ऋग्वेदः सूक्तं ३.३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ३.३ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ३.२ ऋग्वेदः - मण्डल ३
सूक्तं ३.३
गाथिनो विश्वामित्रः
सूक्तं ३.४ →
दे. वैश्वानरोऽग्निः। जगती

वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे ।
अग्निर्हि देवाँ अमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत् ॥१॥
अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः ।
क्षयं बृहन्तं परि भूषति द्युभिर्देवेभिरग्निरिषितो धियावसुः ॥२॥
केतुं यज्ञानां विदथस्य साधनं विप्रासो अग्निं महयन्त चित्तिभिः ।
अपांसि यस्मिन्नधि संदधुर्गिरस्तस्मिन्सुम्नानि यजमान आ चके ॥३॥
पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम् ।
आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः ॥४॥
चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं स्वर्विदम् ।
विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः ॥५॥
अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया ।
रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः ॥६॥
अग्ने जरस्व स्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः ।
वयांसि जिन्व बृहतश्च जागृव उशिग्देवानामसि सुक्रतुर्विपाम् ॥७॥
विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम् ।
अध्वराणां चेतनं जातवेदसं प्र शंसन्ति नमसा जूतिभिर्वृधे ॥८॥
विभावा देवः सुरणः परि क्षितीरग्निर्बभूव शवसा सुमद्रथः ।
तस्य व्रतानि भूरिपोषिणो वयमुप भूषेम दम आ सुवृक्तिभिः ॥९॥
वैश्वानर तव धामान्या चके येभिः स्वर्विदभवो विचक्षण ।
जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूरसि त्मना ॥१०॥
वैश्वानरस्य दंसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः ।
उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा ॥११॥

सायणभाष्यम्

' वैश्वानराय ' इत्येकादशर्चं तृतीयं सूक्तं वैश्वामित्रम् । अत्रेयमनुक्रमणिका-' वैश्वानरायैकादश ' इति । पूर्वसूक्ते ' वैश्वानरीयं तु जागतं तु ' इत्युक्तत्वादस्यापि सूक्तस्य जगती छन्दो वैश्वानरोऽग्निर्देवता । अस्य सूक्तस्याग्निष्टोमे आग्निमारुते शस्त्रे विनियोगः । सूत्र्यते हि-' वैश्वानराय पृथुपाजसे शं नः करत्यर्वते ' ( आश्व. श्रौ. ५.२०) इति ।।


वै॒श्वा॒न॒राय॑ पृथु॒पाज॑से॒ विपो॒ रत्ना॑ विधन्त ध॒रुणे॑षु॒ गात॑वे ।

अ॒ग्निर्हि दे॒वाँ अ॒मृतो॑ दुव॒स्यत्यथा॒ धर्मा॑णि स॒नता॒ न दू॑दुषत् ॥१

वै॒श्वा॒न॒राय॑ । पृ॒थु॒ऽपाज॑से । विपः॑ । रत्ना॑ । वि॒ध॒न्त॒ । ध॒रुणे॑षु । गात॑वे ।

अ॒ग्निः । हि । दे॒वान् । अ॒मृतः॑ । दु॒व॒स्यति॑ । अथ॑ । धर्मा॑णि । स॒नता॑ । न । दू॒दु॒ष॒त् ॥१

वैश्वानराय । पृथुऽपाजसे । विपः । रत्ना। विधंत । धरुणेषु । गातवे ।

अग्निः। हि। देवान्। अमृतः। दुवस्यति । अथ। धर्माणि । सनता। न। दूदुषत्॥१॥

विप्रः मेधाविनः स्तोतारः पृथुपाजसे बहुबलाय बह्वन्नाय वा । पाजःशब्दस्य बलान्ननाम्नोः पाठात् ।। वैश्वानरायाग्नये धरुणेषु धर्मेषु यज्ञेषु रत्ना रमणीयानि स्तोत्राणि गातवे सन्मार्गलाभाय विधंत । परिचरंति । कुर्वंति । अमृतो मरणरहितोऽग्निर्देवान् दुवस्यति । हविषां प्रदानेन परिचरति । हिः प्रसिद्धौ । अथ अतः कारणात्कोऽपि सनता सनातनानि धर्माणि यज्ञान् न दूदुषत् । न दूषयति ॥


अ॒न्तर्दू॒तो रोद॑सी द॒स्म ई॑यते॒ होता॒ निष॑त्तो॒ मनु॑षः पु॒रोहि॑तः ।

क्षयं॑ बृ॒हन्तं॒ परि॑ भूषति॒ द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तो धि॒याव॑सुः ॥२

अ॒न्तः । दू॒तः । रोद॑सी॒ इति॑ । द॒स्मः । ई॒य॒ते॒ । होता॑ । निऽस॑त्तः । मनु॑षः । पु॒रःऽहि॑तः ।

क्षय॑म् । बृ॒हन्त॑म् । परि॑ । भू॒ष॒ति॒ । द्युऽभिः॑ । दे॒वेभिः॑ । अ॒ग्निः । इ॒षि॒तः । धि॒याऽव॑सुः ॥२

अंतः। दूतः । रोदसी इति । दस्मः । ईयते । होता। निऽसत्तः । मनुषः । पुरःऽहितः ।

क्षयम्। बृहंतं। परि। भूषति । द्युऽभिः । देवेभिः। अग्निः । इषितः। धियाऽवसुः ॥२॥

दस्मो दर्शनीयो होता अग्निः दूतो देवानां दूतः सन् रोदस्योर्द्यावापृथिव्योरंतर्मध्य ईयते । गच्छति । मनुषो मनोर्जातस्य मनुष्यस्य पुरोहितः आहवनीयादिरूपेण पुरतः स्थापितो निषत्तो निषण्णः सन् अग्निः द्युभिर्दीप्तिभिः बृहंतं महांतं क्षयं यज्ञगृहं परिभूषति । अलंकुरुते । देवेभिर्देवैरिषितः प्रेषितो धियावसुः प्रज्ञया व्याप्तः । एते द्वे अग्निविशेषणे ॥


के॒तुं य॒ज्ञानां॑ वि॒दथ॑स्य॒ साध॑नं॒ विप्रा॑सो अ॒ग्निं म॑हयन्त॒ चित्ति॑भिः ।

अपां॑सि॒ यस्मि॒न्नधि॑ संद॒धुर्गिर॒स्तस्मि॑न्सु॒म्नानि॒ यज॑मान॒ आ च॑के ॥३

के॒तुम् । य॒ज्ञाना॑म् । वि॒दथ॑स्य । साध॑नम् । विप्रा॑सः । अ॒ग्निम् । म॒ह॒य॒न्त॒ । चित्ति॑ऽभिः ।

अपां॑सि । यस्मि॑न् । अधि॑ । स॒म्ऽद॒धुः । गिरः॑ । तस्मि॑न् । सु॒म्नानि॑ । यज॑मानः । आ । च॒के॒ ॥३

केतुं । यज्ञानां । विदथस्य । साधनं । विप्रासः । अग्निं । महयंत । चित्तिऽभिः ।

अपांसि।यस्मिन्। अधि। संऽदधुः।गिरः।तस्मिन्। सुम्नानि। यजमानः।आ।चके॥३॥

यज्ञानां केतुं प्रज्ञापकं विदथस्य यज्ञस्य गृहस्य वा साधनं प्राप्तिसाधनमसाधारणकारणं संतमग्निं विप्रासो विप्राः चित्तिभिः स्वकर्मभिर्महयंत । पूजयंति । किंच गिरः स्तोतारो यस्मिन्नग्नौ अपांसि स्वानुष्ठेयानि कर्माण्यधि संदधुः संदधते यजमानस्तस्मिन्नग्नौ सुम्नानि सुखानि आ चके । कामयते ॥


पि॒ता य॒ज्ञाना॒मसु॑रो विप॒श्चितां॑ वि॒मान॑म॒ग्निर्व॒युनं॑ च वा॒घता॑म् ।

आ वि॑वेश॒ रोद॑सी॒ भूरि॑वर्पसा पुरुप्रि॒यो भ॑न्दते॒ धाम॑भिः क॒विः ॥४

पि॒ता । य॒ज्ञाना॑म् । असु॑रः । वि॒पः॒ऽचिता॑म् । वि॒ऽमान॑म् । अ॒ग्निः । व॒युन॑म् । च॒ । वा॒घता॑म् ।

आ । वि॒वे॒श॒ । रोद॑सी॒ इति॑ । भूरि॑ऽवर्पसा । पु॒रु॒ऽप्रि॒यः । भ॒न्द॒ते॒ । धाम॑ऽभिः । क॒विः ॥४

पिता। यज्ञानां। असुरः। विपःऽचितां। विऽमानं । अग्निः । वयुनं । च। वाघतां।

आ। विवेश। रोदसी इति। भूरिऽवर्पसा। पुरुऽप्रियः।भंदते। धामऽभिः। कविः ॥४॥

यज्ञानां पिता पालयिता विपश्चितां विदुषां स्तोतॄणामसुरो बलप्रदः । वाघतामृत्विजां वयुनं ज्ञानसाधनं । विमानं च। विमीयते फलमिति विमानं यज्ञादिकर्मसाधनं । सोऽग्निर्भूरिवर्पसा पार्थिववैद्युतादिबहुविधरूपेण रोदसी द्यावापृथिव्यावाविवेश । प्रविशति । पुरुप्रियो मनुष्येष्वधिकं प्रियः । अथवा पुरूणां श्रेष्ठानां प्रियः पुरुप्रियः । धामभिस्तेजोभिर्युक्तः कविरग्निर्भंदते । यजमानेन स्तूयते ॥


च॒न्द्रम॒ग्निं च॒न्द्रर॑थं॒ हरि॑व्रतं वैश्वान॒रम॑प्सु॒षदं॑ स्व॒र्विद॑म् ।

वि॒गा॒हं तूर्णिं॒ तवि॑षीभि॒रावृ॑तं॒ भूर्णिं॑ दे॒वास॑ इ॒ह सु॒श्रियं॑ दधुः ॥५

च॒न्द्रम् । अ॒ग्निम् । च॒न्द्रऽर॑थम् । हरि॑ऽव्रतम् । वै॒श्वा॒न॒रम् । अ॒प्सु॒ऽसद॑म् । स्वः॒ऽविद॑म् ।

वि॒ऽगा॒हम् । तूर्णि॑म् । तवि॑षीभिः । आऽवृ॑तम् । भूर्णि॑म् । दे॒वासः॑ । इ॒ह । सु॒ऽश्रिय॑म् । द॒धुः॒ ॥५

चंद्रं । अग्निं । चंद्रऽरथं । हरिऽव्रतं । वैश्वानरं। अप्सुऽसदं । स्वःऽविदं ।

विऽगाहं । तूर्णिं। तर्विषीभिः। आऽवृतं । भूर्णिं। देवासः। इह । सुऽश्रियै । दधुः॥५॥

देवासो देवाश्चंद्रमाह्लादकरं चंद्ररथं । चंद्र आह्लादको रथो यस्येति तं हरिव्रतं पिंगलवर्णं हरित्वचं वा । हरित्वचमिति शाखांतरं। अप्सुषदमप्सु सीदंतं स्वर्विदं सर्वज्ञं विगाहं विगाहमानं सर्वत्र व्याप्तं तूर्णिं क्षिप्रगामिनं शत्रूणां हिंसितारं वा तविषीभिर्बलैरावृतं भूर्णिं भर्तारं सुश्रियं शोभनदीप्तिं वैश्वानरमिहेहलोके दधुः । आदधुः ॥ ॥ २० ॥


अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्च ज॒न्तुभि॑स्तन्वा॒नो य॒ज्ञं पु॑रु॒पेश॑सं धि॒या ।

र॒थीर॒न्तरी॑यते॒ साध॑दिष्टिभिर्जी॒रो दमू॑ना अभिशस्ति॒चात॑नः ॥६

अ॒ग्निः । दे॒वेभिः॑ । मनु॑षः । च॒ । ज॒न्तुऽभिः॑ । त॒न्वा॒नः । य॒ज्ञम् । पु॒रु॒ऽपेश॑सम् । धि॒या ।

र॒थीः । अ॒न्तः । ई॒य॒ते॒ । साध॑दिष्टिऽभिः । जी॒रः । दमू॑नाः । अ॒भि॒श॒स्ति॒ऽचात॑नः ॥६

अग्निः। देवेभिः । मनुषः। च । जंतुऽभिः । तन्वानः । यज्ञं। पुरुऽपेशंस । धिया।

रथीः। अंतः। ईयते । साधदिष्टिऽभिः। जीरः। दमूनाः। अभिशस्तिऽचातनः ॥६॥

देवैः साधदिष्टिभिः साधितयज्ञैर्जंतुभिर्ऋत्विग्भिश्च धिया कर्मणा मनुषो यजमानस्य पुरुपेशसं बहुरूपं । पेश इति रूपनाम । पुरोडाशपशुसोमहविर्भेदैरेकाहाहीनसत्रात्मकभेदैश्च नानाविधरूपं यज्ञं तन्वानः कुर्वन् रथीः सर्वस्य लोकस्य नेता जीरः क्षिप्रकारी दमूना दांतमना दानमना वाभिशस्तिचातनोऽभिशस्तीनामरातीनां यज्ञविघ्नकारिणां रक्षसां चातयिता नाशयिताग्निरंतर्द्यावापृथिव्योर्मध्य ईयते । गच्छति ॥


अग्ने॒ जर॑स्व स्वप॒त्य आयु॑न्यू॒र्जा पि॑न्वस्व॒ समिषो॑ दिदीहि नः ।

वयां॑सि जिन्व बृह॒तश्च॑ जागृव उ॒शिग्दे॒वाना॒मसि॑ सु॒क्रतु॑र्वि॒पाम् ॥७

अग्ने॑ । जर॑स्व । सु॒ऽअ॒प॒त्ये । आयु॑नि । ऊ॒र्जा । पि॒न्व॒स्व॒ । सम् । इषः॑ । दि॒दी॒हि॒ । नः॒ ।

वयां॑सि । जि॒न्व॒ । बृ॒ह॒तः । च॒ । जा॒गृ॒वे॒ । उ॒शिक् । दे॒वाना॑म् । असि॑ । सु॒ऽक्रतुः॑ । वि॒पाम् ॥७

अग्ने । जरस्व । सुऽअपत्ये। आयुनि। ऊर्जा। पिन्वस्व। सं। इषः। दिदीहि । नः।

वयांसि जिन्व। बृहतः। च। जागृवे।उशिक्। देवानां। असि। सुऽक्रतुः। विपां॥७॥

हे अग्ने स्वपत्ये सुपुत्र आयुन्यायुषि ॥ निमित्तसप्तम्येषा ॥ आयुषि निमित्ते जरस्व । देवान् स्तुहि । होतारमधिष्ठायोर्जा रसेनान्नेन वा पिन्वस्व । देवान्प्रीणय । नोऽस्माकमिषः सस्यार्थं वृष्टीः संदिदीहि । संदीपय। वयांस्यन्नानि च ॥ वयः क्षद्मेत्यन्ननामसु पाठात् ॥ जिन्व । देहि । हे जागृवे सर्वदा जागरणशील । बृहतो महतो यजमानस्य जिन्वेति संबंधः । सुक्रतुः शोभनकर्मा शोभनयज्ञो वा त्वं विपां मेधाविनां देवानामुशिक् कांतोऽसि ॥


वि॒श्पतिं॑ य॒ह्वमति॑थिं॒ नर॒ः सदा॑ य॒न्तारं॑ धी॒नामु॒शिजं॑ च वा॒घता॑म् ।

अ॒ध्व॒राणां॒ चेत॑नं जा॒तवे॑दसं॒ प्र शं॑सन्ति॒ नम॑सा जू॒तिभि॑र्वृ॒धे ॥८

वि॒श्पति॑म् । य॒ह्वम् । अति॑थिम् । नरः॑ । सदा॑ । य॒न्तार॑म् । धी॒नाम् । उ॒शिज॑म् । च॒ । वा॒घता॑म् ।

अ॒ध्व॒राणा॑म् । चेत॑नम् । जा॒तऽवे॑दसम् । प्र । शं॒स॒न्ति॒ । नम॑सा । जू॒तिऽभिः॑ । वृ॒धे ॥८

विश्पतिं । यह्वं। अतिथिं । नरः। सदा । यंतारं। धीनां । उशिजं । च । वाघतां ।

अध्वराणां । चेतनं । जातऽवेदसं । प्र। शंसंति । नमसा। जूतिऽभिः । वृधे ॥ ८॥

नरो नेतारः स्तोतारो वा विश्पतिं विशां मनुष्याणां पतिं विश्वस्य पतिमिति वा यह्वं महांतमतिथिं सर्वस्यातिथिभूतं धीनां बुद्धीनां कर्मणां वा यंतारं नियंतारं वाघतामृत्विजां चोशिजं कांतं मनोज्ञमध्वराणां यागानां चेतनं प्रज्ञापकं जूतिभिर्वेगैर्युक्तं जातवेदसमग्निं वृधे वृद्धये समृद्धये नमसा नमस्कारण स्तुतिभिश्च प्रशंसंति । प्रशंसां कुर्वति ॥


वि॒भावा॑ दे॒वः सु॒रण॒ः परि॑ क्षि॒तीर॒ग्निर्ब॑भूव॒ शव॑सा सु॒मद्र॑थः ।

तस्य॑ व्र॒तानि॑ भूरिपो॒षिणो॑ व॒यमुप॑ भूषेम॒ दम॒ आ सु॑वृ॒क्तिभिः॑ ॥९

वि॒भाऽवा॑ । दे॒वः । सु॒ऽरणः॑ । परि॑ । क्षि॒तीः । अ॒ग्निः । ब॒भू॒व॒ । शव॑सा । सु॒मत्ऽर॑थः ।

तस्य॑ । व्र॒तानि॑ । भू॒रि॒ऽपो॒षिणः॑ । व॒यम् । उप॑ । भू॒षे॒म॒ । दमे॑ । आ । सु॒वृ॒क्तिऽभिः॑ ॥९

विभाऽवा । देवः । सुऽरणः । परि। क्षितीः। अग्निः। बभूव। शवसा। सुमत्ऽरथः ।

तस्य । व्रतानि । भूरिऽपोषिणः । वयं। उप । भूषेम। दमे। आ। सुवृक्तिऽभिः ॥९॥

विभावा दीप्तिमान् देवः स्तूयमानः सुरणः । अत्र वर्णलोपश्छांदसः । शोभनं रमयतीति सुरमणः । सुमद्रथः शोभनरथोऽग्निः शवसा बलेन क्षितीः सर्वाः प्रजाः परि बभूव । परितो गृह्णाति । अत्र भवतेरुपसर्गवशात् परिग्रहार्थत्वं । भूरिपोषिणो बहूनां पोषयितुः पालयितुर्दमे यज्ञगृहे । दम इति गृहनामसु पाठात् । निवसतस्तस्याग्नेर्व्रतानि कर्माणि वयं सुवृक्तिभिः स्तोत्रैरुपभूषेम । उपभूषयामः । प्रकाशयामः ॥


वैश्वा॑नर॒ तव॒ धामा॒न्या च॑के॒ येभिः॑ स्व॒र्विदभ॑वो विचक्षण ।

जा॒त आपृ॑णो॒ भुव॑नानि॒ रोद॑सी॒ अग्ने॒ ता विश्वा॑ परि॒भूर॑सि॒ त्मना॑ ॥१०

वैश्वा॑नर । तव॑ । धामा॑नि । आ । च॒क्रे॒ । येभिः॑ । स्वः॒ऽवित् । अभ॑वः । वि॒ऽच॒क्ष॒ण॒ ।

जा॒तः । आ । अ॒पृ॒णः॒ । भुव॑नानि । रोद॑सी॒ इति॑ । अग्ने॑ । ता । विश्वा॑ । प॒रि॒ऽभूः । अ॒सि॒ । त्मना॑ ॥१०

वैश्वानर। तव । धामानि। आ। चके। येभिः। स्वःऽवित्। अभवः। विचक्षण ।

जातः । आ । अपृणः । भुवनानि । रोदसी इति । अग्ने। ता । विश्वा । परिऽभूः । असि । त्मना ॥१०॥

हे वैश्वानर तव धामानि त्वत्संबंधीनि तेजांस्याचके। अभिष्टौमि । हे विचक्षण प्राज्ञ त्वं येभिर्यैस्तेजोभिः स्वर्वित् सर्ववित् सर्वज्ञोऽभवः । भवसि । जातमात्रस्त्वं भुवनानि भूतजातानि रोदसी द्यावापृथिव्यावापृणः । आपूरयः । हे अग्ने विश्वा विश्वानि सर्वाणि ता तानि भूतजातानि त्मना आत्मना परिभूरसि । परिग्रहीतासि ॥


वै॒श्वा॒न॒रस्य॑ दं॒सना॑भ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्यया॑ क॒विः ।

उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्निर्द्यावा॑पृथि॒वी भूरि॑रेतसा ॥११

वै॒श्वा॒न॒रस्य॑ । दं॒सना॑भ्यः । बृ॒हत् । अरि॑णात् । एकः॑ । सु॒ऽअ॒प॒स्यया॑ । क॒विः ।

उ॒भा । पि॒तरा॑ । म॒हय॑न् । अ॒जा॒य॒त॒ । अ॒ग्निः । द्यावा॑पृथि॒वी इति॑ । भूरि॑ऽरेतसा ॥११

वैश्वानरस्य । दंसनाभ्यः। बृहत् । अरिणात् । एकः । सुऽअपस्यया । कविः ।

उभा। पितरा। महयन्। अजायत। अग्निः। द्यावापृथिवी इति। भूरिऽरेतसा ॥११॥

वैश्वानरस्याग्नेर्दंसनाभ्यस्तोषकारीभ्यः क्रियाभ्यो बृहन्महद्धनं भवतीति यत् तदवितथं । यतः कारणादेको मुख्यः कविरग्निः स्वपस्यया शोभनयज्ञादिकर्मेच्छया यजमानादिभ्यो धनमरिणात् । ददाति । सोऽयमग्निर्भूरिरेतसा बहुरेतस्कौ उभा उभौ पितरा पितरौ मातापितरौ द्यावापृथिव्यौ महयन्पूजयन् अजायत ॥ ॥२१॥



[सम्पाद्यताम्]

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.३&oldid=209078" इत्यस्माद् पुनः प्राप्तिः