ऋग्वेदः सूक्तं ३.५७
← सूक्तं ३.५६ | ऋग्वेदः - मण्डल ३ सूक्तं ३.५७ गाथिनो विश्वामित्रः। |
सूक्तं ३.५८ → |
दे. विश्वे देवाः। त्रिष्टुप्। |
प्र मे विविक्वाँ अविदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपाम् ।
सद्यश्चिद्या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः ॥१॥
इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे ।
विश्वे यदस्यां रणयन्त देवाः प्र वोऽत्र वसवः सुम्नमश्याम् ॥२॥
या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन् ।
अच्छा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि ॥३॥
अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा ।
इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः ॥४॥
या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची ।
तयेह विश्वाँ अवसे यजत्राना सादय पायया चा मधूनि ॥५॥
या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद्देव चित्रा ।
तामस्मभ्यं प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम् ॥६॥
सायणभाष्यम्
‘प्र मे विविक्वान्' इति षडृचं चतुर्थं सूक्तम् । विश्वामित्र ऋषिः । त्रिष्टुप् छन्दः । विश्वेदेवाः देवता । अत्रानुक्रमणिका- प्र मे षट् ' इति । सूक्तविनियोगो लैङ्गिकः ॥
प्र मे॑ विवि॒क्वाँ अ॑विदन्मनी॒षां धे॒नुं चर॑न्तीं॒ प्रयु॑ता॒मगो॑पाम् ।
स॒द्यश्चि॒द्या दु॑दु॒हे भूरि॑ धा॒सेरिन्द्र॒स्तद॒ग्निः प॑नि॒तारो॑ अस्याः ॥१
प्र । मे॒ । वि॒वि॒क्वान् । अ॒वि॒द॒त् । म॒नी॒षाम् । धे॒नुम् । चर॑न्तीम् । प्रऽयु॑ताम् । अगो॑पाम् ।
स॒द्यः । चि॒त् । या । दु॒दु॒हे । भूरि॑ । धा॒सेः । इन्द्रः॑ । तत् । अ॒ग्निः । प॒नि॒तारः॑ । अ॒स्याः॒ ॥१
प्र । मे । विविक्वान् । अविदत् । मनीषाम् । धेनुम् । चरन्तीम् । प्रऽयुताम् । अगोपाम् ।
सद्यः । चित् । या । दुदुहे । भूरि । धासेः । इन्द्रः । तत् । अग्निः । पनितारः । अस्याः ॥१
“विविक्वान् विवेकवानिन्द्रोऽग्निर्वा “मे मम “मनीषां देवताविषयां स्तुतिं “प्र “अविदत् प्रकर्षेण जानातु । तत्र दृष्टान्तः । “चरन्तीं यवसे इतस्ततो गच्छन्तीं “प्रयुतां पृथग्भूतामेकाकिनीम् "अगोपां गोप्तृरहितां यथाकामं चरन्तीं “धेनुं नवसूतिका गामिव देवतानां प्रीणयित्रीं स्तुतिमविददित्यन्वयः । “या स्तुतिरूपा धेनुः “सद्यश्चित् तदानीमेव “धासेः । धारयति प्राणान् धीयते दीयते अर्थिभ्यः इति वा धासिरन्नम् । कर्मणि षष्ठी । “भूरि बह्वन्नमपेक्षितं फलं “दुदुहे दुग्धे “इन्द्रः “अग्निः अन्ये च देवाः “अस्याः स्तुतिरूपाया धेनोः “तत् तस्यान्नभूतस्य पयसः "पनितारः स्तोतारो भवन्ति । यद्वा । इन्द्राग्नी स्तोतारो वयं चास्या धेनोस्तत्पयः प्राप्नुमः ॥ विविक्वान् । ‘ विचिर् पृथग्भावे इत्यस्य क्वसौ रूपम् । अविदत् ।' विद ज्ञाने ' इत्यस्य लङि • बहुलं छन्दसि ' इति शः । दुदुहे। ‘ दुह प्रपूरणे' इत्यस्य लिटि रूपम् । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । पनितारः। ‘पन स्तुतौ ' इत्यस्य तृचि रूपम् ॥
इन्द्र॒ः सु पू॒षा वृष॑णा सु॒हस्ता॑ दि॒वो न प्री॒ताः श॑श॒यं दु॑दुह्रे ।
विश्वे॒ यद॑स्यां र॒णय॑न्त दे॒वाः प्र वोऽत्र॑ वसवः सु॒म्नम॑श्याम् ॥२
इन्द्रः॑ । सु । पू॒षा । वृष॑णा । सु॒ऽहस्ता॑ । दि॒वः । न । प्री॒ताः । श॒श॒यम् । दु॒दु॒ह्रे॒ ।
विश्वे॑ । यत् । अ॒स्या॒म् । र॒णय॑न्त । दे॒वाः । प्र । वः॒ । अत्र॑ । व॒स॒वः॒ । सु॒म्नम् । अ॒श्या॒म् ॥२
इन्द्रः । सु । पूषा । वृषणा । सुऽहस्ता । दिवः । न । प्रीताः । शशयम् । दुदुह्रे ।
विश्वे । यत् । अस्याम् । रणयन्त । देवाः । प्र । वः । अत्र । वसवः । सुम्नम् । अश्याम् ॥२
“वसवः सर्वस्य वासयितारो हे देवाः “इन्द्रः “पूषा च “वृषणा अभिमतफलस्य सेक्तारौ "सुहस्ता कल्याणपाणी नासत्यौ मित्रावरुणौ वा । ‘राजाना मित्रावरुणा सुपाणी' इत्यादिषु दृष्टत्वात् । एते सर्वे देवाः । “न इति संप्रत्यर्थे । इदानीं “प्रीताः सन्तः “शशयं नभसि शयानं मेघं “दिवः नभसः सकाशात् “सु “दुदुहे । वृष्टिद्वारापेक्षितं फलं सुष्ठु दुहन्ति । “यत् यस्मात् “विश्वे सर्वे "देवाः “अस्यां वेद्यां “रणयन्त रमयन्ते “वः युष्माकं संबन्धिनि "अत्र लोके "सुम्नं सुखकरमपेक्षितं फलं “प्र “अश्यां प्राप्नुयाम् ॥ सुहस्ता । हसेः ‘असिहसि°' इत्यादिना तन्प्रत्ययः । नित्त्वादाद्युदात्तः । बहुव्रीहौ ' आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । दुदुहे । ‘दुह प्रपूरणे' इत्यस्य लिटि ‘इरयो रे । रणयन्त। ‘रमु क्रीडायाम्'। ण्यन्तस्य लङि रूपम् । वर्णव्यापत्तिः । अश्याम् । 'अशू व्याप्तौ ' इत्यस्य लिङि • बहुल छन्दसि ' इति विकरणस्य लुक् । व्यत्ययेन परस्मैपदम् ॥
या जा॒मयो॒ वृष्ण॑ इ॒च्छन्ति॑ श॒क्तिं न॑म॒स्यन्ती॑र्जानते॒ गर्भ॑मस्मिन् ।
अच्छा॑ पु॒त्रं धे॒नवो॑ वावशा॒ना म॒हश्च॑रन्ति॒ बिभ्र॑तं॒ वपूं॑षि ॥३
याः । जा॒मयः॑ । वृष्णे॑ । इ॒च्छन्ति॑ । श॒क्तिम् । न॒म॒स्यन्तीः॑ । जा॒न॒ते॒ । गर्भ॑म् । अ॒स्मि॒न् ।
अच्छ॑ । पु॒त्रम् । धे॒नवः॑ । वा॒व॒शा॒नाः । म॒हः । च॒र॒न्ति॒ । बिभ्र॑तम् । वपूं॑षि ॥३
याः । जामयः । वृष्णे । इच्छन्ति । शक्तिम् । नमस्यन्तीः । जानते । गर्भम् । अस्मिन् ।
अच्छ । पुत्रम् । धेनवः । वावशानाः । महः । चरन्ति । बिभ्रतम् । वपूंषि ॥३
“या “जामयः । जमन्ति वर्षाकाले प्रादुर्भवन्तीति जामय ओषधयः । "वृष्णे अपां वर्षकायेन्द्राय “शक्तिं सेचनसामर्थ्यम् “इच्छन्ति । “नमस्यन्तीः प्रह्वीभूतास्ता ओषधयः “अस्मिन् इन्द्रे “गर्भं वृष्टिद्वारा पुष्पफलादिलक्षणगर्भाधानादिसामर्थ्यं “जानते जानन्ति । “वावशानाः फलं कामयमानाः “धेनवः सर्वस्य प्रीणयित्र्य ओषधयः "महः महान्ति नानाप्रकाराणि “वपूंषि रूपाणि “बिभ्रतं व्रीहियवनीवारादिफललक्षणं “पुत्रं तनयम् "अच्छ आभिमुख्येन “चरन्ति प्राप्नुवन्ति । लोके हि हम्भारवं कुर्वाणाः धेनवः वत्समभिलक्ष्य गच्छन्ति । तद्वत् । यद्वा जामयः । जमन्ति सर्वत्र प्रसरन्तीति जामयः सूर्यदीप्तयः । वृष्णेऽपां वर्षकाय । स्वरश्मिभिर्भौमान् रसानादाय पुनर्वर्षतीति वर्षकः सूर्यः । ‘ आदित्याज्जायते वृष्टिः ' इति स्मृतेश्च । तस्मै वर्षणशक्तिम् इच्छन्ति । ता दीप्तयोऽस्मिन्नादित्ये गर्भम् अब्रूपगर्भाधानसामर्थ्यं जानन्ति ॥ जामयः । जमतेर्गतिकर्मणः ‘ जनिघसिभ्यामिण् ' इति विधीयमानो बहुलवचनादस्मादपि भवति । नमस्यन्तीः । नमःशब्दात् 'नमोवरिवश्चित्रङः क्यच् इति क्यच् । तदन्ताच्छतरि रूपम् । प्रत्ययस्वरः । जानते । ज्ञा अवबोधने ' इत्यस्य लटि रूपम् । अच्छ। 'निपातस्य च ' इति संहितायां दीर्घः ॥
अच्छा॑ विवक्मि॒ रोद॑सी सु॒मेके॒ ग्राव्णो॑ युजा॒नो अ॑ध्व॒रे म॑नी॒षा ।
इ॒मा उ॑ ते॒ मन॑वे॒ भूरि॑वारा ऊ॒र्ध्वा भ॑वन्ति दर्श॒ता यज॑त्राः ॥४
अच्छ॑ । वि॒व॒क्मि॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । ग्राव्णः॑ । यु॒जा॒नः । अ॒ध्व॒रे । म॒नी॒षा ।
इ॒माः । ऊं॒ इति॑ । ते॒ । मन॑वे । भूरि॑ऽवाराः । ऊ॒र्ध्वाः । भ॒व॒न्ति॒ । द॒र्श॒ताः । यज॑त्राः ॥४
अच्छ । विवक्मि । रोदसी इति । सुमेके इति सुऽमेके । ग्राव्णः । युजानः । अध्वरे । मनीषा ।
इमाः । ऊं इति । ते । मनवे । भूरिऽवाराः । ऊर्ध्वाः । भवन्ति । दर्शताः । यजत्राः ॥४
“अध्वरे यज्ञे “ग्राव्णः सोमाभिषवार्थमुपलान् "युजानः प्रयुञ्जानोऽहं “सुमेके सुरूपे “रोदसी द्यावापृथिव्यौ “मनीषा मनस ईषया स्तुतिलक्षणया वाचा “अच्छ “विवक्मि आभिमुख्येन स्तौमि । हे अग्ने “ते तव “भूरिवाराः यजमानैर्बहुवारं वरणीयाः “दर्शताः कमनीयतया दर्शनीयाः “यजत्राः पूज्याः “इमाः दीप्तयः “मनवे मनुष्यव्यवहारार्थम् “ऊर्ध्वाः ऊर्ध्वमुखाः “भवन्ति ॥ विवक्मि। ‘वच परिभाषणे ' । लटि ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ अर्तिपिपर्त्योश्च, बहुलं छन्दसि' इत्यभ्यासस्य इत्वम् । चकारस्य कुत्वं व्यत्ययेन । युजानः । ‘युजिबुधिदृशः किच्च' इति आनच् । कित्त्वात् अगुणः । चित्त्वादन्तोदात्तः । मनीषा । सुपो डादेशः ॥
या ते॑ जि॒ह्वा मधु॑मती सुमे॒धा अग्ने॑ दे॒वेषू॒च्यत॑ उरू॒ची ।
तये॒ह विश्वाँ॒ अव॑से॒ यज॑त्रा॒ना सा॑दय पा॒यया॑ चा॒ मधू॑नि ॥५
या । ते॒ । जि॒ह्वा । मधु॑ऽमती । सु॒ऽमे॒धाः । अग्ने॑ । दे॒वेषु॑ । उ॒च्यते॑ । उ॒रू॒ची ।
तया॑ । इ॒ह । विश्वा॑न् । अव॑से । यज॑त्रान् । आ । सा॒द॒य॒ । पा॒यय॑ । च॒ । मधू॑नि ॥५
या । ते । जिह्वा । मधुऽमती । सुऽमेधाः । अग्ने । देवेषु । उच्यते । उरूची ।
तया । इह । विश्वान् । अवसे । यजत्रान् । आ । सादय । पायय । च । मधूनि ॥५
हे “अग्ने “ते तव "मधुमती उदकवती “सुमेधाः । शोभना मेधा प्रज्ञा यस्याः सा । सर्वस्य ज्ञापयित्री “या “जिह्वा ज्वाला “उरूची बहुव्याप्तिः सती "देवेषु मध्ये आह्वानार्थम् "उच्यते प्रेर्यते “तया जिह्वया “यजत्रान् यजनीयान् विश्वान् देवान् “इह कर्मण्यस्माकम् “अवसे रक्षणाय “आ “सादय उपवेशय । किंच तान् विश्वान् देवान् “मधूनि मदकरान् सोमान् "पायय ॥ सुमेधाः । नित्यमसिच्प्रजामेधयोः' इति असिच् । उच्यते । ‘वच परिभाषणे ' । कर्मणि यकि रूपम् । यद्वृत्तयोगादनिघातः । उरूची । अञ्चतेः क्विन् । ‘ अञ्चतेश्चोपसंख्यानम् ' इति ङीप् । ' अनुदात्तस्य च यत्रोदात्तलोपः' इति ङीप उदात्तत्वम् । पायय । ‘पा पाने ' इत्यस्य णौ परतः ‘शाच्छासाह्वाव्यावेपां युक्' इति युक् । तिङ उत्तरत्वादनिघातः ॥
या ते॑ अग्ने॒ पर्व॑तस्येव॒ धारास॑श्चन्ती पी॒पय॑द्देव चि॒त्रा ।
ताम॒स्मभ्यं॒ प्रम॑तिं जातवेदो॒ वसो॒ रास्व॑ सुम॒तिं वि॒श्वज॑न्याम् ॥६
या । ते॒ । अ॒ग्ने॒ । पर्व॑तस्यऽइव । धारा॑ । अस॑श्चन्ती । पी॒पय॑त् । दे॒व॒ । चि॒त्रा ।
ताम् । अ॒स्मभ्य॑म् । प्रऽम॑तिम् । जा॒त॒ऽवे॒दः॒ । वसो॒ इति॑ । रास्व॑ । सु॒ऽम॒तिम् । वि॒श्वऽज॑न्याम् ॥६
या । ते । अग्ने । पर्वतस्यऽइव । धारा । असश्चन्ती । पीपयत् । देव । चित्रा ।
ताम् । अस्मभ्यम् । प्रऽमतिम् । जातऽवेदः । वसो इति । रास्व । सुऽमतिम् । विश्वऽजन्याम् ॥६
“देव दीप्यमान हे "अग्ने “चित्रा नानारूपा “असश्चन्ती अस्मादन्यत्र संगतिमकुर्वाणा “या “ते तव प्रमतिः प्रकृष्टा बुद्धिः “पीपयत् अपेक्षितफलदानेनास्मान् वर्धयति । तत्र दृष्टान्तः। “पर्वतस्येव ”धारा । यथा पर्वतस्य मेघस्योदकधारा ओषधिवनस्पत्यादिषु संगतिं कुर्वाणा तान् वर्धयति तद्वत् । “वसो सर्वस्य वासयितः "जातवेदः जातप्रज्ञ हे अग्ने “तां “प्रमतिं परहितकरणसमर्थां बुद्धिम् “अस्मभ्यं “रास्व दत्स्व । तथा “विश्वजन्यां सर्वजनहितां “सुमतिं शोभनां बुद्धिं दत्स्व ॥ असश्चन्ती । सश्चतिर्गतिकर्मा । शतरि • उगितश्च' इति ङीप् । नञा समासे नञ्स्वरः । पीपयत् । “पा पाने'। ण्यन्तस्य लुडि चङि रूपम् । ‘चङयन्यतरस्याम्' इति चडि परतः पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः । प्रमतिम् । तादौ च निति कृत्यतौ ' इति गतेः प्रकृतिस्वरत्वम् । रास्व । ‘रा दाने ' । व्यत्ययेन आत्मनेपदम् । लोटि रूपम् । आमन्त्रितस्याविद्यमानत्वात् निघाताभावः ॥
मण्डल ३ | |||
---|---|---|---|