ऋग्वेदः सूक्तं ३.५३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ३.५२ ऋग्वेदः - मण्डल ३
सूक्तं ३.५३
गाथिनो विश्वामित्रः
सूक्तं ३.५४ →
दे. इन्द्रः, १ इन्द्रापर्वतौ, १५, १६ वाक् (ससर्परी), १७-२० रथाङ्गानि, २१-२४ अभिशापः। त्रिष्टुप्, १0, १६ जगती, १३ गायत्री, १२, २०, २२ अनुष्टुप्, १८ बृहती


इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः ।
वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भिरिळया मदन्ता ॥१॥
तिष्ठा सु कं मघवन्मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि ।
पितुर्न पुत्रः सिचमा रभे त इन्द्र स्वादिष्ठया गिरा शचीवः ॥२॥
शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् ।
एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम् ॥३॥
जायेदस्तं मघवन्सेदु योनिस्तदित्त्वा युक्ता हरयो वहन्तु ।
यदा कदा च सुनवाम सोममग्निष्ट्वा दूतो धन्वात्यच्छ ॥४॥
परा याहि मघवन्ना च याहीन्द्र भ्रातरुभयत्रा ते अर्थम् ।
यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य ॥५॥
अपाः सोममस्तमिन्द्र प्र याहि कल्याणीर्जाया सुरणं गृहे ते ।
यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत् ॥६॥
इमे भोजा अङ्गिरसो विरूपा दिवस्पुत्रासो असुरस्य वीराः ।
विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः ॥७॥
रूपंरूपं मघवा बोभवीति मायाः कृण्वानस्तन्वं परि स्वाम् ।
त्रिर्यद्दिवः परि मुहूर्तमागात्स्वैर्मन्त्रैरनृतुपा ऋतावा ॥८॥
महाँ ऋषिर्देवजा देवजूतोऽस्तभ्नात्सिन्धुमर्णवं नृचक्षाः ।
विश्वामित्रो यदवहत्सुदासमप्रियायत कुशिकेभिरिन्द्रः ॥९॥
हंसा इव कृणुथ श्लोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा ।
देवेभिर्विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु ॥१०॥
उप प्रेत कुशिकाश्चेतयध्वमश्वं राये प्र मुञ्चता सुदासः ।
राजा वृत्रं जङ्घनत्प्रागपागुदगथा यजाते वर आ पृथिव्याः ॥११॥
य इमे रोदसी उभे अहमिन्द्रमतुष्टवम् ।
विश्वामित्रस्य रक्षति ब्रह्मेदं भारतं जनम् ॥१२॥
विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे ।
करदिन्नः सुराधसः ॥१३॥
किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम् ।
आ नो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः ॥१४॥
ससर्परीरमतिं बाधमाना बृहन्मिमाय जमदग्निदत्ता ।
आ सूर्यस्य दुहिता ततान श्रवो देवेष्वमृतमजुर्यम् ॥१५॥
ससर्परीरभरत्तूयमेभ्योऽधि श्रवः पाञ्चजन्यासु कृष्टिषु ।
सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः ॥१६॥
स्थिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि ।
इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व ॥१७॥
बलं धेहि तनूषु नो बलमिन्द्रानळुत्सु नः ।
बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि ॥१८॥
अभि व्ययस्व खदिरस्य सारमोजो धेहि स्पन्दने शिंशपायाम् ।
अक्ष वीळो वीळित वीळयस्व मा यामादस्मादव जीहिपो नः ॥१९॥
अयमस्मान्वनस्पतिर्मा च हा मा च रीरिषत् ।
स्वस्त्या गृहेभ्य आवसा आ विमोचनात् ॥२०॥
इन्द्रोतिभिर्बहुलाभिर्नो अद्य याच्छ्रेष्ठाभिर्मघवञ्छूर जिन्व ।
यो नो द्वेष्ट्यधरः सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु ॥२१॥
परशुं चिद्वि तपति शिम्बलं चिद्वि वृश्चति ।
उखा चिदिन्द्र येषन्ती प्रयस्ता फेनमस्यति ॥२२॥
न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः ।
नावाजिनं वाजिना हासयन्ति न गर्दभं पुरो अश्वान्नयन्ति ॥२३॥
इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न प्रपित्वम् ।
हिन्वन्त्यश्वमरणं न नित्यं ज्यावाजं परि णयन्त्याजौ ॥२४॥


सायणभाष्यम्

‘इन्द्रापर्वता' इति चतुर्विंशत्यृचं पञ्चदशं सूक्तम् । अत्रेयमनुक्रमणिका- इन्द्रापर्वता चतुर्विंशतिराद्यैन्द्रापार्वती पञ्चदश्यादिद्वे वाचे संसर्पर्यै चतस्रो रथाङ्गस्तुतयोऽन्त्या अभिशापास्ता वसिष्ठद्वेषिण्यो न वसिष्ठाः शृण्वन्ति । दशमीषोडश्यौ जगत्यौ त्रयोदशी गायत्री द्वादशीविंशीद्वाविंश्योऽनुष्टुभोऽष्टादशी बृहती ' इति । विश्वामित्र ऋषिः । दशमी षोडशी च द्वे जगत्यौ त्रयोदशी गायत्री द्वादशीविंशीद्वाविंश्यस्तिस्रोऽनुष्टुभोऽष्टादशी बृहती शिष्टास्त्रिष्टुभः। आद्येन्द्रापर्वतदेवताका पञ्चदशीषोडश्यौ वाग्देवत्ये तदुत्तराश्चतस्रो रथाङ्गदेवताकाः शिष्टा ऐन्द्र्यः ॥


इंद्रा॑पर्वता बृह॒ता रथे॑न वा॒मीरिष॒ आ व॑हतं सु॒वीराः॑ ।

वी॒तं ह॒व्यान्य॑ध्व॒रेषु॑ देवा॒ वर्धे॑थां गी॒र्भिरिळ॑या॒ मदं॑ता ॥१

इन्द्रा॑पर्वता । बृ॒ह॒ता । रथे॑न । वा॒मीः । इषः॑ । आ । व॒ह॒त॒म् । सु॒ऽवीराः॑ ।

वी॒तम् । ह॒व्यानि॑ । अ॒ध्व॒रेषु॑ । दे॒वा॒ । वर्धे॑थाम् । गीः॒ऽभिः । इळ॑या । मद॑न्ता ॥१

इन्द्रापर्वता । बृहता । रथेन । वामीः । इषः । आ । वहतम् । सुऽवीराः ।

वीतम् । हव्यानि । अध्वरेषु । देवा । वर्धेथाम् । गीःऽभिः । इळया । मदन्ता ॥१

“इन्द्रापर्वता इन्द्रश्च पर्वतश्च । हे इन्द्रापर्वतौ "बृहता “रथेन आगत्य “वामीः वननीयाः “सुवीराः शोभनपुत्रोपेताः “इषः अन्नानि “आ “वहतम् अस्मदर्थं धारयतम् । प्रयच्छतमित्यर्थः । किंच हे देवौ द्योतमानौ “अध्वरेषु अस्मत्संबन्धिषु यज्ञेषु “हव्यानि हवनयोग्यानि पुरोडाशादीनि हवींषि “वीतं भक्षयतम् । तथा “इळया अस्माभिर्दत्तेन हविषा “मदन्ता हृष्यन्तौ युवां “गीर्भिः स्तुतिलक्षणाभिः अस्मदीयाभिर्वाग्भिः “वर्धेथां समृद्धौ भवतम् ॥ इन्द्रापर्वता । आमन्त्रितस्य पादादित्वात् षाष्ठिकमाद्युदात्तत्वम् । सुवीराः । बहुव्रीहौ ‘वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् । वीतम् । वी कान्त्यादिषु इत्यस्य लोटि अदादित्वाच्छपो लुक् । प्रत्ययस्वरः । वर्धेथाम् । ‘वृधु वृद्धौ ' इत्यस्य लोटि आथामो लसार्वधातुकस्वरे धातुस्वरः ॥


अहर्गणेष्वन्त्यवर्जितेष्वहःसु हारियोजनस्य ‘तिष्ठा सु कम्' इत्यनुवाक्या । सूत्रितं च-- ‘ तिष्ठा सु कं मघवन्मा परागा अयं यज्ञो देवया अयं मियेधः ' ( आश्व. श्रौ. ६. ११ ) इति ।

तिष्ठा॒ सु कं॑ मघव॒न्मा परा॑ गाः॒ सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि ।

पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त॒ इंद्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः ॥२

तिष्ठ॑ । सु । क॒म् । म॒घ॒ऽव॒न् । मा । परा॑ । गाः॒ । सोम॑स्य । नु । त्वा॒ । सुऽसु॑तस्य । य॒क्षि॒ ।

पि॒तुः । न । पु॒त्रः । सिच॑म् । आ । र॒भे॒ । ते॒ । इन्द्र॑ । स्वादि॑ष्ठया । गि॒रा । श॒ची॒ऽवः॒ ॥२

तिष्ठ । सु । कम् । मघऽवन् । मा । परा । गाः । सोमस्य । नु । त्वा । सुऽसुतस्य । यक्षि ।

पितुः । न । पुत्रः । सिचम् । आ । रभे । ते । इन्द्र । स्वादिष्ठया । गिरा । शचीऽवः ॥२

हे मघवन् धनवन्निन्द्र “कं सुखेनास्मिन् यज्ञे "सु “तिष्ठ सुष्ठु कंचित्कालमत्र तिष्ठ । “मा “परा "गाः अस्मदीयाद्यज्ञान्मा गच्छ । तत्र कारणमाह । “सुषुतस्य सुष्ठ्वभिषुतेन “सोमस्य सोमेन “नु क्षिप्रं “त्वा त्वां “यक्षि यजे । हे "शचीवः शक्तिमन् “इन्द्र “ते तव “सिचं वस्त्रप्रान्तं “स्वादिष्ठया स्वादुतरया स्तुतिलक्षणया “गिरा “आ “रभे आलभे । गृह्णामीत्यर्थः । तत्र दृष्टान्तः । “पितुर्न । यथा "पुत्रः मधुरया वाचा पितुर्जनकस्य चेलाञ्चलं गृह्णाति तद्वत् ॥ सु कमिति निपातद्वयम् । प्रथमस्य ‘ निपाता आद्युदात्ताः' इत्याद्युदात्तत्वम्। द्वितीयस्य ' चादयोऽनुदात्ताः' इत्यनुदात्तत्वम् ।' सोमस्य यक्षि । ‘ यज देवपूजासंगतिकरणदानेषु'। ‘ स्वरितञितः०' इत्यात्मनेपदम् । तस्य लुङि सिचि “ एकाचः०' इतीट्प्रतिषेधः । व्रश्चादिना षत्वम् । षढोः कः सि' इति कत्वम् । सिचः सकारस्य षत्वम् । निघातः । रभे । ‘डुलभष् प्राप्तौ'। लट्युत्तम इटि रूपम् । रलयोरभेदः । निघातः । स्वादिष्ठया । स्वादुशब्दादिष्ठनि रूपम् । नित्त्वादाद्युदात्तः ।।


शंसा॑वाध्वर्यो॒ प्रति॑ मे गृणी॒हींद्रा॑य॒ वाहः॑ कृणवाव॒ जुष्टं॑ ।

एदं ब॒र्हिर्यज॑मानस्य सी॒दाथा॑ च भूदु॒क्थमिंद्रा॑य श॒स्तं ॥३

शंसा॑व । अ॒ध्व॒र्यो॒ इति॑ । प्रति॑ । मे॒ । गृ॒णी॒हि॒ । इन्द्रा॑य । वाहः॑ । कृ॒ण॒वा॒व॒ । जुष्ट॑म् ।

आ । इ॒दम् । ब॒र्हिः । यज॑मानस्य । सी॒द॒ । अथ॑ । च॒ । भू॒त् । उ॒क्थम् । इन्द्रा॑य । श॒स्तम् ॥३

शंसाव । अध्वर्यो इति । प्रति । मे । गृणीहि । इन्द्राय । वाहः । कृणवाव । जुष्टम् ।

आ । इदम् । बर्हिः । यजमानस्य । सीद । अथ । च । भूत् । उक्थम् । इन्द्राय । शस्तम् ॥३

शंसिष्यन् होताध्वर्युं ब्रूते । हे अध्वर्यो आवां “शंसाव । होतस्त्वमेव शंससि । कथमहं शंसानि । अत आह । “प्रति “मे “गृणीहि इति । त्वं मे प्रतिगृणीहि ।' ओथामोदैव' इत्यादिकः होतुरुत्साहजननः प्रतिगरः ( आश्व. श्रौ. ७. ११ )। तं दत्स्व' । तथा “इन्द्राय “जुष्टं प्रीतियुक्तं “वाहः स्तोत्रं “कृणवाव करवाव। त्वं “यजमानस्य “इदं “बर्हिः अस्मिन् बर्हिषि “आ “सीद उपविश । “अथ “च अनन्तरम् “इन्द्राय इन्द्रार्थमावाभ्यां क्रियमाणम् “उक्थं शस्त्रं “शस्तं प्रशस्तं “भूत् भवतु ॥ शंसाव । 'शंसु स्तुतौ ' इत्यस्य लोट्युत्तमद्विवचने रूपम् । ‘ आडुत्तमस्य° ' इत्याडागमः । उत्तमस्य पिद्वद्भावादनुदात्तत्वे धातुस्वरः । मे। ‘ अनुप्रतिगृणश्च ' ( पा: सू: १. ४. ४१ ) इति संप्रदानसंज्ञा । जुष्टम् । नित्यं मन्त्रे' इत्याद्युदात्तत्वम् ॥


जा॒येदस्तं॑ मघव॒न्त्सेदु॒ योनि॒स्तदित्त्वा॑ यु॒क्ता हर॑यो वहंतु ।

य॒दा क॒दा च॑ सु॒नवा॑म॒ सोम॑म॒ग्निष्ट्वा॑ दू॒तो ध॑न्वा॒त्यच्छ॑ ॥४

जा॒या । इत् । अस्त॑म् । म॒घ॒ऽव॒न् । सा । इत् । ऊं॒ इति॑ । योनिः॑ । तत् । इत् । त्वा॒ । यु॒क्ताः । हर॑यः । व॒ह॒न्तु॒ ।

य॒दा । क॒दा । च॒ । सु॒नवा॑म । सोम॑म् । अ॒ग्निः । त्वा॒ । दू॒तः । ध॒न्वा॒ति॒ । अच्छ॑ ॥४

जाया । इत् । अस्तम् । मघऽवन् । सा । इत् । ऊं इति । योनिः । तत् । इत् । त्वा । युक्ताः । हरयः । वहन्तु ।

यदा । कदा । च । सुनवाम । सोमम् । अग्निः । त्वा । दूतः । धन्वाति । अच्छ ॥४

हे “मघवन् धनवन्निन्द्र “अस्तम् । अस्यन्ते क्षिप्यन्ते पदार्था अत्रेत्यस्तं गृहम् । “जायेत् जायैव गृहं भवति । न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते' इति स्मृतेः । तथा "सेत् सा जायैव “योनिः पुरुषस्य मिश्रणस्थानम्। "उ प्रसिद्ध्यर्थः। तस्मात् “तदित् तत्र गृहे एव “युक्ताः रथे योजिताः “हरयः अश्वाः “त्वा त्वां “वहन्तु । वयं तु “यदा “कदा "च त्वदर्थं “सोमं “सुनवाम अभिषुतं करवाम तदास्माभिः प्रहितः "दूतः “अग्निः “त्वा त्वाम् “अच्छ आभिमुख्येन “धन्वाति गच्छेत् ॥ अस्तम् । असु क्षेपणे'।' असिहसिमृग्रिण्वामि°' इत्यादिना तन्प्रत्ययः । नित्वात् आद्युदात्तः । सुनवाम । षुञ् अभिषवे' इत्यस्य लोटि रूपम् । यद्वृत्तयोगादनिघातः । त्वा । ‘युष्मत्तत्ततक्षुष्वन्तःपादम्' इति संहितायां षत्वम् । धन्वाति । धवि गत्यर्थः । लेट्याडागमे रूपम् । निघातः ॥


अहर्गणेऽन्त्यवर्जितेष्वहःसु हारियोजनस्य वैकल्पिकी • परा याहि ' इत्यनुवाक्या । • परा याहि मघवन्ना च याहीति वानुवाक्या' ( आश्व. श्रौ. ६. ११ ) इति सूत्रितम् ॥

परा॑ याहि मघव॒न्ना च॑ या॒हींद्र॑ भ्रातरुभ॒यत्रा॑ ते॒ अर्थं॑ ।

यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ॥५

परा॑ । या॒हि॒ । म॒घ॒ऽव॒न् । आ । च॒ । या॒हि॒ । इन्द्र॑ । भ्रा॒तः॒ । उ॒भ॒यत्र॑ । ते॒ । अर्थ॑म् ।

यत्र॑ । रथ॑स्य । बृ॒ह॒तः । नि॒ऽधान॑म् । वि॒ऽमोच॑नम् । वा॒जिनः॑ । रास॑भस्य ॥५

परा । याहि । मघऽवन् । आ । च । याहि । इन्द्र । भ्रातः । उभयत्र । ते । अर्थम् ।

यत्र । रथस्य । बृहतः । निऽधानम् । विऽमोचनम् । वाजिनः । रासभस्य ॥५

हे “मघवन् धनवन् “इन्द्र त्वं “परा “याहि अस्माद्देवयजनात् पराङ्मुखो गृहं प्रति गच्छ । अथवा देवयजनं प्रति “आ “याहि । हे "भ्रातः पोषक “उभयत्र अपि “ते तव “अर्थम् । अर्यते प्राप्यत इत्यर्थः प्रयोजनम् । अस्ति तत्र जाया अत्र सोमः । प्रयोजनान्तरमाह । “यत्र गृहं प्रति गमने “बृहतः महतः “रथस्य उपरि “निधानम् अवस्थानं प्रयोजनम् । अत्र स्थितौ “रासभस्य हेषारवं कुर्वतः “वाजिनः अश्वस्य रथात् “विमोचनं प्रयोजनम् ॥ अर्थम् । ऋ गतौ ।' उषिकुषिगार्तिभ्यस्थन् । इति थन् । नित्स्वरः । निधानम् । दधातेर्भावे ल्युट् । ‘लिति' इति प्रत्ययात्पूर्व स्योदात्तत्वम् । रासभस्य । ‘रासृ शब्दे'। 'रासिवल्लिभ्यां च ' ( उ. सू. ३. ४०५) इति कर्तरि अभच्प्रत्ययः । ग्रामादित्वादाद्युदात्तः ॥ ॥ १९ ॥


अन्त्येष्वहःसु हारियोजनस्य ‘अपाः सोमम्' इत्यनुवाक्या । सूत्रितं च- हारियोजनोऽपाः सोममस्तमिन्द्र प्र याहि ' ( आश्व. श्रौ. ६. ११ ) इति ।

अपाः॒ सोम॒मस्त॑मिंद्र॒ प्र या॑हि कल्या॒णीर्जा॒या सु॒रणं॑ गृ॒हे ते॑ ।

यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ दक्षि॑णावत् ॥६

अपाः॑ । सोम॑म् । अस्त॑म् । इ॒न्द्र॒ । प्र । या॒हि॒ । क॒ल्या॒णीः । जा॒या । सु॒ऽरण॑म् । गृ॒हे । ते॒ ।

यत्र॑ । रथ॑स्य । बृ॒ह॒तः । नि॒ऽधान॑म् । वि॒ऽमोच॑नम् । वा॒जिनः॑ । दक्षि॑णाऽवत् ॥६

अपाः । सोमम् । अस्तम् । इन्द्र । प्र । याहि । कल्याणीः । जाया । सुऽरणम् । गृहे । ते ।

यत्र । रथस्य । बृहतः । निऽधानम् । विऽमोचनम् । वाजिनः । दक्षिणाऽवत् ॥६

हे “इन्द्र “सोमम् “अपाः । अत्रैव स्थित्वा सोमं पिब । पीत्वा “अस्तं गृहं “प्र “यहि प्रकर्षेण गच्छ । "ते तव "गृहे “कल्याणीः मङ्गलकारिणी “जाया शची विद्यते । “सुरणं शोभनगीतादिध्वनिश्चास्ति । यद्वा । सुरणं सुरमणीयं यथा भवति तथा गृहे जाया तिष्ठति । “यत्र इत्यादि गतम् । "दक्षिणावत् । अत्र स्थितौ सत्यां रथे योजितानां वाजिनां विमोचनं खादनपानादिना दक्षिणावत् प्रयोजनवद्भवति । विमुक्तेभ्यो वाजिभ्यः खादनं पानं चोपहरन्ति । अपाः।' पा पाने'। लुङि' गातिस्था इति. सिचो लुक् । अडागमस्वरः । कल्याणीः । कल्याणमस्यास्तीति मत्वर्थे ' छन्दसीवनिपौ' इति ईप्रत्ययः । प्रत्ययस्वरः । सुरणम् । रण शब्दार्थः । अस्मादकृच्छ्रार्थे खल् । लित्स्वरः। प्रत्ययस्य पित्वादनुदात्तत्वे धातुस्वरः । समासे कृदुत्तरपदस्वरः ॥


इ॒मे भो॒जा अंगि॑रसो॒ विरू॑पा दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः ।

वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रंत॒ आयुः॑ ॥७

इ॒मे । भो॒जाः । अङ्गि॑रसः । विऽरू॑पाः । दि॒वः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः ।

वि॒श्वामि॑त्राय । दद॑तः । म॒घानि॑ । स॒ह॒स्र॒ऽसा॒वे । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥७

इमे । भोजाः । अङ्गिरसः । विऽरूपाः । दिवः । पुत्रासः । असुरस्य । वीराः ।

विश्वामित्राय । ददतः । मघानि । सहस्रऽसावे । प्र । तिरन्ते । आयुः ॥७

हे इन्द्र “इमे यागं कुर्वाणाः “भोजाः सौदासाः क्षत्रियास्तेषां याजकाः '“विरूपाः नानारूपाः मेधातिथिप्रभृतयः "अङ्गिरसः च "दिवः "असुरस्य देवेभ्योऽपि बलवतो रुद्रस्य “पुत्रासः पुत्राः "वीराः बलवन्तो मरुतः ते सर्वे विश्वामित्राय मह्यं “सहस्रसावे । सहस्रं सूयतेऽत्रेति सहस्रसावोऽश्वमेधः । तस्मिन्नश्वमेधे "मघानि मंहनीयानि धनानि “ददतः प्रयच्छन्तः सन्तः “आयुः जीवनमन्नं वा “प्र “तिरन्ते प्रकर्षेण वर्धयन्ति ॥ दिवस्पुत्रास इति संहितायां ' षष्याःान पतिपुत्र° ' इति विसर्जनीयस्य सत्वम् । ददतः । ‘ डुदाञ् दाने ' इत्यस्य शतरि रूपम् । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । तिरन्ते । तरतेर्व्यत्ययेन शः ॥


रू॒पंरू॑पं म॒घवा॑ बोभवीति मा॒याः कृ॑ण्वा॒नस्त॒न्वं१॒॑ परि॒ स्वां ।

त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॒त्स्वैर्मंत्रै॒रनृ॑तुपा ऋ॒तावा॑ ॥८

रू॒पम्ऽरू॑पम् । म॒घऽवा॑ । बो॒भ॒वी॒ति॒ । मा॒याः । कृ॒ण्वा॒नः । त॒न्व॑म् । परि॑ । स्वाम् ।

त्रिः । यत् । दि॒वः । परि॑ । मु॒हू॒र्तम् । आ । अगा॑त् । स्वैः । मन्त्रैः॑ । अनृ॑तुऽपाः । ऋ॒तऽवा॑ ॥८

रूपम्ऽरूपम् । मघऽवा । बोभवीति । मायाः । कृण्वानः । तन्वम् । परि । स्वाम् ।

त्रिः । यत् । दिवः । परि । मुहूर्तम् । आ । अगात् । स्वैः । मन्त्रैः । अनृतुऽपाः । ऋतऽवा ॥८

“मघवा धनवानिन्द्रः "रूपंरूपं यद्यद्रूपं कामयते तत्तद्रूपं “बोभवीति भृशं प्राप्नोति । तत्तद्रूपात्मको भवति । तत्र कारणमुच्यते । “मायाः अनेकरूपग्रहणसामर्थ्योपेताः “कृण्वानः कुर्वाणः “स्वां “तन्वं स्वकीयां तनूम् । “परि पञ्चम्यर्थे । स्वस्माच्छरीरान्नानाविधानि शरीराणि निर्मिमीते। यद्वा स्वां तनूं नानाविधरूपोपेतां करोति । तथा च मन्त्रवर्णः - इन्द्रो मायाभिः पुरुरूपः' (ऋ. सं. ६.४७.१८ ) इति । “यत् यस्मात् “स्वैर्मन्त्रैः स्वकीयैः स्तुतिलक्षणैर्वाक्यैराहूतः "अनृतुपाः । न केवलमृतुष्वेव पिबति किंतु अनृतुष्वपि । बहुशः सोमं पिबन्नित्यर्थः । “ऋतावा सत्यवान् तादृश इन्द्रः "दिवः स्वर्गलोकात् “परि “मुहूर्तम् एकस्मिन्नेव मुहूर्ते नानादेशवर्तिषु यज्ञेषु तत्रापि “त्रिः त्रिषु सवनेषु “आगात् आगच्छति ॥ बोभवीति । भवतेर्यङ्लुकि तिपि ' यङो वा ' इतीडागमः । निघातः । अगात् । इणो लुङि रूपम् । यद्वृत्तयोगादनिघातः ॥


म॒हाँ ऋषि॑र्देव॒जा दे॒वजू॒तोऽस्त॑भ्ना॒त्सिंधु॑मर्ण॒वं नृ॒चक्षाः॑ ।

वि॒श्वामि॑त्रो॒ यदव॑हत्सु॒दास॒मप्रि॑यायत कुशि॒केभि॒रिंद्रः॑ ॥९

म॒हान् । ऋषिः॑ । दे॒व॒ऽजाः । दे॒वऽजू॑तः । अस्त॑भ्नात् । सिन्धु॑म् । अ॒र्ण॒वम् । नृ॒ऽचक्षाः॑ ।

वि॒श्वामि॑त्रः । यत् । अव॑हत् । सु॒ऽदास॑म् । अप्रि॑यायत । कु॒शि॒केभिः॑ । इन्द्रः॑ ॥९

महान् । ऋषिः । देवऽजाः । देवऽजूतः । अस्तभ्नात् । सिन्धुम् । अर्णवम् । नृऽचक्षाः ।

विश्वामित्रः । यत् । अवहत् । सुऽदासम् । अप्रियायत । कुशिकेभिः । इन्द्रः ॥९

“महान् तपसा अतिशयितसामर्थ्यवान् “ऋषिः अतीन्द्रियार्थद्रष्टा “देवजाः द्योतमानानां तेजसां जनयिता “देवजूतः तैस्तेजोभिराकृष्टः “नृचक्षाः नृणां कर्म नेतॄणामध्वर्वांयदीनामुपद्रष्टा सः “विश्वामित्रः "अर्णवम् उदकवन्तं "सिन्धुं विपाट्छुतुद्र्योः संभेदम् “अस्तभ्नात् निरुद्धवेगमकरोत् । किंच स विश्वामित्रः “सुदासं पैजवनं राजानं “यत् यदा "अवहत् अयाजयत् तदानीम् “इन्द्रः “कुशिकेभिः कुशिकगोत्रोत्पनैर्ऋषिभिः सह “अप्रियायत प्रिय इवाचरत् ॥ अवहत् ।' वह प्रापणे ' इत्यस्य लङि रूपम् । यद्योगादनिघातः । अप्रियायत । प्रिय इवाचरतीत्यर्थे ' कर्तुः क्यङ् सलोपश्च' इति क्यङ् । तदन्ताल्लङि रूपम् । पादादित्वादनिघातः ॥


हं॒सा इ॑व कृणुथ॒ श्लोक॒मद्रि॑भि॒र्मदं॑तो गी॒र्भिर॑ध्व॒रे सु॒ते सचा॑ ।

दे॒वेभि॑र्विप्रा ऋषयो नृचक्षसो॒ वि पि॑बध्वं कुशिकाः सो॒म्यं मधु॑ ॥१०

हं॒साःऽइ॑व । कृ॒णु॒थ॒ । श्लोक॑म् । अद्रि॑ऽभिः । मद॑न्तः । गीः॒ऽभिः । अ॒ध्व॒रे । सु॒ते । सचा॑ ।

दे॒वेभिः॑ । वि॒प्राः॒ । ऋ॒ष॒यः॒ । नृ॒ऽच॒क्ष॒सः॒ । वि । पि॒ब॒ध्व॒म् । कु॒शि॒काः॒ । सो॒म्यम् । मधु॑ ॥१०

हंसाःऽइव । कृणुथ । श्लोकम् । अद्रिऽभिः । मदन्तः । गीःऽभिः । अध्वरे । सुते । सचा ।

देवेभिः । विप्राः । ऋषयः । नृऽचक्षसः । वि । पिबध्वम् । कुशिकाः । सोम्यम् । मधु ॥१०

हे “विप्राः मेधाविनो हे “ऋषयः अतीन्द्रियार्थस्य द्रष्टारो हे “नृचक्षसः नृणां कर्मनेतॄणां विशेषेण द्रष्टारो हे “कुशिकाः कुशिकगोत्रोत्पन्ना हे पुत्राः “अध्वरे यज्ञे “अद्रिभिः ग्रावभिः सोमे "सुते अभिषुते सति “गीर्भिः “मदन्तः स्तुतिभिर्देवान् मादयन्तो यूयं “श्लोकम् । श्लोक्यते शस्यतेऽनेनेति श्लोकः शस्त्रम् । “कृणुथ सम्यगुच्चारयत । तत्र दृष्टान्तः । “हंसाइव । यथा हंसाः सम्यक् शब्दं कुर्वन्ति तद्वत् । किंच “देवेभिः “सचा यष्टव्यदेवैः सहिता यूयं “सोम्यं सोममयं “मधु मधुकरं रसं "वि “पिबध्वं परस्परव्यतिहारेण पिबत ॥ श्लोकम् ।' श्लोकृ शब्दे ' । करणे घञ् । ञित्वादाद्युदात्तः । मदन्तः । मदी हर्षे' इत्यस्यान्तर्भावितण्यर्थस्य व्यत्ययेन शप् । पिबध्वम् । ‘ पा पाने '।' कर्तरि कर्मव्यतिहारे ' इत्यात्मनेपदम् । सोम्यम् । सोमशब्दात् ' मये च ' इति यप्रत्ययः ॥ ॥ २० ॥


उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं॑ रा॒ये प्र मुं॑चता सु॒दासः॑ ।

राजा॑ वृ॒त्रं जं॑घन॒त्प्रागपा॒गुद॒गथा॑ यजाते॒ वर॒ आ पृ॑थि॒व्याः ॥११

उप॑ । प्र । इ॒त॒ । कु॒शि॒काः॒ । चे॒तय॑ध्वम् । अश्व॑म् । रा॒ये । प्र । मु॒ञ्च॒त॒ । सु॒ऽदासः॑ ।

राजा॑ । वृ॒त्रम् । ज॒ङ्घ॒न॒त् । प्राक् । अपा॑क् । उद॑क् । अथ॑ । य॒जा॒ते॒ । वरे॑ । आ । पृ॒थि॒व्याः ॥११

उप । प्र । इत । कुशिकाः । चेतयध्वम् । अश्वम् । राये । प्र । मुञ्चत । सुऽदासः ।

राजा । वृत्रम् । जङ्घनत् । प्राक् । अपाक् । उदक् । अथ । यजाते । वरे । आ । पृथिव्याः ॥११

हे "कुशिकाः कुशिकगोत्रोत्पन्ना हे पुत्राः “उप "प्रेत अश्वस्य समीपे प्रकर्षेण गच्छत । तत्र गत्वा केतयध्वं सावधाना भवत । यद्वा । अश्वरक्षिणः सावधानान् कुरुत । “सुदासः पैजवनस्य राज्ञः “अश्वं “राये तस्य दिग्विजयेन धनलाभाय “प्र “मुञ्चत । “राजा देवानां स्वामीन्द्रः “वृत्रं कर्मविघ्नकारिणमसुरं “प्रागपागुदक् पूर्वपश्चिमोत्तरेषु देशेषु "जङ्घनत् भृशं हतवान् । तस्मादश्वं विमुञ्चतेति भावः। “अथ अनन्तरं “पृथिव्याः “वरे उत्तमे देवयजनदेशे “यजाते स राजा यजेत ॥ चेतयध्वम् । चिती संज्ञाने' इत्यस्य ण्यन्तस्य लोटि रूपम् । आमन्त्रितस्याविद्यमानवत्त्वेन तिङ उत्तरत्वान्न निघातः ।जङ्घनत् ।' हन हिंसागत्योः ' इत्यस्य यङ्लुकि “ नुगतोऽनुनासिकान्तस्य ' इत्यभ्यासस्य नुगागमः । तदन्ताल्लेट्यडागमः। प्राक् । अञ्चतेः क्विनि रूपम् ।“ अनिगन्तोऽञ्चतौ वप्रत्यये ' इति गतेः स्वरः। यजाते । यजतेर्लेट्याडागमः । निघातः । वरे । ' वृञ् वरणे ' इत्यस्मात् ' ग्रहवृदृनिश्चिगमश्च ' इत्यप्प्रत्ययः । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः ॥


य इ॒मे रोद॑सी उ॒भे अ॒हमिंद्र॒मतु॑ष्टवं ।

वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दं भार॑तं॒ जनं॑ ॥१२

यः । इ॒मे इति॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । अ॒हम् । इन्द्र॑म् । अतु॑स्तवम् ।

वि॒श्वामि॑त्रस्य । र॒क्ष॒ति॒ । ब्रह्म॑ । इ॒दम् । भार॑तम् । जन॑म् ॥१२

यः । इमे इति । रोदसी इति । उभे इति । अहम् । इन्द्रम् । अतुस्तवम् ।

विश्वामित्रस्य । रक्षति । ब्रह्म । इदम् । भारतम् । जनम् ॥१२

हे कुशिकाः कुशिकपुत्राः “यः "अहं विश्वामित्रः “उभे “इमे “रोदसी द्यावापृथिव्यौ इन्द्रमतुष्टवं स्तावयामि । द्यावापृथिवीभ्यामिन्द्रस्य स्तोत्रं मया कारितमित्यर्थः । यद्वा । उभयो रोदस्योः अन्तरवस्थितम् इन्द्रं स्तौमि । स्तोत्रं कुर्वाणस्य “विश्वामित्रस्य मम “इदम् इन्द्रविषयं “ब्रह्म स्तोत्रं “भारतं भरतकुलं “जनं “रक्षति पालयति ॥ अतुष्टवम् । ‘ष्टुञ् स्तुतौ '। ण्यन्तस्य लुङि चङि रूपम् । यद्वृत्तयोगादनिघातः । भारतम् । भरतशब्द उत्सादिः । ञित्त्वादाद्युदात्तः ॥


वि॒श्वामि॑त्रा अरासत॒ ब्रह्मेंद्रा॑य व॒ज्रिणे॑ ।

कर॒दिन्नः॑ सु॒राध॑सः ॥१३

वि॒श्वामि॑त्राः । अ॒रा॒स॒त॒ । ब्रह्म॑ । इन्द्रा॑य । व॒ज्रिणे॑ ।

कर॑त् । इत् । नः॒ । सु॒ऽराध॑सः ॥१३

विश्वामित्राः । अरासत । ब्रह्म । इन्द्राय । वज्रिणे ।

करत् । इत् । नः । सुऽराधसः ॥१३

“विश्वामित्राः “वज्रिणे वज्रहस्ताय “इन्द्राय “ब्रह्म स्तोत्रम् "अरासत अकुर्वन् । स्तुतः स इन्द्रः “नः अस्मान् "सुराधसः शोभनधनोपेतान् “करदित् करोत्वेव ।। अरासत । ‘ रासृ शब्दे ' इत्यस्य लङि ‘ बहुलं छन्दसि ' इति शपो लुक् । निघातः । करत् । करोतेर्लुङि च्लेः ' कृमृदृरुहिभ्यश्छन्दसि' इत्यङादेशः । सुराधसः । ' आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् ॥


किं ते॑ कृण्वंति॒ कीक॑टेषु॒ गावो॒ नाशिरं॑ दु॒ह्रे न त॑पंति घ॒र्मं ।

आ नो॑ भर॒ प्रम॑गंदस्य॒ वेदो॑ नैचाशा॒खं म॑घवन्रंधया नः ॥१४

किम् । ते॒ । कृ॒ण्व॒न्ति॒ । कीक॑टेषु । गावः॑ । न । आ॒ऽशिर॑म् । दु॒ह्रे । न । त॒प॒न्ति॒ । घ॒र्मम् ।

आ । नः॒ । भ॒र॒ । प्रऽम॑गन्दस्य । वेदः॑ । नै॒चा॒ऽशा॒खम् । म॒घ॒ऽव॒न् । र॒न्ध॒य॒ । नः॒ ॥१४

किम् । ते । कृण्वन्ति । कीकटेषु । गावः । न । आऽशिरम् । दुह्रे । न । तपन्ति । घर्मम् ।

आ । नः । भर । प्रऽमगन्दस्य । वेदः । नैचाऽशाखम् । मघऽवन् । रन्धय । नः ॥१४

हे इन्द्र “कीकटेषु अनार्यनिवासेषु जनपदेषु । यद्वा । क्रियाभिर्यागदानहोमलक्षणाभिः किं फलिष्यतीत्यश्रद्दधानाः प्रत्युत पिबत खादतायमेव लोको न पर इति वदन्तो नास्तिकाः कीकटाः तेषु । “गावः “ते तव “किं “कृण्वन्ति किं कुर्वन्ति । न क्वचित्तवोपयोगं कुर्वन्तीत्यर्थः । अनुपयोगं दर्शयति । “आशिरं सोममिश्रणयोग्यं पयः “न “दुहे न दुहन्ति । किंच “घर्मं प्रवर्ग्याख्यकर्मोपयुक्तं महावीरपात्रं स्वपयःप्रदानद्वारेण “न “तपन्ति “न दीपयन्ति । एतेन सांनाय्याद्यर्थमपि नोपयुज्यन्ते इत्यपि सूचितं भवति । एवं क्वचिदपि वैदिके कर्मण्यनुपयुक्तास्ता गाः “नः अस्मभ्यम् “आ “भर आहर । न केवलं ता एव । किं तर्हि “प्रमगन्दस्य । द्वैगुण्यादिलक्षणपरिमाणं गतोऽर्थो मामेव गमिष्यतीति बुद्ध्या परेषां ददातीति मगन्दो वार्धुषिकः । तस्यापत्यं पुत्रादिः प्रमगन्दः । प्रस्कण्वादिवदपत्यार्थः प्रशब्देन द्योत्यते । तस्यात्यन्तकुसीदिकुलस्य "वेदः धनमाहर। किंच हे “मघवन् धनवन्निन्द्र “नैचाशाखम् । नीचासु शूद्रयोनिषु उत्पादिता शाखा पुत्रपौत्रादिपरंपरा येन स नीचाशाखः । ‘ शूद्रापत्यैश्च केवलैः । ‘ शूद्रावेदी’ पतस्यधः' इति च पातकहेतुत्वेन स्मरणात् । पतितस्य संबन्धि धनं नैचाशाखम् । तद्धनं “नः अस्मभ्यं “रन्धय साधय । एतेषां तद्धनं तव नोपयुज्यते अस्मदायत्तं तु तद्धनं यागादिद्वारा तवोपयुज्यते । तस्मात्तदस्मभ्यं प्रयच्छेति भावः ॥ एतमर्थं यास्कोऽप्याह- किं ते कुर्वन्ति कीकटेषु गावः । कीकटा नाम देशोऽनार्य निवासः । कीकटाः किंकृताः किं क्रियाभिः इतिप्रेप्साः वा। नैव चाशिरं दुहे न तपन्ति घर्मं घरणम्। आ हर नः प्रमगन्दस्य धनानि । मगन्दः कुसीदी मांगदो मामागमिष्यतीति च ददाति । तदपत्यं प्रमगन्दः अत्यन्त कुसीदिकुलीनः। प्रमदको वा योऽयमेवास्ति लोको न पर इति प्रेप्सुः । पण्डको वा पण्डकः पण्डगः प्रार्दको वा प्रार्दयत्याण्डौ । आण्डावाणी इव व्रीडयति । तत्स्थं नैचाशाखम् । नीचाशाखो नीचैःशाखः । शाखाः शक्नोतेः । आणिररणात् । तन्नो मघवन् रन्धय इति रध्यतिर्वशगमने' (निरु. ६. ३२) इति ॥ आशिरम् । आङ्पूर्वात् श्रीणीतेः क्विपि 'अपस्पृधेथाम् ' इत्यादिना आशिर इत्यादेशः । दुहे। दुहेर्लिटि ‘ इरयो रे ' इति रेआदेशः । द्विर्वचनस्य विकल्पितत्वात् द्विर्वचनाभावः। ‘ चादिलोपे विभाषा ' इति न निघातः । नैचाशाखम् । तस्येदम्' इत्यण् । प्रत्ययस्वरः । रन्धय । रधेर्ण्यन्तस्य ‘रधिजभोरचि ' इति नुमागमः ॥


‘ ससर्परीद्वृचे० प्राहुरितिहासं पुराविदः । सौदासनृपयज्ञे वै वसिष्ठात्मजशक्तिना । विश्वामित्रस्याभिभूतं बलं वाक् च समन्ततः । वासिष्ठेनाभिभूतः स ह्यवासीदथ गाधिजः । तस्मै ब्राह्मीं तु सौरीं वा नाम्ना वाचं ससर्परीम् । सूर्यवेश्मन आहृत्य ददुर्वै जमदग्नयः । कुशिकानां मतिः सा वागमतिं तामपानुदत्' (अनु. भा. ३. ५३ ) ॥

स॒स॒र्प॒रीरम॑तिं॒ बाध॑माना बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता ।

आ सूर्य॑स्य दुहि॒ता त॑तान॒ श्रवो॑ दे॒वेष्व॒मृत॑मजु॒र्यं ॥१५

स॒स॒र्प॒रीः । अम॑तिम् । बाध॑माना । बृ॒हत् । मि॒मा॒य॒ । ज॒मद॑ग्निऽदत्ता ।

आ । सूर्य॑स्य । दु॒हि॒ता । त॒ता॒न॒ । श्रवः॑ । दे॒वेषु॑ । अ॒मृत॑म् । अ॒जु॒र्यम् ॥१५

ससर्परीः । अमतिम् । बाधमाना । बृहत् । मिमाय । जमदग्निऽदत्ता ।

आ । सूर्यस्य । दुहिता । ततान । श्रवः । देवेषु । अमृतम् । अजुर्यम् ॥१५

"जमदग्निदत्ता जमदग्निभिः प्रज्वलिताग्निभिर्ऋषिभिरस्मभ्यं दत्ता “अमतिम् अज्ञानं “बाधमाना “ससर्परीः सर्वत्र शब्दरूपतया सर्पणशीला वाक् “बृहत् प्रभूतं यथा भवति तथा “मिमाय नभसि शब्दं करोति । सैषा "सूर्यस्य "दुहिता वाग्देवता “देवेषु इन्द्रादिषु “अजुर्यं क्षयरहितम् "अमृतम् अमृतलक्षणं “श्रवः अन्नम् “आ “ततान समन्तात् स्वाहाकारवाचा' तनोति ॥ जमदग्निदत्ता । ‘दाण् दाने' इत्यस्य निष्ठायां ‘दो दद्धोः' इति ददादेशः । तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरः । अजुर्यम् । ‘जॄ वयोहानौ '। ऋहलोर्ण्यत्'। ‘ बहुलं छन्दसि' इत्युत्वम् ।' नञ्सुभ्याम् ' इत्यन्तोदात्तत्वम् ॥२१॥


स॒स॒र्प॒रीर॑भर॒त्तूय॑मे॒भ्योऽधि॒ श्रवः॒ पांच॑जन्यासु कृ॒ष्टिषु॑ ।

सा प॒क्ष्या॒३॒॑ नव्य॒मायु॒र्दधा॑ना॒ यां मे॑ पलस्तिजमद॒ग्नयो॑ द॒दुः ॥१६

स॒स॒र्प॒रीः । अ॒भ॒र॒त् । तूय॑म् । ए॒भ्यः॒ । अधि॑ । श्रवः॑ । पाञ्च॑ऽजन्यासु । कृ॒ष्टिषु॑ ।

सा । प॒क्ष्या॑ । नव्य॑म् । आयुः॑ । दधा॑ना । याम् । मे॒ । प॒ल॒स्ति॒ऽज॒म॒द॒ग्नयः॑ । द॒दुः ॥१६

ससर्परीः । अभरत् । तूयम् । एभ्यः । अधि । श्रवः । पाञ्चऽजन्यासु । कृष्टिषु ।

सा । पक्ष्या । नव्यम् । आयुः । दधाना । याम् । मे । पलस्तिऽजमदग्नयः । ददुः ॥१६

"ससर्परीः सर्वत्र गद्यपद्यात्मकत्वेन सर्पणशीला वाग्देवता “पाञ्चजन्यासु “कृष्टिषु । निषादपञ्चमाश्चत्वारो वर्णाः पञ्चजनाः । तत्संबन्धिनीषु प्रजासु यत् “श्रवः अन्नं विद्यते तन्नोऽस्मभ्यम् “अधि अधिकं यथा भवति तथा “तूयं क्षिप्रम् “अभरत् भरतु संपादयतु । “पलस्तिजमदग्नयः पलस्तयः पलिता दीर्घायुषो जमदग्नयो मुनयः “यां वाचं सूर्यादाहृत्य “मे मह्यं “ददुः अददुः “पक्ष्या पक्षस्य पक्षादिनिर्वाहकस्य सूर्यस्य दुहिता “सा वाक् “नव्यं नवतरम् “आयुः अन्नं जीवनं वा “दधाना मम कुर्वाणा भवतु ॥ पाञ्चजन्यासु ।' बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम्' इति ञ्यप्रत्ययः । ञित्त्वादाद्युदात्तः । पक्ष्या । पक्षे भवा । दिगादित्वाद्यत् । तित्स्वरितः । नव्यम् । नवशब्दात् वस्वादित्वात् स्वार्थिको यत् । पलस्तिजमदग्नयः पलस्तयो जमदग्नयः । कर्मधारयसमासः । समासस्वरः ।।


स्थि॒रौ गावौ॑ भवतां वी॒ळुरक्षो॒ मेषा वि व॑र्हि॒ मा यु॒गं वि शा॑रि ।

इंद्रः॑ पात॒ल्ये॑ ददतां॒ शरी॑तो॒ररि॑ष्टनेमे अ॒भि नः॑ सचस्व ॥१७

स्थि॒रौ । गावौ॑ । भ॒व॒ता॒म् । वी॒ळुः । अक्षः॑ । मा । ई॒षा । वि । व॒र्हि॒ । मा । यु॒गम् । वि । शा॒रि॒ ।

इन्द्रः॑ । पा॒त॒ल्ये॒३॒॑ इति॑ । द॒द॒ता॒म् । शरी॑तोः । अरि॑ष्टऽनेमे । अ॒भि । नः॒ । स॒च॒स्व॒ ॥१७

स्थिरौ । गावौ । भवताम् । वीळुः । अक्षः । मा । ईषा । वि । वर्हि । मा । युगम् । वि । शारि ।

इन्द्रः । पातल्ये इति । ददताम् । शरीतोः । अरिष्टऽनेमे । अभि । नः । सचस्व ॥१७

राज्ञः सुदासो यज्ञेऽवभृथं कृत्वा यज्ञशालातो निर्गन्तुमिच्छन् रथे अश्वादिकं युञ्जानो विश्वामित्रो रथाङ्गानि स्तौति । “गावौ । गच्छत इति गावावश्वौ । “स्थिरौ “भवताम् । “अक्षः च “वीळुः दृढो भवतु । “ईषा दण्डश्च “मा “वि “वर्हि विनष्टो मा भवतु । "युगं च “मा “वि “शारि विशीर्णं मा भवतु । “इन्द्रः “पातल्ये पतनशीले कीलके “शरीतोः विशरणात् प्राक् “ददतां धारयतु । हे “अरिष्टनेमे अहिंसितप्रधिविशिष्ट हे रथ “नः अस्मान् “अभि आभिमुख्येन "सचस्व संगतो भव ॥ वि वर्हि । ' वृहि वृद्धौ । विपूर्वो वृहिर्विनाशे वर्तते । अस्मात् कर्मकर्तरि लुङि ‘चिण् भावकर्मणोः' इति चिण् । चिणो लुक्' इति तप्रत्ययस्य लुक् । निघातः । युगम् । युगशब्दे उञ्छादिषु रथाद्युपकरणेऽर्थे घञन्तत्वेन निपातनादगुणत्वम् । तत्र पाठादन्तोदात्तत्वम् । शारि । ‘ शॄ हिंसायाम्' इत्यस्य लुङि रूपम् । अरिष्टनेमे । पादादित्वात् षाष्टिकमाद्युदात्तत्वम् ॥


बलं॑ धेहि त॒नूषु॑ नो॒ बल॑मिंद्रान॒ळुत्सु॑ नः ।

बलं॑ तो॒काय॒ तन॑याय जी॒वसे॒ त्वं हि ब॑ल॒दा असि॑ ॥१८

बल॑म् । धे॒हि॒ । त॒नूषु॑ । नः॒ । बल॑म् । इ॒न्द्र॒ । अ॒न॒ळुत्ऽसु॑ । नः॒ ।

बल॑म् । तो॒काय॑ । तन॑याय । जी॒वसे॑ । त्वम् । हि । ब॒ल॒ऽदाः । असि॑ ॥१८

बलम् । धेहि । तनूषु । नः । बलम् । इन्द्र । अनळुत्ऽसु । नः ।

बलम् । तोकाय । तनयाय । जीवसे । त्वम् । हि । बलऽदाः । असि ॥१८

हे “इन्द्र “नः अस्माकं “तनूषु शरीरेषु “बलं “धेहि । “नः अस्मत्संबन्धिरथवाहेषु “अनळुत्सु अनडुत्सु “बलं धेहि । “तोकाय पुत्राय “तनयाय पौत्राय च "जीवसे चिरं जीवनाय “बलम् आयुर्विधेहि। एतादृशं दातृत्वं कुत इत्यत आह । “त्वं “बलदाः । बलं ददातीति बलदाः । "असि “हि सर्वेषु लोकेषु प्रसिद्धोऽसि खलु॥ अनळुत्सु। ‘वह प्रापणे'। अनसि वहेः क्विबनसो डश्च' इति क्विप्। अनसः सकारस्य डत्वम्। वहेर्यजादित्वात् संप्रसारणम् । “वसुस्रंसुध्वंस्वनडुहां दः' इति हकारस्य दत्वम् । कृदुत्तरस्वरः। असि । हियोगादनिघातः । सिपः पित्त्वादनुदात्तत्वे धातुस्वरः ॥


अ॒भि व्य॑यस्व खदि॒रस्य॒ सार॒मोजो॑ धेहि स्पंद॒ने शिं॒शपा॑यां ।

अक्ष॑ वीळो वीळित वी॒ळय॑स्व॒ मा यामा॑द॒स्मादव॑ जीहिपो नः ॥१९

अ॒भि । व्य॒य॒स्व॒ । ख॒दि॒रस्य॑ । सार॑म् । ओजः॑ । धे॒हि॒ । स्प॒न्द॒ने । शिं॒शपा॑याम् ।

अक्ष॑ । वी॒ळो॒ इति॑ । वी॒ळि॒त॒ । वी॒ळय॑स्व । मा । यामा॑त् । अ॒स्मात् । अव॑ । जी॒हि॒पः॒ । नः॒ ॥१९

अभि । व्ययस्व । खदिरस्य । सारम् । ओजः । धेहि । स्पन्दने । शिंशपायाम् ।

अक्ष । वीळो इति । वीळित । वीळयस्व । मा । यामात् । अस्मात् । अव । जीहिपः । नः ॥१९

हे इन्द्र “खदिरस्य “सारम् । सारेण हि आणिः क्रियते । तं खदिरस्य सारभूतमाणिम् “अभि “व्ययस्व अभितस्तत्तत्स्थानेषु दार्ढ्यार्थं निधेहि । “स्पन्दने रथस्य गमने सति “शिशपायां शिंशपाख्यदारुनिर्मिते रथस्य फलके "ओजो “धेहि दार्ढ्यं कुरु । हे “वीळो दृढ “वीळित अस्माभिर्दृढीकृत हे “अक्ष “वीळयस्व त्वं दृढो भव। यद्वा अस्मान् दृढीकुरु । “यामात् गच्छतः अस्माद्रथात् “नः अस्मान् “मा “अव “जीहिपः मा पीपतः ॥ खदिरस्य । ‘ अजिरशिशिर ' इत्यादिना किरच्प्रत्ययान्तत्वेन निपातनादन्तोदात्तः । वीळित । वीळयतेर्ण्यन्तस्य निष्ठायामिडागमः । ‘ निष्ठायां सेटि ' ( पा. सू. ६.४. २३) इति णेर्लुक् । वीळयस्व । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । यामात् ।' या प्रापणे ' इत्यस्मात् ‘अर्तिस्तुसुहुसृ° ' इत्यादिना मन्प्रत्ययः । नित्त्वदाद्युदात्तः । जीहिपः । ‘ ओहाक् त्यागे । ण्यन्तस्य लुङि चङि रूपम् । अकारस्येकारश्छान्दसः ॥


अ॒यम॒स्मान्वन॒स्पति॒र्मा च॒ हा मा च॑ रीरिषत् ।

स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा आ वि॒मोच॑नात् ॥२०

अ॒यम् । अ॒स्मान् । वन॒स्पतिः॑ । मा । च॒ । हाः । मा । च॒ । रि॒रि॒ष॒त् ।

स्व॒स्ति । आ । गृ॒हेभ्यः॑ । आ । अ॒व॒सै । आ । वि॒ऽमोच॑नात् ॥२०

अयम् । अस्मान् । वनस्पतिः । मा । च । हाः । मा । च । रिरिषत् ।

स्वस्ति । आ । गृहेभ्यः । आ । अवसै । आ । विऽमोचनात् ॥२०

यजमान आत्मनः श्रेय आशास्ते । “वनस्पतिः वनस्पतिनिर्मितः “अयं रथो रथारूढान् “अस्मान् “मा “च "हाः मा त्याक्षीत् । किंच “मा “रीरिषत् अस्मान् मा विनाशयतु । किंच “आ “गृहेभ्यः यावद्गृहान् प्राप्नुयाम तावदस्मभ्यं “स्वस्ति भवतु । तथा “आ “अवसै । पञ्चम्यर्थे चतुर्थी । यावद्रथवेगावसानं तावत् । “आ “विमोचनात् यावद्रथयोजिताश्वविमोचनं तावत् स्वस्ति भवतु ॥ हाः । “ओहाक् त्यागे' । लुङि ‘मन्त्रे घस' इत्यादिना सिचो लुक् । पुरुषव्यत्ययः । ‘चवायोगे प्रथमा' इति न निघातः । रीरिषत् । “रिष हिंसायाम्' इत्यस्य ण्यन्तस्य लुङि चङि रूपम्। द्वितीयत्वान्निघातः । गृहेभ्यः । ग्रहेः ‘गेहे कः' इति कः । ‘पञ्चम्यपाङ्परिभिः' इति पञ्चमी । अवसै । ' षोऽन्तकर्मणि' । क्विप् । चतुर्थ्येकवचने आतो लोपाभावश्छान्दसः । वृद्धिः । एकादेशस्वरः ॥ ॥ २२ ॥


इंद्रो॒तिभि॑र्बहु॒लाभि॑र्नो अ॒द्य या॑च्छ्रे॒ष्ठाभि॑र्मघवंछूर जिन्व ।

यो नो॒ द्वेष्ट्यध॑रः॒ सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ॥२१

इन्द्र॑ । ऊ॒तिऽभिः॑ । ब॒हु॒लाभिः॑ । नः॒ । अ॒द्य । या॒त्ऽश्रे॒ष्ठाभिः॑ । म॒घ॒ऽव॒न् । शू॒र॒ । जि॒न्व॒ ।

यः । नः॒ । द्वेष्टि॑ । अध॑रः । सः । प॒दी॒ष्ट॒ । यम् । ऊं॒ इति॑ । द्वि॒ष्मः । तम् । ऊं॒ इति॑ । प्रा॒णः । ज॒हा॒तु॒ ॥२१

इन्द्र । ऊतिऽभिः । बहुलाभिः । नः । अद्य । यात्ऽश्रेष्ठाभिः । मघऽवन् । शूर । जिन्व ।

यः । नः । द्वेष्टि । अधरः । सः । पदीष्ट । यम् । ऊं इति । द्विष्मः । तम् । ऊं इति । प्राणः । जहातु ॥२१

परस्य शापं करिष्यन् आदावात्मनो रक्षां कुरुते प्रथमेनार्धर्चेन । हे "शूर शौर्यवन् पराभिभवशक्त हे “मघवन् धनवन् “इन्द्र “अद्य अस्मिन्काले "यात् । यातयतिर्वधकर्मा । यातयतीति यात् । सुपां सुलुक्' इति शसो लुक् । यातः शत्रून् हिंसतः "नः अस्मान् “ऊतिभिः त्वदीयाभी रक्षाभिः "जिन्व प्रीणय । कीदृशीभिः । “बहुलाभिः बह्वीभिः “श्रेष्ठाभिः प्रशस्यतराभिः । अथ शपति । "नः अस्मान् “यः शत्रुर्द्वेष्यः “द्वेष्टि अस्मद्विषयामप्रीतिं करोति “सः “अधरः निकृष्टः सन् "पदीष्ट पततु । वयं च “यमु “द्विष्मस्तमु तं द्वेष्यं “प्राणः देहमध्ये वर्तमानः पञ्चवृत्तिर्वायुः “जहातु परित्यजतु । उशब्दौ पूरकौ ॥


प॒र॒शुं चि॒द्वि त॑पति शिंब॒लं चि॒द्वि वृ॑श्चति ।

उ॒खा चि॑दिंद्र॒ येषं॑ती॒ प्रय॑स्ता॒ फेन॑मस्यति ॥२२

प॒र॒शुम् । चि॒त् । वि । त॒प॒ति॒ । शि॒म्ब॒लम् । चि॒त् । वि । वृ॒श्च॒ति॒ ।

उ॒खा । चि॒त् । इ॒न्द्र॒ । येष॑न्ती । प्रऽय॑स्ता । फेन॑म् । अ॒स्य॒ति॒ ॥२२

परशुम् । चित् । वि । तपति । शिम्बलम् । चित् । वि । वृश्चति ।

उखा । चित् । इन्द्र । येषन्ती । प्रऽयस्ता । फेनम् । अस्यति ॥२२

हे “इन्द्र “परशुं “चित् यथा कुठारं प्राप्य वृक्षः "वि “तपति विशिष्टतापयुक्तो भवति । एवं मदीयो द्वेष्टा वितपतु । “शिम्बलं “चित् शल्मलीकुसुमं यथा अनायासेन वृन्तात् विच्छिद्यते । एवं मद्द्वेष्टा “वि “वृश्चति विच्छिन्नावयवः भवतु । “प्रयस्ता प्रहता “येषन्ती स्रवन्ती “उखा “चित् स्थालीव स द्वेष्टा मदीयमन्त्रसामर्थ्येन प्रहतः सन् “फेनमस्यति फेनं मुखाद्गिरतु ॥


न साय॑कस्य चिकिते जनासो लो॒धं न॑यंति॒ पशु॒ मन्य॑मानाः ।

नावा॑जिनं वा॒जिना॑ हासयंति॒ न ग॑र्द॒भं पु॒रो अश्वा॑न्नयंति ॥२३

न । साय॑कस्य । चि॒कि॒ते॒ । ज॒ना॒सः॒ । लो॒धम् । न॒य॒न्ति॒ । पशु॑ । मन्य॑मानाः ।

न । अवा॑जिनम् । वा॒जिना॑ । हा॒स॒य॒न्ति॒ । न । ग॒र्द॒भम् । पु॒रः । अश्वा॑त् । न॒य॒न्ति॒ ॥२३

न । सायकस्य । चिकिते । जनासः । लोधम् । नयन्ति । पशु । मन्यमानाः ।

न । अवाजिनम् । वाजिना । हासयन्ति । न । गर्दभम् । पुरः । अश्वात् । नयन्ति ॥२३

पुरा खलु तपसः क्षयो मा प्रापदिति शापान्निवृत्तं मौनिनं विश्वामित्रं वसिष्ठपुरुषा बद्ध्वा आनीतवन्तः । तान् प्रति विश्वामित्रो ब्रूते । हे “जनासः जनाः “सायकस्य अवसानकारिणो विश्वामित्रस्य मन्त्रगणसामर्थ्यं “न “चिकिते भवद्भिर्न ज्ञायते । अत एव “लोधं लुब्धं तपसः क्षयो मा भूदिति लोभेन तूष्णीं स्थितमृषिं “पशु “मन्यमानाः । पशु इति निपातः पशुशब्दसमानार्थः । पशुवन्मन्यमानाः एते “नयन्ति बद्ध्वा स्वकीयं देशं प्रापयन्ति । एवं स्वसामर्थ्यं प्रदर्श्य विसदृशो वसिष्ठो मया सह स्पर्धितुं नार्हतीति धिक्करोति । "नावाजिनम् इति । अवाजिनम् । वाचामिनो वाजिनः सर्वज्ञः । तद्विलक्षणं मूर्खजनं “वाजिना वागीशाः न “हासयन्ति हास्यास्पदं न कुर्वन्ति । तेन सह न स्पर्धन्त इत्यर्थः । तथा “गर्दभं रासभम् “अश्वात् “पुरः पुरस्तात् “न “नयन्ति । एवमेव विसदृशो वसिष्ठो न मया स्पर्धितुमीष्ट इत्यर्थः ॥


इ॒म इं॑द्र भर॒तस्य॑ पु॒त्रा अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वं ।

हि॒न्वंत्यश्व॒मर॑णं॒ न नित्यं॒ ज्या॑वाजं॒ परि॑ णयंत्या॒जौ ॥२४

इ॒मे । इ॒न्द्र॒ । भ॒र॒तस्य॑ । पु॒त्राः । अ॒प॒ऽपि॒त्वम् । चि॒कि॒तुः॒ । न । प्र॒ऽपि॒त्वम् ।

हि॒न्वन्ति॑ । अश्व॑म् । अर॑णम् । न । नित्य॑म् । ज्या॒ऽवाज॑म् । परि॑ । न॒य॒न्ति॒ । आ॒जौ ॥२४

इमे । इन्द्र । भरतस्य । पुत्राः । अपऽपित्वम् । चिकितुः । न । प्रऽपित्वम् ।

हिन्वन्ति । अश्वम् । अरणम् । न । नित्यम् । ज्याऽवाजम् । परि । नयन्ति । आजौ ॥२४

हे “इन्द्र “भरतस्य “पुत्राः भरतवंश्याः “इमे विश्वामित्राः “अपपित्वम् अपगमनं वसिष्ठेभ्यः “चिकितुः जानन्ति । “प्रपित्वं प्रगमनं “न जानन्ति । शिष्टैः सह तेषां संगतिर्नास्ति । बाह्याः एव त इत्यर्थः । अपि च "आजौ संग्रामे “नित्यं सहजम् “अरणं “न अरिमिव वसिष्ठान् प्रति “अश्वं “हिन्वन्ति प्रेरयन्ति । ततश्च “ज्यावाजं बलं धनुः “परि “णयन्ति । वसिष्ठान् हन्तुं शरसंधानेन चरन्ति ।। ॥ २३॥

[सम्पाद्यताम्]


मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.५३&oldid=217547" इत्यस्माद् पुनः प्राप्तिः