ऋग्वेदः सूक्तं ३.१७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ३.१६ ऋग्वेदः - मण्डल ३
सूक्तं ३.१७
कतो वैश्वामित्रः
सूक्तं ३.१८ →
दे. अग्निः। त्रिष्टुप्


समिध्यमानः प्रथमानु धर्मा समक्तुभिरज्यते विश्ववारः ।
शोचिष्केशो घृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाय देवान् ॥१॥
यथायजो होत्रमग्ने पृथिव्या यथा दिवो जातवेदश्चिकित्वान् ।
एवानेन हविषा यक्षि देवान्मनुष्वद्यज्ञं प्र तिरेममद्य ॥२॥
त्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने ।
ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः ॥३॥
अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः ।
त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम् ॥४॥
यस्त्वद्धोता पूर्वो अग्ने यजीयान्द्विता च सत्ता स्वधया च शम्भुः ।
तस्यानु धर्म प्र यजा चिकित्वोऽथ नो धा अध्वरं देववीतौ ॥५॥


सायणभाष्यम्

‘समिध्यमानः' इति पञ्चर्चं पञ्चमं सूक्तमाग्नेयं त्रैष्टुभं वैश्वामित्रस्य कतस्यार्षम् । तदुक्तं’ समिध्यमानः पञ्च कतो वैश्वामित्रस्तु' इति । ‘ आ होता' इत्यादिसूक्तदशकस्य विनियोग उक्तः प्रातरनुवाकाश्विनशस्त्रयोः इति । तत्रेदं चतुर्थम् । वाजपेये बार्हस्पत्ये चरौ ‘अग्निं सुदीतिम्' इति स्विष्टकृतो याज्या । ‘वाजपेयेन' इत्यादिखण्डे सूत्रितम्-‘अग्निं सुदीतिं सुदृशं गृणन्त इति संयाज्ये ( आश्व. श्रौ. ९. ९ ) इति ।।


स॒मि॒ध्यमा॑नः प्रथ॒मानु॒ धर्मा॒ सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः ।

शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः सु॑य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् ॥१

स॒म्ऽइ॒ध्यमा॑नः । प्र॒थ॒मा । अनु॑ । धर्म॑ । सम् । अ॒क्तुऽभिः॑ । अ॒ज्य॒ते॒ । वि॒श्वऽवा॑रः ।

शो॒चिःऽके॑शः । घृ॒तऽनि॑र्निक् । पा॒व॒कः । सु॒ऽय॒ज्ञः । अ॒ग्निः । य॒जथा॑य । दे॒वान् ॥

सम्ऽइध्यमानः । प्रथमा । अनु । धर्म । सम् । अक्तुऽभिः । अज्यते । विश्वऽवारः ।

शोचिःऽकेशः । घृतऽनिर्निक् । पावकः । सुऽयज्ञः । अग्निः । यजथाय । देवान् ॥

कतः स्तौति । “धर्म । धारणात् धर्म । अग्नेः यज्ञनिर्वाहकतया तद्धारकत्वाद्धर्माग्निः । तथा च मन्त्रः----’ धर्माणमग्निं विदथस्य साधनम् ' ( ऋ. सं. १०. ९२. २) इति । तादृशोऽग्निः “प्रथमा प्रथमं यज्ञोपक्रमे “अनु अग्न्यायतनेष्वनुक्रमेण “समिध्यमानः सम्यक् प्रज्वाल्यमानः । यद्वा । अनु धर्म धर्मसाधनभूतेषु यज्ञेषु प्रथमं समिध्यमानः । “विश्ववारः विश्वैः सर्वैर्यजमानैर्यष्टव्यतया वरणीयः “शोचिष्केशः शोचींषि ज्वालाः केशा यस्य स तथोक्तः । “घृतनिर्णिक् घृतस्य तापनद्वारा विलापनेन शोधकः । “पावकः अस्मदीयपापशोधकः । “सुयज्ञः शोभनयज्ञोपेतः । एवंभूतः “अग्निः “देवान् अस्माभिर्यजनीयान् देवान् “यजथाय यष्टुम् “अक्तुभिः अञ्जनसाधनैर्घृतादिभिः “सम् “अज्यते सम्यक् सिच्यते ॥ प्रथमा । ‘सुपां सुलुक्' इति सुपो डादेशः । धर्म । ‘ धृञ् धारणे' इत्यस्मात् “ अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । ह्रस्वत्वं छान्दसम् । नित्स्वरः । अक्तुभिः । 'अञ्जू व्यक्तिगतिम्रक्षणेषु' । अज्यत एभिरिति बाहुलकत्वात् क्तुः करणे । कित्त्वादुपधालोपः । प्रत्ययस्वरः । अज्यते । स एव धातुः । कर्मणि यक् । “ अनिदिताम् ' इत्युपधालोपः। विश्ववारः । विश्वैर्यजमानैर्होतृद्वारा वारो वारणं यस्येत्यत्र ‘वृञ् वरणे ' इत्यस्य ण्यन्तस्य रूपं वारः । ‘ बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । घृतनिर्णिक् । ‘ णिजिर् शौचपोषणयोः । क्विप् । घृतं नेनेक्तीति द्वितीयातत्पुरुषत्वात् पूर्वपदस्वरः । यजथाय । ‘ यज देवपूजासंगतिकरणदानेषु । अरमादौणादिकः अथप्रत्ययः । तादर्थ्ये चतुर्थी । प्रत्ययस्वरः ॥


यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या यथा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ।

ए॒वानेन॑ ह॒विषा॑ यक्षि दे॒वान्म॑नु॒ष्वद्य॒ज्ञं प्र ति॑रे॒मम॒द्य ॥२

यथा॑ । अय॑जः । हो॒त्रम् । अ॒ग्ने॒ । पृ॒थि॒व्याः । यथा॑ । दि॒वः । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ।

ए॒व । अ॒नेन॑ । ह॒विषा॑ । य॒क्षि॒ । दे॒वान् । म॒नु॒ष्वत् । य॒ज्ञम् । प्र । ति॒र॒ । इ॒मम् । अ॒द्य ॥

यथा । अयजः । होत्रम् । अग्ने । पृथिव्याः । यथा । दिवः । जातऽवेदः । चिकित्वान् ।

एव । अनेन । हविषा । यक्षि । देवान् । मनुष्वत् । यज्ञम् । प्र । तिर । इमम् । अद्य ॥

हे “अग्ने त्वं “यथा “पृथिव्याः यजमानभूतायाः पृथिवीदेवतायाः पूर्वं होता सन् “होत्रं होमसाधनं हविः “अयजः अयाजीः "जातवेदः जातप्रज्ञ हे अग्ने “चिकित्वान् कर्म विषयज्ञानवान् त्वं “यथा च “दिवः यजमानभूताया द्युदेवताया होता भूत्वा हविरयजः । “एव एवं त्वमस्मिन् कर्मणि होता सन् "अनेन अस्माभिर्दीयमानेन “हविषा “देवान “यक्षि यज । किंच त्वम् “अद्य इदानीम् अस्माभिः क्रियमाणम् “इमं “यज्ञं “प्र “तिर अनुष्ठानसंपूर्त्या पारं गमय । तत्र दृष्टान्तः “मनुष्वत् इति । यथा मनोः यज्ञमनुष्ठानसंपूर्त्या पारमनैषीस्तद्वदिमं यज्ञं पारं नयेत्यर्थः ॥ यथा । ' प्रकारवचने थाल्' इति थाल् । ‘ लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । अयजः । यजेर्लङि रूपम् । यच्छब्दयोगादनिघातः । होत्रम् । “हु दानादनयोः'। 'हुयामाश्रुभसिभ्यस्त्रन ! इति त्रन्प्रत्ययेनान्तोदात्त: । दिवः । ‘ उडिदम्' इति विभक्तेरुदात्तत्वम् । चिकित्वान् । ‘कित ज्ञाने' इत्यस्य क्वसौ रूपम् । प्रत्ययस्वरः । अनेन । इदंशब्दस्य तृतीयैकवचने 'अनाप्यकः ' ( पा. सू. ७. २. ११२ ) इत्यनादेशः । यक्षि । यजेर्लेटि रूपम् । मनुष्वत् । तत्र तस्येव ' इति वतिः । ‘ नभोऽङ्गिरोमनुषां वत्युपसंख्यानम्' इति भसंज्ञात्वात् रुत्वाभावः । प्रत्ययस्वरः । तिर । तरतेर्लोटि व्यत्ययेन शः । ‘ ऋत इद्धातोः' इति इत्वम् । निघातः ॥


त्रीण्यायूं॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने ।

ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथा॑ भव॒ यज॑मानाय॒ शं योः ॥३

त्रीणि॑ । आयूं॑षि । तव॑ । जा॒त॒ऽवे॒दः॒ । ति॒स्रः । आ॒ऽजानीः॑ । उ॒षसः॑ । ते॒ । अ॒ग्ने॒ ।

ताभिः॑ । दे॒वाना॑म् । अवः॑ । य॒क्षि॒ । वि॒द्वान् । अथ॑ । भ॒व॒ । यज॑मानाय । शम् । योः ॥

त्रीणि । आयूंषि । तव । जातऽवेदः । तिस्रः । आऽजानीः । उषसः । ते । अग्ने ।

ताभिः । देवानाम् । अवः । यक्षि । विद्वान् । अथ । भव । यजमानाय । शम् । योः ॥

हे “जातवेदः जातप्रज्ञ “तव “त्रीण्यायूंषि त्रिविधानि आज्यौषधिसोमात्मकान्यन्नान्याहारतया कल्पितानि हे “अग्ने “तिस्रः “उषसः एकाहाहीनसत्रगता उषसः उषोऽभिमानिन्यस्तिस्रो देवताः “ते तव “आजानीः जनयित्र्यो मातरः । यद्वा उषोऽभिमानिन्यो देवतास्तवाजानीस्त्वामनुजातास्तिस्रः स्वसारः । तथा च स्वसॄः प्रकृत्य मन्त्रः----’ प्रजामेका रक्षत्यूर्जमेका राष्ट्रमेका रक्षति' इति । “ताभिः उषोऽभिमानिनीभिर्देवताभिः सहितस्त्वम् “अवः अस्माभिर्दीयमानं हविर्लक्षणमन्नं “देवानां “यक्षि यष्टव्यदेवानां प्रयच्छ । “अथ अनन्तरं “विद्वान् जानंस्त्वं “यजमानाय “शं “भव सुखहेतुर्भव । "योः च सुखस्य मिश्रयिता च भव ॥ तव । युष्मदस्मदोर्ङसि' इत्याद्युदात्तः । तिस्रः । त्रिशब्दस्य स्त्र्यर्थे ' त्रिचतुरोः स्त्रियाम् ' इति तिसृ इत्यादेशः । अचि र ऋतः' इति रेफादेशः । ‘ तिसृभ्यो जसः' इति विभक्तेरुदात्तत्वम् । आजानीः । ‘ जन जनने' । जनिघसिभ्यामिण् ' इति कर्तरि इण् । णित्त्वादुपधावृद्धिः । ‘ वा छन्दसि ' इति सवर्णदीर्घः । कृदुत्तरपदप्रकृतिस्वर:। अवः । ‘ अव रक्षणे ' । ' असुन्' इत्यसुन् । नित्स्वरः । यक्षि । यजेर्दानार्थस्य लेटि रूपम् । यजमानाय । ‘ पूङ्यजोः शानन्' ( पा. सू. ३. २. १२८ ) इति यजेः शानन् । नित्स्वरः । योः । यु मिश्रणे ' इत्यस्मात् “ अन्येभ्योऽपि दृश्यन्ते ' इति विच् । आर्धधातुकलक्षणो गुणः । कृदुत्तरपदप्रकृतिस्वरः ॥


अ॒ग्निं सु॑दी॒तिं सु॒दृशं॑ गृ॒णंतो॑ नम॒स्याम॒स्त्वेड्यं॑ जातवेदः ।

त्वां दू॒तम॑र॒तिं ह॑व्य॒वाहं॑ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभिं॑ ॥४

अ॒ग्निम् । सु॒ऽदी॒तिम् । सु॒ऽदृश॑म् । गृ॒णन्तः॑ । न॒म॒स्यामः॑ । त्वा॒ । ईड्य॑म् । जा॒त॒ऽवे॒दः॒ ।

त्वाम् । दू॒तम् । अ॒र॒तिम् । ह॒व्य॒ऽवाह॑म् । दे॒वाः । अ॒कृ॒ण्व॒न् । अ॒मृत॑स्य । नाभि॑म् ॥

अग्निम् । सुऽदीतिम् । सुऽदृशम् । गृणन्तः । नमस्यामः । त्वा । ईड्यम् । जातऽवेदः ।

त्वाम् । दूतम् । अरतिम् । हव्यऽवाहम् । देवाः । अकृण्वन् । अमृतस्य । नाभिम् ॥

“जातवेदः जातस्य सर्वस्य वेदितर्हे अग्ने “गृणन्तः त्वद्विषयां स्तुतिं कुर्वाणा वयम् “अग्निम् अङ्गनादिगुणोपेतं “सुदीतिं शोभनदीप्तिम् अत एव “सुदृशं सर्वैः सुदर्शनम् “ईड्यं स्तुत्यम् एवंविधं “त्वा त्वां “नमस्यामः हविर्भिः पूजयामः । किंच “देवाः अस्माभिर्यजनीया इन्द्रायो देवाः "अरतिम् । न विद्यते विषयेषु रतिः प्रीतिर्यस्यासावरतिः । विषयेष्वसक्तम् अत एव “अमृतस्य देवान्नभूतायाः सुधायाः “नाभिं नाभिस्थानं “त्वां तादृशं “हव्यवाहं "दूतम् “अकृण्वन् । हविषां वोढारं दूतमकुर्वन् । दूतो हि द्विविधो वार्ताहारी कार्यकारी चेति । तत्र त्वां कार्यकारिणं दूतमकार्षुरिति भावः ।। सुदीतिम् । ' दीङ् क्षये ' । दीयते विनाश्यते आभिस्तम इति करणे क्तिन् । दीतयो दीप्तयः ।। बहुव्रीहौ ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । सुदृशम् । “ दृशिर् प्रेक्षणे' । तस्माच्छक्यार्थे खल् । ' संज्ञापूर्वको विधिरनित्यः' इति गुणाभावः । ‘ लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । गृणन्तः । गृणातिरर्चतिकर्मा । नमस्यामः । नमसः पूजायां : नमो वरिवश्चित्रङः क्यच् ' इति क्यच् । तदन्ताल्लटि रूपम् । पादादित्वान्न निघातः । दूतम् । ‘टुदु उपतापे । दुतनिभ्यां दीर्घश्च' ( उ. सू. ३. ३७० ) इति क्तः । तत्संनियोगेन धातोर्दीर्घः । दूतः इतस्ततः संचारीत्यर्थः । प्रत्ययस्वरः । अरतिम् । “ रमु क्रीडायाम् ' । भावे क्तिन् । अकृण्वन् । ‘ कृवि हिंसाकरणयोः' इत्यस्य लङि ‘ धिन्विकृण्व्योर च' इत्युप्रत्ययोऽकारश्चान्तादेशः । निघातः ॥


यस्त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑यांद्वि॒ता च॒ सत्ता॑ स्व॒धया॑ च शं॒भुः ।

तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वोऽथ॑ नो धा अध्व॒रं दे॒ववी॑तौ ॥५

यः । त्वत् । होता॑ । पूर्वः॑ । अ॒ग्ने॒ । यजी॑यान् । द्वि॒ता । च॒ । सत्ता॑ । स्व॒धया॑ । च॒ । श॒म्ऽभुः ।

तस्य॑ । अनु॑ । धर्म॑ । प्र । य॒ज॒ । चि॒कि॒त्वः॒ । अथ॑ । नः॒ । धाः॒ । अ॒ध्व॒रम् । दे॒वऽवी॑तौ ॥

यः । त्वत् । होता । पूर्वः । अग्ने । यजीयान् । द्विता । च । सत्ता । स्वधया । च । शम्ऽभुः ।

तस्य । अनु । धर्म । प्र । यज । चिकित्वः । अथ । नः । धाः । अध्वरम् । देवऽवीतौ ॥

हे “अग्ने “त्वत् त्वत्तोऽपि “पूर्वः प्रथमभावी “यजीयान् अतिशयेन यष्टा “यः यः कश्चित् “होता होमनिष्पादकः “द्विता द्वैधं मध्यमे चोत्तमे च स्थाने “स्वधया सोमाख्येनान्नेन सह “सत्ता निषण्णः सन् “शंभुः यष्टॄणां सुखभूः अभूत् । द्वितीयपादमेवं यास्को व्याचख्यौ-’ द्विता च सत्ता स्वधया च शंभुः । द्वैधं सत्ता मध्यमे च स्थान उत्तमे च । शंभुः सुखभूः ' ( निरु. ५. ३ ) इति । “चिकित्वः धर्मविषयचेतनावन् हे अग्ने “तस्य यस्त्वत्तोऽपि पूर्वभावी होता निरूपितस्तस्य होतुः “अनु “धर्म धर्माननु तेनानुष्ठितधर्मानुपलक्ष्य “प्र “यज प्रकर्षेण देवान् पूजय । “अथ अनन्तरं हे अग्ने त्वं “नः अस्माकं संबन्धिनम् “अध्वरम् इमं यज्ञं “देववीतौ देवानां प्रीत्यर्थं “धाः विधेहि ॥ यजीयान् । यष्टृशब्दस्य ' तुश्छन्दसि ' इतीयसुन् । तस्मिन् “ तुरिष्ठेमेयःसु ' इति तृचो लोपः । नित्त्वादाद्युदात्तः । द्विता । द्विशब्दात् ' संख्याया विधार्थे धा' इति धाप्रत्ययः । धकारस्य तकाश्छान्दसः । प्रत्ययस्वरः । सत्ता । “षद्लृ विशरणगत्यवसादनेषु । अस्य ताच्छीलिकस्तृन् । नित्स्वरः । स्वधया । स्वर्ग लोकं दधाति यजमानस्येति स्वधा । ‘ आतोऽनुपसर्गे कः' इति कप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । शंभुः । शं सुखमस्माद्भवतीति । ‘ भू सत्तायाम् । विप्रसंभ्यो ड्वसंज्ञायाम् ' इत्यत्र मितद्र्वादेरुपसंख्यानात् डुप्रत्ययः । डित्त्वाट्टिलोपः । यज । यजेर्लोटि रूपम् । चिकित्वः । ‘ कित ज्ञाने' इत्यस्य क्वसौ रूपम् । ‘ मतुवसो रु संबुद्धौ छन्दसि ' इति नकारस्य रुः । अथा नः । ‘ निपातस्य° ' इति दीर्घः । धाः । ‘ डुधाञ् धारणपोषणयोः' इत्यस्य छान्दसे लुङि रूपम् । अडभावश्छान्दसः । देववीतौ । देवानां वीतिः अशनं यत्र प्रीतौ सा प्रीतिः देववीतिः । वी कान्त्यादिषु इत्यस्मात् भावे क्तिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वर: ॥ ॥ १७ ॥

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१७&oldid=169158" इत्यस्माद् पुनः प्राप्तिः