ऋग्वेदः सूक्तं ३.५६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ३.५५ ऋग्वेदः - मण्डल ३
सूक्तं ३.५६
प्रजापतिर्वैश्वामित्रः, प्रजापतिर्वाच्यो वा।
सूक्तं ३.५७ →
दे. विश्वे देवाः। त्रिष्टुप्।


न ता मिनन्ति मायिनो न धीरा व्रता देवानां प्रथमा ध्रुवाणि ।
न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः ॥१॥
षड्भाराँ एको अचरन्बिभर्त्यृतं वर्षिष्ठमुप गाव आगुः ।
तिस्रो महीरुपरास्तस्थुरत्या गुहा द्वे निहिते दर्श्येका ॥२॥
त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् ।
त्र्यनीकः पत्यते माहिनावान्स रेतोधा वृषभः शश्वतीनाम् ॥३॥
अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम ।
आपश्चिदस्मा अरमन्त देवीः पृथग्व्रजन्तीः परि षीमवृञ्जन् ॥४॥
त्री षधस्था सिन्धवस्त्रिः कवीनामुत त्रिमाता विदथेषु सम्राट् ।
ऋतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः ॥५॥
त्रिरा दिवः सवितर्वार्याणि दिवेदिव आ सुव त्रिर्नो अह्नः ।
त्रिधातु राय आ सुवा वसूनि भग त्रातर्धिषणे सातये धाः ॥६॥
त्रिरा दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी ।
आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त सवितुः सवाय ॥७॥
त्रिरुत्तमा दूणशा रोचनानि त्रयो राजन्त्यसुरस्य वीराः ।
ऋतावान इषिरा दूळभासस्त्रिरा दिवो विदथे सन्तु देवाः ॥८॥

सायणभाष्यम्

॥ श्रीगणेशाय नमः ।।


यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

'न ता मिनन्ति' इत्यष्टर्चं तृतीयं सूक्तं विश्वामित्रस्य वाचः पुत्रस्य वा प्रजापतेरार्षं त्रैष्टुभं वैश्वदेवम् । तथा चानुक्रमणिका- न ताष्टौ ' इति । सूक्तविनियोगो लिङ्गादवगन्तव्यः । अस्मिन् सूक्ते प्रायेणादित्यैः सह संवत्सरः स्तूयते ॥


न ता मि॑नन्ति मा॒यिनो॒ न धीरा॑ व्र॒ता दे॒वानां॑ प्रथ॒मा ध्रु॒वाणि॑ ।

न रोद॑सी अ॒द्रुहा॑ वे॒द्याभि॒र्न पर्व॑ता नि॒नमे॑ तस्थि॒वांस॑ः ॥१

न । ता । मि॒न॒न्ति॒ । मा॒यिनः॑ । न । धीराः॑ । व्र॒ता । दे॒वाना॑म् । प्र॒थ॒मा । ध्रु॒वाणि॑ ।

न । रोद॑सी॒ इति॑ । अ॒द्रुहा॑ । वे॒द्याभिः॑ । न । पर्व॑ताः । नि॒ऽनमे॑ । त॒स्थि॒ऽवांसः॑ ॥१

न । ता । मिनन्ति । मायिनः । न । धीराः । व्रता । देवानाम् । प्रथमा । ध्रुवाणि ।

न । रोदसी इति । अद्रुहा । वेद्याभिः । न । पर्वताः । निऽनमे । तस्थिऽवांसः ॥१

“मायिनः कपटबुद्ध्युपेता असुराः “देवानाम् इन्द्रादीनां “प्रथमा प्रथमानि सृष्ट्यनन्तरभावीनि “ध्रुवाणि स्थिराणि केनापि चालयितुमशक्यानि "ता तानि लोके प्रसिद्धानि “व्रता व्रतानि लोकपालनादिकर्माणि “न “मिनन्ति न हिंसन्ति । तथा “धीराः विद्वांसोऽपि “न हिंसन्ति । तथा “अद्रुहा देवमनुष्यादिषु प्रजासु द्रोहवर्जिते “रोदसी द्यावापृथिव्यौ “वेद्याभिः स्वाश्रयतया सर्वैर्वेदनीयाभिः प्रजाभिः सहिते तानि कर्माणि “न मिनीतः । तदेतदुपपादयति । “तस्थिवांसः पृथिव्यामूर्ध्वतया स्थिताः “पर्वताः “न “निनमे निनमनीयाः न भवन्ति । एतदुक्तं भवति । यद्देवमनुष्यादीनां द्यावापृथिव्याधारकतया अवस्थापनं यच्च पर्वतादीनामुन्नततयावस्थापनं तदिदं देवानां कर्म । तन्न कोऽप्यन्यथयितुमर्हति इति ॥ मिनन्ति । ' मीङ् हिंसायाम्' इत्यस्य लटि ' मीनातेर्निगमे ' इति ह्रस्वः । निघातः । वेद्याभिः । वेदनमर्हन्ति । ‘छन्दसि च' इति यत्प्रत्ययः । निनमे । ' णमु प्रह्वत्वे' इत्यस्य कृत्यार्थे केन्प्रत्ययः । कृत्स्वरः ॥


षड्भा॒राँ एको॒ अच॑रन्बिभर्त्यृ॒तं वर्षि॑ष्ठ॒मुप॒ गाव॒ आगु॑ः ।

ति॒स्रो म॒हीरुप॑रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि॑ते॒ दर्श्येका॑ ॥२

षट् । भा॒रान् । एकः॑ । अच॑रन् । बि॒भ॒र्ति॒ । ऋ॒तम् । वर्षि॑ष्ठम् । उप॑ । गावः॑ । आ । अ॒गुः॒ ।

ति॒स्रः । म॒हीः । उप॑राः । त॒स्थुः॒ । अत्याः॑ । गुहा॑ । द्वे इति॑ । निहि॑ते॒ इति॒ निऽहि॑ते । दर्शि॑ । एका॑ ॥२

षट् । भारान् । एकः । अचरन् । बिभर्ति । ऋतम् । वर्षिष्ठम् । उप । गावः । आ । अगुः ।

तिस्रः । महीः । उपराः । तस्थुः । अत्याः । गुहा । द्वे इति । निहिते इति निऽहिते । दर्शि । एका ॥२

“अचरन् स्थायी “एकः संवत्सरः “षट् षट्संख्याकान् "भारान् ।भ्रियते पुष्पविकासादि येष्विति भारा ऋतवः । तान् वसन्तादीन् “बिभर्ति अवयवत्वेन धारयति । तथा “ऋतं सत्यभूतं “वर्षिष्ठं वृद्धतरमादित्यात्मकं तमेव संवत्सरं “गावः रश्मयः “उप “आगुः प्राप्नुवन्ति । किंच तस्मिन्नेव संवत्सरे “अत्याः अतनशीला आगमापायिधर्मोपेताः “तिस्रो “महीः त्रयो लोकाः “उपराः उपर्युपरि वर्तमानाः “तस्थुः तिष्ठन्ति । लोकत्रयमेव दर्शयति । "गुहा गुहायां स्वात्मनि “द्वे द्यौश्चान्तरिक्षं चेत्येते “निहिते न दृश्येते । “एका भूमिः “दर्शि सर्वभूताधारतया दृश्यते ॥ भारान् । डुभृञ् धारणपोषणयोः' इत्यस्मादधिकरणे घञ् ।' कर्षात्वतो घञः ' इत्यन्तोदात्तत्वम् । निहिते । दधातेः कर्मणि निष्ठा ।' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । दर्शि । 'दृशिर् प्रेक्षणे' । कर्मणि लुङि चिणि ' चिणो लुक्' इति प्रत्ययस्य लुक् । वाक्यभेदादनिघातः ॥


त्रि॒पा॒ज॒स्यो वृ॑ष॒भो वि॒श्वरू॑प उ॒त त्र्यु॒धा पु॑रु॒ध प्र॒जावा॑न् ।

त्र्य॒नी॒कः प॑त्यते॒ माहि॑नावा॒न्स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनाम् ॥३

त्रि॒ऽपा॒ज॒स्यः । वृ॒ष॒भः । वि॒श्वऽरू॑पः । उ॒त । त्रि॒ऽउ॒धा । पु॒रु॒ध । प्र॒जाऽवा॑न् ।

त्रि॒ऽअ॒नी॒कः । प॒त्य॒ते॒ । माहि॑नऽवान् । सः । रे॒तः॒ऽधाः । वृ॒ष॒भः । शश्व॑तीनाम् ॥३

त्रिऽपाजस्यः । वृषभः । विश्वऽरूपः । उत । त्रिऽउधा । पुरुध । प्रजाऽवान् ।

त्रिऽअनीकः । पत्यते । माहिनऽवान् । सः । रेतःऽधाः । वृषभः । शश्वतीनाम् ॥३

“त्रिपाजस्यः ग्रीष्मवर्षांहेमन्ताख्यैस्त्रिभिर्ऋतुभिः पाजस्यमुरो यस्य स त्रिपाजस्यः । त्र्युरस्क इत्यर्थः । उरोवचनश्च पाजस्यशब्दः । ‘इन्द्रस्य क्रोडोऽदित्यै पाजस्यम्' ( वा. सं. २५. ८) इति अश्वमेधमन्त्रे उरःपरतयाम्नानात् , पाजसि बले साधुरिति व्युत्पत्तेश्च सर्वेषामङ्गानां मध्ये उरसो बलवत्त्वात् । “वृषभः स्वावयवभूते वर्षर्तौ अपां वर्षकः “विश्वरूपः तत्तदृत्वसाधारणकार्यैः पुष्पविकासादिभिर्लिङ्गैर्नानारूपः “उत अपि च “त्र्युधा । वसंतशरद्धेमन्ताख्यैस्त्रिभिर्ऋतुभिरूधो यस्य स त्र्युधा । “प्रजावान् । प्रकर्षेण जायन्त इति व्रीह्यादयः प्रजाः । “पुरुध नानाप्रकारेण विद्यमानव्रीहियवादिरूपप्रजावान्। किंच “त्र्यनीकः त्रिभिरुष्णवर्षशीताख्यैः अनीकैः गुणैरुपेतः “माहिनावान् महत्त्ववान् संवत्सराभिमानी देवः “पत्यते आगच्छति। “वृषभः सेचनसमर्थः “सः संवत्सरः “शश्वतीनां बह्वीनाम् ओषधीनां पुष्पफलादिसंपत्तये "रेतोधाः रेतस उदकस्य धर्ता भवति ॥ त्र्युधा । बहुव्रीहौ ‘ ऊधसोऽनङ्' इति अनङ् सर्वविधीनां छन्दसि विकल्पितत्वात् पुंस्यपि भवति । ऊकारस्य ह्रस्वश्छान्दसः । ‘उत्तरपदान्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दस्युपसंख्यानम् ' इत्युत्तरपदान्तोदात्तत्वम् ॥


अ॒भीक॑ आसां पद॒वीर॑बोध्यादि॒त्याना॑मह्वे॒ चारु॒ नाम॑ ।

आप॑श्चिदस्मा अरमन्त दे॒वीः पृथ॒ग्व्रज॑न्ती॒ः परि॑ षीमवृञ्जन् ॥४

अ॒भीके॑ । आ॒सा॒म् । प॒द॒ऽवीः । अ॒बो॒धि॒ । आ॒दि॒त्याना॑म् । अ॒ह्वे॒ । चारु॑ । नाम॑ ।

आपः॑ । चि॒त् । अ॒स्मै॒ । अ॒र॒म॒न्त॒ । दे॒वीः । पृथ॑क् । व्रज॑न्तीः । परि॑ । सी॒म् । अ॒वृ॒ञ्ज॒न् ॥४

अभीके । आसाम् । पदऽवीः । अबोधि । आदित्यानाम् । अह्वे । चारु । नाम ।

आपः । चित् । अस्मै । अरमन्त । देवीः । पृथक् । व्रजन्तीः । परि । सीम् । अवृञ्जन् ॥४

संवत्सरः “आसाम् ओषधीनाम् “अभीके समीपे “पदवीः । पदानि तत्तद्वनविशिष्टपुष्पफलादीनि वेति प्रजनयतीति पदवीः सन् "अबोधि बुध्यते सावधानो वर्तते । तथा “आदित्यानाम् । आदित्या मासाः संख्यासाम्यात् । यद्वा । आदित्यसंक्रमणनिमित्तत्वादादित्या मासाः । ‘ मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रः । चैत्राद्यः स ज्ञेयः' इति स्मृतेः । तेषां चैत्रादीनां मासानां “चारु “नाम मधुश्च माधवश्चेत्यादि नामधेयम् अह्वे आह्वयामि । उच्चारयामीत्यर्थः । किंच “देवीः द्योतनशीलाः “पृथक् इतस्ततः “व्रजन्तीः गच्छन्त्यः “आपश्चित् आपोऽपि “अरमै संवत्सराय “अरमन्त संवत्सरसंबन्धिमासचतुष्टये वृष्टिद्वारा रमन्ते । ताः आपः “सीम् एनं संवत्सरं “परि “अवृञ्जन् अष्टसु मासेषु परिवर्जयन्ति ॥ पदवीः । वी गत्यादिषु । क्विप् । अबोधि । बुध अवगमने' इत्यस्य लुङि • दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्' इति कर्तरि चिण् । ‘ चिणो लुक्'। निघातः । आदित्यानाम् । आदित्यसंबन्धिन इत्यर्थे • दित्यादित्यादित्यपत्युत्तरपदाण्ण्यः' इति ण्यः । अतोलोपयलोपौ । प्रत्ययस्वरः । अह्वे । ह्वयतेर्लुङि सिचः ‘आत्मनेपदेष्वन्यतरस्याम्' इति अङादेशः । गुणः । निघातः । अवृञ्जन् । वृजी वर्जने' इत्यस्य लङि श्नमि रूपम् । निघातः ॥


त्री ष॒धस्था॑ सिन्धव॒स्त्रिः क॑वी॒नामु॒त त्रि॑मा॒ता वि॒दथे॑षु स॒म्राट् ।

ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः ॥५

त्री । स॒धऽस्था॑ । सि॒न्ध॒वः॒ । त्रिः । क॒वी॒नाम् । उ॒त । त्रि॒ऽमा॒ता । वि॒दथे॑षु । स॒म्ऽराट् ।

ऋ॒तऽव॑रीः । योष॑णाः । ति॒स्रः । अप्याः॑ । त्रिः । आ । दि॒वः । वि॒दथे॑ । पत्य॑मानाः ॥५

त्री । सधऽस्था । सिन्धवः । त्रिः । कवीनाम् । उत । त्रिऽमाता । विदथेषु । सम्ऽराट् ।

ऋतऽवरीः । योषणाः । तिस्रः । अप्याः । त्रिः । आ । दिवः । विदथे । पत्यमानाः ॥५

प्रजापतिः स्वविज्ञानं सिन्धूनां निवेदयति । हे “सिन्धवः आपः सर्वसाक्षिण्यो यूयम् । “त्री “षधस्था त्रयो लोकाः । ते च प्रत्येकं “त्रिः भवन्ति । तथा ‘त्रयो वा इमे त्रिवृतो लोकाः' इति श्रुतिः । ‘ न द्याव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम् । न विव्यचन्त भूमयः ' (ऋ. सं. ८.६.१५) इति प्रत्येकं बहुवचनश्रवणात् । बहुवचनं च कपिञ्जलन्यायेन त्रित्वे पर्यवसितम् । ते च लोकाः “कवीनां देवानां निवासस्थानानि भवन्ति । “उत अपि च “त्रिमाता त्रयाणाममीषां लोकानां निर्माता संवत्सरः सूर्यो वा “विदथेषु यज्ञेषु “सम्राट् यजनीयतया सम्यग्दीप्यमानो वर्तते । तथा “ऋतावरीः उदकवत्यः “अप्याः नभस्या आप्तव्या वा “तिस्रः “योषणाः त्रिसंख्याका इला सरस्वती भारती इत्येवंरूपाः परस्परमिश्रणोपेताः देवताः ”विदथे यज्ञे "दिवः दिवसस्य “त्रिः त्रिषु सवनेषु "आ “पत्यमानाः आगच्छन्त्यो भवन्ति ॥ सधस्था । पूर्वपदात्' इति संहितायां षत्वम् । योषणाः । युष इति सौत्रो धातुः । ल्युटि रूपम् । लित्स्वरः । तिस्रः । ‘ तिसृभ्यो जसः' इत्याद्युदात्तत्वम् । अप्याः। अप् इत्यन्तरिक्षनाम । तत्र भवाः । ‘ भवे छन्दसि' इति यत् । यतोऽनावः' इत्याद्युदात्तत्वम् ॥


त्रिरा दि॒वः स॑वित॒र्वार्या॑णि दि॒वेदि॑व॒ आ सु॑व॒ त्रिर्नो॒ अह्न॑ः ।

त्रि॒धातु॑ रा॒य आ सु॑वा॒ वसू॑नि॒ भग॑ त्रातर्धिषणे सा॒तये॑ धाः ॥६

त्रिः । आ । दि॒वः । स॒वि॒तः॒ । वार्या॑णि । दि॒वेऽदि॑वे । आ । सु॒व॒ । त्रिः । नः॒ । अह्नः॑ ।

त्रि॒ऽधातु॑ । रा॒यः । आ । सु॒व॒ । वसू॑नि । भग॑ । त्रा॒तः॒ । धि॒ष॒णे॒ । सा॒तये॑ । धाः॒ ॥६

त्रिः । आ । दिवः । सवितः । वार्याणि । दिवेऽदिवे । आ । सुव । त्रिः । नः । अह्नः ।

त्रिऽधातु । रायः । आ । सुव । वसूनि । भग । त्रातः । धिषणे । सातये । धाः ॥६

“सवितः सर्वस्य प्रेरक हे आदित्य “दिवः द्युलोकादागत्य त्वं “वार्याणि सर्वैः संभजनीयानि धनानि "दिवेदिवे प्रतिदिनं “त्रिः “आ "सुव त्रिवारमस्मभ्यं प्रेरय प्रयच्छेत्यर्थः । तदेवोच्यते । “भग सर्वैर्भजनीय “त्रातः अस्माकं रक्षक हे आदित्य “त्रिधातु त्रिधातूनि पशुकनकरत्नभेदेन त्रिप्रकाराणि “वसूनि धनानि “रायः । रान्ति क्षीरादीनीति रायो गोधनानि । तानि च “नः अस्मभ्यम् “अह्नः संबन्धिषु “त्रिः त्रिषु सवनेषु “आ “सुव प्रयच्छ । “धिषणे माध्यमिके हे वाक् “सातये धनलाभाय “धाः अस्मान् कुरु ॥ त्रिः। द्वित्रिचतुर्भ्यः सुच् ' ( पा. सू. ५. ४. १८) इति सुच् । चित्स्वरः । सुव ।' षू प्रेरणे '। तुदादिः । लोटि रूपम् । त्रिधातु ।' डुधाञ् धारणपोषणयोः । इत्यस्मात् ' सितनिगमिमसि' इत्यादिना तुन्प्रत्ययः । धिषणे । आमन्त्रितत्वात् निघातः ॥


त्रिरा दि॒वः स॑वि॒ता सो॑षवीति॒ राजा॑ना मि॒त्रावरु॑णा सुपा॒णी ।

आप॑श्चिदस्य॒ रोद॑सी चिदु॒र्वी रत्नं॑ भिक्षन्त सवि॒तुः स॒वाय॑ ॥७

त्रिः । आ । दि॒वः । स॒वि॒ता । सो॒स॒वी॒ति॒ । राजा॑ना । मि॒त्रावरु॑णा । सु॒पा॒णी इति॑ सु॒ऽपा॒णी ।

आपः॑ । चि॒त् । अ॒स्य॒ । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । रत्न॑म् । भि॒क्ष॒न्त॒ । स॒वि॒तुः । स॒वाय॑ ॥७

त्रिः । आ । दिवः । सविता । सोसवीति । राजाना । मित्रावरुणा । सुपाणी इति सुऽपाणी ।

आपः । चित् । अस्य । रोदसी इति । चित् । उर्वी इति । रत्नम् । भिक्षन्त । सवितुः । सवाय ॥७

“सविता देवः “दिवः दिवसस्य “त्रिः त्रिषु कालेषु “आ “सोषवीति अस्मभ्यं धनान्यासुवतु। प्रेरयतु । किंच "राजाना राजानौ "सुपाणी कल्याणपाणी मित्रावरुणौ “आपः । आप्नोति सर्वं जगत् इत्यापः अन्तरिक्षम्। नित्यबहुवचनान्तत्वात् बहुवचनम् । "चित् अपि च "उर्वी विस्तीर्णे “रोदसी द्यावापृथिव्यौ एता देवताः “सवितुः प्रेरकस्य “अस्य देवस्य "सवाय सवेन प्रेरणेन "रत्नम् अपेक्षितमर्थं “भिक्षन्त याचन्ते ॥ सोसवीति । 'षू प्रेरणे' इत्यस्य यङ्लुकि लटि रूपम् । मित्रावरुणा । ‘देवताद्वन्द्वे च' इत्युभयपदप्रकृतिस्वरत्वम् । भिक्षन्त । भिक्ष याञ्चायाम्' इत्यस्य लङि रूपम् । सवाय । ‘ जव सवौ च' (पा. सू. ३. ३. ५६. ४ ) इति अजन्तत्वेन निपातनादन्तोदात्तत्वम् ॥


त्रिरु॑त्त॒मा दू॒णशा॑ रोच॒नानि॒ त्रयो॑ राज॒न्त्यसु॑रस्य वी॒राः ।

ऋ॒तावा॑न इषि॒रा दू॒ळभा॑स॒स्त्रिरा दि॒वो वि॒दथे॑ सन्तु दे॒वाः ॥८

त्रिः । उ॒त्ऽत॒मा । दुः॒ऽनशा॑ । रो॒च॒नानि॑ । त्रयः॑ । रा॒ज॒न्ति॒ । असु॑रस्य । वी॒राः ।

ऋ॒तऽवा॑नः । इ॒षि॒राः । दुः॒ऽदभा॑सः । त्रिः । आ । दि॒वः । वि॒दथे॑ । स॒न्तु॒ । दे॒वाः ॥८

त्रिः । उत्ऽतमा । दुःऽनशा । रोचनानि । त्रयः । राजन्ति । असुरस्य । वीराः ।

ऋतऽवानः । इषिराः । दुःऽदभासः । त्रिः । आ । दिवः । विदथे । सन्तु । देवाः ॥८

"दूणशा दुर्नशा केनापि विनाशयितुमशक्यानि “रोचनानि दीप्यमानानि “त्रिः त्रीण्युत्तमानि स्थानानि सन्ति । एतेषु त्रिषु स्थानेषु "असुरस्य । अस्यति क्षिपति सर्वमित्यसुरः कालात्मा संवत्सरः । तस्य “वीराः पुत्राः “त्रयः अग्निवायुसूर्यरूपाः “राजन्ति शोभन्ते । तानेव विशिनष्टि। “ऋतावानः । ऋतं सत्यभूतमग्निहोत्रादिकं कर्म तद्वन्तः । “इषिराः यज्ञार्थं शीघ्रगतिमन्तः “दूळभासः दुर्दभासः केनापि स्वतेजसा तिरस्कर्तुमशक्या एते सर्वे “देवाः “विदथे ,अस्मदीये यज्ञे "दिवः अह्नः संबन्धिषु “त्रिः त्रिषु सवनेषु “आ “सन्तु समन्ताद्यजनीयतया भवन्तु ॥ उत्तमा । ‘ उत्तमशश्वत्तमौ सर्वत्र ' इत्युञ्छादिषु पाठादन्तोदात्तत्वम् । दूणशा । नशेः कृच्छ्रार्थे खल्। ‘दुरो दाशनाशदभेषूत्वं वक्तव्यम्' इति रेफस्य उत्वम् । उत्तरपदादेः ष्टुत्वम् । लित्स्वरः । दूळभासः । पूर्ववदुत्वष्टुत्वे ॥ ॥ १ ॥

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.५६&oldid=197889" इत्यस्माद् पुनः प्राप्तिः