योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ००४

विकिस्रोतः तः
Jump to navigation Jump to search


चतुर्थः सर्गः ४
श्रीवसिष्ठ उवाच ।
साहंतादिजगच्छान्तौ बोधे संवित्कलात्मनि ।
संशान्तदीपसंकाशस्त्यागः सिद्ध्यति नान्यथा ।। १
न त्यागः कर्मसंत्यागो बोधस्त्याग इति स्मृतः ।
अजगत्प्रतिभैकात्मा योऽनहंतादिरव्ययः ।। २
अयं सोहमिदं तन्म इति निःस्नेहदीपवत् ।
शान्ते परमनिर्वाणे प्रबोधात्मेति शिष्यते ।। ३
अयं सोहमिदं तन्मे शान्तमित्येव यस्य नो ।
न ज्ञानं तस्य नो शान्तिर्न त्यागो न च निर्वृतिः ।। ४
ममेदमयमेवाहमित्येतावति यः क्षयः ।
बोधात्मा शिवमाशान्तं तस्मादन्यन्न विद्यते ।। ५
अहमंशे विदा क्षीणे सर्वमेव क्षयं गतम् ।
न किंचिच्च क्वचित्क्षीणं निर्वाणैकघनं स्थितम् ।। ६
अहविदनहंवित्त्वादेव शाम्यत्यविघ्नतः ।
एतावन्मात्रसाध्येयं किमिवेयं कदर्थना ।। ७
अहंनाहमिति भ्रान्तिर्न च चित्त्वादृतेऽस्ति सा ।
चित्त्वं चाकाशविशदमतः क्वैषा भ्रमस्थितिः ।। ८
न भ्रमो भ्रमणं नैव न भ्रान्तिर्भ्रामकोऽस्ति वा ।
अनालोकनमेवेदमालोकान्नेदमस्ति ते ।। ९
विद्धि चिन्मात्रमेवेदमसद्रूपोपमं ततम् ।
तेनालं मौनमास्स्वैवं सर्वं निर्वाणमात्रकम् ।। १०
येनैवाशु निमेषेण त्वहमित्येव चेतति ।
तेनैव नाहमित्येव चेतित्वाशु न शोच्यते ।। ११
अहंभावं नभोर्थेन निर्वाच्यारूढबाणवत् ।
अजस्रमाशु वाऽक्षीणं तिष्ठावष्टब्धतत्पदः ।। १२
सनभोर्थामहन्तां त्वं चेतन्नेवमनारतम् ।
सर्वभावैरनारूढो भव तीर्णभवार्णवः ।। १३
स्वभावमात्रविजये स्वयं यस्य न वीरता ।
तस्योत्तमपदप्राप्तौ पशोर्ब्रूहि कथैव का ।। १४
षड्वर्गो निर्जितः पूर्वं येनोत्तमविदा स्वतः ।
भाजनं स महार्थानां नेतरो नरगर्दभः ।। १५
यस्य स्वान्तर्मनोवृत्तिर्जीयमाना जिताथवा ।
विषयः स विवेकानां स पुमानिति कथ्यते ।। १६

अर्थो दृषदिवाम्भोधौ यो य आपतति त्वयि ।
तस्मादेव पलायस्व नाहमित्येव भावयन् ।। १७
नाहमस्मीति बुद्ध्वापि सोपपत्तिकमप्यलम् ।
जानानो ज्ञप्तिमात्रं च किमज्ञ इव मुह्यसि ।। १८
न ज्ञेयमर्थतोऽस्तीह हेम्नीव कटकादिता ।
भ्रान्तिमात्रादृते सा च शाम्यत्यस्मरणेन ते ।। १९
यो यो भाव उदेत्यन्तस्त्वयि स्पन्द इवानिले ।
नाहमस्मीति चिद्वृत्त्या तमनाधारतां नय ।। २०
लोभो लज्जा मदो मोहो येनादाविति नो जिताः ।
निरर्थकमनर्थेऽस्मिन्स किमर्थं प्रवर्तते ।। २१
अहन्त्वं पवने स्पन्द इव यत्त्वयि संस्थितम् ।
परमात्मनि तन्नान्यदेतत्स्पन्द इवानिले ।। २२
असर्गसंविदा सर्गः परेऽस्तोऽतिविराजते ।
संनिवेशविशेषेण दुरर्थोऽपि हि शोभते ।। २३
परमात्मा तु नोदेति नास्तं याति कदाचन ।
न चास्मादन्यदस्तीति को भावोऽभाव एव वा ।। २४
परं परे पूर्णं पूर्णे शान्तं शान्ते शिवं शिवे ।
इत्येवमात्रं विततं नाहं न च जगन्न धीः ।। २५
अनिर्वाणे विनिर्वाणं शान्तं शान्ते शिवे शिवम् ।
निर्वाणमप्यनिर्वाणं सनभोर्थं न वापि तत् ।। २६
शस्त्राघाताः प्रसह्यन्ते सह्यन्ते व्याधिवेदनाः ।
नाहमित्येवमात्रस्य सहने का कदर्थना ।। २७
जगत्पदार्थसार्थानामहमित्यक्षयोऽङ्कुरः ।
तस्मिन्निर्मूलतां याते जगन्निर्मूलतां गतम् ।। २८
बाष्पेणेवाहमर्थेन निःसारेणापि सारवत् ।
व्यामलः परमादर्शस्तच्छान्तौ संप्रसीदति ।। २९
अहमर्थः परे वायौ स्पन्दस्तत्प्रशमे तु तत् ।
अनिर्देश्यमनाभासमनन्तमजमव्ययम् ।। ३०
अहमर्थः पुरो द्रव्यप्रतिबिम्बप्रदश्चिति ।
तच्छान्तौ सा निराभासमनन्तमजमव्ययम् ।। ३१
अहमर्थाम्बुदे क्षीणे परमार्थशरन्नभः ।
परयानन्तया लक्ष्म्या स्वच्छयाच्छं विराजते ।। ३२
अहमर्थमलोन्मुक्तमव्यक्तं ताम्रमङ्ग चेत् ।
तत्परं परमाभासं संपन्नं हेम कान्तिमत् ।। ३३
यथा निरभिधार्थश्रीर्भजत्यव्यपदेश्यताम् ।
तथानहन्ताहन्तेयं ब्रह्मत्वमधिगच्छति ।। ३४
अस्त्यहन्त्वे स्थितं ब्रह्म सनामेव पदार्थवत् ।
शान्तवत्सदिवाभासं तद्वत्स व्यपदेशवान् ।। ३५ ।
अहमर्थो जगद्बीजं यदि दग्धमभावनात् ।
तदहन्त्वं जगद्बन्ध इत्यादेः कलनैव का ।। ३६
सद्ब्रह्म शिवमात्मेति परे नामकलङ्किता ।
उदेत्यहन्ता कुम्भत्वादिव मृद्धातुविस्मृतिः ।। ३७
अहमर्थादियं बीजात्सत्ता बिम्बलतोत्थिता ।
यस्यां जगन्त्यनन्तानि फलान्यायान्ति यान्तिच ।। ३८
साद्र्यब्ध्युर्वीनदी सेयं रूपालोकैषणादिका ।
अहमर्थस्य मरिचबीजस्यान्तश्चमत्कृतिः ।। ३९
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
इत्यामोदोऽहमर्थोग्रकुसुमस्य विकासिनः ।। ४०
अहमर्थः प्रविसृतः प्रकटीकुरुते जगत् ।
सद्रूपालोकमननं प्रवृत्त इव वासरः ।। ४१
प्रवृत्तेन दिनेनार्थः प्रकटीक्रियते यथा ।
असज्जगदहन्त्वेन क्षणान्निर्मीयते तथा ।। ४२
अहमित्यर्थदुस्तैललवो ब्रह्मणि वारिणि ।
प्रसृतो यत्तदाश्वेतत्त्रिजगच्चक्रकं स्थितम् ।। ४३
उन्मेषमात्रेणाहन्ता जगन्त्यनुभवत्यहो ।
न निमेषेण दृगिव सत्यानीत्यप्यसन्त्यलम् ।। ४४
अहमर्थे प्रविसृते संसारो ह्यनुभूयते ।
नान्तर्भूय परिक्षीणे लोचनस्येव तारके ।। ४५
अहमंशे निरंशत्वं नीते शाश्वतसंविदा ।
शाम्यतीयमशेषेण संसारमृगतृष्णिका ।। ४६
स्वसंविद्भावनामात्रसाध्येऽस्मिन्वरवस्तुनि ।
सिद्धमात्रात्मनि स्वैरं मा खेदं गच्छमा भ्रमीम् ।। ४७
स्वयत्नमात्रसंसाध्यादसहायादिसाधनात् ।
अनहंवेदनान्नान्यच्छ्रेयः पश्यामि तेऽनघ ।। ४८
विस्मृत्याहं त्वमास्स्व प्रविसृतविभवः
पूरिताशेषविश्वो
विष्वक्शैलान्तरिक्षक्षितिजलधिमरु-
न्मार्गरूपोऽमलात्मा ।
स्वस्थः शान्तो विशोकः करणमलकला-
वर्जितो निष्प्रपञ्चो
निःसंचारश्चरात्मा सकलमसकलं
चेति सिद्धान्तसारः ।। ४९
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे अहंतानिरासो नाम चतुर्थः सर्गः ।। ४ ।।