ऋग्वेदः सूक्तं ३.१६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ३.१६ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ३.१५ ऋग्वेदः - मण्डल ३
सूक्तं ३.१६
कात्य उत्कीलः
सूक्तं ३.१७ →
दे. अग्निः। प्रगाथः - (१,३,५ बृहती, २,४,६ सतोबृहती)


अयमग्निः सुवीर्यस्येशे महः सौभगस्य ।
राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥१॥
इमं नरो मरुतः सश्चता वृधं यस्मिन्रायः शेवृधासः ।
अभि ये सन्ति पृतनासु दूढ्यो विश्वाहा शत्रुमादभुः ॥२॥
स त्वं नो रायः शिशीहि मीढ्वो अग्ने सुवीर्यस्य ।
तुविद्युम्न वर्षिष्ठस्य प्रजावतोऽनमीवस्य शुष्मिणः ॥३॥
चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः ।
आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम् ॥४॥
मा नो अग्नेऽमतये मावीरतायै रीरधः ।
मागोतायै सहसस्पुत्र मा निदेऽप द्वेषांस्या कृधि ॥५॥
शग्धि वाजस्य सुभग प्रजावतोऽग्ने बृहतो अध्वरे ।
सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता ॥६॥


सायणभाष्यम्

‘ अयमग्निः' इति चतुर्थं षडृचं सूक्तमाग्नेयम् । अत्रानुक्रमणिका'--' अयमग्निः षट् प्रागाथम्' इति ।' उत्कीलस्तु ' इति तुशब्दप्रयोगात् अस्यापि सूक्तस्य स एव ऋषिः । अत्र विषमसंख्यानामृचां बृहती छन्दस्तृतीयपादस्य द्वादशाक्षरत्वात् । समसंख्यानां तु सतोवृहती प्रथमतृतीयपादयोर्द्वादशाक्षरत्वात् । उक्तं च- अयुजौ जागतौ सतोबृहती ' ( अनु. ८. ४ ) इति ॥


अ॒यम॒ग्निः सु॒वीर्य॒स्येशे॑ म॒हः सौभ॑गस्य ।

रा॒य ई॑शे स्वप॒त्यस्य॒ गोम॑त॒ ईशे॑ वृत्र॒हथा॑नां ॥१

अ॒यम् । अ॒ग्निः । सु॒ऽवीर्य॑स्य । ईशे॑ । म॒हः । सौभ॑गस्य ।

रा॒यः । ई॒शे॒ । सु॒ऽअ॒प॒त्यस्य॑ । गोऽम॑तः । ईशे॑ । वृ॒त्र॒ऽहथा॑नाम् ॥

अयम् । अग्निः । सुऽवीर्यस्य । ईशे । महः । सौभगस्य ।

रायः । ईशे । सुऽअपत्यस्य । गोऽमतः । ईशे । वृत्रऽहथानाम् ॥

उत्कीलः स्तौति । “अयं यजनीयत्वेन अङ्गुल्या निर्दिश्यमानः “अग्निः “सुवीर्यस्य शोभन सामर्थ्योपेतस्य “महः महतः “सौभगस्य सौभाग्यस्य "ईशे ईष्टे । ईश्वरो भवति । सर्वस्य बलारोग्यहेतुतया सौभाग्यकारित्वात् । तथा “गोमतः गवादिपशुयुक्तस्य “स्वपत्यस्य शोभनापत्यस्य “रायः धनस्य “ईशे ईष्टे । पुत्रपश्वाद्युद्देशेन क्रियमाणकर्मफलसंपादकत्वेन तत्स्वामित्वात् । तथैवंभूतोऽग्निः “वृत्रहथानाम्। हननं हथः । शत्रुभूतपापविनाशनानामपि “ईशे ईष्टे । त्वयि समर्पितकर्मणामस्माकं त्वत्र्रसादात् पापक्षयो भवतीति तस्यापि स्वामी ॥ ईशे । ‘ ईश ऐश्वर्ये'। अदादित्वाच्छपो लुक् । ‘ लोपस्त आत्मनेपदेषु' इति तलोपः । पादादित्वादनिघातः । सौभगस्य । सुभगस्य भावः सौभगम् । उद्गात्रादित्वादञ् । सर्वविधीनां छन्दसि विकल्पितत्वात् अत्र 'हृद्भग°' इत्यादिना प्राप्ताया उत्तरपदवृद्धेरभावः । रायः । ‘ उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । ईशे । निघातः । स्वपत्यस्य । ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । वृत्रहथानाम् । ‘वृतु वर्तने ' । अस्मात् ' स्फायितञ्चिवञ्चि°' इत्यादिना रक्प्रत्ययः । कित्त्वादगुणः । ‘हन हिंसागत्योः' इत्यस्मात् ' हनिकुषिनीरमिकाशिभ्यः' इति क्थन् । कित्त्वादनुनासिक़लोपः । कृदुत्तरपदप्रकृतिस्वरः ॥


इ॒मं न॑रो मरुतः सश्चता॒ वृधं॒ यस्मि॒न्रायः॒ शेवृ॑धासः ।

अ॒भि ये संति॒ पृत॑नासु दू॒ढ्यो॑ वि॒श्वाहा॒ शत्रु॑माद॒भुः ॥२

इ॒मम् । न॒रः॒ । म॒रु॒तः॒ । स॒श्च॒त॒ । वृध॑म् । यस्मि॑न् । रायः॑ । शेऽवृ॑धासः ।

अ॒भि । ये । सन्ति॑ । पृत॑नासु । दुः॒ऽध्यः॑ । वि॒श्वाहा॑ । शत्रु॑म् । आ॒ऽद॒भुः ॥

इमम् । नरः । मरुतः । सश्चत । वृधम् । यस्मिन् । रायः । शेऽवृधासः ।

अभि । ये । सन्ति । पृतनासु । दुःऽध्यः । विश्वाहा । शत्रुम् । आऽदभुः ॥

“नरः कर्मणां नेतारो हे “मरुतः देवा यूयं “वृधं पशुपुत्रादिवर्धकम् “इमम् अस्माभिः स्तूयमानम् इमम् अग्निं “सश्चत हविरानयनार्थं सेवध्वम् । कीदृशोऽग्निः इत्याकाङ्क्षायामाह। “यस्मिन् देवे “रायः धनानि “शेवृधासः दानभोगाद्युपयोगेन सुखस्य वर्धकानि “अभि अभितः “सन्ति । “ये च देवाः “पृतनासु सेनासु तदुपलक्षितेषु संग्रामेषु “दूढ्यः दुष्टध्यानोपेतानात्मनो हिंसकाञ्छत्रून् अभि सन्ति अभिभवन्ति । ये च “विश्वाहा विश्वान्यहानि यस्मिन्नखण्डे काले तस्मिन् सर्वदा “शत्रुम् आत्मनो द्वेष्टारम् “आदभुः आदभ्नुवन्ति हिंसन्ति । एवंभूतास्ते सर्वे मरुतो यूयं तमिममग्निं सेवध्वमिति पूर्वेणान्वयः॥ सश्चत । षस्ज संगे ' इत्यस्मात् लोटि रूपम् । जकारस्य व्यत्ययेन चकारः । निघातः । शेवृधासः । वर्णव्यत्ययः । शं सुखं वर्धयतीति। असुन्' इत्यसुन् । गुणाभावश्छान्दसः। ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इत्यौणादिकसूत्रात् पूर्वपदप्रकृतिस्वरः । सन्ति । ' अस भुवि ' । दूढ्यः । ‘ ध्यै चिन्तायाम् ' । ‘ अन्येभ्योऽपि दृश्यते' इति क्विप् । दृशिग्रहणात्संप्रसारणम् । ‘ दुरो दाशनाशदभध्येषूत्वं वक्तव्यमुत्तरपदादेः ष्टुत्वं च ' इति उत्वढत्वे । ‘ छन्दस्युभयथा' इति शसीयाङादेशं बाधित्वा यणादेशः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । शसः सुप्तत्वात् अनुदात्तत्वे कृते ‘ उदात्तस्वरितयोर्यणः इति शसः स्वरितत्वम् । आदभुः । ‘ दम्भु दम्भे' । अस्माल्लिट्युसि रूपम् । श्रन्थिग्रन्थिदम्भिस्वञ्जीनामुपसंख्यानम् ' इति किद्वद्भावादनुनासिकलोपः। ‘ द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् ' ( का. ६. १. ८) इति द्विर्वचनाभावः । यद्वृत्तयोगादनिघातः । ‘ सतिशिष्टस्वरो बलीयान्' इति प्रत्ययस्वरः ॥


स त्वं नो॑ रा॒यः शि॑शीहि॒ मीढ्वो॑ अग्ने सु॒वीर्य॑स्य ।

तुवि॑द्युम्न॒ वर्षि॑ष्ठस्य प्र॒जाव॑तोऽनमी॒वस्य॑ शु॒ष्मिणः॑ ॥३

सः । त्वम् । नः॒ । रा॒यः । शि॒शी॒हि॒ । मीढ्वः॑ । अ॒ग्ने॒ । सु॒ऽवीर्य॑स्य ।

तुवि॑ऽद्युम्न । वर्षि॑ष्ठस्य । प्र॒जाऽव॑तः । अ॒न॒मी॒वस्य॑ । शु॒ष्मिणः॑ ॥

सः । त्वम् । नः । रायः । शिशीहि । मीढ्वः । अग्ने । सुऽवीर्यस्य ।

तुविऽद्युम्न । वर्षिष्ठस्य । प्रजाऽवतः । अनमीवस्य । शुष्मिणः ॥

हे “अग्ने “सः तथाविधः “त्वं “नः अस्मान् "रायः । तृतीयार्थे षष्ठी । धनेन "शिशीहि तीक्ष्णान् कुरु । अस्मान् धनसमृद्धान् कुरु । किंच "तुविद्युम्न बहुधनोपेत अत एव “मीढ्वः मीढ्वन् कामानां सेक्तः हे अग्ने त्वं “वर्षिष्ठस्य वृद्धतमस्य प्रभूतस्य “प्रजावतः अपत्ययुक्तस्य “अनमीवस्य आरोग्यहेतोः अत एव “शुष्मिणः बलहेतोः “सुवीर्यस्य शोभनसामर्थ्ययुक्तस्य अन्नस्य संबन्धिनोऽस्मान् कुरु । यद्वा । एतत्सर्वं रैविशेषणतया योजनीयम् । एताः षष्य्िस्तृतीयाथें । एतदुक्तं भवति । धनेन अपत्यारोग्यशरीरबलोपेतेन अन्नेन च अस्मान् समृद्धान् कुर्विति ॥ शिशीहि । ‘शिञ् निशाने ' इत्यस्य लोटि ‘ बहुलं छन्दसि' इति विकरणस्य श्लुः। ‘ वा छन्दसि ' इति विकल्पेन ङित्त्वात् ‘अङितश्च' इति हेर्धिरादेशो न भवति । दीर्घश्छान्दसः । निघातः । मीढ्वः । ‘ मिह सेचने ' इत्यस्य क्वसौ ‘दाश्वान्साह्वान्मीढ्वांश्च' इति निपातनात् ढत्वम् उपधादीर्घश्च । संबुद्धौ नुमि कृते हल्ङयादिलोपे संयोगान्तलोपे च कृते ‘ मतुवसो रु° संबुद्धौ छन्दसि ' इति रुः । पादादित्वादाद्युदात्तः ॥


चक्रि॒र्यो विश्वा॒ भुव॑ना॒भि सा॑स॒हिश्चक्रि॑र्दे॒वेष्वा दुवः॑ ।

आ दे॒वेषु॒ यत॑त॒ आ सु॒वीर्य॒ आ शंस॑ उ॒त नृ॒णां ॥४

चक्रिः॑ । यः । विश्वा॑ । भुव॑ना । अ॒भि । स॒स॒हिः । चक्रिः॑ । दे॒वेषु॑ । आ । दुवः॑ ।

आ । दे॒वेषु॑ । यत॑ते । आ । सु॒ऽवीर्ये॑ । आ । शंसे॑ । उ॒त । नृ॒णाम् ॥

चक्रिः । यः । विश्वा । भुवना । अभि । ससहिः । चक्रिः । देवेषु । आ । दुवः ।

आ । देवेषु । यतते । आ । सुऽवीर्ये । आ । शंसे । उत । नृणाम् ॥

“यः अयमग्निः “चक्रिः सर्वस्य जगतः कर्ता स च “विश्वा “भुवना विश्वानि भुवनानि “अभि अभिविशति । ‘ तत्सृष्ट्वा तदेवानुप्राविशत् ' ( तै. उ. २. ६ ) इति श्रुतेः । “चक्रिः कर्ता सोऽग्निः “सासहिः पुरोडाशादिहविर्भारसहनशीलः सन् “दुवः अस्माभिर्दत्तं हविः "देवेषु यजनीयदेवेषु “आ आनयति । स चाग्निः “देवेषु देवनशीलेषु स्तोतृषु “आ “यतते आभिमुख्येन गच्छति । यद्वा विश्वानि भुवनानि चक्रिः अभिसासहिरभिभवनशीलः । आकारश्चार्थे । देवेषु च दुवः परिचरणं चक्रिः कर्ता । यः एवंभूतः स आयतते इत्यादि पूर्ववत् । "उत अपि च “नृणां यज्ञस्य नेतॄणां शस्त्रिणां “शंसे । शंसनं शंसः शस्त्रम् । तस्मिन् सोऽग्निः “आ आगच्छति । तथा नृणां मनुष्याणां “सुवीर्ये शोभनवीर्योपेतयुद्धे तद्रक्षणार्थम् “आ आगच्छति । अनेनाग्नेः सर्वव्यापकता प्रतिपादिता भवति ॥ चक्रिः । ‘ डुकृञ् करणे' ।' आदृगमहनजनः किकिनौ लिट् च ' इति किन्प्रत्ययः । लिङ्वद्भावात् द्विर्वचनम् । कित्त्त्वात् गुणाभावः । नित्स्वरः । सासहिः । ‘ षह मर्षणे ' इत्यस्मात् यङन्तात् ‘सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ ' ( पा. म. ३.२.१७१.४ ) इति किः । प्रत्ययस्वरः । यतते । ‘ यती प्रयत्ने । यद्वृत्तयोगादनिघातः । शंसे। भावे घञ् । ञित्स्वरः । नृणाम् । “नृ च' इति विकल्पेन दीर्घाभावः । ‘ नामन्यतरस्याम् ' इति विभक्तेरुदात्तत्वम् । विश्वेत्यादिषु ‘ न लोकाव्यय ' इति षष्ठीप्रतिषेधः ॥


मा नो॑ अ॒ग्नेऽम॑तये॒ मावीर॑तायै रीरधः ।

मागोता॑यै सहसस्पुत्र॒ मा नि॒देऽप॒ द्वेषां॒स्या कृ॑धि ॥५

मा । नः॒ । अ॒ग्ने॒ । अम॑तये । मा । अ॒वीर॑तायै । री॒र॒धः॒ ।

मा । अ॒गोता॑यै । स॒ह॒सः॒ । पु॒त्र॒ । मा । नि॒दे । अप॑ । द्वेषां॑सि । आ । कृ॒धि॒ ॥

मा । नः । अग्ने । अमतये । मा । अवीरतायै । रीरधः ।

मा । अगोतायै । सहसः । पुत्र । मा । निदे । अप । द्वेषांसि । आ । कृधि ॥

“सहसस्पुत्र बलस्य पुत्र हे “अग्ने त्वं “नः अस्मान् “अमतये शत्रुभूताय दारिद्र्याय “मा “रीरधः संसिद्धान् विषयभूतान् मा कुरु। तथा “अवीरतायै अपुत्रतायै । ‘वीरशब्देन तद्वान् लक्ष्यते । वीरस्य भावो वीरता । न वीरता अवीरता । तस्यै । अस्मान् अपुत्रताया विषयभूतान् “मा कुरु । तथा त्वमस्मान् “अगोतायै गवादिपशुसंपत्यभावस्य विषयभूतान “मा कुरु । किंच अस्मान् “निदे निन्दाया विषयभूतान् “मा कुरु मा विधेहि । तथा त्वं “द्वेषांसि कर्मापराधनिमित्तान् द्वेषांश्च “अप “आ “कृधि अपाकुरु निवारय ।। अवीरतायै । वीर अस्य सन्तीति वीरः । अर्शआदित्वादच् । तस्य भावो वीरता । ‘ तस्य भावस्त्वतलौ ' इति तल् । न वीरता अवीरता । नञः स्वरे प्राप्ते ‘ परादिश्छन्दसि बहुलम् ' इति नञुत्तरस्य आदेरुदात्तता । रीरधः । ‘राध साध संसिद्धौ' । अस्माण्ण्यन्ताच्छान्दसे लुङि ‘णिश्रिद्रुस्रुभ्यः ' इति च्लेश्चङादेशः । ‘ णेरनिटि ' इति णिलोपः । ‘ णौ चङ्युपधायाः इत्युपधाह्वस्वः । ‘ चङि' इति द्विर्वचनम् ।' सन्वल्लघुनि चङ्परे ' इति सन्वद्भावः । ‘ सन्यतः । इत्यभ्यासस्येत्वम् । तस्य दीर्घो लघोः' इति दीर्घः । ‘ न माङ्योगे ' इत्यडभावः । निघातः ।। अगोतायै । गोशब्देन गोमान् लक्ष्यते । न गौरगौः । अगोर्भावोऽगोता। ‘ तस्य भावः' इति तल् । लित्स्वरः । सहसस्पुत्र। ‘ सुबामन्त्रिते पराङ्गवत्स्वरे' ' इति पराङ्गवद्भावात् सहसस्पुत्र इत्येतयोः सर्वानुदात्तत्वम् । निदे । ‘ णिदि कुत्सायाम् । अस्मात्संपदादित्वाद्भावे क्विप् । “ अनित्यमागमशासनम् ' इति नुमभावः । ‘सावेकाचः' इति विभक्तेरुदात्तता ॥


श॒ग्धि वाज॑स्य सुभग प्र॒जाव॒तोऽग्ने॑ बृह॒तो अ॑ध्व॒रे ।

सं रा॒या भूय॑सा सृज मयो॒भुना॒ तुवि॑द्युम्न॒ यश॑स्वता ॥६

श॒ग्धि । वाज॑स्य । सु॒ऽभ॒ग॒ । प्र॒जाऽव॑तः । अग्ने॑ । बृ॒ह॒तः । अ॒ध्व॒रे ।

सम् । रा॒या । भूय॑सा । सृ॒ज॒ । म॒यः॒ऽभुना॑ । तुवि॑ऽद्युम्न । यश॑स्वता ॥

शग्धि । वाजस्य । सुऽभग । प्रजाऽवतः । अग्ने । बृहतः । अध्वरे ।

सम् । राया । भूयसा । सृज । मयःऽभुना । तुविऽद्युम्न । यशस्वता ॥

“सुभग शोभनधनोपेत हे “अग्ने त्वम् “अध्वरे अस्माभिः क्रियमाणेऽस्मिन् अग्निष्टोमादिकर्मणि “बृहतः महतः प्रभूतस्य “प्रजावतः अपत्योपेतस्य “वाजस्य अन्नस्य “शग्धि ईशिषे । तादृशमन्नमस्मिन् अध्वरेऽस्मभ्यं देहि । किंच "तुविद्युम्न बहुधनयुक्त हे अग्ने “मयोभुना। मय इति सुखनाम ‘शेवृधं मयः' (नि. ३. ६. ७) इति तन्नामसु पाठात् । तद्दानाद्युपयोगहेतुतया सुखस्य भावकेन अत एव “यशस्वता कीर्तिमता “भूयसा अतिप्रभूतेन “राया एवंविधेन धनेनास्मान् “सं “सृज संयोजय ॥ शग्धि। शक्लृ शक्तौ ' इत्यस्य लोटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘ हुझल्भ्यो हेर्धिः' इति धिरादेशः । हेरपित्त्वादुदात्तता । राया । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । भूयसा । बहुशब्दात् द्विवचनविभज्योपपदे' इतीयसुन् । “ बहोर्लोपो भू च बहोः' इतीयसुनः सर्वस्य लोपे प्राप्ते आदेः परस्य' ( पा. सू. १.१.५४ ) इति प्रत्ययस्यादेर्लोपो बहोः भूरादेशश्च। नित्स्वरः । सृज ।' सृज विसर्गे '। तुदादिः । लोटि रूपम् । निघातः । मयोभुना । ‘भू सत्तायाम्' इत्यस्मात् औणादिको डुप्रत्ययः । तुविद्युम्न । पादादित्वादनिघातः ॥ ॥ १६ ॥



मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१६&oldid=168914" इत्यस्माद् पुनः प्राप्तिः