सामग्री पर जाएँ

ऋग्वेदः सूक्तं ३.४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ३.४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ३.३ ऋग्वेदः - मण्डल ३
सूक्तं ३.४
गाथिनो विश्वामित्रः
सूक्तं ३.५ →
दे. आप्रीसूक्तं (१ इध्मः समिद्धोऽग्निर्वा, २ तनूनपात्, ३ इळः, ४ बर्हिः, ५ देवीर्द्वारः, ६ उषासानक्ता, ७ दैव्यौ होतारौ प्रचेतसौ, ८ तिस्रो देव्यः सरस्वतीळाभारत्यः, ९ त्वष्टा, १० वनस्पतिः, ११ स्वाहाकृतयः ।। त्रिष्टुप्

समित्समित्सुमना बोध्यस्मे शुचाशुचा सुमतिं रासि वस्वः ।
आ देव देवान्यजथाय वक्षि सखा सखीन्सुमना यक्ष्यग्ने ॥१॥
यं देवासस्त्रिरहन्नायजन्ते दिवेदिवे वरुणो मित्रो अग्निः ।
सेमं यज्ञं मधुमन्तं कृधी नस्तनूनपाद्घृतयोनिं विधन्तम् ॥२॥
प्र दीधितिर्विश्ववारा जिगाति होतारमिळः प्रथमं यजध्यै ।
अच्छा नमोभिर्वृषभं वन्दध्यै स देवान्यक्षदिषितो यजीयान् ॥३॥
ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि प्रस्थिता रजांसि ।
दिवो वा नाभा न्यसादि होता स्तृणीमहि देवव्यचा वि बर्हिः ॥४॥
सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वं प्रति यन्नृतेन ।
नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः ॥५॥
आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे ।
यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वाँ उत वा महोभिः ॥६॥
दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति ।
ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः ॥७॥
आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः ।
सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु ॥८॥
तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व ।
यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥९॥
वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति ।
सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥१०॥
आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः ।
बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥११॥

सायणभाष्यम्

' समित्समित् ' इत्येकादशर्चं चतुर्थं सूक्तं वैश्वामित्रं त्रैष्टुभम् । अत्रानुक्रमणिका- समित्समिदाप्रियः ' इति । इध्मादिस्वाहाकृत्यन्ताः पूर्वोक्ताः प्रत्यृचं देवताः । पशौ वैश्वामित्राणामाप्रीसूक्तम् । दर्शपूर्णमासयोः पत्नीसंयाजेषु त्वष्टुर्याज्या ' तन्नः ' इत्येषा । सूत्रितं च-'इह त्वष्टारमग्रियं तन्नस्तुरीपमध पोषयित्नु ' (आश्व. श्रौ. १. १०) इति । त्वाष्ट्रे पशौ पुरोडाशस्यानुवाक्या । सूत्रितं च-' तन्नस्तुरीपमध पोषयित्नु देवस्त्वष्टा सविता विश्वरूपः ' ( आश्व. श्रौ. ३.८) इति ।।


स॒मित्स॑मित्सु॒मना॑ बोध्य॒स्मे शु॒चाशु॑चा सुम॒तिं रा॑सि॒ वस्वः॑ ।

आ दे॑व दे॒वान्य॒जथा॑य वक्षि॒ सखा॒ सखी॑न्सु॒मना॑ यक्ष्यग्ने ॥१

स॒मित्ऽस॑मित् । सु॒ऽमनाः॑ । बो॒धि॒ । अ॒स्मे इति॑ । शु॒चाऽशु॑चा । सु॒ऽम॒तिम् । रा॒सि॒ । वस्वः॑ ।

आ । दे॒व॒ । दे॒वान् । य॒जथा॑य । व॒क्षि॒ । सखा॑ । सखी॑न् । सु॒ऽमनाः॑ । य॒क्षि॒ । अ॒ग्ने॒ ॥१

समित्ऽसमित्। सुऽमनाः। बोधि। अस्मे इति। शुचाऽशुचा। सुऽमतिं । रासि। वस्वः।

आ। देव। देवान्। यजथाय। वृक्षि । सखा। सखीन्। सुऽमनाः। यक्षि । अग्ने ॥१॥

समित्समित् अत्यर्थं समिद्धस्त्वं सुमना बोधि । बुध्यस्व । शुचा शुचात्यर्थं प्रसर्पकेण ज्योतिषा युक्तस्त्वं वस्वो वसुनो धनस्य तद्विषयां सुमतिं शोभनां बुद्धिमस्मे अस्मभ्यं रासि । देहि । हे देव द्योतमान देवान्यजनीयान्यजथाय यज्ञाय तदर्थमावक्षि । आवहसि । हे अग्ने सखा देवानां सखा त्वं सुमनाः सन् सखीन्देवान्यक्षि । यजस्व ।।


यं दे॒वास॒स्त्रिरह॑न्ना॒यज॑न्ते दि॒वेदि॑वे॒ वरु॑णो मि॒त्रो अ॒ग्निः ।

सेमं य॒ज्ञं मधु॑मन्तं कृधी न॒स्तनू॑नपाद्घृ॒तयो॑निं वि॒धन्त॑म् ॥२

यम् । दे॒वासः॑ । त्रिः । अह॑न् । आ॒ऽयज॑न्ते । दि॒वेऽदि॑वे । वरु॑णः । मि॒त्रः । अ॒ग्निः ।

सः । इ॒मम् । य॒ज्ञम् । मधु॑ऽमन्तम् । कृ॒धि॒ । नः॒ । तनू॑ऽनपात् । घृ॒तऽयो॑निम् । वि॒धन्त॑म् ॥२

यं । देवासः। त्रिः। अहन् । आऽयजंते । दिवेऽदिवे । वरुणः। मित्रः। अग्निः ।।

सः । इमं यज्ञं । मधुऽमंतं । कृधि । नः। तनूऽनपात् । घृतऽयोनिं । विधंतं ॥२॥

वरुणो मित्रोऽग्निः एते त्रयो देवा यमग्निं दिवेदिवे प्रतिदिवसं अहन् अहनि त्रिः प्रातर्मध्याह्नसायंतनेषु सवनेषु त्रिवारमायजंते हे तनूनपात् तनूनां शरीराणां न पातयितः स त्वं घृतयोनिं घृतस्योदकस्य कारणं विधंतं विधीयमानं क्रियमाणं नोऽस्मदीयमिमं यज्ञं मधुमंतं । मध्वित्युदकनाम। वृष्ट्यादिफलयुक्तं कृधि। कुरु ॥


प्र दीधि॑तिर्वि॒श्ववा॑रा जिगाति॒ होता॑रमि॒ळः प्र॑थ॒मं यज॑ध्यै ।

अच्छा॒ नमो॑भिर्वृष॒भं व॒न्दध्यै॒ स दे॒वान्य॑क्षदिषि॒तो यजी॑यान् ॥३

प्र । दीधि॑तिः । वि॒श्वऽवा॑रा । जि॒गा॒ति॒ । होता॑रम् । इ॒ळः । प्र॒थ॒मम् । यज॑ध्यै ।

अच्छ॑ । नमः॑ऽभिः । वृ॒ष॒भम् । व॒न्दध्यै॑ । सः । दे॒वान् । य॒क्ष॒त् । इ॒षि॒तः । यजी॑यान् ॥३

प्र। दीधितिः। विश्वऽवारा। जिगाति । होतारं। इळः। प्रथमं । यजध्यै।

अच्छ। नमःऽभिः । वृषभं । वंदध्यै। सः । देवान्। यक्षत्। इषितः । यजीयान् ॥३॥

विश्ववारा विश्वैर्जनैर्वरणीया दीधितिः स्तुतिर्दीप्तिर्वा होतारं देवानामाह्वातारमग्निं प्रजिगाति । जिगातु । प्रकर्षेण गच्छतु । प्रथमं मुख्यमच्छाभिमुख्येन वृषभं संपदां वर्षितारं वंदध्यै वंदितुं योग्यमिति शेषः । अग्निं नमोभिर्नमस्कारैः सहेळः इषो हवीरूपाण्यन्नानि यजध्यै यष्टुं प्रीणयितुं प्रजिगातु । इषितोऽस्माभिः प्रेरितो यजीयान् यष्टृतमः सोऽग्निर्देवान् यक्षत् । यजतु ॥


ऊ॒र्ध्वो वां॑ गा॒तुर॑ध्व॒रे अ॑कार्यू॒र्ध्वा शो॒चींषि॒ प्रस्थि॑ता॒ रजां॑सि ।

दि॒वो वा॒ नाभा॒ न्य॑सादि॒ होता॑ स्तृणी॒महि॑ दे॒वव्य॑चा॒ वि ब॒र्हिः ॥४

ऊ॒र्ध्वः । वा॒म् । गा॒तुः । अ॒ध्व॒रे । अ॒का॒रि॒ । ऊ॒र्ध्वा । शो॒चींषि॑ । प्रऽस्थि॑ता । रजां॑सि ।

दि॒वः । वा॒ । नाभा॑ । नि । अ॒सा॒दि॒ । होता॑ । स्तृ॒णी॒महि॑ । दे॒वऽव्य॑चाः । वि । ब॒र्हिः ॥४

ऊर्ध्वः । वां। गातुः । अध्वरे। अकारि । ऊर्ध्वा । शोचींषि । प्रऽस्थिता। रजांसि ।

दिवः । वा। नाभा। नि। असादि। होता। स्तृणीमहि। देवऽव्यचाः। वि। बर्हिः ॥४॥

वां युवयोः । अग्निश्च बर्हिश्चोभौ वामित्युच्येते । समिदादिभिः सहितस्यैवाग्नेर्देवतात्वात् । ऊर्ध्व उन्नतो गातुर्यज्ञमार्गोऽध्वरे यज्ञेऽकारि । आश्रयः क्रियते । शोचींष्यर्चिष्मंति रजांसि हवींष्यूर्ध्वोर्ध्वं प्रस्थिता । होताग्निर्दिवो दीप्यमानस्य यागगृहस्य नाभा नाभौ मध्यप्रदेशे न्यसादि । निषीदति । देवव्यचा देवैर्व्याप्तं बर्हिश्च ।। चार्थे वाशब्दः । विस्तृणीमहि । विशेषेण स्तृणीमः ॥


स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना इन्व॑न्तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ ।

नृ॒पेश॑सो वि॒दथे॑षु॒ प्र जा॒ता अ॒भी॒३॒॑मं य॒ज्ञं वि च॑रन्त पू॒र्वीः ॥५

स॒प्त । हो॒त्राणि॑ । मन॑सा । वृ॒णा॒नाः । इन्व॑न्तः । विश्व॑म् । प्रति॑ । य॒न् । ऋ॒तेन॑ ।

नृ॒ऽपेश॑सः । वि॒दथे॑षु । प्र । जा॒ताः । अ॒भि । इ॒मम् । य॒ज्ञम् । वि । च॒र॒न्त॒ । पू॒र्वीः ॥५

सप्त। होत्राणि । मनसा । वृणानाः । इन्वंतः। विश्वं । प्रति । यन्। ऋतेन ।।

नृऽपेशसः । विदथेषु । प्र। जाताः । अभि। इमं । यज्ञं। वि। चरंत। पूर्वीः ॥५॥

मनसा वृणानाः प्रार्थ्यमाना ऋतेनोदकेन विश्वमिन्वंतः प्रीणयंतो देवाः सप्त होत्राणि होतॄणां वषट्कर्तॄणां कर्माणि प्रतियन् । प्रतिगच्छंति । अतः परं द्वारां स्तुतिः । नृपेशसो नररूपा विदथेषु यागेषु जाता उत्पन्नाः पूर्वोर्बह्व्यो विग्रहवत्यो यज्ञद्वाराभिमानिदेवता इममस्मदीयं यज्ञं प्र विचरंत । प्रविचरंतु ॥ ॥२२॥


आ भन्द॑माने उ॒षसा॒ उपा॑के उ॒त स्म॑येते त॒न्वा॒३॒॑ विरू॑पे ।

यथा॑ नो मि॒त्रो वरु॑णो॒ जुजो॑ष॒दिन्द्रो॑ म॒रुत्वाँ॑ उ॒त वा॒ महो॑भिः ॥६

आ । भन्द॑माने॒ इति॑ । उ॒षसौ॑ । उपा॑के॒ इति॑ । उ॒त । स्म॒ये॒ते॒ इति॑ । त॒न्वा॑ । विरू॑पे॒ इति॒ विऽरू॑पे ।

यथा॑ । नः॒ । मि॒त्रः । वरु॑णः । जुजो॑षत् । इन्द्रः॑ । म॒रुत्वा॑न् । उ॒त । वा॒ । महः॑ऽभिः ॥६

आ।भंदमाने इति।उषसौ। उपाके इति। उत।स्मयेते इति। तन्वा।विरूपे इति विऽरूपे।

यथा। नः। मित्रः। वरुणः । जुजोषत् । इंद्रः। मरुत्वान्। उत। वा। महःऽभिः ॥६॥

आ भंदमाने स्तूयमाने उपाके परस्परं संगते ॥ उषसानक्तापेक्षया द्विवचनं ॥ नक्तोषसौ रात्र्यहनी आगच्छतां । उत अपि च विरूपे पृथग्रूपे तन्वा प्रकाशरूपेण शरीरेण स्मयेते । प्रकाशेते । मित्रो वरुण उत वा अपि चेंद्रो मरुत्वांश नोऽस्मान्यथा जुजोषत् यथा सेवेत तथा महोभिस्तेजोभिर्युक्ते इमे द्यावापृथिव्यौ कुरुतां ॥


दैव्या॒ होता॑रा प्रथ॒मा न्यृ॑ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदन्ति ।

ऋ॒तं शंस॑न्त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥७

दैव्या॑ । होता॑रा । प्र॒थ॒मा । नि । ऋ॒ञ्जे॒ । स॒प्त । पृ॒क्षासः॑ । स्व॒धया॑ । म॒द॒न्ति॒ ।

ऋ॒तम् । शंस॑न्तः । ऋ॒तम् । इत् । ते । आ॒हुः॒ । अनु॑ । व्र॒तम् । व्र॒त॒ऽपाः । दीध्या॑नाः ॥७

दैव्या। होतारा। प्रथमा । नि। ऋंजे। सप्त । पृक्षासः । स्वधया। मदंति।

ऋतं । शंसंतः । ऋतं । इत् । ते। आहुः । अनु । व्रतं । व्रतऽपाः । दीध्यानाः ॥७॥

दैव्या दिव्यौ प्रथमा प्रथमौ मुख्यौ होताराह्वातारावग्नी न्यृंजे । प्रसाधयामि । ऋतमुदकं शंसंत आशंसमानाः सप्त पृक्षासः । पृक्षमन्नं । तद्वंत ऋत्विजस्तमग्निं स्वधया सोमेन हविषा मदंति । मादयंति । व्रतपा व्रतानां कर्मणां रक्षितारो दीध्याना दीप्यमानाः अथवा स्वकर्मभिरग्निं दीपयंत ऋत्विजोऽनु व्रतं व्रतेषु । ऋतमित् अग्निमेवाहुः । अग्निमेव ऋतभूतमाहुरित्यर्थः । एवकारार्थे इच्छब्दः ॥


आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः ।

सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ॥८

आ । भार॑ती । भार॑तीभिः । स॒ऽजोषाः॑ । इळा॑ । दे॒वैः । म॒नु॒ष्ये॑भिः । अ॒ग्निः ।

सर॑स्वती । सा॒र॒स्व॒तेभिः॑ । अ॒र्वाक् । ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स॒द॒न्तु॒ ॥८

आ। भारती। भारतीभिः । सऽजोषाः । इळा । देवैः । मनुष्येभिः । अग्निः ।।

सरस्वती । सारस्वतेभिः । अर्वाक् । तिस्रः । देवीः । बर्हिः । आ । इदं । सदंतु ॥८॥

भारतीभिर्भरतस्य सूर्यस्य संबंधिनीभिः सजोषाः संगता भारती वाक् आगच्छतु । देवैर्मनुष्येभिर्मनुष्यैश्च संगत्येळा च भूमिश्चागच्छतु अग्निश्च । सारस्वतेभिः सरस्वतीसंबंधिभिर्मध्यमस्थानैः सह सरस्वती माध्यमिका वागागच्छतु । तिस्रो देव्यो वागिळाभारत्य आगच्छंतु । अर्वागाभिमुखमेतद्बर्हिरा सदंतु । आसीदंतु ॥


तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व ।

यतो॑ वी॒रः क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥९

तत् । नः॒ । तु॒रीप॑म् । अध॑ । पो॒ष॒यि॒त्नु । देव॑ । त्व॒ष्टः॒ । वि । र॒रा॒णः । स्य॒स्वेति॑ स्यस्व ।

यतः॑ । वी॒रः । क॒र्म॒ण्यः॑ । सु॒ऽदक्षः॑ । यु॒क्तऽग्रा॑वा । जाय॑ते । दे॒वऽका॑मः ॥९

तत्। नः। तुरीपं । अध। पोषयित्नु । देव । त्वष्टः। वि। रराणः । स्यस्वेति स्यस्व ।

यतः। वीरः। कर्मण्यः। सुऽदक्षः । युक्तऽग्रावा। जायते । देवऽकामः ॥९॥

हे देव त्वष्टः सृष्टिकर्तः रराणो रममाणस्त्वमध अनंतरं नोऽस्मान् तुरीपं तारकं पोषयित्नु पोषकं तत्प्रसिद्धं रेतो विष्यस्व । मोचय । यतो विमोचनाद्वीरः सत्त्ववान् कर्मण्यः कर्मसु कुशलः सुदक्षः सुबलो युक्तग्रावाभिषवार्थग्रावयुक्तः । सोमसुदित्यर्थः । देवकामो देवान् कामयमानः पुत्रो जायते । जायेत ।।


वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति ।

सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥१०

वन॑स्पते । अव॑ । सृ॒ज॒ । उप॑ । दे॒वान् । अ॒ग्निः । ह॒विः । श॒मि॒ता । सू॒द॒या॒ति॒ ।

सः । इत् । ऊं॒ इति॑ । होता॑ । स॒त्यऽत॑रः । य॒जा॒ति॒ । यथा॑ । दे॒वाना॑म् । जनि॑मानि । वेद॑ ॥१०

वनस्पते । अव । सृज। उप । देवान्। अग्निः। हविः। शमिता। सूदयाति ।

सः। इत्।ऊं इति। होता। सत्यऽतरः। यजाति। यथा। देवानां। जनिमानि। वेद ॥१०॥

हे वनस्पते देवानुपावसृज। समीपे कुरु । शमिता पशोः संस्कर्ताग्निर्वनस्पतिश्च हविः सूदयाति । देवान्प्रति प्रेरयतु । सत्यतरोऽत्यर्थं सत्यः सत्यस्वरूपः स इत् स एव होता यजाति । यजतु । यथा यतः कारणात्स एवाग्निर्देवानां जनिमानि जन्मानि वेद वेत्ति अतः स एव यजत्वित्यर्थः ॥


आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभिः॑ ।

ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥११

आ । या॒हि॒ । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । अ॒र्वाङ् । इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । तु॒रेभिः॑ ।

ब॒र्हिः । नः॒ । आ॒स्ता॒म् । अदि॑तिः । सु॒ऽपु॒त्रा । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥११

आ। याहि । अग्ने। संऽइधानः। अर्वाङ्। इंद्रेण । देवैः। सऽरथं । तुरेभिः ।

बर्हिः। नः। आस्तां। अदितिः। सुऽपुत्रा। स्वाहा। देवाः। अमृताः। मादयंतां ॥११॥

हे अग्ने अर्वाक् अस्मदभिमुखं समिधानः समिध्यमानो ज्वालारूपेण दीप्यमानस्त्वमायाहि । देवतारूपेणागच्छ । कथमिति उच्यते । नोऽस्माकं यज्ञमिंद्रेण देवैश्च तुरेभिस्त्वरमाणैर्देवैः सरथं समानरथं यथा तथायाहि । किंच सुपुत्रादितिरपि नो बर्हिरास्तां । अध्यास्तां । स्वाहाकारेण युक्ता अमृता नित्या देवा मादयंतां । तृप्यंतु ॥ ॥ २३ ॥


टिप्पणी

According to Sayana (RV I.13), there are 12 āprī sukta. Of the ten āprī sukta, R̥gveda commented by Gargya Narayana, RV I.13 and I.142 invoke Narāśaṁsa and Tanūnapāt manifestations of Agni. RV I.188, III.4, IX.5 and X.110 invoke only Tanūnapāt manifestation. RV II.3, V.5, VII.2 and X.70 invoke only Narāśaṁsa manifestation.

इध्मः

ध्मा प्रपूरणशब्दो य इध्मा नाम प्रकीर्त्यते । पूरितस्यागतिर्येन तेनेध्मस्त्वं भविष्यसि ।। वराहपुराणम् १८.२६ ।। ध्मा शब्दस्य विनियोजनं प्रायः अयसः ध्मानाय एव भवति। किन्तु अत्र प्रपूरणे अस्ति। यथा उल्लिखितमस्ति, इध्मस्य उन्नतं रूपं समित् अस्ति। समित् अर्थात् समिति, सममिति। अस्मिन् जगते सममितेः ह्रासं अस्ति, येन कारणेन सममितेः प्रपूरणाय वयं भोजनं कुर्वामः। सममितेः आधुनिकं व्याख्या श्री गोवान कृतमस्ति। विष्णु पुराणस्य १.८.१९ कथनमस्ति - लक्ष्मी इध्मा, विष्णुः कुशः। कुशोपरि टिप्पणी

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.४&oldid=372138" इत्यस्माद् प्रतिप्राप्तम्