रसक्तसङ्गीतमृदङ्गघोषः ।
वियद्गतः पुष्पकचन्द्रशालाः
क्षणं प्रतिश्रुन्मुखराः करोति ॥”)

चन्द्रशालिका, स्त्री, (चन्द्र इव शालते इति ।

शाल + ण्वुल् । टापि अतं इत्वम् । यद्बा, चन्द्र-
शाला + स्वार्थे कन् ।) वडभी । इति त्रिकाण्ड-
शेषः ॥

चन्द्रशूरं, क्ली, फलविशेषः । हालिम् इति भाषा ।

तत्पर्य्यायः । चन्द्रिका २ चर्म्महन्त्री ३ पशुमेहन-
कारिका ४ नन्दनी ५ कारवी ६ भद्रा ७ ।
अस्य गुणाः । हिक्वावातश्लेष्मातिसारिणां हित-
त्वम् । असृग्वातरोगद्वेषित्वम् । बलपुष्टिविव-
र्द्धनत्वञ्च । इति भावप्रकाशः ॥

चन्द्रशेखरः, पुं, (चन्द्रः शेखरे मौलौ यस्य । यद्वा,

चदि आह्लादे + रक् । चन्द्रः आह्लादः स्वान-
न्दानुभवरूपपरमात्मज्योतिः शेखरे ललाटोर्द्ध्व-
भागे यस्य । स्वप्रकाशात्मनां शरीरत्रयोपाधि-
वर्ज्जितानां योगीन्द्रपुरुषाणामपि ललाटदेशे
सत्यज्ञानानन्दामृतसेतोः परब्रह्मणः स्वाभासक-
ज्योतिर्मण्डलस्य प्रकाशमानत्वात् अन्येष्वपि
चन्द्रशेस्वरत्वमिति चेन्न । विश्वगुरोर्महादेवा-
दन्यत्र पूर्णतमयोगसिद्धेरप्रसिद्धेः । किञ्च महे-
श्वरादिशब्दवत् रूढिशक्तितोऽपि सर्व्वयोगीन्द्र-
गुरौ भगवति महेश्वरे एव चन्द्रशेखरपदस्य
समन्वर्थतेति पूर्ब्बाचार्य्यपादाः ॥) शिवः । इत्य-
मरः । १ । १ । ३२ ॥ (यथा, कुमारे । ५ । ५८ ।
“यदा बुधैः सर्व्वगतस्त्वमुच्यसे
न वेत्सि भावस्थमिमं कथं जनम् ।
पृष्ठ २/४३१
इति स्वहस्तोल्लिखितश्च मुग्धया
रहस्युपालभ्यत चन्द्रशेखरः ॥”
चन्द्रयुक्तः शेखरः शृङ्गं यस्य ।) पर्व्वतविशेषः ।
यथा, आगमे शिववाक्यम् ।
“विशेषतः कलियुगे वसामि चन्द्रशेखरे ॥”
(तथा, महालिङ्गेश्वरतन्त्रे ।
“शम्भुनाथश्चन्द्रनाथश्चन्द्रशेखर पर्व्वते ॥”)
चट्टलदेशे महापीठे भैरवविशेषः । यथा, --
“चट्टले दक्षबाहुर्म्मे भैरवश्चन्द्रशेखरः ।
व्यक्तरूपा भगवती भवानी तत्र देवता ॥
विशेषतः कलियुगे वसामि चन्द्रशेखरे ॥”
इति तन्त्रचूडामणौ ५१ पीठनिर्णयः ॥
करवीरपुरराजा । स च पौष्यराजपुत्त्रः । यथा, --
“अथ काले व्यतीते तु सर्व्वज्ञो वृषभध्वजः ।
तद्भाविकर्म्म ज्ञात्वैव मानुषो ह्यभवत् स्वयम् ॥
ब्रह्मणो दक्षिणाङ्गुष्ठाद्दक्षो ब्रह्मसुतोऽभवत् ।
अदितिस्तत्सुता जाता ततः पूषाह्वयोऽभवत् ॥
पूष्णः पुत्त्रोऽभवत् पौष्यः सर्व्वशास्त्रार्थपारगः ।
यस्य तुल्यो नृपो भूमौ न भूतो न भविष्यति ॥
स पुत्त्रहीनो राजाभूत् पौष्यो नृपतिसत्तमः ।
शेषे वयसि सम्प्राप्ते भार्य्याभिस्तिसृभिः सह ॥
पौष्यः परमया भक्त्या ब्रह्माणं पर्य्यतोषयत् ।
तस्य प्रसन्नो भगवान् ब्रह्मा लोकपितामहः ॥
तमुवाच स राजानं किमिच्छसि वदस्व मे ।
प्रसन्नोऽस्मि नृपश्रेष्ठ ! प्रदास्यामि यथेप्सितम् ॥
यदिष्टं तव जायानां तत्तद्दास्यामि साम्प्रतम् ॥
पौष्य उवाच ।
हिरण्यगर्भापुत्त्रोऽहं पुत्त्रार्थी त्वामुपास्महे ।
त्वयि प्रसन्ने पुत्त्रो मे भवेल्लक्षणसंयुतः ॥
एतदर्थं सभार्य्योऽहं भक्त्या त्वां समुपस्थितः ।
यथा मे जायते पुत्त्रस्तथा कुरु जगत्पते ! ॥
पुन्नाम्नो नरकात् पुत्त्रस्त्रायते पितरं प्रसूम् ।
अतस्तस्माद्भयं ब्रह्मन् ! त्वं नाशयितुमर्हसि ॥
ब्रह्मोवाच ।
शृणु पौष्य ! यथा भावी पुत्त्रस्तव कुलोद्बहः ।
तदहं ते वदाम्यद्य भार्य्याभिस्तत् समाचर ॥
इदं फलं गृहाण त्वं मया दत्त्वं नृपोत्तम ! ।
अजीर्णं बहुले काले प्राप्तेऽपि सुरसं सदा ॥
फलमेतत् समादाय यावत् संवत्सरद्वयम् ।
आराधय महादेवं सुप्रसन्नो भविष्यति ॥
यथा संभाषते भर्गः फलमेतत्तथा भवान् ।
करिष्यति फलं राजन् ! भार्य्याभिस्तिसृभिः सह ॥
ततस्ते लक्षणोपेतस्तनयः कुलवर्द्धनः ।
भविष्यति च यः शास्ता चक्रवर्त्ती भविष्यति ॥
इत्युक्त्रा प्रययौ ब्रह्मा राजापि सह भीरुभिः ।
हरं यष्टुं समारेभे भक्त्या परमया युतः ॥
निराशी संयताहारः कदाचित् फलभोजनः ।
दृशद्वतीनदीतीरे फलं संस्थाप्य चाग्रतः ॥
पुष्पार्घ्यधूपदीपाद्यैर्वृषध्वजमतर्पयत् ।
स तु वर्षद्वयेऽतीते महादेवो जगत्पतिः ॥
पौष्यस्य नृपतेः सम्यक् प्रससादार्थसिद्धये ।
प्रसन्नः प्राह नृपतिं महादेवो हसन्निव ॥
उपासते किमर्थं मां तन्मे वद ददामि ते ॥
पौष्य उवाच ।
अपुत्त्रोऽहं पुत्त्रकामः पूजयामि वृषध्वज ! ।
यथाहं पुत्त्रवान् वै स्यां वृषध्वज ! तथा कुरु ॥
इति संन्यवदद्राजा भार्य्याभिः सह हर्षितः ।
प्रणम्य स्तुतिपूर्ब्बेण भक्तिनम्रात्ममानसः ॥
ततः पुत्त्रार्थिनं भूपं प्रसन्नो वृषभध्वजः ।
ब्रह्मदत्तफलं हस्ते कृत्वे दं तमुवाच ह ॥
ईश्वर उवाच ।
इदं फलं ब्रह्मदत्तं विभज्य नृपते त्रिधा ।
भोजयैताः स्वजायास्त्वं प्रहृष्टः सुस्थमानसः ॥
ततः प्रवृत्ते भवत एतासु ऋतुसङ्गमे ।
आधास्यन्ति च गर्भांस्तु भार्य्यास्ते युगपन्नृप ! ॥
काले प्राप्ते च युगपत् प्रसवो योषितां तव ।
भविष्यति नृपश्रेष्ठ ! ता एवं त्व करिष्यसि ॥
एकस्या जठरे शीर्षं भार्य्यायास्ते भविष्यति ।
अपरस्यास्तथा कुक्षौ मध्यभागो भविष्यति ॥
अधो नाभ्यास्तु यो भागः सोऽपरस्यां भविष्यति ।
ततः खण्डत्रयं भूप ! यथास्थानं पृथक् पृथक् ॥
योजयिष्यसि पश्चात्ते पुत्त्र एको भविष्यति ।
तस्य शीर्षे चन्द्ररेखा सहजा संभविष्यति ॥
तेनैव नाम्ना स ख्यातिं गमिष्यति च भूपते ! ।
इत्युक्त्वा स महादेवस्तासां गर्भान् स्वयं तदा ॥
संस्कर्त्तुं जाह्नवीतोयमात्मनः शिरसो न्यधात् ।
ततः फले स्वयं देवः प्रविवेश वृषध्वजः ॥
तत्क्षणात् तत् फलं भूतं त्रिभागं स्वयमेव हि ।
पौष्यस्तत् फलमादाय मुदितः सह भार्य्यया ॥
प्रययौ मन्दिरं हृष्टो अनुज्ञाप्य वृषध्वजम् ।
ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम् ॥
तत् फलं नृपशार्द्दूल ! गर्भाश्चाप्याहिताः शुभाः ।
सम्पूर्णे गर्भकाले तु गर्भेभ्यः समजायत ॥
खण्डत्रयं पृथक् राजा यथा भर्गेण भाषितम् ।
तच्च खण्डत्रयं पौष्यो यथास्थानं नियोज्य च ।
एकं पिण्डं चकाराशु तत्र पुत्त्रो व्यजायत ।
तस्य शीर्षे तदा राजन् सहजेन्दुकला शुभा ॥
विरराज यथा स्वच्छा शरत्काले कला विधोः ।
तं सर्व्वलक्षणीपेतं पीनारस्कं सुनासिकम् ॥
सिंहग्रीवं विशालाक्षं दीर्घायतभुजं तदा ।
दृष्ट्वा पौष्योऽथ भार्य्याभिस्तिसृभिः सह संमुदम् ।
लेभे दरिद्रः सत्कोषं प्राप्येव विपुलं ततः ।
तस्य नामाकरोद्राजा ब्राह्मणैः स्वैः पुरोहितैः ॥
चन्द्रशेखर इत्येवं कान्त्या चन्द्रमसः समः ।
ववृधे स महाभागः प्रत्यहं चात्यरुग्यतः ॥
कलाभिरिव तेजस्वी शरदीव निशाकरः ।
एवं तिसृणामम्बानां गर्भे जातो यतो हरः ॥
अतस्त्र्यम्बकनामाभूत् प्रथितो लोकदेवयोः ।
स राजपुत्त्रः कौमारावस्थां प्राप यदा तदा ॥
सर्व्वशास्त्रार्थतत्त्वज्ञो जिष्णोस्तुल्यो बभूव ह ।
बले वीर्य्ये प्रहरणे शास्त्रे शीले च तत्समः ॥
नान्योऽभून्नृपशाद्र्दूल ! नो वा भूमौ भविष्यति ।
अभिषिच्याथ तं बालं कुमारं बलवत्तरम् ॥
दशपञ्चैकवर्षीयं सर्व्वराजगुणैर्युतम् ।
तिसृभिः सह भार्य्याभिर्व्वनं पौष्यो विवेश ह ॥
वृद्धोचितक्रियां कर्त्तं राजा परमधार्म्मिकः ।
गते पितरि राजा स वनवासं महाबलः ॥
सर्व्वां क्षितिं वशे चक्रेऽमात्यैः स चन्द्रशेखरः ।
सार्व्वभौमो नृपो भूत्वा राजभिः परिषेवितः ॥
अमरैरिव देवेन्द्रो विजहार श्रिया युतः ।
एवं पौष्यसुतो भूत्वा त्र्यम्बकः प्राप्य निर्वृतिम् ॥
ब्रह्मावर्त्ताह्वये रम्ये करवीराह्वये पुरे ।
दृशद्वतीनदीतीरे राजा भूत्वा मुमोद ह ॥”
इति कालिकापुराणे ४६ अध्यायः ॥ * ॥
(स्वनामख्यातः पण्डितविशेषः । असौ हि
सिद्धपुरुषः त्रिवेणीसन्निकर्षस्थवन्द्यपाडाख्यग्रामे
१६०० शकस्य प्रारम्भ एव वर्त्तमान आसीत् ।
अद्यापि तस्य सिद्धिस्थानं तत्रैव वर्त्तते । अयं
नानाशास्त्रवेत्ता विशेषतो ज्योतिषशास्त्रेषु
लब्धप्रतिष्ठो बभूव । एतत्संकलिता बहवो
ग्रन्था अस्मद्देशेऽद्यापि प्रचरन्ति ॥ * ॥)
षोडशध्रुवकान्तर्गतनवमध्रुवकः । तद्विवरणं
ध्रुवकशब्दे द्रष्टव्यम् ॥ अपि च ।
“ऊनविंशतिवर्णाङ्घ्रिः सिद्धिदश्चन्द्रशेखरः ।
कथितः केन्दुके ताले भवेत् शृङ्गारवीरयोः ॥”
इति सङ्गीतदामोदरः ॥
(वटिकौषधविशेषः ।
“सूतो गन्धष्टङ्गणः सोषणः स्या-
देतैस्तुल्या शर्करा मत्स्यपित्तैः ।
भूयो भूयो भावयेत्तु त्रिवारं
वल्लो देयः शृङ्गवेरस्य वारा ॥
सम्यक् तापे वारिभक्तं सतक्रं
वृन्ताकाढ्यं पथ्यमेव प्रदिष्टम् ।
अङ्गे रोगं हन्ति सामं प्रभावात्
पित्ताधिक्ये मूर्द्ध्नि वारिप्रयोगः ॥”
इति उदकमञ्जरीरसः ॥
“अत्रैव शर्करां त्यक्त्वा शिला च यदि दीयते ।
गुणैः समो भवेदस्य नाम्ना च चन्द्रशेखरः ॥”
इति चन्द्रशेखरो रसः ॥)

चन्द्रसंज्ञः, पुं, (चन्द्रस्य संज्ञा संज्ञा यस्य ।)

कर्पूरम् । इत्यमरः । २ । ६ । १३० ॥

चन्द्रसम्भवा, स्त्री, (चन्द्रः सम्भवो यस्याः ।)

क्षुद्रैला । इति शब्दचन्द्रिका ॥ (बुधे, पुं ॥)

चन्द्रहासं, क्ली, (चन्द्रस्येव शुक्लो हासः प्रभा

यस्य ।) रौप्यम् । इति राजनिर्घण्टः ॥

चन्द्रहासः, पुं, (चन्द्रस्येव शुक्लो हासो दीप्ति-

र्यस्य ।) खड्गः । रावणखड्गः । इति मेदिनी ।
गे, ५२ ॥

चन्द्रहासा, स्त्री, (चन्द्रहास + टाप् ।) गुडूची ।

इति राजनिर्घण्टः ॥ (चन्द्रवदाह्लादकरो हासो
यस्याः इति । गायत्त्रीरूपा भगवती । यथा,
देवीभागवते । १२ । ६ । ४८ ।
“चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी ॥”
बृहती । तस्याः पर्य्याया यथा, --
“क्षुद्रायां क्षुद्रभण्टाक्यां बृहतीति निगद्यते ।
श्वेता क्षद्रा चन्द्रहासा लक्ष्मणा क्षेत्रदूतिका ॥
पृष्ठ २/४३२
गर्भदा चन्द्रभा चन्द्री चन्द्रपुष्पा प्रियङ्करी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

चन्द्रा, स्त्री, (चन्दयति आह्लादयतीति । चदि +

णिच् + रक् । स्त्रियां टाप् ।) एला । वितानम् ।
इति शब्दरत्नावली ॥ गुडूची । इति केचित् ॥

चन्द्रातपः, पुं, (चन्द्र इव आतपति शीतलं करोति

छायादानेन । आ + तप् + अच् ।) आच्छादन-
विशेषः । चाँदोया इति भाषा ॥ तत्पर्य्यायः ।
उल्लोचः २ वितानम् ३ चन्द्रा ४ । इति शब्द-
रत्नावली ॥ (चन्द्रस्य आतपः रश्मिः ।)
ज्योत्स्ना । इति हेमचन्द्रः । २ । २१ ॥ (यथा,
कादम्बर्य्याम् । “चन्द्रातपमिव रसतामुपेतम् ॥”)

चन्द्रापीडः, पुं, (चन्द्रः आपीडे शेखरे यद्वा

आपीडः शिरोभूषणं यस्य ।) शिवः । इति
त्रिकाण्डशेषः ॥ (काश्मीरस्य राजविशेषः ।
यथा, राजतरङ्गिण्याम् । ४ । ४५ ।
“राजचूडामणिः श्रीमांश्चन्द्रापीडस्ततोऽभवत् ।
पीडितेन्दुत्विषा कीर्त्त्या कलेः पीडा ञ्चकार यः ॥”
कादम्बरीवर्णितनायकविशेषः । स तु राज्ञस्तारा-
पीडस्य पुत्त्रः । यथा, कादम्बर्य्याम् । १३७ ।
“अतिक्रान्ते च षष्ठीजागरे प्राप्ते दशमेऽहनि
पुण्ये मुहूर्त्ते गाः सुवर्णञ्च कोटिशो ब्राह्मण-
सात् कृत्वा ‘मातुरस्य मया परिपूर्णमण्डलश्चन्द्रः
स्वप्ने मुखकमलमाविशन् दृष्टः’ इति स्वप्नानुरूप-
मेव राजा सूनोश्चन्द्रापीड इति नाम चकार ।”
अयं हि एकदा मृगयां गच्छन् किन्नरमिथुन-
मनुधावन् हिमालयशिखरमधिरुह्य अच्छोद-
सरोवरसमीपं गतवान् । तत्रस्थश्च महाश्वेतां
गन्धर्व्वकुमारीमवलोक्य तन्मुखात् तस्याः सर्व्व-
वृत्तान्तमाकर्ण्य च तया सह गन्धर्व्वलोकं गत
वान् । तत्र गत एव गन्धर्व्वराजस्य चित्ररथस्य
कादम्बरीं नाम कन्यां ददर्श । दृष्ट्वा च
तां कन्दर्पबाणपीडितो बभूव । ततोऽतिकष्टेन
तस्मात् स्थानात् प्रत्यागत्य स्वसहचरं वैशम्पायनं
स्कन्धावाररक्षकत्वेन परिकलय्य पित्राहूतः
खभवनमाजगाम । अथ गच्छति काले वैशम्पा-
यनानयनाय गतोऽसौ चिरबन्धोर्वैशम्पायनस्य
मृत्युवार्त्तामाकलय्य छिन्नतरुरिव भूतले पतित्वा
महाश्वेतासन्निकर्ष एव विदीर्णहृदयो गतासु-
रासीत् । ततो दैवादेशेन रक्षितशरीरोऽसौ
पुनर्जीवितश्च कादम्बरीं परिणीतवान् । इत्येषा-
तीवाश्चर्य्यजनिका कथा कादम्बरीग्रन्थत एव
विशेषतो विज्ञेया ॥)

चन्द्रावली, स्त्री, गोपीविशेषः । सा तु चन्द्रभानु-

कन्या व्रजे श्रीकृष्णस्य नित्यप्रिया राधातुल्या ।
यथा, उज्ज्वलनीलमणौ ।
“राधाचन्द्रावलीमुख्याः प्रोक्ता नित्यप्रिया व्रजे ।
कृष्णवन्नित्यसौन्दर्य्यवैदग्ध्यादिगुणाश्रयाः ॥”

चन्द्रिका, स्त्री, (चन्द्र आश्रयत्वेनास्त्यस्याः ।

“अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।)
ज्योत्स्ना । इत्यमरः । १ । ३ । १६ ॥ (यथा,
रघुः । १९ । ३९ ।
“अन्वभुङ्क्त सुरतश्रमापहां
मेघमुक्तविशदां स चन्द्रिकाम् ॥”)
स्थूलैला । चन्द्रकमत्स्यः । चन्द्रभागानदी ।
इति शब्दरत्नावली ॥ कर्णस्फोटा । मल्लिका ।
श्वेतकण्टकारी । मेथिका । सूक्ष्मैला । इति
राजनिर्घण्टः ॥ चन्द्रशूरम् । इति भावप्रकाशः ॥
(पीठस्थदेवीविशेषः । सा तु हरिश्चन्द्रे विरा-
जते । यथा, देवीभागवते । ७ । ३० । ६७ ।
“सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका ॥”
छन्दोविशेषः । तल्लक्षणं यथा, छन्दोमञ्जर्य्याम् ।
“ननततगुरुभिश्चन्द्रिकाऽश्वर्त्तुभिः ॥”
वासपुष्पा । अस्याः पर्य्याया यथा, --
“चन्द्रिका चर्म्महन्त्री च पशुमेहनकारिका ।
नन्दिनी कारवी भद्रा वासपुष्पा सुवासरा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

चन्द्रिकाद्रावः, पुं, (चन्द्रिकया द्रावो द्रवणं यस्य ।)

चन्द्रकान्तमणिः । इति राजनिर्घण्टः ॥

चन्द्रिकापायी, [न्] पुं स्त्री, (चन्द्रिकां ज्योत्स्नां

पिबतीति । पा + णिनिः ।) चकोरपक्षी । इति
राजनिर्घण्टः ॥

चन्द्रिकाम्बुजं, क्ली, (चन्द्रिका इव शुभ्रं अम्बु-

जम् ।) सितोत्पलम् । इति राजनिर्घण्टः ॥

चन्द्रिलः, पुं, (चन्द्रो विद्यतेऽस्य । चन्द्र + बाहु-

लकात् अस्त्यर्थे इलच् ।) शिवः । नापितः ।
वास्तूकम् । इति मेदिनी । ले, ८९ ॥

चन्द्री, स्त्री, (चन्दयति आह्लादयतीति । चदि +

णिच् + रक् । गौरादित्वात् ङीष् ।) वाकुची ।
इति राजनिर्घण्टः ॥

चन्द्रेष्टा, स्त्री, (चन्द्रः इष्टः प्रियो यस्याः ।

निष्ठायाः परनिपातः ।) उत्पलिनी । इति
राजनिर्घण्टः ॥

चन्द्रोदयः, पुं, (चन्द्रस्य उदयः ।) आकाशे

चन्द्रस्य प्रकाशः । स च यद्दिने सार्द्धप्रहरद्वय-
व्यापिनी या तिथिस्तत्तिथ्यनुसारेण भवति ।
तस्य प्रमाणं यथा, पुराणसमुच्चये ।
“गवां क्रीडादिने यत्र रात्रौ दृश्येत चन्द्रमाः ।
सोमो राजा पशून् हन्ति सुरभीपूजकांस्तथा ॥
तदुदयसम्भावनञ्च निर्णयामृते निर्णीतम् ।
प्रतिपद्यापराह्णिकत्रिमुहूर्त्तव्यापिन्यां द्बितीयायां
चन्द्रदर्शनं सम्भाव्यते । तदुक्तमग्न्याघानविषये
वृद्धशातातपेन ।
द्वितीया त्रिमुहूर्त्ता चेत् प्रतिपद्यापराह्णिकी ।
अग्न्याधानं चतुर्द्दश्यां परतः सोमदर्शनादिति ॥
अपराह्णश्च पञ्चधाविभक्तस्याह्नश्चतुर्थो भागः ।
ततश्च यत्र प्रतिपदि षण्मुहूर्त्तव्यापिनी द्बितीया
तत्र चन्द्रदर्शनसम्भावनमिति ।” इति श्रीहरि-
भक्तिविलासे १६ विलासः ॥ (चन्द्रस्य वस्त्र-
खण्डादिरचितचन्द्राकृतेरातपो यत्र ।) चन्द्रा-
तपः । औषधविशेषः । इति हेमचन्द्रः । ३ । ३४५ ॥
स तु मकरध्वजाख्यरससिन्दूरम् । यथा, --
“पलं मृदु स्वर्णदलं रसेन्द्रं
पलाष्टकं षोडश गन्धकस्य ।
शोणैः सुकार्पासभवैः प्रसूनैः
सर्व्वं विमर्द्द्याथ कुमारिकाद्भिः ॥
तत्काचकुम्भे निहितं सुगाढे
मृत्कर्पटैस्तद्दिवसत्रयञ्च ।
पचेत् क्रमाग्नौ सितकाख्ययन्त्रे
ततो रजः पल्लवरागरम्यम् ॥
निगृह्य चैतस्य पलं पलानि
चत्वारि कर्पूररजस्तथैव ।
जातीफलं सोषणमिन्द्रपुष्पं
कस्तूरिकाया इह शाण एकः ॥ * ॥
चन्द्रोदयोऽयं कथितस्तु माषो
भुक्तोऽहिवल्लीदलमध्यवर्त्ती ।
मदोन्मदानां प्रमदाशतानां
गर्व्वाधिकत्वं श्लथयत्यकाण्डे ॥
घृतं घनीभूतमतीव दुग्धं
मृदूनि मांसानि समस्तकानि ।
माषान्नपिष्टानि भवन्ति पथ्या-
न्यानन्ददायीन्यपराणि चात्र ॥ * ॥
वलीपलितनाशनस्तनुभृतां वयःस्तम्भनः
समस्तगदखण्डनः प्रचुररोगपञ्चाननः ।
गृहेषु रसराडयं भवति यस्य चन्द्रोदयः
स पञ्चशरदर्पितो मृगदृशां भवेद्दुर्ल्लभः ॥”
इति सारकौमुदी सुखबोधश्च ॥

चन्द्रोदया, स्त्री, (चदि आह्लादे + भावे रक् ।

चन्द्रस्य दर्शनादिजन्यानन्दस्य उदयो यस्याः ।
नेत्ररोगस्यौषधविशेषः । यथाह चक्रपाणिदत्तः ।
“हरीतकी वचा कुष्ठं पिप्पली मरिचानि च ।
विभीतकस्य मज्जा च शङ्खनाभिर्मनःशिला ॥
सर्व्वमेतत् समं कृत्वा छागीक्षीरेण पेषयेत् ।
नाशयेत्तिमिरं कण्डुं पटलान्यर्व्वुदानि च ॥
अधिकानि च मांसानि यश्च रात्रौ न पश्यति ।
अपि द्बिवार्षिकं पुष्पं मासेनैकेन साधयेत् ।
वर्त्तिश्चन्द्रोदया नाम्ना तधा दृष्टिप्रसादनी ॥”)

चन्द्रोपलः, पुं, (चन्द्रप्रभोद्भासित उपलः प्रस्तरः ।)

चन्द्रकान्तमणिः । इति हेमचन्द्रः । ४ । १३३ ॥

चप, सान्त्वे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) सान्त्वः प्रियवचनं उपशमो वा ।
चपति पुत्त्रं माता । इति दुर्गादासः ॥

चप, क म कल्के । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) कल्कश्चूर्णीकरणम् । क म,
चपयति तण्डुलं शिला । इति दुर्गादासः ॥

चपटः, पुं, (चप + घञर्थे कः । चपः सान्त्वना

चूर्णीकरणं वा तस्मै अटति गच्छतीति । अट
+ पचाद्यच् । ततः शकन्ध्वादिवत् साधुः ।)
चपेटः । इत्यमरटीका ॥ चड इति भाषा ॥

चपलं, क्ली, (चपं सान्त्वनां लाति प्राप्नोतीति ।

ला + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति
कः ।) शीघ्रम् । इति मेदिनी । ले, ८८ ॥
क्षणिकम् । इति हेमचन्द्रः ॥

चपलः, पुं, (चोपति मन्दं मन्दं गच्छतीति । चुप

मन्दायां गतौ + “चुपेरच्चोपधायाः ।” उणां ।
१ । १११ । इति कलः धातोरुकारस्य अकारा-
पृष्ठ २/४३३
देशश्च ।) पारदः । (अस्य पर्य्याया यथा, --
“पारदो रसधातुश्च रसेन्द्रश्च महारसः ।
चपलः शिववीर्य्यञ्च रसः सूतः शिवाह्वयः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
मीनः । चोरकः । प्रस्तरविशेषः । इति मेदिनी ।
ले, ८७ ॥ क्षवः । इति राजनिर्घण्टः ॥ (मूषिक-
विशेषः । यथा, सुश्रुते कल्पस्थाने ६ अध्याये ।
“पूर्ब्बमुक्ताः शुक्रविषा मूषिका ये समासतः ।
नामलक्षणभैषज्यैरष्टादश निबोध तान् ॥”
“कुलिङ्गश्चाजितश्चैव चपलः कपिलस्तथा ॥”
एतस्य दंशनेन यल्लक्षणं भवति तदुपशमनाय
च यदौषधं तद्यथा तत्रैव, --
“चपलेन भयेच्छर्द्दिर्मूर्च्छा च सह तृष्णया ।
सभद्रकाष्ठां सजटां क्षौद्रेण त्रिफलां लिहेत् ॥”)

चपलः, त्रि, (चोपति मन्दं मन्दं गच्छतीति । चुप

+ कलः । धातोरुकारस्याकारादेशश्च ।) तरलः ।
चञ्चलः । इति मेदिनी । ले, ८८ ॥ (यथा,
आर्य्यासप्तशत्याम् । ५३० ।
“विचरति परितः कृष्णे राधायां रागचपल-
नयनायाम् ।
दशदिग्वेधविशुद्धं विशिखं विदधाति विषमेषुः ॥”)
दोषमनिश्चित्य वधबन्धनादेः कर्त्ता । तत्पर्य्यायः ।
चिकुरः २ । इत्यमरः । ३ । १ । ४६ ॥ विकलः ।
इति शब्दरत्नावली ॥

चपला, स्त्री, (चपल + टाप् ।) लक्ष्मीः । (यथा,

माघे । ९ । १६ ।
“निलयः श्रियः सततमेतदिति
प्रथितं यदेव जलजन्म तया ।
दिवसात्ययात्तदपि मुक्तमहो
चपलाजनं प्रति न चोद्यमदः ॥”
“चपला चापलवती स्त्री कमला च ॥” इति
तट्टीकायां मल्लिनाथः ॥) विद्युत् । (यथा,
आर्य्यासप्तशत्याम् । १७९ ।
“किंपुत्त्रि ! गण्डशैलभ्रमेण नवनीरदेषु निद्रासि ।
अनुभव चपलाविलासितगर्ज्जितदेशान्तर-
भ्रान्तीः ॥”)
पुंश्चली । पिप्पली । इति मेदिनी । ले, ८८ ॥
(अस्याः पर्य्याया यथा, --
“पिप्पली मागधी कृष्णा वैदेही चपला कणा ।
उपकुल्योषणा शौण्डी कोला स्यात्तीक्ष्णतण्डुला ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
जिह्वा । इति शब्दचन्द्रिका ॥ विजया । मदिरा ।
इति राजनिर्घण्टः ॥ (आर्य्याछन्दोविशेषः ।
तल्लक्षणं यथा, वृत्तरत्नाकरे २ अध्याये ।
“उभयार्द्धयोर्जकारौ द्वितीयतुर्य्यौ गमध्यगौ
यस्याः ।
चपलेति नाम तस्याः प्रकीर्त्तितं नागराजेन ॥”)

चपेटः, पुं, (चप + घञर्थे कः । चपः सान्त्वना

चूर्णीकरणं वा तस्मै एटति गच्छतीति । इट
गतौ + अच् ।) विस्तृताङ्गुलिपाणिः । चड इति
चापड इति च भाषा । तत्पर्य्यायः । प्रतलः २
प्रहस्तः ३ । इत्यमरः । २ । ६ । ८४ ॥

चपेटी, स्त्री, भाद्रशुक्लषष्ठी । यथा, भाद्रशुक्लषष्ठ्यां

अक्षयफलप्राप्तिकामः स्नानादिकं कुर्य्यात् ।
सन्तानकामा जलसमीपे षष्ठीं पूजयेत् । षष्ठ्यै
नमः इति अरण्यषष्ठीपूजावत् । चापडाषष्ठी-
यम् । इति कृत्यचन्द्रिकाव्याख्या ॥ * ॥ अन्यच्च ।
“प्रसूत्या द्वादशे मासि सम्पज्यापत्यवृद्धये ।
सुते जाते तथा षष्ठ्यां षष्ठी द्वादशरूपिणी ॥
वैशाखे चान्दनी षष्ठी ज्यैष्ठे चारण्यसंज्ञिता ।
आषाढे कार्द्दमी ज्ञेया श्रावणे लुण्ठनी मता ॥
भाद्रे चपेटी विख्याता दुर्गाख्याश्वयुजे तथा ।
नाड्याख्या कार्त्तिके मासि मार्गे मूलकरूपिणी ॥
पौषे मास्यन्नरूपा च शीतला तपसि स्मृता ।
गोरूपिणीफाल्गुने च चैत्रेऽशोका प्रकीर्त्तिता ॥”
इति स्कन्दपुराणम् ॥
मन्थानषष्ठी इति केचित् ॥

चम, उ भक्षे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-

सकं-सेट् । उदित्वात् क्त्रावेट् ।) चमति । उ,
चमित्वा चान्त्वा । इति दुर्गादासः ॥

चम, न र उ भक्षे । इति कविकल्पद्रुमः ॥ (स्वां-

परं-सकं-सेट् । उदित्वात्क्त्रावेट् ।) न, चम्नोति ।
र वैदिकः । उ, चमित्वा चान्त्वा । इति दुर्गा-
दासः ॥

चमत्कारः, पुं, (चमत्करोतीति । कृ + अण् ।)

अपामार्गः । इति शब्दरत्नावली ॥ (चमत् +
कृ + भावे घञ् ।) चित्तविस्ताररूपः । तत्-
पर्य्यायः । विस्मयः २ । इति साहित्यदर्पणम् ॥
डमरुः ३ । इति त्रिकाण्डशेषः ॥ लोकातीतार्था-
कलनेन किमेतदिति ज्ञानधाराजनने चित्तस्य
दीर्घप्रायत्वं चित्तविस्तारः । दृष्टहेतुभ्योऽसम्भ-
वित्वज्ञानेन हेत्वन्तरानुसन्धाने मनोव्यापार एव
चित्तविस्तार इत्यपरे । इति साहित्यदर्पणटीका ॥
(यथा, कथासरित्सागरे । २२ । २५७ ।
“एवं सकलजगत्त्रयहृदयचमत्कारकारि-
चरितानाम् ।
स्वयमनुधावन्ति सदा कल्याणपरम्पराः पदवीम् ॥”)

चमरं, क्ली, (चमरस्येदम् । चमर + अण् । अत्र

न वृद्धिः ।) चामरम् । इति मेदिनी । रे, १५२ ॥

चमरः, पुं, (चमति भक्षयतीति । चम + “अर्त्ति-

कमिभ्रमिचमीति ।” उणां । ३ । १३२ । इति
अरच् ।) चमरगौः । तत्पर्य्यायः । व्यजनी २
वन्यः ३ धेनुगः ४ वालधिप्रियः ५ । इति राज-
निर्घण्टः ॥ (यथा, हेः रामायणे । २९ । ३ ।
“चमराः सृमराश्चैव ये चान्ये वनचारिणः ॥”)

चमरपुच्छः, पुं, (चमरस्य पुच्छ इव पुच्छो यस्य ।)

कोकडः । स तु विलेशयभेदः । इति राज-
निर्घण्टः ॥ चामरे क्ली च ॥

चमरिकः, पुं, (चमरमिव केशरोऽस्त्यस्य । “अत

इनिठनौ ।” ५ । २ । ११५ । इतिठन् ।) कोविदार-
वृक्षः । इत्यमरः । २ । ४ । २२ ॥ (पर्य्यायोऽस्य
यथा, भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ।
“कोविदारश्चमरिकः कुद्दालो युगपत्रकः ।
कुण्डलीताम्रपुष्पश्च स्मन्तकः स्वल्पकेशरी ॥”)

चमरी, स्त्री, (चमरस्य स्त्रीजातिः । चमर +

स्त्रियां ङीष् ।) चमरगवी । तत्पर्य्यायः । दीर्घ-
वाला २ गिरिप्रिया ३ । इति राजनिर्घण्टः ॥
(यथा, कुमारे । १ । १३ ।
“यस्यार्थयुक्तं गिरिराजशब्दं
कुर्व्वन्ति वालव्यजनैश्चमर्य्यः ॥”)
मञ्जरी । इति मेदिनी । रे, १५२ ॥

चमसः, पुं, क्ली, (चम्यते भक्ष्यते पीयते इति यावत्

सोमोऽस्मिन्निति । चमु भक्षणे + “अत्यवि-
चमीति ।” उणां । ३ । ११७ । इति असच् ।)
यज्ञपात्रभेदः । इति मेदिनी । से, २१ ॥ चमच्-
इति भाषा ॥ (एतल्लक्षणादिकमुक्तं यथा, --
“चमसानां तु वक्ष्यामि दण्डाः स्युश्चतुरङ्गुलाः ।
त्र्यङ्गुलस्तु भवेत् स्कन्धो विस्तारश्चतुरङ्गुलः ॥
विकङ्कतमयाः श्लक्ष्णार्वाग्विलाश्चमसाः स्मृताः ।
अन्येभ्यो वापि वा कार्य्यास्तेषां दण्डेषु लक्षणम् ॥
होतुर्मण्डल एव स्यात् ब्रह्मणश्चतुरस्रकः ।
उद्गातणाञ्च त्र्यस्रिः स्याद् याजमानः पृथुः
स्मृतः ॥
प्रशास्तुरवतष्टः स्यादुत्तोष्टो ब्रह्मशंसिनः ।
पोतुरग्रे विशाखी स्यान्नेष्टुः स्याद्विगृहीतकः ॥
अच्छावाकस्य रास्नाव आग्नीध्रस्य मयूखकः ।
इत्येते चमसाः प्रोक्ता ऋत्विजां यज्ञकर्म्मणि ।
पलाशाद्बा वटाद्बान्यवृक्षाद्बा चमसाः स्मृताः ॥”)

चमसः, पुं, (चम्यते भक्ष्यते इति । चम + असच् ।)

पर्पटः । पिष्टभेदः । लड्डुकः । इत्यजयपालः ॥
(ऋषभदेवस्य पुत्त्राणामन्यतमः । यथा, भाग-
वते । ५ । ४ । ११ ।
“कविर्हविरन्तरिक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥
एते भागवतधर्म्मदर्शना नव महाभागवताः ॥”)

चमसी, स्त्री, (चमस + गौरादित्वात् ङीष् ।)

मुद्गमसूरादिपिष्टम् । काष्ठरचितं यज्ञपात्र-
मित्यन्ये । इति लिङ्गादिसंग्रहटीकायां भरतः ॥
“चूर्णं यच्छष्कमाषाणां चमसी सा विधीयते ।”
इति भावप्रकाशः ॥

चमूः, स्त्री, (चमति भक्षयति शत्रून् नाशयतीत्यर्थः ।

चम + “क्वषिचमितनीति ।” उणां । १ । ८० । इति
ऊः ।) सेनामात्रम् । (यथा, गीतायाम् । १ । ३ ।
“पश्यैतां पाण्डुपुत्त्राणामाचार्य्य ! महंतीं चमूम् ॥”)
सेनाविशेषः । तत्र ७२९ हस्तिनः ७२९ रथाः
२१८७ अश्वाः ३६४५ पदातयः । समुदायेन
७२९० द्विशतनवत्यधिकसप्तसहस्रम् । इत्यमर-
मेदिनीकरौ ॥

चमूरुः, पुं, स्त्री, (चमतीति । चम + “खर्जिपिञ्जा-

दिभ्य ऊरोलचौ ।” उणां । ४ । ९० । इति ऊरः ।
पृषोदरादित्वात् अत उत्वञ्च ।) हरिणविशेषः ।
इत्यमरः । २ । ५ । ९ ॥ (यथा, माधे । १ । ८ ।
“चकासतं चारुचमूरुचर्म्मणा
कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥”)

चम्पः, पुं, (चम्पतीति । चम्प + अच् ।) कोवि-

दारवृक्षः । इति शब्दमाला ॥
पृष्ठ २/४३४

चम्पकं, क्ली, (चम्पति सद्गन्धं गच्छतीति । चम्प

+ ण्वुल् ।) कदलीफलविशेषः । चाँपा कला इति
भाषा । अस्य गुणाः । वातपित्तनाशित्वम् ।
गुरुत्वम् । वीर्य्यकारित्वम् । अतिशीतत्वम् । रसे
पाके मधुरत्वञ्च । इति राजवल्लभः ॥ (चम्पकस्य
इदम् । चम्पक + अण् । ततोऽणोलुक् ।) चम्पक-
पुष्पम् ॥ (सांख्यशास्त्रोक्तसिद्धिभेदः । यथा, --
“न्यायेन स्वयं परीक्षितमप्यर्थं तावन्न श्रद्दधते
यावद्गुरुशिष्यसब्रह्मचारिभिःसह न संवाद्यते ।
अतः सुहृदां गुरुशिष्यसब्रह्मचारिणां संवाद-
कानां प्राप्तिः सुहृत्प्राप्तिः सा सिद्धिश्चतुर्थी
चम्पकमुच्यते ॥”)

चम्पकः, पुं, (चम्पयति सद्गन्धादिकं गच्छतीति ।

चम्प + ण्वुल् ।) वृक्षविशेषः । चाँपा इति
भाषा । तत्पर्य्यायः । चाम्पेयः २ हेमपुष्पकः ३ ।
इत्यमरः । २ । ४ । ६३ ॥ स्वर्णपुष्पः ४ शीतल-
च्छदः ५ सुभगः ६ भृङ्गमोही ७ शीतलः ८
भ्रमरातिथिः ९ सुरभिः १० दीपपुष्पः ११ स्थिर-
गन्धः १२ अतिगन्धकः १३ स्थिरपुष्पः १४ हेम-
पुष्पः १५ पीतपुष्पः १६ हेमाह्वः १७ सुकुमारः
१८ वनदीपः १९ । अस्य गुणाः । कटुत्वम् ।
तिक्तत्वम् । शिशिरत्वम् । दाहकुष्ठकण्डूव्रण-
नाशित्वम् । गुणाढ्यो राजचम्पकः । इति
राजनिर्घण्टः ॥ कषायत्वम् । मधुरत्वम् । विष-
कृमिकृच्छ्रकफवातास्रपित्तनाशित्वञ्च । इति भाव-
प्रकाशः ॥ पनसफलकोषैकदेशावयवश्च ॥

चम्पककलिका, स्त्री, (चम्पकस्य कलिका कोरकः ।)

चम्पककोरकः । तत्पर्य्यायः । गन्धफली २ बहु-
गन्धा ३ गन्धमोदिनी ४ । इति राजनिर्घण्टः ॥

चम्पकचतुर्द्दशी, स्त्री, (चम्पकसाध्या चतुर्द्दशी ।

अस्यां चम्पकैः शिवपूजनात् शिवलोकप्राप्ते-
स्तथात्वम् ।) ज्यैष्ठशुक्लचतुर्द्दशी । यथा, ज्यैष्ठ-
मासमुपक्रम्य मत्स्यसूक्ते ४५ पटले ।
“चतुर्द्दश्याञ्च शुक्लायां चम्पकैः पूजयेत् शिवम् ।
अयुतैर्वा सहस्रैर्वा शतैर्व्वा परमेश्वरि ! ॥
पायसञ्च बलिं दद्यात् ततो नक्तं चरेद्व्रती ।
वृषस्थेन विशेषेण न भूयो जायते भुवि ॥
त्रिमध्वक्तैश्चम्पकैश्च सहस्रं जुहुयान्निशि ।
क्षयषष्टिज्वरान् हन्ति कृत्वा द्रोहाणि यानि च ॥
चम्पकचतुर्द्दशी ख्याता पूजयेद्वा सदाशिवम् ।
दशजन्मकृतं पापमर्च्चनादेव नश्यति ॥”
अन्यच्च ।
“चतुर्द्दश्याञ्चशुक्लायां ज्यैष्ठे मासि महेश्वरम् ।
चम्पकैः पूजयेत् भक्त्या शिवलोकमवाप्नुयात् ॥”
इत्युत्तरकामाख्यातन्त्रे ११ पटलः ॥
अपि च ।
“ज्यैष्ठशुक्तचतुर्द्दश्यां पुष्पैश्चम्पकसम्भवैः ।
अर्च्चयित्वा महादेवं रुद्रलोके महीयते ॥”
इति संवत्सरकौमुदीधृतब्रह्मपुराणवचनम् ॥

चम्पकरम्भा, स्त्री, (चम्पक इति नाम्ना प्रसिद्धा

रम्भा । यद्वा, चम्पकपुष्पगन्धवद्गन्धविशिष्टा
रम्भा ।) सुवर्णकदली । इति राजनिर्घण्टः ॥
(चाँपा कला । इति भाषा ॥ गुणादिकं चम्पक-
शब्दे द्रष्टव्यम् ॥)

चम्पकालुः, पुं, (चम्पकवत् चम्पकपुष्पवर्णवत् आलु

रभ्यन्तरबीजकोषो यस्य । यद्वा, चम्पकं
चम्पकवर्णं आलाति प्रतिगृह्णातीति । आ +
ला + मितद्र्वादित्वात् डुः ।) पनसः । इति
भूरिप्रयोगः ॥

चम्पकुन्दः, पुं, (चम्पकवर्णःसन् उनत्तीति । उन्दी

क्लेदने + अच् । पृषोदरादित्वात् अकारलोपः ।)
मत्स्यभेदः । चाँदकुडा । इति भाषा । अस्य
गुणाः । गुरुत्वम् । शुक्रकारित्वम् । मधुरत्वम् ।
वातपित्तनाशित्वञ्च । इति राजवल्लभः ॥

चम्पकोषः, पुं, (चम्पश्चम्पक इव कोषो यस्य ।)

पनसः । इति त्रिकाण्डशेषः ॥

चम्पा, स्त्री, (चम्पा नदी विद्यतेऽस्यामिति ।

“अर्श आदिभ्योऽच् ।” ५ । २ । १२७ । इत्यच् ।
यद्वा, चम्पेन राज्ञो हरिश्चन्द्रस्य प्रपौत्त्रेण
निर्म्मिता या पुरी । यदुक्तं भागवते । ९ । ८ । १ ।
“हरितो रोहितसुतश्चम्पस्तस्माद्बिनिर्म्मिता ।
चम्पा पुरी...॥”)
कर्णपुरी । अधुना भागलपुर इति ख्याता ।
तत्पर्य्यांयः । मालिनी २ लोमपादपूः ३ कर्णपूः ४ ।
इति हेमचन्द्रः । ४ । ४२ ॥ चम्पावती ५ चम्पा-
पुरी ६ । इति शब्दरत्नावली ॥ (इयन्तु अङ्ग-
देशान्तर्गता । यदुक्तं हेमचन्द्रेण । ४ । २३ ।
“वङ्गास्तु हरिकेलीया अङ्गाश्चम्पोपलक्षिताः ॥”
तथा च महाभारते । १२ । ५ । ६ -- ७ ।
“प्रीत्या ददौ स कर्णाय मालिनीं नगरीमथ ।
अङ्गेषु नरशार्द्दूल ! स राजासीत् सपत्नजित् ॥
पालयामास चम्पाञ्च कर्णः परबलार्द्दनः ।
दुर्य्योधनस्यानुमते तवापि विदितं तथा ॥”
इयमेव पुरा राज्ञो लोमपादस्य राजधानी
आसीत् । इति रामायणम् ॥ अङ्गदेशस्थनदी-
विशेषः ॥)

चम्पाधिपः, पुं, (चम्पाया अधिप ईश्वरः ।) कर्ण

राजः । इति हेमचन्द्रः ॥

चम्पापुरी, स्त्री, (चम्पा एव पुरी ।) चम्पा-

नगरी । इति शब्दरत्नावली ॥

चम्यालुः, पुं, (चम्पश्चम्पकस्तद्वत् कोशवर्णं आलाति

आ + ला + डुः ।) पनसः । इति शब्दरत्नावली ॥

चम्पावती, स्त्री, (चम्पा तदाख्यया प्रसिद्धा नदी

विद्यतेऽस्यामिति । चम्पा + मतुप् । मस्य वत्वम् ।)
चम्पापुरी । इति शब्दरत्नावली ॥

चम्पूः, स्त्री, काव्यविशेषः । इति जटाधरः ॥ तल्ल-

क्षणं यथा, --
“गद्यपद्यमयी वाणी चम्पूरित्यभिधीयते ॥”
इति साहित्यदर्पणे । ६ । २९८ ॥

चम्पेशः, पुं, (चम्पाया ईशः ।) कर्णराजः । इति

त्रिकाण्डशेषः ॥

चम्पोपलक्षितः, पुं, (चम्पया नगर्य्या नद्या वा

उपलक्षितः ।) अङ्गदेशः । इति हेमचन्द्रः ।
४ । २३ ॥ तद्देशस्थे पुं भूम्नि ॥

चम्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) चम्बति । इति दुर्गादासः ॥

चय, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) ङ, चयते । इति दुर्गादासः ॥

चयः, पुं, (चीयते इति । चि + “एरच् ।” ३ । ३ ।

६६ । इति कर्म्मणि अच् ।) वप्रम् । इत्यमरः ।
२ । २ । ३ ॥ तत्तु प्राकारादिमृलबद्धम् । यदु-
परि प्राकारो निरूप्यते सः । पगार इति
ख्यात इति केचित् । इति तट्टीकासारसुन्दरी ॥
दुर्गनगरे उद्धृतमृत्तिकास्तूपवद्धं यदुपरि प्राकारो
निवेश्यते । तथाचार्थशास्त्रम् । खातमुद्धृतमृदा
वप्रं कारयेत् तस्योपरि प्राकारमिति । इति
भरतः ॥ समूहः । (यथा माघे । १ । ३ ।
“चयस्त्विषामित्यवधारितं पुरा ॥”)
समाहृतिः । इति मेदिनी । ये, २१ ॥ प्राकारः ।
(यथा, महाभारते । ३ । १६० । ३७ ।
“शैलादभ्युच्छ्रयवता चयाट्टालकशोभिना ॥”)
पीठम् । इति हेमचन्द्रः ॥ (दोषाणां सञ्चयप्रकोप-
प्रशमादिषु प्रकारविशेषः । तद्यथा, --
“ग्रीष्मे सञ्चीयते वायुः प्रावृट्काले प्रकुप्यति ।
वर्षायां चीयते पित्तं शरत्काले प्रकुप्यति ॥
हेमन्ते चीयते श्लेष्मा वसन्ते च प्रकुप्यति ।
प्रायेण प्रशमं याति स्वयमेव समीरणः ॥
शरत्काले वसन्ते च पित्तं प्रावृडृतौ कफः ।”
“चयकोपशमान् दोषा विहाराहारसेवनैः ।
समानैर्यान्त्यकालेऽपि विपरीतैर्विपर्य्ययम् ॥”
इति पूर्ब्बखण्डे द्बितीयेऽध्याये शार्ङ्गधरेणोक्तम् ॥
शोथः । यथा, --
“कटुतैलान्वितैर्लेपात् सर्पनिर्म्मोकभस्मभिः ।
चयः शाम्यति गण्डस्य प्रकोपः स्फुटति द्रुतम् ॥”
इति वैद्यकचक्रपाणिसंग्रहे व्रणशोथाधिकारे ॥)

चर, गमने । अदने । आचारे । इति कविकल्प-

द्रुमः ॥ (भ्वां-परं-सकं-सेट् ।) चरति । इति
दुर्गादासः ॥

चर, क संशीत्यसंशीत्योः । इति कविकल्पद्रुमः ॥

(चुरां-परं-सकं-सेट् ।) संशीतिः संशयः । असं-
शीतिरसंशयः । क, विचारयति यो धर्म्ममिति
हलायुधः । चर असंशये । इति प्राञ्चः ।
केचित्तु संशये इति पठित्वा संशये हि विचा-
रणा स्यादित्याहुः । इति दुर्गादासः ॥

चरः, पुं, (चरति स्वपरराष्ट्रस्य शुभाशुभज्ञानाय

भ्राम्यतीति । चर + अच् ।) राष्ट्रादेः शुभा-
शुभादिज्ञानार्थं राज्ञा सगोपनं नियुक्तः पुरुषः ।
परतत्त्वज्ञानार्थभ्रमणकर्त्ता । तत्पर्य्यायः ।
यथार्हवर्णः २ प्रणिधिः ३ अपसर्पः ४ चारः ५
स्पशः ६ गूढपुरुषः ७ । इत्यमरः । २ । ८ । १३ ॥
अपसर्पकः ८ प्रतिष्कः ९ प्रतिष्कसः १० गुप्त-
गतिः ११ मन्त्रगूढः १२ हितप्रणीः १३ । इति
शब्दरत्नावली ॥ उदास्थितः १४ । इति जटा-
धरः ॥ तत्राद्यौ भिक्षुबणिगादिवेशेन नित्य-
स्थायिनि चरे । पञ्च स्वदेशपरदेशभ्रमणशीले
इत्यन्ये । इति भरतः ॥ * ॥ तस्य लक्षणं यथा, --
पृष्ठ २/४३५
“विवस्वानिव तेजोभिर्नभस्वानिव वेगतः ।
राजा चरैर्ज्जगत् सर्व्वं प्राप्नुयाल्लोकसम्मतैः ॥
तर्केङ्गितज्ञः स्मृतिमान् स्वीयभावाप्रकाशकः ।
क्लेशायाससहो दक्षः सर्व्वत्र भयवर्जितः ॥
सुभक्तो राजसु तथा कार्य्याणां प्रतिपत्तिमान् ।
नृपो निहन्याच्चारेण परराष्ट्रं विचक्षणः ॥
कालज्ञो मन्त्रकुशलान् संवत्सरचिकित्सकान् ।
तथान्यानपि युञ्जीत समर्थान् शुद्धचेतसः ॥
अक्रुद्धांश्च तथालुब्धान् दृष्टार्थान् तत्त्वभाषिणः ।
पाषण्डिनस्तापसादीन् परराष्ट्रे नियोजयेत् ॥
स्वदेशपरदेशज्ञान् सुशीलान् सुविचक्षणान् ।
वार्त्ताहर्य्यान् बहूंश्चैव चराणां विनियोजयेत् ॥
नैकस्य वचने राजा चारस्य प्रत्ययं वहेत् ।
द्वयोः सम्बन्धमाज्ञाय तद्युक्तं कार्य्यमारभेत् ॥
तस्माद्राजा प्रयुञ्जीत चरान् बहुमुखान् बहून् ।
नीरेतोवामनाः कुब्जास्तद्बिधा ये च कारवः ॥
भिक्षुक्यश्चारणा दास्यो मालाकार्य्यः कलाविदः ।
अन्तःपुरगतां वार्त्तां निर्हरेयुरलक्षिताम् ॥
प्रकाशश्चाप्रकाशश्च चरस्तु द्विविधो मतः ।
अप्रकाशोऽयमुद्दिष्टः प्रकाशो दूतसंज्ञकः ॥”
इति भोजराजकृतयुक्तिकल्पतरुः ॥ * ॥
अक्षद्यूतभेदः । भौमः । चलः । इति मेदिनी ।
रे, ३० ॥ खञ्जनपक्षी । इति शब्दमाला ॥
कपर्द्दकः । इति राजनिर्घण्टः ॥ मेषकर्कटतुला-
मकरलग्नानि । इति ज्योतिषम् ॥ अस्थिर-
विभूतिमित्रं चलमटनं स्खलितनियममपि चरभे ।
इति दीपिका ॥ (यथा, तिथितत्त्वे ।
“चरलग्ने चरांशे वा स्थापनञ्च विसर्ज्जनम् ॥”
जङ्गमे, त्रि । यथा मनुः । ७ । १५ ।
“तस्य सर्व्वाणि भूतानि स्थावराणि चराणिच ॥”
तथाच चरके सूत्रस्थाने २७ अध्याये ।
“चरः शरीरावयवाः स्वभावो धातवः क्रिया ।
लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते ॥
चरोऽनूपजलाकाशधन्वाद्यो भक्षसंविधिः ।
जलजानूपजाश्चैव जलानूपचराश्च ये ॥
गुरुभक्ष्याश्च ये सत्त्वाः सर्व्वेते गुरवः स्मृताः ॥”)

चरकः, पुं, (चर एव । स्वार्थे कन् ।) चारः ।

इत्युणादिकोषः ॥ पर्पटः । इति राजनिर्घण्टः ॥
(चरति गच्छति वेत्ति वेदवैद्यकादीनि सर्व्व-
शास्त्राणीति । चर + अच् ततः कन् च । यद्वा
चर इव महीवृत्तं द्रष्टुमागतः । चर + इवार्थे
कन् ।) मुनिविशेषः । तत्कृततन्नामकग्रन्थः ।
तयोरुत्पत्तिर्यथा, --
“यदा मत्स्यावतारेण हरिणा वेद उद्धृतः ।
तदा शेषश्च तत्रैव वेदं साङ्गमवाप्तवान् ॥
अथर्व्वान्तर्गतं सम्यगायुर्व्वेदञ्च लब्धवान् ।
एकदा स महीवृत्तं द्रष्टुं चर इवागतः ॥
तत्र लोकान् गदैर्ग्रस्तान् व्यथया परिपीडितान् ।
स्थलेषु बहुषु व्यग्रान् म्रियमाणांश्च दृष्टवान् ॥
तान् दृष्ट्वातिदयायुक्तस्तेषां दुःखेन दुःखितः ।
अनन्तश्चिन्तयामास रोगोपशमकारणम् ॥
संचिन्त्य स स्वयं तत्र मुनेः पुत्त्रो बभूव ह ।
यतश्चर इवायातो न ज्ञातः केनचिद्यतः ॥
तस्माच्चरकनामासौ विख्यातः क्षितिमण्डले ।
स भाति चरकाचार्य्यो देवाचार्य्यो यथा दिवि ॥
सहस्रवदनस्यांशो येन ध्वंसो रुजां कृतः ।
आत्रेयस्य मुनेः शिष्या अग्निवेशादयोऽभवन् ॥
मुनयो बहवस्तैश्च कृतं तन्त्र स्वकं स्वकम् ।
तेषां तन्त्राणि संस्कृत्य समाहृत्य विपश्चिता ॥
चरकेणात्मनो नाम्ना ग्रन्थोऽयं चरकः कृतः ॥”
इति भावप्रकाशः ॥

चरटः, पुं, (चरति नृत्यतीव विचरतीर्थः । चर +

बाहुलकात् अटच् ।) खञ्जनपक्षी । इति शब्द-
माला ॥

चरणं, क्ली, (चर + भावे ल्युट् ।) गमनम् ।

(यथा, ऋग्वेदे । ९ । ११४ । ९ ।
“यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः ॥”)
भक्षणम् । (यथा, मनुः । २ । १८६ ।
अकृत्वा भैक्षचरणमसमिध्य च पावकम् ।
अनातुरः सप्तरात्रमवकीर्णिव्रतञ्चरेत् ॥”)
आचारः । इति हेमचन्द्रः । ३ । ५०७ ॥ (यथा,
ऋग्वेदे । १० । १३६ । ६ ।
“अप्सरसां गन्धर्व्वाणां मृगाणां चरणे चरन् ॥”)

चरणः, पुं क्ली, बह्वृचादिः । (यथा, पञ्चतन्त्रे । ४ । ३ ।

“न पृच्छेच्चरणं गोत्रं न च विद्यां कुलं न च ।
अतिथिं वैश्वदेवान्ते श्राद्धे च मनुरब्रवीत् ॥”
अपि च महाभाष्यवचनम् । यथा, --
“सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणैः सह ॥”
“चरणशब्दो वेदैकदेशवाची कठादिरूपः ।” इति
मुग्धबोधटीकाकृद्दुर्गादासः ॥) मूलम् । गोत्रम् ।
इति मेदिनी । णे, ४७ ॥ (चरतीति । चर + ल्युः ।
चरत्यनेनेति करणे ल्युट् वा । अधमाङ्गम् । तत्-
पर्य्यायः । पादः २ पत् ३ अङ्घ्रिः ४ । इत्यमरः ।
२ । ६ । ७१ ॥ विक्रमः ५ पदः ६ आक्रमः ७ ।
इति राजनिर्घण्टः ॥ क्रमणः ८ चलनः ९
क्रमः १० । इति हेमचन्द्रः । ३ । २८० ॥ पदम् ११
पात् १२ । इति जटाधरः ॥ (यथा, मनुः ।
९ । २७७ ।
“अङ्गुलीग्रन्थिभेदस्य च्छेदयेत् प्रथमे ग्रहे ।
द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥”
श्लोकचतुर्थभागः । यथा, वृत्तरत्नाकरे १ अध्याये ।
“शेषं गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः ॥”)

चरणग्रन्थिः, पुं, (चरणस्य ग्रन्थिः ।) गुल्फः ।

इति हेमचन्द्रः । ३ । ६१५ ॥

चरणव्यूहं, क्ली, (चरणानां वेदशाखानां व्यूहो-

ऽत्र ।) वेदव्यासविरचितचतुर्व्वेदविवरणशास्त्रम् ।
तत्तु वेदशब्दे द्रष्टव्यम् ॥

चरणायुधः, पुं, (चरण एवायुधं अस्त्रविशेषो

यस्य ।) कुक्कुटः । इत्यमरः । २ । ५ । १७ ॥
(पर्य्यायोऽस्य यथा, --
“कुक्कुटः कृकवाकुः स्यात् कलयश्चरणायुधः ।
ताम्रचूडस्तथा दक्षो यामनादी शिखण्डिकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥
अस्य मांसगुणादिकं कुक्कुटशब्दे द्रष्टव्यम् ॥
चरणास्त्रे, त्रि । यथा, रामायणे । ३ । ५६ । ३५ ।
“तुण्डपक्षप्रहारेण जटायुश्चरणायुधः ॥”)

चरमः, त्रि, (चरतीति । “चरेश्च ।” उणां ५ ।

६८ । इति अमच् ।) अन्तः । पश्चिमः । इत्यु-
णादिकोषः ॥ (यथा, मनुः । २ । १९४ ।
“उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् ॥”)

चरमक्ष्माभृत्, पुं, (क्ष्मां बिभर्त्तीति । भृ + क्विप् ।

ततः चरमश्चासौ क्ष्माभृच्चेति कर्म्मधारयः ।)
अस्ताचलः । इत्यमरः । २ । ३ । २ ॥

चरमाचलः, पुं, (न चलतीति पचाद्यच् अचलः

पर्व्वतः । ततः चरमश्चासौ अचलश्चेति कर्म्म-
धारयः ।) अस्तपर्व्वतः । इति त्रिकाण्डशेषः ॥

चरमाद्रिः, पुं, (चरमश्चासावद्रिश्चेति ।) अस्ता-

चलः । इति हेमचन्द्रः ॥

चराचरं, क्ली, (चराचरयोः समाहारः ।) जगत् ।

इति मेदिनी । रे, २६० ॥ (तथा च मनुः । १ । ५७ ।
“एवं स जाग्रत्स्वप्नाभ्यामिदं सर्व्वं चराचरम् ।
सञ्जीवंयति चाजस्रं प्रमापयति चाव्ययः ॥”)
आकाशः । इति धरणी ॥ जङ्गमाजङ्गमम् ।
यथा, देवीमाहात्म्ये ।
“तया विसृज्यते विश्वं जगदेतच्चराचरम् ॥”

चराचरः, त्रि, (चरश्चलं आचरो व्यवहार-

चेष्टादिकं तौ विद्येतेऽस्मिन् ।) जङ्गमः । इत्य-
मरः । ३ । १ । ७४ ॥ इङ्गः । इति विश्वः ॥
इष्टः । इति हेमचन्द्रः ॥ कपर्द्दके पुं । इति
राजनिर्घण्टः ॥ (चरतीति चरो जङ्गमः अचरः
स्थावरः । चरेण सह अचरः । स्थावरजङ्गमः ।
यथा, भागवते । ३ । ६ । ९ ।
“चुक्षोभान्योन्यमासाद्ययस्मिंल्लोकाश्चराचराः ॥”)

चरिः, पुं, (चर + “सर्व्वधातुभ्य इन् ।” उणां ४ । ११७ ।

इति इन् ।) पशुः । इत्युणादिकोषः ॥

चरितं, क्ली, (चर + भावे क्तः ।) चरित्रम् ।

इति शब्दरत्नावली ॥ (यथा, भागवते । १० । १ । १ ।
“कथितो वंशविस्तारो भवता सोमसूर्य्ययोः ।
राज्ञाञ्चोभयवंश्यानां चरितं परमाद्भुतम् ॥”)
तद्द्बिविधं यथा, उज्ज्वलनीलमणौ ।
“अनुभावाश्च लीला चेत्युच्यते चरितं द्विधा ।
अनुभावा अलङ्काराख्याः उद्भास्वराख्याः
वाचिकाख्याश्च । लीला स्याच्चारुविक्रीडा रास-
कन्दुकखेलाद्या चारुक्रीडा प्रकीर्त्तिता । ताण्डवं
वेणुवादन गोदोहः पर्व्वतोद्धारो गोहूतिर्गमना-
दिका ॥” (यथा, गीतगोविन्दे । १ । २ ।
“वाग्देवताचरितचित्रितचित्तसद्मा ॥”
वाच्यलिङ्गे तु । चर + कर्म्मणिक्तः । कृतम् । आच-
रितम् । यथा, रामायणे । १ । ३ । १ ।
“श्रुत्वा पूर्ब्बं काव्यबीजं देवर्षेर्नारदादृषिः ।
लोकादन्विष्य भूयश्च चरितं चरितव्रतः ॥”)

चरितार्थः, त्रि, (चरितः कृतः अर्थः प्रयोजनं

येन सः ।) प्राप्तप्रयोजनः । यथा, कुमार-
सम्भवे । २ । ७ ।
“पुराणंस्य कवेस्तस्य चतुर्म्मुखसमीरिता ।
प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ॥”
पृष्ठ २/४३६

चरित्रं, क्ली, (चर + “अर्त्तिलूधूसूखनसहचर

इत्रः ।” ३ । २ । १८४ । इति इत्रः ।) स्वभावः ।
तत्पर्य्यायः । चरितम् २ चारित्रम् ३ चरी-
त्रम् ४ । इति शब्दरत्नावली ॥ (यथा, कथा-
सरित्सागरे । ४ । ८३ ।
“अचिन्त्यं शीलगुप्तानां चरित्रं कुलयोषिताम् ॥”)

चरित्रा, स्त्री, (चरित्र + टाप् ।) तिन्तिडी-

वृक्षः । इति शब्दरत्नावली ॥

चरिष्णुः, त्रि, (चरतीति । चर + “अलङ्कृञिति ।”

३ । २ । १३६ । इति इष्णुच् ।) जङ्गमः । इत्य-
मरः । ३ । १ । ७४ ॥ (यथा, भागवते । २ । ६ । ४० ।
“द्रव्यं विकारो गुण इन्द्रियाणि
विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः ॥”)

चरीत्रं, क्ली, (चरित्र + पृषोदरादित्वाद्दीर्घत्वम् ।)

चरित्रम् । इति शब्दरत्नावली ॥

चरुः, पुं, (चरन्ति भक्षयन्ति देवा इमं चर्य्यते

भक्ष्यते अग्न्यादिभिर्देवैरिति वा चरति
होमादिकमस्मादित्येके । चर + “भृमृशीति ।”
उणां १ । ७ । इति उः ।) हव्यान्नम् । तत्-
पाकभाण्डम् । इति मेदिनी । रे, ३२ ॥
“ततश्च संस्कृते वह्नौ गोक्षीरेण चरुं पचेत् ॥”
इति शारदातिलकम् ॥
तस्यानुष्ठानं यथा । अग्नेः पश्चिमायान्दिशि
प्रागग्रान् कुशानास्तीर्य्य तदुपरि प्रक्षालितं
वारुणमुदूखलं मुषलं वैणवञ्च सूर्पं वारुण-
चमसस्थजलप्रोक्षितं संस्थाप्य ब्रीहीन् यवान्
वा सूर्पे निधाय चमसस्थजलेन ॐ वास्तो-
स्पतये त्वा जुष्टं प्रोक्षामि ओम् इन्द्राय त्वा
जुष्टं प्रोक्षामि ॐ भूस्त्वा जुष्टं प्रोक्षामि
ॐ भुवस्त्वा जुष्टं प्रोक्षामि ॐ स्वस्त्वा जुष्टं
प्रोक्षामि ॐ प्रजापतये त्वा जुष्टं प्रोक्षामि
द्विस्तूष्णीं इत्यष्टौ वारान् प्रोक्षयेत् । ततः
कांस्यपात्रेण चरुस्थाल्या वा ॐ वास्तोस्पतये
त्वा जुष्टं निर्व्वपामि ओम् इन्द्राय त्वा जुष्टं
निर्व्वमामि ॐ भूस्त्वा जुष्टं निर्व्वपामि ॐ
भुवस्त्वा जुष्टं निर्व्वपामि ॐ स्वस्त्वा जुष्टं
निर्व्वपामि ॐ प्रजापतये त्वा जुष्टं निर्व्व-
पामि इति प्रत्येकं गृहीत्वा उदूखले स्थापयेत्
द्बिस्तूष्णीम् । ततो दक्षिणहस्तमुपरि कृत्वा
मुषलेनावहत्य सूर्पेण प्रस्फोटयेत् । इत्थमेव
वारत्रयं कृत्वा त्रिः प्रक्षालयेत् । ततश्चरु-
म्याल्याममन्त्रकं कृतोत्तराग्रं पवित्रं निक्षिप्य
प्रक्षालिततण्डुलं निधाय दुग्धं निक्षिप्य स्तोकं
स्तोकमुदकं दत्त्वा तन्मध्ये खदिरपलाशोडु-
म्बराणामन्यतमस्य प्रादेशप्रमाणं अग्रे उभ-
यतोऽङ्गुष्ठपर्व्वप्रमाणं चतुष्कोणपुष्कलं मेक्षणं
दक्षिणावर्त्तेन भ्रामयित्वा तथा पचेत् यथान्त-
रुष्मणा सम्यक् पाको भवति गालनं न भवति
दाहश्च न भवति ततः सम्यक्पाके भूते मध्ये
घृतस्रुवं दत्त्वा प्रागादिदिक्चिह्नितं चरुमव-
तार्य्य अग्नेरुतरतः कुशोपरि, स्थापयित्वा पुन-
र्मध्ये घृतसयं दद्यात् । इति भवदेवभट्टः ॥

चरुव्रणः, पुं, (चरोर्व्रण इव ।) चित्रापूपः । इति

त्रिकाण्डशेषः ॥ चिताइ पिटा इति भाषा ॥

चर्च्च, क इङ्समे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) इङ्समः अध्ययनम् । क,
चर्च्चयति वेदं विप्रः । इति दुर्गादासः ॥

चर्च्च, श उक्तौ । भर्त्सने । इति कविकल्पद्रुमः ॥

(तुदां-परं-सकं-सेट् ।) रेफोपधः । श, चर्च्चती
चर्च्चन्ती । गुणस्थानरहितानां तुदादिपाठ-
फलन्तु शत्रन्तानामादीपोरिति नुणो विभाषा
वेदेषूच्चारणभेदश्च । इति दुर्गादासः ॥

चर्च्चरी, स्त्री, (चर्च्च + बाहुलकात् अरन् ततो

गौरादित्वात् ङीष् ।) गीतभेदः । चर्च्चरी गीत-
भेदे च केशभित्करशब्दयोरिति रुद्रः ॥ हर्ष-
क्रीडेति सुभूतिः । कापटिकानां सादरवचनं
तौर्य्यत्रिकञ्चेत्यन्ये । वसन्तसमयक्रीडेत्येके । इत्य-
मरटीकायां भरतः ॥ हर्षक्रीडावाक् । तत्-
पर्य्यायः । चर्भटी २ । इति हेमचन्द्रः ॥ (यथा,
रत्नावल्याम् । १ अङ्के । “अये ! मघुरमभि-
हन्यमानमृदुमृदङ्गानुगतसङ्गीतमधुरः पुरः
पौराणामुच्चरति चर्च्चरीध्वनिः ॥” एतदुदा-
हरणं यथा, विक्रमोर्व्वश्याम् । ४ अङ्के ।
अनन्तरे चर्च्चरीत्युक्त्वा, --
“गन्धोन्मादितमधुकरगीतै-
र्वाद्यमानैः परभृततूर्य्यैः ।
प्रसरितपवनोद्बेल्लितपल्लवनिकरः
सुललितविविधप्रकारैर्नृत्यति कल्पतरुः ॥”
वर्णवृत्तविशेषः । यथा, शब्दार्थचिन्तामणौ ।
“हारयुक्तसुवर्णकङ्कणपाणिशङ्खविराजिता
पादनूपुरसङ्गता सुपयोधरद्वयभूषिता ।
शोभिता बलयेन पिङ्गलपन्नगाधिपवर्णिता
चर्च्चरीतरुणीव चेतसि चाकसीति सुसङ्गता ॥”)

चर्च्चरीकः, पुं, (चर्च्च + “फर्फरीकादयश्च ।” उणां

४ । २० । इति ईक्नप्रत्ययान्तेन निपातनात्
साधुः ।) महाकालः । केशविन्यासः । शाकः ।
इति मेदिनी । के, १८७ ॥

चर्च्चा, स्त्री, (चर्च्च्यते विचार्य्यते वेदवेदान्तादि-

तत्त्वशास्त्रैरसौ इति । चर्च्च + णिच् + अङ् ।)
दुर्गा । चिन्ता । चार्च्चिक्यम् । इति मेदिनी । चे,
४ ॥ विचारणा । इत्यमरः । १ । ५ । २ ॥ (चर्च्च
+ भावे अङ् । लेपनम् । यथा, छन्दोमञ्ज-
र्य्याम् । १५ । ४ ।
“मृगमदकृतचर्च्चा पीतकौशेयवासाः ॥”
गायत्रीरूपा महाशक्तिः । यथा, देवीभाग-
वते । १२ । ६ । ४६ ।
“ज्ञानधातुमयी चर्च्चा चर्च्चिता चारुहासिनी ॥”)

चर्च्चिका, स्त्री, (चर्च्चा + स्वार्थे कन् । कापि अत

इत्वम् ।) दुर्गा । इति त्रिकाण्डशेषः ॥ चर्च्चा ।
इति द्विरूपकोषः ॥ (रोगविशेषः । तदपनोदनं
तुषारपानीयं यथा, --
“तौषारं लघुशीतलं श्रमहरं पित्तार्त्तिशान्ति-
प्रदं
दोषाणां शमनं जलार्त्तिहननं सर्व्वामयघ्नं परम् ।
कुष्ठश्लीषदचर्च्चिका-विषहरं पामाविसर्पापहं
क्षीणानां क्षतशोषिणां हितकरं संसेव्यते
मानवैः ॥”
इति हारीते प्रथमे स्थाने सप्तमेऽध्याये ॥
(चर्च्चां वेदादिविचारणां वेत्ति इति । ठन् ।
वेदाद्यध्येतरि, त्रि ॥)

चर्च्चितं, त्रि, (चर्च्च + कर्म्मणि क्तः । चर्च्चा लेपनं

सञ्जातास्य इति इतच् वा ।) चन्दनादिना
कृतलेपनम् । तत्पर्य्यायः । दिग्धम् २ लिप्तम् ३ ।
इति जटाधरः ॥ (यथा, गीतगोविन्दे । १ । ४० ।
“चन्दनचर्च्चितनीलकलेवरपीतवसनवनमाली ॥”)

चर्त्त्यः, त्रि, (चर्त्त्यते इति । चृत हिंसायाम् +

“ऋदुपधाच्चापि चृतेः । ३ । १ । ११० । इति
ण्यत् ।) हननीयः । इति पाणिनिव्याकरणम् ॥

चर्पटः, पुं, (चृप् + अटन् ।) स्फारः । विपुलः ।

चपेटः । पर्पटः । इति मेदिनी । टे, ४१ ॥

चर्पटा, स्त्री, (चर्पट + टाप् ।) भाद्रशुक्लषष्ठी ।

चापडाषष्ठी इति भाषा ॥ अस्या विवरणं
चपेटीशब्दे द्रष्टव्यम् ॥

चर्पटी, स्त्री, (चर्पट + ङीष् ।) पोली । इति

त्रिकाण्डशेषः ॥

चर्ब्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) चर्ब्बति । इति दुर्गादासः ॥

चर्भटः, पुं, (चर + क्विप् । भटति भरति स्वशरीर-

दानेनेति । भट् + अच् । ततः कर्म्मधारयः ।)
इर्व्वारुः । इति हलायुधः ॥

चर्भटी, स्त्री, (चर्भट + ङीष् ।) चर्च्चरी । हर्ष-

क्रीडावाक् । इति हेमचन्द्रः ॥

चर्म्मं, क्ली, (चर्म्म साधनतयास्त्यस्य अच् ।)

फलकः । इत्यमरटीकायां भरतः ॥ (यथा,
मनुः । ७ । १९२ ।
“स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा ।
वृक्षगुल्मावृते चापैरसिचर्म्मायुधैः स्थले ॥”)

चर्म्म, [न्] क्ली, (चर + “सर्व्वधातुभ्यो मनिन् ।”

उणां । ४ । ४१५ । इति मनिन् ।) इन्द्रियविशेषः ।
चाम इति भाषा ॥ तत्पर्य्यायः । त्वक् २
असृग्धरा ३ कृत्तिः ४ अजिनम् ५ देहचर्म्म ६
रक्ताधारः ७ रोमभूमिः ८ शरीरावरणम् ९ ।
इति राजनिर्घण्टः ॥ असृग्वरा १० । इति
भरतधृतसर्व्वधरः ॥ (यथा, भागवते । ३ । ६ । १६ ।
“निर्भिन्नान्यस्य चर्म्माणि लोकपालोऽनिलो-
ऽविशत् ॥”)
शरीरावरकं शस्त्रम् । ढाल इति भाषा ॥ तत्-
पर्य्यायः । फलकः २ फलम् ३ । इत्यमरः । २ ।
८ । ९० ॥ फरम् ४ चर्म्मम् ५ । इति भरतः ॥ * ॥
तस्य लक्षणं यथा, युक्तिकल्पतरौ ।
“शरीरावरकं शस्त्रं चर्म्म इत्यभिधीयते ।
तत् पुनर्द्विविधं काष्ठचर्म्मसम्भवभेदतः ॥
शरीरावरकत्त्वञ्च लघुता दृढता तथा ।
दुर्भेद्यतेति कथिता चर्म्मणां गुणसंग्रहः ॥
स्वल्पता गुरुता चैव मृदुता सुखभेद्यता ।
विरुद्धवर्णता चेति चर्म्मणां दोषसंग्रहः ॥
पृष्ठ २/४३७
सितो रक्तस्तथा पीतः कृष्ण इत्यभिशब्दितः ।
ब्रह्मादिजातिभेदेन चर्म्मणां वर्णनिर्णयः ॥
चित्रवर्णस्तु सर्व्वेषां सर्व्वदैवोपपद्यते ॥” * ॥
ब्रह्मचारिधार्य्यकृष्णसारचर्म्म । इत्यमरः । २ । ७ ।
४७ ॥ (यथा, मनुः । २ । ४१ ।
“कार्ष्णरौरववास्तानि चर्म्माणि ब्रह्मचारिणः ॥”)

चर्म्मकषा, स्त्री, (चर्म्मणः कषा । चर्म्म कषतीति ।

कष् + अच् इत्येके ।) पश्चिमदेशजातं गन्ध-
द्रव्यम् । केचित्तु चामारकषा इति ख्याता
इत्याहुः । इति भरतः ॥ तत्पर्य्यायः । सप्तला २
विमला ३ सातला ४ भूरिफेना ५ । इत्यमरः ।
२ । ४ । १४३ ॥ शातला ६ चर्म्मकसा ७ । इति
भरतः ॥ मांसरोहिणी । इति राजनिर्घण्टः ॥
(“चर्म्मकषायाः कल्कं विल्वसमं मूर्द्ध्नि काक-
पदमस्य ।
कृत्वा कुर्य्यात् कटभीं कटुकोटफलाप्रधमनञ्च ॥”
इति चरके चिकित्सास्थाने पञ्चविंशेऽध्याये ॥)

चर्म्मकसा, स्त्री, (चर्म्मणः कसा ।) चर्म्मकषा ।

इत्यमरटीकायां भरतः ॥

चर्म्मकारः, पुं, (चर्म्म चर्म्मनिर्म्मितद्रव्यादिकं

करोतीति । कृ + “कर्म्मण्यण्” । ३ । २ । १ । इति
अण् ।) वर्णसङ्करजातिविशेषः । चामार इति
मुचि इति च भाषा ॥ स तु चण्डाल्यां तीवरा-
ज्जातः । इति पराशरपद्धतिः ॥ तत्पर्य्यायः । पादू-
कृत् २ । इत्यमरः । २ । १ । ७ ॥ पादुकृत् ३ चर्म्मारः ४ ।
इति तट्टीका ॥ चर्म्मकृत् ५ पादुकाकारः ६ ।
इति हलायुधः ॥ चर्म्मरुः ७ कुरटः ८ । इति
त्रिकाण्डशेषः ॥ (यथां, मनुः । १० । ३६ ।
“कारावरो निषादात्तु चर्म्मकारः प्रसूयते ॥”)

चर्म्मकारी, स्त्री, (चर्म्म करोति वर्द्धयति उत्कर्षं

करोतीति यावत् । कृ + अण् । चर्म्म किरतीति
चर्म्म + कॄ + अणित्येके । ततो ङीष् ।) चर्म्म-
कषौषधिः । इति मेदिनी । रे, २६१ ॥

चर्म्मकीलः, पुं, (चर्म्म कीलतीति । कील + अच् ।

चर्म्मणि गुह्यस्थचर्म्मणि कील इवेति वा ।)
गुह्यरोगविशेषः । हालीश इति हारिस् इति
च भाषा ॥ तस्य निदानं यथा, --
“व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचोवहिः ।
कीलोपमं स्थिरखरं चर्म्मकीलन्तु तद्विदुः ॥
वातेन तोदपारुष्यं पित्तादसितरक्तता ।
श्लेष्मणा स्निग्धता तस्य ग्रथितत्वं सवर्णता ॥”
इति माधवकरेण रोगविनिश्चयग्रन्थे अशो-
रोगाधिकारे धृतम् । अतोऽस्य चिकित्सा
अर्शरोगचिकित्सावत् । अपि च ।
“चर्म्मकीलं जतुमणिं मसकान् तिलकालकान् ।
उत्कृत्य शस्त्रेण दहेत् क्षाराग्निभ्यामशेषतः ॥”
इति भावप्रकाशः ॥

चर्म्मकृत्, पुं, (चर्म्म करोति चर्म्मघटितपादुका-

दिकम् उत्पादयतीत्यर्थः । चर्म्म + कृ + क्विप् ।)
चर्म्मकारः । इति हलायुधः ॥ (यथा, राज-
तरङ्गिण्याम् । ४ । ५५ ।
“चर्म्मकृत् कोऽपि न प्रादात् कुटीं क्षेत्रोपयोगिनीम् ॥”)

चर्म्मचटका, स्त्री, (चर्म्मणा चटकेव ।) निशाचर-

पक्षिविशेषः । चाम्चिका इति भाषा ॥ तत्-
पर्य्यायः । जतुका २ अजिनपत्रिका ३ । इति
हेमचन्द्रः ॥ जतूका ४ गृहमाचिका ५ जतुनी ६
अजिनपत्रा ७ चार्म्मिः ८ चर्म्मचटी ९ । इति
शब्दरत्नावली ॥ चर्म्मपत्रा १० । इति जटा-
धरः ॥ चर्म्मचटिका ११ । इति केचित् ॥

चर्म्मचटी, स्त्री, (चर्म्मणा चटीव । यद्बा, चर्म्म

चटति भिनत्तीति । चट + अच् ङीष् ।) चर्म्म-
चटका । इति शब्दरत्नावली ॥

चर्म्मचित्रकं, क्ली, (चर्म्मणि चित्रकं चित्रित-

मिवेत्यर्थः । चर्म्म चित्रयतीति वा । चित्र +
ण्वुल् ।) श्वेतकुष्ठम् । इति राजनिर्घण्टः ॥

चर्म्मजं, क्ली, (चर्म्मणो चर्म्मणि वा जायते । जन +

डः ।) रोम । रुधिरम् । इति राजनिर्घण्टः ॥

चर्म्मण्वती, स्त्री, (चर्म्मैव उत्पत्तिहेतुत्वेनास्त्यस्याः

इति मतुप् मस्य वत्वम् ।) नदीविशेषः । सा तु
वुन्देलखण्डाख्यदेशे चम्बल् इति ख्याता ॥
कदली । इति मेदिनी । ते, १९६ ॥ (आसीत् किल
पुरा रन्तिदेवनामा (शशविन्दुनामा वा) कश्चित्
खजचक्रवर्त्ती । तस्य यज्ञे मारिता ये गाव-
स्तेषां चर्म्मगलितरसक्लेदादिभ्यो जातेयं नदीति
पौराणिकी गाथा । यथा, देवीभागवते । १ ।
१८ । ५४ ।
“चर्म्मणां पर्व्वतो जातो बिन्ध्याचलसमः पुनः ।
मेघाम्बुप्लावनाज्जाता नदी चर्म्मण्वती शुभा ॥”)

चर्म्मदण्डः, पुं, (चर्म्मभिश्चर्म्मणा वा निर्म्मितो

दण्डः ।) कशा । इति हेमचन्द्रः ॥ चावुक्
इति भाषा ॥
(“चर्म्मदण्डाहतो विप्रः शशापातिरुषा चतम् ॥”
इति महाभारतशान्तिपर्व्वणि ॥)

चर्म्मदूषिका, स्त्री, (चर्म्म दूषयति दोषयति वा ।

दुष् + णिच् + ण्वुल् । ततष्टापि अत इत्वम् ।)
कोठरोगः । इति राजनिर्घण्टः ॥

चर्म्मतरङ्गः, पुं, (चर्म्मणां चर्म्मभिर्वा तरङ्ग इव ।)

बलिः । त्वक्सङ्कोचः । इति राजनिर्घण्टः ॥

चर्म्मद्रुमः, पुं, (चर्म्माकृतिवल्कलमयो द्रुमः ।)

भूर्जवृक्षः । इति राजनिर्घण्टः ॥

चर्म्मपत्त्रा, स्त्री, (चर्म्ममयं पत्त्रं पक्षद्बयं यस्याः ।)

चर्म्मचटी । इति जटाधरः ॥

चर्म्मपादुका, स्त्री, (चर्म्मनिर्म्मिता चर्म्ममयी वा

पादुका ।) उपानत् । चामडार जुता इति
भाषा ॥ यथा । “ततो ब्रह्मचारी अनेन मन्त्रेण
चर्म्मपादुकायुगले पादौ निदध्यात् ।” इति भव-
देवभट्टः ॥ अस्या गुणाः पादुकाशब्दे द्रष्टव्याः ॥

चर्म्मपुटः, पुं, (चर्म्मनिर्म्मितः पुटः पात्रम् ।

पक्षे स्वार्थे कन् । चर्म्ममयं पुट-
मत्र इति कप् इत्येके ।) चर्म्मनिर्म्मितपात्र-
विशेषः । कुपा इति भाषा ॥ यथा । दृतिश्चर्म्म-
पुटकः । दृतिश्चर्म्मपुटे मत्स्ये चेति मेदिनी ॥
इति पुंलिङ्गसंग्रहटीकायां भरतः ॥ तत्पर्य्यायः ।
दृतिः खल्लश्चर्म्ममयीति हेमचन्द्रः ॥

चर्म्मपुटकः, पुं, (चर्म्मनिर्म्मितः पुटः पात्रम् ।

पक्षे स्वार्थे कन् । चर्म्ममयं पुट-
मत्र इति कप् इत्येके ।) चर्म्मनिर्म्मितपात्र-
विशेषः । कुपा इति भाषा ॥ यथा । दृतिश्चर्म्म-
पुटकः । दृतिश्चर्म्मपुटे मत्स्ये चेति मेदिनी ॥
इति पुंलिङ्गसंग्रहटीकायां भरतः ॥ तत्पर्य्यायः ।
दृतिः खल्लश्चर्म्ममयीति हेमचन्द्रः ॥

चर्म्मप्रभेदिका, स्त्री, (चर्म्म प्रभिनत्तोति । प्र +

भिद + ण्वुल् । टापि अत इत्वञ्च ।) चर्म्म-
प्रभेदनास्त्रम् । इत्यमरः । २ । १० । ३५ ॥
पोड इति भाषा ॥

चर्म्मप्रसेवकः, पुं, (चर्म्मणा प्रसीव्यते इति । सिव्यु

तन्तुसन्ताने + “संज्ञायाम् ।” ३ । ३ । १०९ ।
इति कर्म्मणि ण्वुल् बाहुलकात् वुन् वा ।)
चर्म्मप्रसेविका । इत्यमरटीकायां भरतः ॥

चर्म्मप्रसेविका, स्त्री, (चर्म्मप्रसेवक + टाप् अत

इत्वञ्च ।) अग्निसन्दीपनार्थं चर्म्म निर्म्मित-
यन्त्रम् । भाती इति जाँता इति च भाषा ॥
तत्पर्य्यायः । भस्त्रा २ । इत्यमरः । २ । १० । ३३ ॥

चर्म्ममुण्डा, स्त्री, (चर्म्मणः जीवरहितदैत्यस्ये-

त्यर्थः मुण्डमस्तिहस्तेऽस्या इति । छिन्नशिरो-
धारणादेव तथात्वम् ।) दुर्गा । इति हेम-
चन्द्रः । २ । १२० ॥ (चण्डमुण्डा । इत्यपि
क्वचित् पाठः ॥)

चर्म्मरङ्गा, स्त्री, (चर्म्मणे रङ्गो यस्याः ।) आवर्त्त-

कीलता । इति राजनिर्घण्टः ॥ (देशविशेषे, पुं ।
स च देशः कूर्म्मविभागे पश्चिमोत्तरस्यां दिशि
उक्तः । यथा, बृहत्संहितायाम् । १४ । २३ ।
“दिशि पश्चिमोत्तरस्याम् ।” इत्युपक्रम्य, --
“वेणुमती फल्गुलुका
गुरुहा मरुकुच्चचर्म्मरङ्गाख्याः ॥”
इत्युक्तवान् ॥)

चर्म्मरुः, पुं, (चर्म्म रचयतीति । रच + बाहु-

लकात् डुः ।) चर्म्मकारः । इति त्रिकाण्डशेषः ॥

चर्म्मसम्भवा, स्त्री, (चर्म्मणि सम्भव उत्पत्ति-

र्यस्याः ।) एला । इति हारावली । ९७ ॥

चर्म्मसारः, पुं, (चर्म्मणः सारः । भुक्तद्रव्येभ्यो

रसस्य त्वङ्मध्ये जायमानत्वात् तथात्वम् ।)
रसः । इति राजनिर्घण्टः ॥

चर्म्माम्भः, पुं, (चर्म्मणोऽम्भः जलम् । सर्व्वे सान्ता

अदन्ताश्च ।” इति न्यायादत्र अकारान्तः ।
क्वचित् क्लीवे सान्तोऽपि दृश्यते ।) रसः । इति
राजनिर्घण्टः ॥

चर्म्मारः, पुं, (चर्म्म चर्म्मक्रियां ऋच्छतीति ।

ऋ गतौ + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।)
चर्म्मकारः । इति जटाधरः ॥

चर्म्मी, [न्] पुं, (चर्म्म शरीरावरकं शस्त्रविशेषो-

ऽस्त्यस्य । चर्म्म + इनिः ।) चर्म्मधारियोद्धा ।
ढाली इति भाषा ॥ तत्पर्य्यायः । फलक-
पाणिः २ । (यथा, महाभारते । ३ । २७ । ३१ ।
“श्यामं बृहन्तं तरुणं चर्म्मिणामुत्तमं रणे ।
नकुलं ते वने दृष्ट्वा कस्मात् मन्युर्न वर्द्धते ॥”
चर्म्म त्वक् अस्त्यस्येति ।) भूर्जवृक्षः । इत्य-
मरः । २ । ४ । ४६ ॥ (यथा, सुश्रुते चिकित्-
सितस्थाने ११ अः । “चर्म्मिवृक्षगिरिकर्णिका-
शीतशिवनिचुलदाडिमाजकर्णहरिवृक्षराजाद-
नगोपघोण्टाविकङ्कतेषु वा यवान्नविकारांश्च
सेवेत ॥”) भृङ्गरिटिः । मोचा । इति शब्द-
रत्नावली ॥
पृष्ठ २/४३८

चर्य्या, स्त्री, (चर + “गदमदचरयमश्चानुपसर्गे ।”

३ । १ । १०० । इति यत् । स्त्रियां टाप् ।)
ईर्य्यापथस्थितिः । इत्यमरः । २ । ७ । ३६ ॥
नियमापरित्यागः । ईर्य्यते गुरोः शास्त्रो-
पासनया ज्ञायते ईर्य्या सा च ध्यानधारणादिः
तस्याः पन्था उपायः तत्र व्रतिनां या स्थिति-
रवस्थानमपरित्यागः सा । इति भरतः ॥ (यथा,
महाभारते । १ । २ । ३२६ ।
“चर्य्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः ॥”)
गमनम् । अदनम् । आचरणम् । इति मुग्धबो-
धटीकायां दुर्गादासः ॥ (यथा, मनुः । ६ । ३२ ।
“आसां महर्षिचर्य्याणां त्यक्त्वान्यतमया तनुम् ॥”
सेवा । यथा, हेः रामायणे । २ । २९ । १५ ।
“वनवासस्य शूरस्य मम चर्य्या हि रोचते ॥”
त्रि, अनुष्ठेयः । आचरणीयः । यथा, मनुः । ३ । १ ।
“षट्त्रिंशदाब्दिकं चर्य्यं गुरौ त्रैवेदिकं व्रतम् ॥”)

चर्व्व, कि भक्षे । इति कविकल्पद्रुमः ॥ (चुरां-

पक्षे भ्वां-परं-सकं-सेट् ।) कि, चर्व्वयति चर्व्वति
तण्डुलं बालकः । इति दुर्गादासः ॥

चर्व्वणं, क्ली, (चर्व्व + भावे ल्युट् ।) दन्तैश्चूर्ण-

नम् । इति हेमचन्द्रः । ३ । ८८ ॥ चिवान इति
भाषा ॥ (यथा, हारिते प्रथमे स्थाने प्रथमे-
ऽध्याये ।
“चर्व्वणं गिलनञ्चापि कासितं श्वासितं तथा ॥”)

चर्व्वा, [न्] पुं, तलप्रहारः । इति हारावली ।

१६७ ॥

चर्व्वितं, त्रि, (चर्व्व्यते स्म इति । चर्व्व + कर्म्मणि

क्तः ।) कृतचर्व्वणम् । भक्षितम् । इत्यमरः ।
३ । २ । ११० ॥ (यथा, भागवते । ७ । ५ । ३० ।
“अदान्तगोभिर्विशतां तमिस्रं
पुनःपुनश्चर्व्वितचर्व्वणानाम् ॥”)

चर्व्वितपात्रकं, क्ली, (चर्व्वितानां ताम्बूलादीनां

त्यागपात्रम् । ततः स्वार्थे कन् ।) चर्व्वितताम्बू-
लादित्यागपात्रम् । पीग्दान इति भाषा ॥
यथा, रासलीलायां पातालखण्डे ।
“ताम्बूलं दर्पणं पानपात्रं चर्व्वितपात्रकम् ॥”

चर्व्व्यं, त्रि, (चर्व्व्यते दन्तैश्चूर्ण्यते इति । चर्व्व +

कर्म्मणि ण्यत् ।) चर्व्वणीयम् । यथा, --
“षट्कोटिं ब्राह्मणाञ्च भोजयामास नित्यशः ।
चूष्यपेयलेह्यचर्व्व्यैरतितृप्तिं दिने दिने ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥

चर्षणिः, पुं, (कर्षतीति । कृष + “कृषेरादेश्च

चः ।” पां-उणां । २ । १०३ । इति अनिः
आदेश्च चः ।) जनः । यथा, श्रीभागवते ।
“स चर्षणीनामुदगाच्छुचो मृजन्
प्रियः प्रियाया इव दीर्घदर्शनः ॥”
मनुष्यजातिः । यथा, --
“अर्य्यम्नो मातृका पत्नी तयोश्चर्षणयः सुताः ।
यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥”
इति श्रीभागवते । ६ । ६ । ३१ ॥ “चर्षणयः
कृताकृतज्ञानवन्तः । पश्यन्तिकर्म्मत्वेन निघण्ट्वा-
दावुक्तेः । यत्र येषु आत्मानुसन्धानविशेषेण
मानुषी जातिश्चोपकल्पिता । तथा च श्रुतिः ।
पुरुषत्वे चाविस्तरामात्मेति ।” इति तट्टीकायां
श्रीधरस्वामी ॥ (अत्र उणादिवृत्तिकृतोज्ज्वल-
दत्तेन तु “कृषेरादेश्च धः ।” इति पठित्वा
धर्षणिर्बन्धकीति व्याख्यातम् ॥)

चल, क भृतौ । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ।) क, चालयति । दन्त्यवकारादि-
रयमिति दुर्गसिंहजुमरनन्दी । भृतिरिह पोष-
णम् । इति दुर्गादासः ॥

चल, ज गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) ज, चालः चलः । मिच्चले इति
वक्ष्यमाणं न पठित्वा इममेव मानुबन्धं भ्रान्ताः
पठन्ति तद्धेयम् । तेनास्य चालयति हस्तिनं
यन्ता । चलमानोऽनिल इत्यत्र ताच्छील्ये शतुः
शानः । मिच्चले । पूर्ब्बेणान्वयः । चलधातुः
कम्पने मानुबन्धः स्यादित्यर्थः । म, चलयति
लतां वायुः । चलयन् भृङ्गरुचस्तवालकानिति
रघुः । चालयन् सकलां पृथ्वीमिति घञन्तात्
चालं करोतीति ञौ शत्रन्तम् । इति दुर्गादासः ॥

चल, श विलासे । इति कविकल्पद्रुमः ॥ (तुदां-

परं-अकं-सेट् ।) श, चलती चलन्ती । विलासः
क्रीडनम् । इति दुर्गादासः ॥

चलं, त्रि, (चलति गच्छतीति । चल + पचाद्यच् ।)

चञ्चलम् । इत्यमरः । ३ । १ । ७४ ॥ (यथा,
रघुः । ११ । १५ ।
“ताडका चलकपालकुण्डला
कालिकेव निविडा बलाकिनी ॥”
पारदः । इति हेमचन्द्रः । ४ । ११६ ॥ अष्टा-
दशाक्षरवृत्तभेदः । यथा, वृत्तरत्नाकरे ।
“म्भौ न्जौ भ्रौ चेच्चलमिदमुदितं युगैर्मुनिभिः
स्वरैः ॥”)

चलः, पुं, (चल + पचाद्यच् ।) कम्पः । तद्युक्ते

त्रि । इति मेदिनी । ले, १५ ॥ (शिवः । यथा,
महाभारते । १३ । १७ । ११६ ।
“महाकेतुर्महाधातुर्नैकसानुचरश्चलः ॥”
विष्णुः । यथा, तत्रैव । १३ । १४९ । ९२ ।
“वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥”
“वायुरूपेण चलः ।” इति भाष्यम् ॥)

चलचञ्चुः, पुं, (चला चञ्चला चञ्चुरस्य ।) चकोर-

पक्षी । इति हेमचन्द्रः । ४ । ४०५ ॥

चलत्पूर्णिमा, स्त्री, (चलन्ती पुर्णिमा तदाश्रयी-

भूतचन्द्र इवेति तात्पर्य्यार्थः ।) चन्द्रकमत्स्यः ।
इति त्रिकाण्डशेषः ॥

चलदङ्गः, पुं, (चलत् चञ्चलं अङ्गं यस्य ।) मत्स्य-

विशेषः । चेङ्गा इति भाषा ॥ अस्य गुणाः ।
अनभिष्यन्दित्वम् । वाते हितत्वम् । रोचन-
त्वञ्च । इति राजवल्लभः ॥

चलदङ्गकः, पुं, (चलदङ्गं यस्य इति कप् ।)

चलदङ्गमत्स्यः । इति जटाधरः ॥

चलदलः, पुं, (चलानि दलानि पत्त्राणि यस्य ।)

अश्वत्थवृक्षः । इत्यमरः । २ । ४ । २० ॥ (अश्व-
शब्देऽस्य गुणादयो ज्ञातव्याः ॥)

चलनं, क्ली, (चल + भावे ल्युट् ।) भ्रमणम् । (यथा,

देवीभागवते १ । १७ । १९ ।
“चलनञ्च विनाकार्य्यं न भवेदिति मे मतिः ॥”)
कम्पनम् । (यथा, पञ्चतन्त्रे । २ । १७४ ।
“द्वावुपायाविह प्रौक्तौ विमुक्तौ शत्रुदर्शने ।
हस्तयोश्चलनादेको द्वितीयः पादवेगजः ॥”)
कम्प्रे, त्रि । इति मेदिनी । ने, ६१ ॥

चलनः, पुं, (चलत्यनेन इति । चल + करणे ल्युट् ।)

पादः । इति हेमचन्द्रः ॥ हरिणः । इति जटा-
धरः ॥

चलनकः, पुं, (चलन + संज्ञायां कन् ।) चण्डा-

तकम् । इति हेमचन्द्रः । ३ । ३३८ ॥

चलनी, स्त्री, (चलन + ङीप् ।) वारीभेदः । जग-

बन्धनी । वस्त्रघर्घरी । इति हेमचन्द्रः ॥ घाघरा
इति भाषा ॥

चलपत्त्रः, पुं, (चलानि पत्त्राणि यस्य ।) अश्वत्थ-

वृक्षः । इति राजनिर्घण्टः ॥ (यथा, नैषधे ।
“अङ्गेन केनापि विजेतुमस्या
गवेष्यते किं चलपत्रपत्रम् ।
नचेद्विशेषादितरच्छदेभ्य-
स्तस्यास्तु कम्पस्तु कुतो भयेन ॥”)

चला, स्त्री, (चलतीति चल + पचाद्यच् टाप् च ।

नैकत्रावस्थितत्वात् तथात्वम् ।) लक्ष्मीः । इति
मेदिनी । ले, १५ ॥ सिह्लकः । इति रत्नमाला ॥

चलाचलः, त्रि, (चलतीति चल + अच् । चरि-

चलिपतिवदीनां वा द्वित्वमितिद्वित्वे अभ्यासस्य
आगागमश्च इति वार्त्तिकसूत्रेणास्य सिद्धिः ।)
चञ्चलः । इत्यमरः । ३ । १ । ७४ ॥ (यथा,
किरातार्ज्जुनीये । ११ । ३० ।
“जन्मिनोऽस्य स्थितिं विद्बान् लक्ष्मीमिव चलाचलाम् ॥”)
काके पुं, । इति राजनिर्घण्टः ॥

चलातङ्कः, पुं, (चले चलने आतङ्को भयं यस्मात् ।)

वातरोगः । इति राजनिर्घण्टः ॥

चलितं, त्रि, (चल + कर्त्तरि क्तः ।) कम्पितम् ।

इत्यमरः । ३ । १ । ८७ ॥ (यथा, राजतर-
ङ्गिण्याम् । ५ । ३६५ ।
“तयोर्विलासवलितैश्चलितापाङ्गविभ्रमैः ॥”)
गतम् । चल ज गतावितिदर्शनात् ॥ (यथा,
गोः रामायणे । ३ । ५७ । २३ ।
“अधिरूढे गजारोहे यथास्याच्चलितोगजः ॥”)

चलुः, पुं, (चल + उन् ।) गण्डूषः । इति हेम-

चन्द्रः । ३ । २६२ ॥

चलुकः, पुं, (चलुना कायतीति । कै + कः ।)

प्रसृतिः । भाण्डभेदः । इति मेदिनी । के, ८६ ॥

चविः, स्त्री, (चर्व्व्यते इति । चर्व्व + इन् । पृषो-

दरादित्वात् रलोपे साधुः ।) चविका । इति
शब्दरत्नावली ॥

चविकं, क्ली, (चवि + संज्ञायां कन् ।) चविका ।

इति भरतधृतरुद्रः ॥

चविका, स्त्री, (चवि + स्वार्थे कन् ।) वृक्षविशेषः ।

चै इति भाषा ॥ तत्पर्य्यायः । चव्यम् २ ।
इत्यमरः । २ । ४ । ९४ ॥ चव्या ३ चविकम् ४
पृष्ठ २/४३९
चवी ५ । इति भरतः ॥ चविः ६ । इति शब्द-
रत्नावली ॥ तेजोवती ७ कोला ८ नाकुली ९
उषणा १० चव्यकम् ११ वशिरः १२ गन्ध-
नाकुली १३ वल्ली १४ कोलवल्ली १५ कोलम् १६
कुटिलसप्तकम् १७ तीक्ष्णम् १८ करिकरणा-
वल्ली १९ कृकरः २० । (यथा, सुश्रुते उत्तर-
तन्त्रे ३९ अध्याये ।
“सारिवाद्बययष्ट्याह्वचविकारक्तचन्दनैः ॥”)
अस्या गुणाः । कटुत्वम् । उष्णत्वम् । लघुत्वम् ।
रोचनत्वम् । दीपनत्वम् । जन्तूद्रेककासश्वास-
शूलनाशित्वञ्च । इति राजनिर्घण्टः ॥ भेद-
कत्वम् । कफनाशित्वञ्च । इति राजवल्लभः ॥

चवी, स्त्री, (चवि + “बह्वादिभ्यश्च ।” ४ । १ । ४५ ।

इति ङीष् ।) चविका । इति शब्दरत्नावली ॥
(यथा, कथासरित्सागरे । ६ । १५१ ।
“सर्व्ववर्म्मा चवीहस्तः प्रतिज्ञां तां सुदुस्तराम् ।
पश्यन् सानुशयः सर्व्वं स्वभार्य्यायै शशंस तत् ॥”)

चव्यं, क्ली, (चर्व्व्यते इति । चर्व्व + ण्यत् । पृषो-

दरादित्वात् रलोपे साधुः ।) चविका । इत्यमरः ।
२ । ४ । ९८ ॥ (यथा, सुश्रुते सूत्रस्थाने ४४ अध्याये ।
“चव्येन्द्रबीजं त्रिफला सर्पिर्म्मांसरसाम्बुभिः ॥”)

चव्यकं, क्ली, (चव्यमेव । स्वार्थे कन् ।) चविका ।

इति राजनिर्घण्टः ॥

चव्यजा, स्त्री, (चव्यमिव जायते इति । जन +

डः ।) गजपिप्पली । इति राजनिर्घण्टः ॥
(विवृतिरस्या गजपिप्पलीशब्दे ज्ञेया ॥)

चव्यफलं, क्ली, (चव्यमिव फलं यस्य ।) गज-

पिप्पली । इति राजनिर्घण्टः ॥

चव्या, स्त्री, (चव्य + टाप् ।) चविका । इत्यमर-

टीकायां भरतः ॥ (यथा, सुश्रुते उत्तरतन्त्रे
४१ अध्याये ।
“सर्पिर्मधुभ्यां त्रिकटु प्रलिह्या-
च्चव्याविडङ्गोपहितं क्षयार्त्तः ॥”)
वचा । इति मेदिनी ॥ कार्पासी । इति राज-
निर्घण्टः ॥

चष, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) चषति । इति दुर्गादासः ॥

चष, ञ भक्षे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-

सकं-सेट् ।) ञ, चषति चषते । इति दुर्गा-
दासः ॥

चषकः, पुं, क्ली, (चषति भक्षयति पिबत्यनेनेत्यर्थः ।

चष + “क्वुन् शिल्पिसंज्ञयोरपूर्ब्बस्यापि ।” उणां ।
२ । ३२ । इति क्वुन् ।) मद्यपानपात्रम् । तत्-
पर्य्यायः । गल्वर्कः २ सरकः ३ अनुतर्षणम् ४ ।
इति हेमचन्द्रः । ४ । १०२४ ॥ * ॥
अथ चषकोद्देशः ।
“यत् पानपात्रं भूपानां तज्ज्ञेयं चषकं बुधैः ।
कानकं राजतञ्चैव स्फाटिकं काचमेव च ॥
वृत्तं स्वराष्टदिक्कोणं चतुर्णां पृथिवीभुजाम् ।
इत्यन्यसम्मतं तेषां निर्णयः पाठसम्मतः ॥
स्वमुष्टिसम्मितं रत्नैश्चतुर्व्वर्णैः समन्वितम् ।
मार्त्तिकं वाथ फालं वा सर्व्वेषामुपयुज्यते ॥
काष्ठजं धातुजं शैलं जाङ्गलादि महीभुजाम् ।
यदन्यत्तोयपानादि पात्रं पृथ्वीभुजां भवेत् ॥”
एवं तत्रापि नियम इति भोजस्य निश्चयः । इति
युक्तिकल्पतरुः ॥ * ॥ सुरापात्रम् । मधु । मद्य-
प्रभेदः । इति मेदिनी । के, ८६ ॥

चषतिः, पुं, (चष भक्षे वधे वा + भावे अतिः ।)

भक्षणम् । वधः । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥

चषालः, पुं, (चष्यते वध्यतेऽस्मिन् । चष + “सानसि-

वर्णसीति ।” उणां । ४ । १०७ । इति आल
प्रत्ययेन निपातनात् साधुः ।) यूपकटकः । इत्य-
मरः । २ । ७ । १८ ॥ यज्ञसमाप्तिसूचकं पशु-
बन्धनाद्यर्थं यज्ञभूमौ यत् काष्ठमारोप्यते स यूपः
तस्य शिरसि वलयाकृतिर्डमरुकाकृतिर्व्वा यः
काष्ठविकारः सः । यूपमूलेविहितलोहवलयश्च ।
इति केचित् । इति भरतः ॥ मधुस्थानम् । इति
संक्षिप्तसारे उणादिवृत्तिः ॥

चह, शाठ्ये । प्रतारण इति यावत् । इति कवि-

कल्पद्रुमः ॥ (भ्वां-परं-सकं-सेट् ।) चहति ।
इति दुर्गादासः ॥

चह, त् क शाठ्ये । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-परं-सकं-सेट् ।) चहयति खलः । इति
दुर्गादासः ॥

चह, क म शाठ्ये । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) क म, चहयति खलः साधुं
प्रतारयतीत्यर्थः । इति दुर्गादासः ॥

चाकचक्यं, क्ली, उज्ज्वलता । चक्चक् इति भाषा ।

यथा, न हि लोकसिद्धसामग्री प्रातिभासिक-
रजतोत्पादिका किन्तु विलक्षणैव तथा हि ।
काचादिदोषदूषितलोचनस्य पुरोवर्त्तिद्रव्यसंयो-
गादिदमाकारा चाकचक्याकारा च काचि-
दन्तःकरणवृत्तिरुदेति । इति वेदान्तपरिभाषा ॥

चाकचिच्चा, स्त्री, श्वेतवुह्ना । इति रत्नमाला ॥

चाक्रिकः, पुं, (चक्रेण समूहेन यन्त्रविशेषेण वा

चरतीति । चक्र + “चरति ।” ४ । ४ । ८ ।
इति ठक् ।) बहुभिर्मिलित्वा यः स्तौति सः ।
तत्पर्य्यायः । घाण्टिकार्थकः २ । इत्यमरः ।
२ । ८ । १७ ॥ (यथा, याज्ञवल्क्ये । १ । १६५ ।
“पिशुनानृतिनोश्चैव तथा चाक्रिकवन्दिनाम् ।
एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ॥”)
तैलकारः । इति हेमचन्द्रः ॥ शाकटिकः ।
इति महाभारते राजधर्म्मः ॥ गाडओयान्
इति भाषा ॥

चाक्षुषं, क्ली, (चक्षुषा निर्वृत्तम् । चक्षुष् + “तेन

निर्वृत्तम् ।” ५ । १ । ७९ । इत्यण् ।) प्रत्यक्ष-
विशेषः । तत्तु चक्षुरिन्द्रियजन्यज्ञानम् । द्रव्य-
चाक्षुषं प्रति चक्षुःसंयोगः कारणम् । द्रव्य-
समवेतचाक्षुषं प्रति चक्षुःसंयुक्तसमवायः । द्रव्य-
समवेतसमवेतचाक्षुषं प्रति चक्षुःसंयुक्तसमवेत-
समवायः । इति सिद्धान्तमुक्तावली ॥ तथा च ।
“द्रव्यग्रहस्तु संयोगात् संयुक्तसमवायतः ।
द्रव्येषु समवेतानां तथा तत्समवायतः ॥
तत्रापि समवेतानां शब्दस्य समवायतः ।
तद्वृत्तीनां समवेतसमवायेन तु ग्रहः ॥”
इति भाषापरिच्छेदे ॥ ५९ -- ६० ॥
(चक्षुषा गृह्यते इति । चक्षुष + अण् । चक्षु-
र्ग्राह्यरूपादि । चक्षुर्व्याप्ते, त्रि ॥)

चाक्षुषः, पुं, (चक्षुषः ब्रह्मणो लोचनात् जातः ।

चक्षुष् + अण् । एतन्निरुक्तिर्यथा, मार्कण्डेये ।
७६ । २ ।
“अन्यजन्मनि जातोऽसौ चक्षुषः परमेष्ठिनः ।
चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि द्विज ! ॥”)
षष्ठमनुः । अस्मिन्मन्वन्तरे अजितनामको विष्णो-
रवतारः । मन्त्रद्रुम इन्द्रः । आप्यादयो देवाः ।
हर्य्यश्मद्वीरकादयः सप्तर्षयः । पुरुपुरुषसुद्युम्ना-
दयो मनुपुत्त्राः । इति श्रीभागवतम् ॥ (अस्य
अन्यद्विवरणं मन्वन्तरशब्दे द्रष्टव्यम् ॥)

चाङ्गः, पुं, (चीयते इति । चि + डः । चमङ्गं

यस्य ।) चाङ्गेरी । इत्यमरटीकायां राय-
मुकुटः ॥

चाङ्गेरी, स्त्री, (चाङ्गं ईरयतीति । ईर + अण् ।

ततो ङीष् ।) अम्ललोणिका । इत्यमरः । २ । ४ । १४० ॥
(“ग्रहण्यर्शोविकारघ्नी साम्ला वातकफे हिता ।
उष्णा कषायमधुरा चाङ्गेरी चाग्निदीपबी ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥)

चाचपुटः, पुं, तालभेदः । यथा, --

“गुरुर्लघुः प्लुतश्चैव भवेच्चाचपुटाभिधे ॥”
इति सङ्गीतदामोदरः ॥

चाञ्चल्यं, क्ली, (चञ्चलस्य भावः । चञ्चल + ष्यञ् ।)

चञ्चलता । चापल्यम् । यथा, --
“चाञ्चल्यरहिता लक्ष्मीः पुत्त्रपौत्त्रावधिस्थिरा ॥”
इति जगन्मङ्गलाख्यकवचम् ॥

चाटः, पुं, (चट्यते भिद्यते यस्मात् । चट + घञ् ।

यद्वा चटतिभिनत्तिभित्त्यादिकम् । चट + णः ।)
चौरः । इति मिताक्षरा ॥ प्रतारकः । यथा, --
“चाटतस्करदुर्व्वृत्तमहासाहसिकादिभिः ।
पीड्यमानाः प्रजा रक्षेत् कायस्थैश्च विशेषतः ॥
चाटाःप्रतारकाः विश्वास्य ये परधनमपहरन्ति ।
प्रच्छन्नापहारिणस्तस्कराः । दुर्व्वृत्ता इन्द्रजालिक-
कितवादयः । सहो बलं सहसा बलेन कृतं
साहसं महच्च तत् साहसञ्च महासाहसं तेन
वर्त्तन्त इति महासाहसिकाः प्रसह्यापहारिणः ।
आदिशब्दान्मौलिककुहकवृत्तयः । एतैः पीड्य-
माना बाध्यमानाः प्रजा रक्षेत् । कायस्था
गणका लेखकाश्च तैः पीड्यमाना विशेषतो
रक्षेत् । तेषां राजवल्लभतया अतिमायावितया
च दुर्निवारत्वात् ।” इति मिताक्षरायां आचारा-
ध्यायः ॥

चाटकैरः, पुं, (चटकस्य चटकाया वा पुमपत्य-

मिति । “चटकाया ऐरक् ।” ४ । १ । १२८ ।
इत्यैरक्प्रत्ययः । “चटकस्येति वाच्यम् । लिङ्ग-
विशिष्टपरिभाषया स्त्रिया अपि” । इति वार्त्ति-
कम् ।) चटकस्य पुमपत्यम् । इत्यमरः ॥ चटार
छा इति भाषा ॥
पृष्ठ २/४४०

चाटुः, पुं, क्ली, (चटति भिनत्ति मनस्तोषामोद-

वाक्येनेति । चट + “दृसनीति ।” उणां १ । ३ ।
इति ञुण् ।) प्रियवाक्यम् । तत्पर्य्यायः । चटुः २
प्रियप्रायम् ३ । इति हेमचन्द्रः ॥ स्फुटवादी ।
इति संक्षिप्तसारे उणादिवृत्तिः ॥ मिथ्याप्रिय-
वाक्यम् । इति महाभारतम् ॥ खोशामदिया
कथा इति भाषा ॥ (यथा, गीतगोविन्दे ।
२ । १२ ।
“प्रथमसमागमलज्जितया
पटुचाटुशतैरनुकूलम् ॥”
चाटूक्त्यादौ त्रि । यथा, राजतरङ्गिण्याम् ।
१ । २१३ ।
“उपनिन्ये च संगृह्य पुटकैश्चाटुसीत्कृतैः ॥”)

चाटुपटुः, पुं, (चाटुषु पटुः निपुणः ।) भण्डः ।

इति हारावली ॥ भाँड इति भाषा ॥
(“पाण्डवानां पण्डितोऽसौ व्यासश्चाटुपटुः कविः ॥
इति नैषधम् ॥”)

चाटुलोलः, त्रि, (चाटुरेव लोल इति कर्म्मधारयः ।

चाटुषु लोल इत्येके ।) चटुल्लोलः । इति हारा-
वली ॥

चाटुवटुः, पुं, (चाटुपटु + पृषोदरात् साघुः ।)

चाटुपटुः । इति भूरिप्रयोगः ॥

चाटूक्तिः, स्त्री, (चाटुरूपा उक्तिः । चाटूना-

मुक्तिर्वा ।) सेवा । इति हारावली ॥ प्रियकथाच ॥

चाणकीनं, त्रि, (चणकानां भवनं क्षेत्रंवा ।

“धान्यानां भवने क्षेत्रे खञ् ।” ५ । २ । १ ।
इति खञ् ।) चणकोत्पत्तियोग्यक्षेत्रम् । इत्य-
मरटीकायां रायमुकुटः ॥

चाणक्यः, पुं, (चणकस्य गोत्रापत्यम् । “गर्गा-

दिभ्यो यञ् ।” ४ । १ । १०५ । इति यञ् ।)
मुनिविशेषः । तत्पर्य्यायः । द्रोमिणः २ अंशुलः
३ । इति त्रिकाण्डशेषः ॥ (अयमेव द्विजस्त्वभि-
चारक्रियायोगेन योगनन्दराजं मारयन् नन्दौ-
रसात् क्षौरकारपत्नीगर्भे जातं स्वशिष्यं चन्द्रगुप्तं
राज्येऽभिषेचयंश्चतस्यामात्यपदवीमप्यङ्गीचकार ।
एतद्विवरणं मुद्राराक्षसविष्णुपुराणभागवता-
दिषु विशेषतो दर्शनीयम् । इत्यत्र क्वचिन्मत-
भेदोऽपि दृश्यते यथाच, कथासरित्सागरे ।
५ । १२१ -- २३ ।
“स चाणक्यो द्विजः क्वापि गत्वा कृत्यामसाधयत् ।
तद्वशाद्योगनन्दोऽथ दाहज्वरमवाप्य सः ॥
सप्तमे दिवसे प्राप्ते पञ्चत्वं समुपागमत् ।
हत्वा हिरण्यगुप्तञ्च शकटालेन तत्सुतम् ।
पूर्ब्बनन्दसुते लक्ष्मीश्चन्द्रगुप्ते निवेशिता ॥”
चाणक्येन प्रोक्तमित्यण् ।) ग्रन्थविशेषे, क्ली ।
यथा, तत्रैव ।
“नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् ।
सर्व्वबीजमिदं शास्त्रं चाणक्यं सारसंग्रहम् ॥”

चाणक्यमूलकं, क्ली, (चणकमेव चाणक्यं तद्व-

न्मूलमस्य । इति कप् स्वार्थे कन् वा ।) मूलक-
प्रभेदः । चणकमूलीति ख्यातम् । तत्पर्य्यायः ।
वालेयम् २ विष्णुगुप्तकम् ३ स्थूलमूलम् ४ महा-
कन्दम् ५ कौटिल्यम् ६ मरुसम्भवम् ७ शालाक-
कटुकम् ८ मिश्रम् ९ । अस्य गुणाः । उष्णत्वम् ।
कटुत्वम् । रुचिकारित्वम् । दीपनत्वम् । कफ-
वातकृमिगुल्मनाशकत्वम् । ग्राहकत्वम् । गुरु-
त्वञ्च । इति राजनिर्घण्टः ॥

चाणूरः, पुं, कंसराजस्य मल्लविशेषः । यथा, --

“ततः क्रोधातिताम्राक्षः कंसः परमकोपनः ।
चाणूरमादिशद्युद्धे कृष्णस्य सुमहाबलम् ॥”
इति महाभारते हरिवंशम् ॥
(तथाच, भागवते । १० । ४४ ।
“भगवद्गात्रनिष्पातैर्वज्रनिष्पेषनिष्ठुरैः ।
चाणूरो भज्यमानाङ्गो मुहुग्लांनिमवाप ह ॥”)

चाणूरसूदनः, पुं, (चाणूरं सूदयतीति । सूदि +

ल्युः ।) श्रीकृष्णः । इति त्रिकाण्डशेषः ॥ (एतस्या-
सुरस्य नाशवृत्तान्तं हरिवंशे ८६ अध्याये
द्रष्टव्यम् ॥)

चाण्डालः, पुं, (चण्डति कुप्यति सततमिति । “पति-

चण्डिभ्यामालञ् ।” उणां १ । ११७ । इति
आलञ् । यद्वा, चण्डाल + “कुलादिभ्योऽण्”
यद्वा चण्डाल एवेति प्रज्ञादिभ्योऽण् ।) चण्डालः ।
इत्यमरः । २ । १० । १९ ॥ (यथा, मनुः । ४ । ७९ ।
“न संवसेच्च पतितैर्न चाण्डालैर्न पुक्वशैः ॥”
कर्म्मदोषतो ब्राह्मणानामपि पारिभाषिकचाण्डा-
लत्वम् । यथा, महाभारते । १२ । ७५ ।
“आह्वायका देवलका नक्षत्रग्रामयाजकाः ।
एते ब्राह्मणचाण्डाला महापथिकपञ्चमाः ॥”)

चाण्डालिका, स्त्री, (चाण्डालो वादकत्वेनास्त्यस्याः ।

इति ठन् । चण्डालेन निर्वृत्ता इति ठक् वा ।)
चण्डालवीणा । इत्यमरः । २ । १० । ३२ ।
चण्डालिकाशब्दार्थोऽप्यत्र ॥ (चण्डालेन कृतेति
कुलालादिभ्योऽण् । चण्डलाकृतवस्तुमात्रे, त्रि ॥)

चाण्डाली, स्त्री, (चाण्डाल + जातित्वात् ङीष् ।)

लिङ्गिनी । इति राजनिर्घण्टः ॥ चाण्डालपत्नीच ॥

चातकः, पुं, (चतते याचते जलमम्बुदमिति । चत

याचने + ण्वुल् ।) स्वनामख्यातपक्षी । तत्-
पर्य्यायः । स्तोककः २ सारङ्गः ३ मेघजीवनः ४ ।
इति राजनिर्घण्टः ॥ तोककः ५ । इत्यमरः ।
२ । ५ । १७ ॥ शारङ्गः ६ । इति भरतः ॥ (यथा,
मेघदूते । ९ ।
“वामश्चायं नुदति मधुरं चातकस्ते सगर्व्वः ॥”)
तन्मांसगुणाः । लघुत्वम् । शीतत्वम् । कफरक्त-
पित्तनाशित्वम् । अग्निकारित्वञ्च । इति राज-
वल्लभः ॥

चातकानन्दनः, पुं, (चातकं आनन्दयतीति ।

आ + नन्द + णिच् + ल्युः ।) वर्षाकालः । इति
राजनिर्घण्टः ॥

चातुरः, पुं, (चतुर्भिरङ्गैः हस्तपदपृष्ठशिरोभि-

रित्यर्थः गृह्यते इति । चतुर + अण् । यद्वा चतुर
एव । स्वार्थे अण् ।) चक्रगण्डुः । इति मेदिनी ॥
गोलवालिश इति भाषा ॥

चातुरः, त्रि, (चतुर + स्वार्थे अण् ।) नेत्रगोचरः ।

चाटुकारः । नियन्ता । इति मेदिनी । रे, १५३ ॥

चातुरकः, त्रि, (चातुर + स्वार्थे कन् ।) चातुरः ।

इति हेमचन्द्रः ॥

चातुराश्रम्यं, क्ली, (चतुर्णां आश्रमाणां कर्म्म

इति । “गुणवचनब्राह्मणादिभ्यः कर्म्मणि च ।”
५ । १ । १२४ । इति ष्यञ् ।) ब्रह्मचर्य्यगार्हस्थ्य-
वानप्रस्थभिक्षुरूपाश्रमचतुष्टयानां धर्म्मः । इति
पुराणम् ॥ (यथा, महाभारते । १२ । ४६ । २२ ।
“चातुर्विद्यं चातुर्होत्रं चातुराश्रम्यमेव च ।
राजधर्म्मांश्च निखिलान् पृच्छैनं पृथिवीपते ! ॥”
चत्वार आश्रमा एवेति स्वार्थे ष्यञ् । चतुरा-
श्रममात्रम् ॥)

चातुरिकः, पुं, (चातुरीं रथपरिचालनकौशलं

वेत्तीति ठक् ।) सारथिः । इति जटाधरः ॥

चातुरी, स्त्री, (चतुरस्येयं “तस्येदम् ।” ४ । ३ । १२० ।

इत्यण् । ततो ङीप् । यद्वा चतुरस्य भावः इति
ष्यञ् षित्वात् ङीष् ततो यलोपः ।) दाक्ष्यम् ।
चतुरता । इति मेदिनी ॥
“या लोकद्वयसाधनी तनुभृतां सा चातुरी चातुरी ॥”
इत्युद्भटः ॥)
(गायत्त्रीरूपा महाशक्तिः । यथा, देवीभाग-
वते । १२ । ६ । ४७ ।
“चतुर्भुजा चारुदन्ता चातुरी च ऋतप्रदा ॥”)

चातुर्जातकं, क्ली, (चतुर्जातक एव इति स्वार्थे

अण् ।) गुडत्वगेलापत्रनागकेशररूपचतुष्टयम् ।
इति राजनिर्घण्टः ॥ (अस्य लक्षणं गुणाश्च ।
“त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम् ।
नागकेशरसंयुक्तं चातुर्जातकमुच्यते ॥
तद्द्वयं रेचनं रूक्षं तीक्ष्णोष्णमुखगन्धहृत् ।
लघुपित्ताग्निकृद्वर्ण्यं कफवातविषापहम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

चातुर्थकः, पुं, (चतुर्थे चतुर्थेऽह्नि भव इति । चतुर्थ

+ वुञ् ।) प्रतिचतुर्थदिनभवज्वरः । तस्य
मन्त्रौषधं यथा, ॐ जम्भनि स्तम्भनि विमो-
हय सर्व्वव्याधीन्मे वज्रेण फट् । इति ।
पुष्पमष्टशतं जप्त्वा हस्ते दत्त्वाथ न स्पृशेत् ।
चातुर्थको ज्वरो रुद्र ! अन्ये चैव ज्वरास्तथा ॥
जम्बुफलं हरिद्रा च सर्पस्यैव च कञ्चुकम् ।
सर्व्वज्वराणां धूपोऽयं हर ! चातुर्थकस्य च ॥”
इति गारुडे १८७ अध्यायः ॥
(अस्य सलक्षणचिकित्सादीनि यथा, --
“चातुर्थो द्विविधो ज्ञेयो वातश्लेष्मात्मको ज्वरः ।
चातुर्थको नाम गदो दारुणो विषमज्वरः ॥
शोषणः सर्व्वधातूनां बलवर्णाग्निनाशनः ।
त्रिदोषजो विकारः स्यादस्थिमज्जगतोऽनिलः ॥
कुपितं पित्तमेवन्तु कफश्चैवं स्वकालतः ।
शीतदाहकरस्तीव्रस्त्रिकालञ्चानुवर्त्तते ॥
स सन्निपातसम्भूतो विषमो विषमज्वरः ।
ऊर्द्ध्वं कायस्य गृह्णाति यः पूर्ब्बं सोऽनिलात्मकः ।
पूर्ब्बं गृह्णात्यधः कायं श्लेष्मपूर्ब्बज्वरश्च सः ।
जङ्घाभ्यां श्लैस्मिको ज्ञेयः शिरसोऽनिलसम्भवः ।
एवं विज्ञाय सद्वैद्यः कुर्य्यात्तत्र प्रतिक्रियाम् ।
वेलाज्वरो रसगतो रक्तश्चैकाहिकस्तथा ॥
पृष्ठ २/४४१
मांसगोऽपि तृतीयः स्याच्चतुर्थोऽस्थिसमाश्रितः ।
सर्व्वधातुगतो ज्ञेयो जीर्णो धातुक्षयङ्करः ॥
भूतजे भूतविद्या स्याद्दधाति समताडनम् ।
वासाधात्रीदारुपथ्या नागरत्रिफला भवः ॥
मधुना संयुतः क्वाथश्चातुर्थकनिवारणः ॥
अगस्तिपत्रस्वरसो निहन्ति
नस्ये च चातुर्थकरोगमुग्रम् ।
कासं भ्रमञ्चापि शिरोरुजाञ्च
विनाशयत्याशु हि तन्नराणाम् ॥”
इति हारीते चिकित्सास्थाने द्वितीयेऽध्याये ॥)

चातुर्भद्रं, क्ली, (चतुर्भद्रमेवेति अण् ।) नागराति-

विषामुस्ता गुडूचीति चतुष्टयम् । इति राज-
निर्घण्टः ॥

चातुर्म्मास्यं, क्ली, (चतुर्षुमासेषु क्रियते इति ।

“चतुर्म्मासाण्ण्यो यज्ञे ।” ५ । १ । ९४ । इत्यस्य
सूत्रस्य वार्त्तिकोक्तेः ण्यः । यागविशेषः । चातु-
र्म्मास्ययागस्य चत्वारि पर्व्वाणि । वैश्वदेवो वरुण-
प्रधासः शाकमेधः शुनासीरीयश्चेति शब्दार्थ-
चिन्तामणिः ॥) आषाढशुक्लद्बादश्यादिचतुर्म्मास-
कर्त्तव्यनियमविशेषः । “व्यक्तं वाराहे ।
‘आषाढशुक्लद्वादश्यां पौर्णमास्यामथापि वा ।
चातुर्म्मास्यव्रतारम्भं कुर्य्यात् कर्कटसंक्रमे ॥
अभावे तु तुलार्केऽपि मन्त्रेण नियमं व्रती ।
कार्त्तिके शुक्लद्वादश्यां विधिवत्तत् समापयेत् ॥
चतुर्धापि हि तच्चीर्णं चातुर्म्मास्यं व्रतं नरः ।
कार्त्तिक्यां शुक्लपक्षे तु द्बादश्यां तत् समापयेत् ॥’
मात्स्ये ।
‘चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि ।
मधुस्वरो भवेन्नित्यं नरो गुडविवर्ज्जनात् ॥
तैलस्य वर्ज्जनादेव सुन्दराङ्गः प्रजायते ।
कटुतैलपरित्यागात् शत्रुनाशः प्रजायते ॥
लभते सन्ततिं दीर्घां स्थालीपाकमभक्षयन् ।
सदा मुनिः सदा योगी मधुमांसस्य वर्ज्जनात् ॥
निराधिर्णीरुगोजस्वी विष्णुभक्तश्च जायते ।
एकान्तरोपवासेन विष्णुलोकमवाप्नुयात् ॥
घारणान्नखलोम्नाञ्च गङ्गास्नानं दिने दिने ।
ताम्बूलवर्ज्जनाद्भोगी रक्तकण्ठश्च जायते ।
घृतत्यागात् सुलावण्यं सर्व्वं स्निग्धं वपुर्भवेत् ॥
फलत्यागात्तु मतिमान् बहुपुत्त्रश्च जायते ।
नमो नारायणायेति जप्त्वानशनजं फलम् ॥
पादाभिवन्दनाद्विष्णोर्लभेद्गोदानजं फलम् ।
एवमादिव्रतैः पार्थ ! तुष्टिमायाति केशवः ॥’
सनत्कुमारः ।
‘इदं व्रतं मया देव ! गृहीतं पुरतस्तव ।
निर्व्विध्नां सिद्धिमाप्नोतु प्रसन्ने त्वयि केशव ! ॥
गृहीतेऽस्मिन् व्रते देव ! यद्यपूर्णे त्वहं म्रिये ।
तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्द्दन ! ॥’
समाप्तौ च ।
‘इदं व्रतं मया देव ! कृतं प्रीत्यै तव प्रभो ! ।
न्यूनं संपूर्णतां यातु त्वत्प्रसादाज्जनार्द्दन ! ॥’
अत्रैव यतिमधिकृत्य काठकगृह्यम् ।
‘एकरात्रं वसेद्ग्रामे नगरे पञ्चरात्रकम् ।
षर्षाभ्योऽन्यत्र वर्षासु मासांश्च चतुरो वसेत् ॥’
एतदशक्तविषयम् । ‘ऊर्द्धं वार्षिकाभ्यां मासाभ्यां
नैकस्थानवासी’ इति शङ्खोक्तेः ।” इति तिथ्यादि-
तत्त्वम् ॥ * ॥ अन्यच्च । तत्रोपक्रमकालः सनत्-
कुमारेणोक्तः ।
“एकादश्यान्तु गृह्णीयात् संक्रान्तौ कर्क्कटस्य तु ।
आषाढ्यां वा नरो भक्त्या चातुर्म्मास्योदितं
व्रतम् ॥”
तत्र मन्त्रः ।
“चतुरोवार्षिकान् मासान् देवस्योत्थापनावधि ।
इमं करिष्ये नियमं निर्व्विघ्नं कुरु मेऽच्युत ! ॥”
अथ चातुर्म्मास्यनियमावश्यकता भविष्ये ।
“यो विना नियमं मर्त्यो व्रतं वा जप्यमेव वा ।
चातुर्म्मास्यं नयेम्मूर्खो जीवन्नपि मृतो हि सः ॥”
अथ चातुर्म्मास्यनियमाः । स्कान्दे नागरखण्डे ।
“श्रावणे वर्ज्जयेच्छाकं दधि भाद्रपदे तथा ।
दुग्धमाश्वयुजे मासि कार्त्तिके चामिषं त्यजेत् ॥”
तत्रैव श्रीब्रह्मनारदसंवादे ।
“निष्पावान् राजमाषांश्च सुप्ते देवे जनार्द्दने ।
यो भक्षयति विप्रेन्द्र ! श्वपचादधिको हि सः ॥
कार्त्तिके तु विशेषेण राजमाषांश्च भक्षयन् ।
निष्पावान् मुनिशाद्र्दूल ! यावदाहूतनारकी ॥
कलिङ्गानि पटोलानि वृन्ताकसहितानि च ।
एतानि भक्षयेद्यस्तु सुप्ते देवे जनार्द्दने ॥
सप्तजन्मार्ज्जितं पुण्यं हरते नात्र संशयः ॥”
किञ्च ।
“रुच्यं तत्तत्काललभ्यं फलमूलादि वर्ज्जयेत् ।
जपहोमाद्यनुष्ठानं नामसङ्कीर्त्तनन्तथा ।
स्वीकृत्य प्रार्थयेदेवं गृहीतनियमो बुधः ॥
इदं व्रतं मया देव ! गृहीतं पुरतस्तव ।
निर्व्विघ्नं सिद्धिमायातु प्रसादात्तव केशव ! ॥
गृहीतेऽस्मिन् व्रते देव ! पञ्चत्वं यदि मे भवेत् ।
तदा भवतु सम्पूर्णं प्रसादात्ते जनार्द्दन ! ॥” * ॥
अथ चातुर्म्मास्यव्रतनियममाहात्म्यम् । विष्णु-
रहस्ये ब्रह्मनारदसंवादे ।
“शृणु नारद ! कार्त् स्न्येन चातुर्म्मास्यव्रतक्रियाः ।
या निर्व्वर्त्त्य नरो भक्त्या प्रयाति परमां गतिम् ॥
व्रतानि वैष्णवानीह मनस्यपि चिकीर्षतः ।
नरस्य क्षयमाप्नोति पापं जन्मशतोद्भवम् ॥
एकभक्तो नरः शान्तो नित्यस्नायी दृढव्रतः ।
योऽर्च्चयेच्चतुरो मासान् हरिं स्यात्तस्य लोक-
भाक् ॥
यस्तु सुप्ते हृषीकेशे क्षितिशायी भवेन्नरः ।
वार्षिकान् चतुरो मासान् लभते वैष्णवीं गतिम् ॥
यस्तु केशवमुद्दिश्य चान्द्रायणपरायणः ।
चातुर्म्मास्यं नयेद्भक्त्य्या स विष्णुतनुमाविशेत् ॥”
भविष्योत्तरे भगवद्युधिष्ठिरसंवादे ।
“चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि ।
स्त्री वा नरो वा मद्भक्तो धर्म्मार्थं सुदृढव्रतः ॥
गृह्णीयान्नियमानेतान् दन्तधावनपूर्ब्बकम् ।
तेषां फलानि वक्ष्यामि तत्कर्त्तॄणां पृथक् पृथक् ॥
मधुरस्वरसम्पन्नो भवेल्लवणवर्ज्जनात् ।
लभते सन्ततिं दीर्घां तैलस्य परिवर्ज्जनात् ॥
अभ्यङ्गवर्ज्जनात् पार्थ ! सुन्दराङ्गः प्रजायते ।
पक्वतैलपरित्यागाच्छत्रुनाशमवाप्नुयात् ॥
मधूकतैलत्यागेन सौभाग्यमतुलं भवेत् ।
पुष्पोपभोगत्यागेन स्वर्गे विद्याधरो भवेत् ॥
योगाम्यासी भवेद्यस्तु स ब्रह्मपदमाप्नुयात् ।
कट्वम्लतिक्तमधुरक्षारकाषायजान् रसान् ॥
यो वर्ज्जयेत् स वैरूप्यं वैगन्ध्यं नाप्नुयात् क्वचित् ।
ताम्बूलवर्ज्जनाद्भोगी अपक्वादोऽमलो भवेत् ॥
पादाभ्यङ्गशिरोऽभ्यङ्गपरित्यागाच्च पार्थिव ! ।
दीप्तिमान् दीप्तचरणो यक्षो द्रव्यपतिर्भवेत् ॥
दधिदुग्धतक्रनियमात् गोलोकं लभते नरः ।
इन्द्रातिथित्वमायाति स्थालीपाकविवर्ज्जनात् ॥
लभेच्च सन्ततिं दीर्घां तापपक्वस्य वर्ज्जनात् ।
भूमौ प्रस्तरशायी च विष्णोरनुचरो भवेत् ॥
सदा मुनिः सदा योगी मधुमांसस्य वर्ज्जनात् ।
निर्व्व्याधिर्नीरुगोजस्वी सुरामद्यविवर्ज्जनात् ॥
एकान्तरोपवासेन ब्रह्मलोके महीयते ।
धारणान्नखलोमानां गङ्गास्नानं दिने दिने ॥
मौनव्रती भवेद्यस्तु तस्याज्ञाऽस्खलिता भवेत् ।
भूमौ भुङ्क्ते सदा यस्तु स पृथिव्याः पतिर्भवेत् ॥
नमो नारायणायेति जप्त्वा दानशतं फलम् ।
पादाभिवन्दनाद्विष्णोर्भवेद्गोदानजं फलम् ॥
विष्णुपादाम्बुजस्पर्शात् कृतकृत्यो भवेन्नरः ।
विष्णोर्द्देवकुले कुर्य्यादुपलेपनभार्ज्जने ॥
कल्पस्थायी भवेद्राजा स नरो नात्र संशयः ।
प्रदक्षिणत्रयं यस्तु करोति स्तुतिपाठकः ॥
हंसयुक्तविमानेन स च विष्णुपदं व्रजेत् ।
गीतवाद्यकरो विष्णोर्गान्धर्व्वं लोकमाप्नुयात् ॥
नित्यं शास्त्रविनोदेन लोकान् यस्तु प्रबोधयेत् ।
स व्यासरूपी भगवानन्ते विष्णुपुरं व्रजेत् ॥
पुष्पमालाकुलां पूजां कृत्वा विष्णोः पुरं व्रजेत् ।
कृत्वा प्रेक्षणिकं दिव्यं स्थानमप्सरसां लभेत् ॥
तीर्थाम्भसि कृतस्नानो निर्म्मलं देहमाप्नुयात् ।
पञ्चगव्याशनात् पार्थ ! चान्द्रायणफलं लभेत् ॥
एकभक्ताशनान्नित्यमग्निहोत्रफलं लभेत् ।
नक्तभोजी समग्रन्तु तीर्थयात्राफलं लभेत् ॥
अयाचितेन चाप्नोति वापीकूपप्रपाफलम् ।
षष्ठकालेऽन्नभोजी यः स्थायी स्वर्गे नरो भवेत् ॥
नित्यस्नायी नरो यस्तु नरकं स न पश्यति ।
भाजनं वर्ज्जयेद्यस्तु स स्नानं पौष्करं लभेत् ॥
पत्रेषु यो नरो भुङ्क्ते कुरुक्षेत्रफलं लभेत् ।
शिलायां भोजनं नित्यं भवेत् स्नानं प्रयागजम् ॥
यामद्वयजलत्यागान्न रोगैः परिभूयते ।
एवमादिव्रतैः पार्थ ! तुष्टिमायाति तोषितः ॥”
किञ्च ।
“योगनिद्रां समालम्ब्य शेषाहिशयने स्वपन् ।
क्षीरोदतोयवीच्यग्रैर्धौतपादः समाहितः ॥
लक्ष्मीकराम्बुजैः श्लक्ष्णैर्म्मृज्यमानपदद्बयः ।
तस्मिन् काले च मद्भक्तोयो मासांश्चतुरः क्षिपेत् ॥
व्रतैरनेकैर्नियमैः पाण्डवश्रेष्ठ ! मानवः ।
कल्पस्थायी विष्णुलोके भवेन्नास्त्यत्र संशयः ॥
पृष्ठ २/४४२
सत्यां व्रतसमाप्तौ च श्रीकृष्णस्य प्रसादतः ।
यद्यद्दानादिकृत्यञ्च लेख्यं तत्तच्च कार्त्तिके ॥
स्तुत्वाथ कृष्णमभ्यर्च्च्य प्रसाद्य च पुनः पुनः ।
शेषं शङ्खोदतीर्थे च स्वीकुर्य्याद्वैष्णवैः सह ॥
गीतनृत्यादिना देवं परितोष्याथ वैष्णवान् ।
संपूज्य नरयानेन देवं स्वालयमानयेत् ॥
प्रभोर्नीराजनं कृत्वा विसर्ज्ज्य वत वैष्णवान् ।
निवेश्य स्वासने देवं शयीत भुवि तं स्मरन् ॥
एवञ्च कुर्व्वतो मासाश्चत्वारो यान्ति ते सुखम् ।
अन्यथा प्रभवेद्दःखमनावृष्टिश्च जायते ॥
तथा च भविष्ये ।
मिथुनस्थे सहस्रांशौ न स्वापयति यो हरिम् ।
वैष्णवैः सह सम्भूय ह्यनावृष्टिस्तदा भवेत् ॥
किञ्च । भविष्योत्तरे ।
यो देवशयनं पार्थ ! अनुमोद्य समाचरेत् ।
उत्थानं वापि कृष्णस्य स हरेर्लोकमाप्नुयात् ॥”
इति श्रीहरिभक्तिविलासे १५ विलासः ॥

चातुर्व्वर्ण्यं, क्ली, (चत्वारो वर्णाः । “चतुर्वर्णादीनां

स्वाथै उपसंख्यानम् ।” इति ष्यञ् ।) ब्राह्मण-
क्षत्त्रियवैश्यशूद्राः । इति हेमचन्द्रः । ३ । ४७२ ॥
(यथा, मनुः । १२ । १ ।
“चातुर्व्वर्ण्यस्व कृत्स्नोऽयमुक्तो धर्म्मस्त्वयानघ ! ॥”)
चतुर्वर्णधर्म्मश्च ॥

चातुर्व्वैद्यः, पुं, (चतुरो वेदानधीते इति चतुर्व्वेदः ।

स एव । “चतुर्वेदस्योभयपदवृद्धिश्च ।” इति
ष्यञ् ।) चातुर्विद्यः । चतुर्व्वेदवेत्ता । इति
व्याकरणम् ॥

चात्वालं, क्ली पुं, (चतते याचते इति । चत +

“स्थाचतिमृजेरालच्वालञालीयचः ।” उणां
१ । ११५ । इति वालञ् ।) गर्त्तः । अग्नि-
होत्रोपकरणम् । इति संक्षिप्तसारे उणादिवृत्तिः ॥
(यथा, तैत्तिरीयसंहितायाम् । ६ । १ । ३ । ८ ।
“योनिर्वै यज्ञस्य चात्वालम् ॥”)

चान्द्रं, क्ली, (चन्द्रस्य इदम् । चन्द्र + अण् ।

यद्वा, चन्द्राय चन्द्रलोकप्राप्तये इदम् ।) चान्द्रा-
यणम् । इति प्रायश्चित्ततत्त्वम् ॥

चान्द्रः, पुं, (चन्द्रस्यायम् । “तस्येदम् ।” ४ । ३ । १२० ।

इत्यण् ।) चन्द्रकान्तमणिः । इति हेमचन्द्रः ।
४ । १३३ ॥ चान्द्रमासः । इति शब्दरत्नावली ॥

चान्द्रकं, क्ली, (चान्द्रं आर्द्रकमिव कायतीति ।

कै + कः ।) शुण्ठी । इति राजनिर्घण्टः ॥

चान्द्राख्यं, क्ली, (चान्द्रमित्याख्या संज्ञा यस्य ।)

आर्द्रकम् । इति राजनिर्घण्टः ॥

चान्द्रभागा, स्त्री, (चान्द्रश्चन्द्रसम्बन्धी भागो यस्याम् ।)

चन्द्रभागानदी । इति द्विरूपकोषः ॥

चान्द्रमसं, क्ली, (चन्द्रमाश्चन्द्रोऽधिष्ठातृदेवता

यस्य । चन्द्रमस् + अण् ।) मृगशिरोनक्षत्रम् ।
इति हेमचन्द्रः । २ । २३ ॥ (चन्द्रमसश्चन्द्रस्य
इदम् । चन्द्रमस् + “तस्येदम् ।” ४ । ३ । १२० ।
इत्यण् ।) चन्द्रमस्सम्बन्धिनि त्रि ॥ (यथा,
महाभारते । १२ । २५० । २० ।
“सर्व्वतः सुस्वमन्वेति वपुश्चान्द्रमसं यथा ॥”)

चान्द्रमसायनः, पुं, (चन्द्रमसोऽपत्यं पुमान् । चन्द्र-

मस् + फक् ।) बुधग्रहः । इति हलायुधः ॥
(“तिकादिभ्यः फिञ् ।” ४ । १ । १५५ । इति
फिञ् ।) चान्द्रमसायनिश्च ॥

चान्द्रमासः, पुं, (चान्द्रश्चन्द्रसम्बन्धी मासः ।) चन्द्र-

सम्बन्धिमासः । स तु गौणमुख्यभेदेन द्बिविधः ।
तत्राद्यः कृष्णप्रतिपदादिपौर्णमास्यन्तः । द्बितीयः
शुक्लप्रतिपदादिदर्शान्तः । सामान्यत्रिंशत्तिथ्या-
त्मकमासश्च ॥ तत्र मुख्यचान्द्रे कर्म्माणि ।
आब्दिकश्राद्धाद्यश्राद्धादिसपिण्डीकरणान्तश्रा-
द्धानि चान्द्रायणप्राजापत्यादिव्रतानि दानकर्म्म-
नित्यस्नानं गृहपुष्करिण्यादिप्रतिष्ठा साधारण-
तिथिविहितकर्म्म । गौणचान्द्रे अष्टकादिपार्व्वण-
श्राद्धं वारुणीस्नानं जन्मतिथिकृत्यं जन्मा-
ष्टम्याद्युपवासः दुर्गोत्सवादितिथिनियतपूजा ।
सामान्यत्रिंशत्तिथ्यात्मकमासेन मासिकादिमास-
गणना । इति स्मृतिः ॥

चान्द्रायणं, क्ली, (चान्द्रस्य चन्द्रलोकस्य अयनं

प्राप्तिर्यस्मात् । “धर्म्मार्थं यश्चरेदेतच्चन्द्रस्यैति
सलोकताम् ।” इति याज्ञवल्क्यवचनादेव
तथात्वम् । यद्वा चन्द्रः अमृतानन्दमयपुरुषः
अयनं आश्रयोऽधिष्ठातृदेवो यस्य व्रतस्य यत्र
व्रते वा ।) व्रतविशेषः । तत्पर्य्यायः । इन्दु-
व्रतम् २ । इति त्रिकाण्डशेषः ॥ तत्तु चतुर्व्विधं
पिपीलिकामध्याख्यम् १ यवमध्याख्यम् २ यति-
चान्द्रायणम् ३ शिशुचान्द्रायणम् ४ । यथा, --
“एकैकं ह्रासयेत् पिण्डं कृष्णे शुक्ले च वर्द्धयेत् ।
उपस्पृशंस्त्रिषवणमेतच्चान्द्रायणं स्मृतम् ॥”
“एतदेव पिपीलिकामध्याख्यम् ।” इति कुल्लूक-
भट्टः ॥
“एवमेव विधिं कृत्स्नमाचरेद्यवमध्यमे ।
शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् ॥
अष्टावष्टौ समश्नीयात् पिण्डान् मध्यन्दिने स्थिते ।
नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥
चतुरः प्रातरश्नीयात् पिण्डान् विप्रः समाहितः ।
चतुरोऽस्तमिते सूर्य्ये शिशुचान्द्रायणं स्मृतम् ॥”
इति मनुः ॥
तद्विधानं यथा, गारुडे १०५ अध्याये ।
“तिथिपिण्डांश्चरेद्बुद्ध्वा शुक्ले शिख्यण्डसंमितान् ।
एकैकं ह्रासयेत् कृष्णे पिण्डं चान्द्रायणं चरेत् ॥
यथाकथञ्चित् पिण्डानां चत्वारिंशच्छतद्वयम् ।
मासेनैवोपयुञ्जीत चान्द्रायणमथापरम् ॥
कुर्य्यात्त्रिषवणं स्नानं पिण्डं चान्द्रायणं चरेत् ।
पवित्राणि जपेत् पिण्डान् गायत्त्र्या चाभि-
मन्त्रयेत् ॥
अनादिष्टेषु सर्व्वेषु शुद्धिश्चान्द्रायणेन च ।
धर्म्मार्थी यश्चरेदेतत् चन्द्रस्यैति सलोकताम् ॥
कृच्छ्रकृद्धर्म्मकामस्तु महतीं श्रियमश्नुते ॥”
अपि च ।
“एकैकं वर्द्धयेत् पिण्डं शुक्ले कृष्णे च ह्रासयेत् ।
उपस्पृश्य त्रिषवणं विपरीताघमर्द्दनम् ॥”
इति तत्रैव २२६ अध्यायः ॥

चान्द्री, स्त्री, श्वेतकण्टकारी । (चन्द्रस्य इयम् ।

चन्द्र + “तस्येदम् ।” ४ । ३ । १२० । इत्यण्
स्त्रियां ङीप् ।) ज्योत्स्ना । इति राजनिर्घण्टः ॥
(चन्द्रसम्बन्धिनि त्रि । यथा, माधे । २ । २ ।
“गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् ॥”)

चापं, क्ली पुं, (चपस्य वंशविशेषस्य विकारः ।

“अवयवे च प्राण्यौषधिवृक्षेभ्यः ।” ४ । ३ । १३५ ।
इत्यण् ।) धनुः । इत्यमरः । २ । ८ । ८३ ॥
(यथा, रघुः । १२ । ४७ ।
“क्रमशस्ते पुनस्तस्य चापात् सममिवोद्ययुः ॥”
वृत्तक्षेत्रार्द्धः । यथा, सिद्धान्तशिरोमणौ ।
“दलीकृतं चक्रमुशन्ति चापं
कोदण्डखण्डं खलु तूर्य्यगोलम् ॥”
नवमराशिः । यथा, बृहत्संहितायाम् । ४२ । १० ।
“चापगते गृह्णीयात् कुङ्कुमशङ्खप्रवालकाचानि ॥”)

चापपटः, पुं, (चापो धनुस्तद्वत् वक्रीभूताकृतिः

पटः पत्रं यस्य ।) पियालवृक्षः । इति जटाधरः ॥

चापलं, क्ली, (चपलस्य भावः कर्म्म वा युवादित्वा-

दण् ।) अनवस्थितिः । इति हेमचन्द्रः । २ ।
२२९ ॥ तस्य लक्षणं यथा, साहित्यदर्पणे ।
“मात्सर्य्यद्वेषरागादेश्चापलन्त्वनवस्थितिः ॥”
(यथा, रघुः । १ । ९ ।
“तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥”)

चापल्यं, क्ली, (चपलस्य भावः कर्म्म वा । ब्राह्मणा-

दित्वात् ष्यञ् ।) चपलता । चाञ्चल्यम् । यथा,
“परदारं परद्रव्यं परीवादं परस्य च ।
परीहासं गुरोः स्थाने चापल्यञ्च विवर्ज्जयेत् ॥”
इति चाणक्ये । ३० ॥

चामरं, क्ली पुं, (चमरी मृगविशेषस्तस्या इदम् ।

चमरी + अण् ।) चमरीपुच्छलोमनिर्म्मित-
व्यजनम् । चौरी । इति भाषा ॥ तत्पर्य्यायः ।
प्रकीर्णकम् २ । इत्यमरः । २ । ८ । ३१ ॥
चमरम् ३ चामरा ४ चामरी ५ । इति भरतः ॥
वालव्यजनम् ६ रोमगुच्छकम् ७ । इति रभसः ॥
(यथा, पञ्चतन्त्रे । ३ । २६६ ।
“गुणेषु रागो व्यसनेष्वनादरो
रतिः सुभृत्येषु च यस्य भूपतेः ।
चिरं स भुङ्क्ते चलचामरांशुकां
सितातपत्राभरणां नृपश्रियम् ॥”)
अस्य वायुगुणः । ओजःकारित्वम् । मक्षि-
कादिव्यपोहनत्वञ्च । इति राजवल्लभः ॥ * ॥
अथ चामरोद्देशः ।
“हस्तद्वयोन्नतः शुक्लः सुवर्णबलिभूषितः ।
हीरेणालङ्कृतो राज्ञां भव्यमानसुखप्रदः ॥
बलेश्चामरदैर्घाद्वा आयामत्वं प्रकाशितम् ।
भव्यो भद्रो जयः शीलः सुखः सिद्धिश्चलः स्थिरः ॥
वितस्त्येकैकसंवृद्ध्या दिनेशादिदिशां भुवाम् ।
सौवर्णं राजतं युग्मं त्रैदेशानां महीभुजाम् ॥
योजयेदिति निश्चित्य बलिकल्पनकर्म्मणि ।
स्थलजं जाङ्गलो राजा अनूपो जलजं वहेत् ॥
हीरञ्च पद्मरागश्च वैदूर्य्यं नील एव च ।
मणिर्बलिषु योक्तव्यो ब्रह्मादीनां यथाक्रमम् ॥ * ॥
पृष्ठ २/४४३
शुक्लो रक्तोऽथ पीतश्च नानावर्णो यथाक्रमम् ।
चामरो राजकेशस्य न सामान्यस्य भूपतेः ॥
न भव्यमानतो न्यूनं चामरं गुणमावहेत् ॥”
अथ चामरपरीक्षा ।
स्थलजं जलजञ्चेति चामरं द्बिविधं विदुः ।
मेरौ हिमालये बिन्ध्ये कैलासे मलये तथा ॥
उदयेऽस्तगिरौ चैव गन्धमादनपर्व्वते ।
एवमेतेषु शैलेषु याश्चमर्य्यो भवन्ति हि ॥
तासां वालस्य जायेत चामरेत्यभिधा भुवि ॥
आपीताः कनकाद्रिजा हिमगिरेः शुभ्रायता
बिन्ध्यजाः
कैलासादसिताः सिता मलयजाः शुक्लास्तथा
पिङ्गलाः ।
आरक्ता उदयोद्भवाश्चमरजा आनीलशुक्लत्विषः
कृष्णाः केचन गन्धमादनभवाः पाण्डुत्विष-
श्चामराः ॥
अन्येषु प्रायशः कृष्णाश्चामराः सम्भवन्ति हि ।
ब्रह्मक्षत्त्रियविट्शूद्रजातयस्ताश्चतुर्व्विधाः ॥
चमर्य्यः पर्व्वतोद्भूता यथापूर्ब्बं गुणावहाः ।
दीर्घवालाः सुलघवः स्निग्धाङ्गाश्चापि कोमलाः ।
विरलास्तनुपर्व्वाणश्चमर्य्यो ब्रह्मजातयः ।
विना संस्कारमप्यासां चामरं विमलं भवेत् ॥
दीर्घवालाः सुगुरवः कर्करांशा भृशं घनाः ।
विज्ञेयाः स्थूलपर्व्वाणश्चमर्य्यो वैश्यजातयः ॥
संस्कारे चाप्यसंस्कारे न स्वभावं त्यजेदिदम् ।
खर्व्ववालाः सुलघवः कोमलाङ्गा भृशं घनाः ॥
चमर्य्यस्तनुपर्व्वाणो विज्ञेयाः शूद्रजातयः ।
संस्कारेणापि मलिनमासां चामरमिष्यते ॥ * ॥
दीर्घता लघुता चैव स्वच्छता घनता तथा ।
गुणाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः ॥
खर्व्वता गुरुता चैव वैवर्ण्यं मलिनाङ्गता ।
दोषाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः ॥
दीर्घे दीर्घायुराप्नोति लघौ भीतिविनाशनम् ।
स्वच्छे स्याद्धनकीर्त्तिश्च घने स्युः स्थिरसम्पदः ॥
खर्व्वे खर्व्वायुरुद्दिष्टं गुरुर्गुरुभयप्रदः ।
वैवर्ण्ये रोगशोकौ च मलिनं मृत्युमादिशेत् ॥”
इति स्थलजम् ॥ * ॥
अथ जलजम् ।
“लवणेक्षुसुरासर्पिर्दधितोयपयोऽब्धिषु ।
यथोत्तरं गुणवहाश्चमर्य्यः सप्त सप्तसु ॥
पुच्छानि तासां कृत्तानि जन्तुभिर्म्मकरादिभिः ।
कदाचिदुपलभ्येत तत्तीरे पुण्यशालिभिः ॥
लवणाब्धिसमुद्भूतं पीतं गुरु तथा लघु ।
वह्नौ क्षिप्तश्च वालश्चेत् किञ्चिच्चटचटायते ॥
इक्षुसिन्धूद्भवं ताम्रं चामरं विमलं लघु ।
मक्षिका मशकाश्चैव तस्मिन् व्यजति चामरे ॥
सुराब्धिजातं कलुषं कर्वुरं गुरुकर्क्कशम् ।
तद्गन्धेनैव माद्यन्ति अपि वृक्षा मतङ्गजाः ॥
सर्पिःसिन्धुभवं स्निग्धं श्वेतापीतं घनं लघु ।
वायुरोगाः प्रशाम्यन्ति तस्य वीजनवायुना ॥
जलसिन्धूद्भवं पाण्डु दीर्घं लघु घनं महत् ।
अस्य वातेन नश्येत्तु तृष्णा मूर्च्छा मदो भ्रमः ॥
नारिष्टं नेतयस्तस्य यस्येदं चामरं गृहे ।
क्षीरोदसम्भवं श्वेतं दीर्घं लघु घनं महत् ॥
अस्य चामरराजस्य विज्ञेयो गुणविस्तरः ।
नाल्पेन तपसा लभ्यो देवानामपि जायते ॥
ह्रियतेऽभ्यन्तरे सिन्धोर्नागैः सम्पत्तिलोलुपैः ।
एषां पूर्ब्बवदुन्नेयं जातिदोषगुणादिकम् ॥ * ॥
स्थलजे जलजे चैव भाव्यमेतद्विशेषणम् ।
स्थलजं सुखदह्यं हि दाहे मिषमिषायते ॥
जलजं वह्निदुर्दह्यं महान्तं धूममुद्गिरेत् ।
चामराणां समुद्दिष्टमित्येवं लक्षणद्वयम् ॥
एवं विमृष्य यो धत्ते स राजा सुखमश्नुते ॥ * ॥
जलजं चामरं राजा यो धत्ते जाङ्गलेश्वरः ।
तस्याचिरात् कुलं वीर्य्यं लक्ष्मीरायुश्च नश्यति ॥
अनूपाधीश्वरो राजा यो वहेत् स्थलजं तथा ।
तस्यैतानि विनश्यन्ति लक्ष्मीरायुर्यशो बलम् ॥
नालं वर्णद्वये तेर्षा विधेयं शिल्पिना क्रमात् ।
संस्कारो वालुकायन्त्रे मसूरसलिलादिभिः ।
तदुष्णसलिलक्वाथात् कृत्रिमत्वं विपद्यते ॥”
इत्युपकरणयुक्तौ चामरोद्देशः । इति भोज-
राजकृतयुक्तिकल्पतरुः ॥

चामरपुष्पः, पुं, (चामरवत् पुष्पमस्य ।) गुवाकः ।

काशः । आम्रः । केतकः । इति मेदिनी । पे ३१ ॥

चामरपुष्पकः, पुं, (चामरपुष्प + स्वार्थे कन् ।

चामरमिव पुष्पमस्य इति कप् वा ।) काशः ।
इति जटाधरः ॥ चामरपुष्पार्थोऽप्यत्र ॥

चामरा, स्त्री, (चामर + अजादित्वात् टाप् ।)

चामरम् । इत्यमरटीकायां भरतः ॥

चामरी, स्त्री, (चामर + संज्ञायां ङीष् ।)

चामरम् । इत्यमरटीकायां भरतः ॥

चामरी, [न्] पुं स्त्री, (चामर इव केशरोऽस्त्यस्य ।

इति इनिः ।) घोटकः । इति त्रिकाण्डशेषः ॥

चामीकरं, क्ली, (चमीकरः रत्नाकरविशेषः तत्र

भवमित्यण् ।) स्वर्णम् । (यथा, शिवपुराणे
वायुसंहितायाम् । २ । १३ ।
“ददृशुर्मुनयो देवा देवर्षिगणसेवितम् ।
शुद्धचामीकरप्रख्यं सर्व्वाभरणभूषितम् ॥”)
धुस्तूरः । इत्यमरः । २ । ९ । ९५ ॥

चामुण्डा, स्त्री, (महासंग्रामे चण्डमुण्डाख्यौ द्बौ

शुम्भनिशुम्भसेनाध्यक्षौ अनया शक्त्या निहतौ
अतः परितुष्टया भगवत्या कौशिक्या अस्या-
श्चामुण्डेति संज्ञा रक्षिता । एतत् सर्व्वन्तु वक्ष्य-
माणासु प्रवृत्तिषु दर्शनीयम् ।) दुर्गा । इति
जटाधरः ॥ मातृकाभेदः । इति शब्दरत्ना-
वली ॥ तत्पर्य्यायः । चर्व्विका २ चर्म्ममुण्डा ३
मार्ज्जारकर्णिका ४ कर्णमोटी ५ महागन्धा ६
भैरवी ७ कापालिनी ८ । इति हेमचन्द्रः ॥
अस्या ध्यानं यथा, --
“काली करालवदना विनिष्क्रान्तासिपाशिनी ।
विचित्रखट्वाङ्गधरा नरमालाविभूषणा ॥
द्वीपिचर्म्मपरीधाना शुष्कमांसातिभैरवा ।
अतिविस्तारवदना जिह्वाललनभीषणा ॥
निमग्नारक्तनयना नादापूरितदिङ्मुखा ॥”
अस्याश्चामुण्डेति नामकारणं यथा, --
“यस्माच्चण्डञ्च मुण्डञ्च गृहीत्वा त्वमुपागता ।
चामुण्डेति ततो लोके ख्याता देवि । भविष्यसि ॥”
इति चण्डी ॥
अस्यास्तन्त्रादिकं यथा, --
“देव्या ललाटनिष्क्रान्ताया कालीति च विश्रुता ।
तस्यास्तन्त्रं प्रवक्ष्यामि कामदं शृणु भैरव ! ॥
समाप्तिसहितो दन्त्यः प्रान्तस्तस्मात् पुरःसरः ।
षष्ठस्वराग्निबिन्द्विन्दुसहितो मादिरेव च ॥
कालीतन्त्रमिति प्रोक्तं धर्म्मकामार्थदायकम् ।
एतन्मूर्त्तिं प्रवक्ष्यामि वत्सकाग्रमनाः शृणु ॥
नीलोत्पलदलश्यामा चतुर्ब्बाहुसमन्विता ।
खट्वाङ्गं चन्द्रहासञ्च बिभ्रती दक्षिणे करे ॥
वामे चर्म्म कपालञ्च ऊर्द्धाधोभावतः पुनः ।
दधती मुण्डमालाञ्च व्याघ्रचर्म्मधराम्बरा ॥
कृशाङ्गी दीर्घदंष्ट्रा च अतिदीर्घातिभीषणा ।
लोलजिह्वा निम्नरक्तनयना नादभैरवा ॥
कबन्धवाहना पीनविस्तारश्रवणानना ।
एषा ताराह्वया देवी चामुण्डेति च कथ्यते ॥
एतस्या योगिनी चाष्टौ पूजयेच्चिन्तयेदपि ।
त्रिपुरा भीषणा चण्डी कर्त्री हन्त्री विधातृका ॥
कराला शूलिनी चेति अष्टौ ताः परिकीर्त्तिताः ।
एषातिकामदा देवी जाड्यहानिकरी सदा ॥
एतस्याःसदृशी काचित् कामदा न हि विद्यते ॥”
इति कालिकापुराणे ६० अध्यायः ॥

चाम्पिला, स्त्री, (चपि + भावे घञ् । ततष्टाप् । चम्पै-

वेति चाम्पा । ततोऽस्त्यर्थे इलच् टाप् च ।)
नदी । इति त्रिकाण्डशेषः ॥

चाम्पेयः, पुं, (चम्पायां नद्यां भव इति ढक् ।)

चम्पकः । इत्यमरः । २ । ४ । ६३ ॥ (यथास्य पर्य्यायाः ।
“चाम्पेयश्चम्पकः प्रोक्तो हेमपुष्पश्च स स्मृतः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
नागकेशरः । (यथा, --
“नागपुष्पः स्मृतो नागः केशरो नागकेशरः ।
चाम्पेयो नागकिञ्जल्कः कथितः काञ्चनाह्वयः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
राजविशेषः । यथा, राजतरङ्गिण्याम् । ८ । ५४० ।
“चाम्पेयो जासटोवज्रधरो वल्लापुराधिपः ॥”
विश्वामित्रपुत्त्राणामन्यतमः । यथा, महाभारते ।
१३ । ४ । ५७ ।
“आराणिर्नाचिकश्चैव चाम्पेयोज्जयनौ तथा ॥”
क्ली, सुवर्णे । यथा काशीखण्डे । २४ । ३९ ।
“मणिमाणिक्य-चाम्पेयदुकूलेभाश्वगोधनम् ॥”)

चाम्पेयकं, क्ली, (चाम्पेय इव कायतीति । कै + कः ।

स्वार्थे कन् वा ।) किञ्जल्कः । इति राजनिर्घण्टः ॥

चाम्यं, क्ली, (चम्यते भक्ष्यते इति । चम + कर्म्मणि

ण्यत् ।) भक्ष्यम् । इति व्याकरणम् ॥

चाय, ऋ ञ निशामे । अर्च्चे । इति कविकल्पद्रुमः ॥

(भ्वां-उभं-सकं-सेट् ।) ऋ, अचचायत् । ञ,
चायति चायते । निशाम इति चाक्षुषज्ञानम् ।
तं पर्व्वतीयाः प्रमदाश्चचायिरे । इति माघः ।
इति दुर्गादासः ॥