गर्गसंहिता/खण्डः ५ (मथुराखण्डः)/अध्यायः १५
राधिकादीनां हस्तेषु कृष्णदत्त-पत्रार्पणम्
श्रीनारद उवाच -
एवं हि नंदोद्धवयोर्हरेः कथयतोः कथाम् ।
व्यतीता क्षणवद्राजन् क्षणदा हर्षवर्द्धिनी ॥ १ ॥
ब्राह्मे मुहूर्ते चोत्थाय गोप्यः सर्वा गृहे गृहे ।
देहल्यंगणमालिप्य दीपांस्तत्र निरूप्य च ॥ २ ॥
प्रक्षाल्य हस्तपादौ च मेथ्यां नेत्रं निधाय च ।
ममन्थुः सर्वतो युक्ताः पिच्छिलानि दधीनि ताः ॥ ३ ॥
नेत्राकर्षचलद्भारभुजकंकणकिंकिणीः ।
वेणीभ्यो विगलत्पुष्पाः स्फुरत्कुंडलमंडीताः ॥ ४ ॥
चंद्रमुख्यः कंजनेत्राश्चित्रवर्णैर्मनोहराः ।
मंगलानि चरित्राणि श्रीकृष्णबलदेवयोः ॥ ५ ॥
गायंत्यः प्रेमसंयुक्ता यत्र तत्र गृहे गृहे ।
घोषे घोषे शुभा गावो रंभमाणा इतस्ततः ॥ ६ ॥
सर्वत्र गोपिकागीतं दधिशब्देन मिश्रितम् ।
वीथ्यांवीथ्यांततः शृण्वन् विस्मितश्चोद्धवोऽब्रवीत् ॥ ७ ॥
अहो वै नंदनगरे भक्तिर्नृत्यति यत्र च ।
एवं वदन्बहिर्ग्रामाद्ययौ स्नातुं नदीजले ॥ ८ ॥
गोप्य ऊचुः -
कस्यायमद्यात्र रथः समागतो
ऽक्रूरोऽथवा क्रूर उतागतः पुनः ।
येनैव नीतो मथुरां महापुरीं
श्रीनंदसूनुर्नवकंजलोचनः ॥ ९ ॥
कस्मिन्कुकाले जननी ससर्ज यं
दातुं सतां स्नेहवतां प्रतापनम् ।
कद्रूर्यथा नागचयं विषावृतं
हंतुं वृथा लोकजनानितस्ततः ॥ १० ॥
कंसार्थकृत्कंससखोऽतिनिर्घृणो
सोऽयं पुनः किं व्रजमंडलं गतः ।
भर्तुर्मृतस्यापि हि पारलौकिकी-
मस्माभिरद्यैव करिष्यति क्रियाम् ॥ ११ ॥
श्रीनारद उवाच -
एवं वदंत्यो व्रजगोपवध्वः
संताड्य सूतं च मुखेऽङ्गुलिभ्याम् ।
पप्रच्छुराराद्गतबुद्धिमार्तं
त्वरं वदैतत्किल कस्य यानम् ॥ १२ ॥
घनप्रभं पद्मदलायतेक्षणं
कृष्णाकृतिं कोटिमनोजमोहनम् ।
पीतांबरं षट्पदसंघसंकुलां
मालां दधानं नववैजयंतीम् ॥ १३ ॥
स्फुरत् सहस्रच्छदपद्मपाणिं
वंशीधरं वेत्रकरं मनोहरम् ।
बालार्क कोटिद्युतिमौलिमंडनं
महामणिं कुंडलमंडितानम् ॥ १४ ॥
गत्याकृतिश्रीतनुहाससुस्वरैः
श्रीकृष्णसारूप्यधरं तमुद्धवम् ।
विलोक्य सर्वा नृप विस्मितास्ततो
विज्ञाय गोविंदसखं ययुः पुरः ॥ १५ ॥
ज्ञात्वाऽथ सन्देशहरं हरेः प्रभोः
सुवाक्यनीत्या परमादरेण तम् ।
गुप्तं हि प्रष्टुं कुशलं सतांपते
नीत्वोद्धवं ताः कदलीवनं गताः ॥ १६ ॥
यत्रैव राधा वृषभानुनंदिनी
कृष्णातटे चारुनिकुंजमन्दिरे ।
समास्थिता तद्विरहातुरा भृशं
खं मन्यते सा तु जगद्धरिं विना ॥ १७ ॥
रंभादलैश्चदनपंकसंचयं
स्फारास्फुरच्छीतलमेघमंदिरम् ।
कृष्णाचलच्चारुतरंगसीकरं
स्वतः सुधारश्मिगलत्सुधाचयम् ॥ १८ ॥
एतादृशं यत्कदलीवनं च त-
द्राधावियोगानलवर्चसा भृशम् ।
बभूव सर्वं सततं हि भस्मसा-
त्कृष्णागमाशात्मतनुं हि रक्षति ॥ १९ ॥
श्रुत्वोद्धवं कृष्णसखं समागतं
चकार राधा स्वसखीभिरादरम् ।
जलासनाद्यैर्मधुपर्कमंगलैः
श्रीकृष्ण कृष्णेति मुहुर्वदन्त्यलम् ॥ २० ॥
राधां हि गोविंदवियोगखिन्नां
कुह्वां यथा चन्द्रकलां तदोद्धवः ।
नतां कृशांगीं कृतहस्तसम्पुटः
प्रदक्षिणीकृत्य जगाद हर्षितः ॥ २१ ॥
उद्धव उवाच -
सदाऽस्ति कृष्णः परिपूर्णदेवो
राधे सदा त्वं परिपूर्णदेवी ।
श्रीकृष्णचंद्रः कृतनित्यलीलो
लीलावती त्वं कृतनित्यलीला ॥ २२ ॥
कृष्णोऽस्ति भूमा त्वमसींदिरा सदा
ब्रह्मास्ति कृष्णस्त्वमसि स्वरा सदा ।
कृष्णः शिवस्त्वं च शीवा शिवार्था
विष्णुः प्रभुस्त्वं किल वैष्णवी परा ॥ २३ ॥
कौमारसर्गी हरिरादिदेवता
त्वमेव हि ज्ञानमयी स्मृतिः शुभा ।
लयांभसा क्रीडनतत्परो हरि-
र्यज्ञो वराहो वसुधा त्वमेव हि ॥ २४ ॥
देवर्षिवर्यो मनसा हरिः स्वयं
त्वं तत्र साक्षान्निजहस्तवल्लकी ।
नारायणो धर्मसुतो नरेण हि
शांतिस्तदा त्वं जनशांतिकारिणी ॥ २५ ॥
कृष्णस्तु साक्षात्कपिलो महाप्रभुः
सिद्धिस्त्वमेवासि च सिद्धसेविता ।
दत्तस्तु कृष्णोऽस्ति महामुनीश्वरो
राधे सदा ज्ञानमयी त्वमेव हि ॥ २६ ॥
यज्ञो हरिस्त्वं किल दक्षिणा हरि-
रुरुक्रमस्त्वं हि सदा जयंत्यतः ।
पृथुर्यदा सर्वनृपेश्वरो हरि-
रर्चिस्तदा त्वं नृपपट्टकामिनी ॥ २७ ॥
शंखासुरं हंतुमभूद्धरिर्यदा
मत्स्यावतारस्त्वमसि श्रुतिस्तदा ।
कूर्मो हरिर्मंदरसिन्धुमंथने
नेत्रीकृता त्वं शुभदा हि वासुकी ॥ २८ ॥
धन्वंतरिश्चार्तिहरो हरिः पर-
स्त्वमौषधी दिव्यसुधामयी शुभे ।
श्रीकृष्णन्द्रस्तु बभूव मोहिनी
त्वं मोहिनी तत्र जगद्विमोहिनी ॥ २९ ॥
हरिर्नृसिहस्तु नृसिंहलीलया
लीला तदा त्वं निजभक्तवत्सला ।
बभूव कृष्णस्तु यदा हि वामनः
कीर्तिस्तदा त्वं निजलोककीर्तिता ॥ ३० ॥
हरिर्यदा भार्गवरूपधृक् पुमान्
धारा कुठारस्य तदा त्वमेव हि ।
श्रीकृष्णचंद्रो रघुवंशचंद्रमा
यदा तदा त्वं जनकस्य नंदिनी ॥ ३१ ॥
श्रीशार्ङ्गधन्वा मुनिबादरायणो
वेदांतकृत्त्वं किल वेदलक्षणा ।
संकर्षणो माधव एव वृष्णिषु
त्वं रेवती ब्रह्मभवा समास्थिता ॥ ३२ ॥
बुद्धो यदा कौणपमोहकारको
बुद्धिस्तदा त्वं जनमोहकारिणी ।
कल्की यदा धर्मपतिर्भविष्यति
हरिस्तदा त्वं सुकृतिर्भविष्यसि ॥ ३३ ॥
श्रीकृष्णचंद्रोऽस्ति हि चंद्रमंडले
राधे सदा चन्द्रमुखीति चन्द्रिका ।
श्रीकृष्णसूर्यो दिवि सूर्यमंडले
सूर्यप्रभा त्वं परिधिप्रतिष्ठिता ॥ ३४ ॥
इंद्रः सदाऽऽस्ते किल यादवेन्द्रः
तत्रैव राधे तु शची शचीश्वरी ।
हिरण्यरेता हि हरिः परेश्वरो
हेतिः सदा त्वं हि हिरण्मयी परा ॥ ३५ ॥
श्रीराजराजो हि विराजते हरि-
र्विराजसे त्वं तु निधौ निधीश्वरी ।
क्षीराब्धिरूपी तु हरिस्त्वमेव हि
तरंगितक्षौमसिता तरंगिणी ॥ ३६ ॥
बिभ्रद्वपुः सर्वपतिर्यदा यदा
तदा तदा त्वं विदितानुरूपिणी ।
जगन्मयो ब्रह्ममयो हरिः स्वयं
जगन्मयी ब्रह्ममयी त्वमेव हि ॥ ३७ ॥
अथैव सोऽयं व्रजराजनंदनो
जाताऽसि राधे वृषभानुनंदिनी ।
याभ्यां कृता सत्वमयी प्रशांतये
लीलाचरित्रैर्ललिताऽऽदिलीलया ॥ ३८ ॥
कृष्णः स्वयं ब्रह्म परं पुराणो
लीला तदिच्छाप्रकृतिस्त्वमेव ।
परस्परं संधितविग्रहाभ्यां
नमो युवाभ्यां हरिराधिकाभ्याम् ॥ ३९ ॥
गृहाण पत्रं निजनाथदत्तं
शोकं परं मा कुरु राधिके त्वम् ।
ह्रस्वेन कालेन विधाय कार्यं
तत्रागमिष्यामि तदुक्तवाक्यम् ॥ ४० ॥
गृह्णीध्वमद्यैव शतानि कृष्ण-
दत्तानि पत्राणि सुमंगलानि ।
प्रत्यर्पितं यूथशतं च गोप्यः
कृष्णप्रियाणां व्रजसुंदरीणाम् ॥ ४१ ॥
इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे श्रीराधादर्शनं नाम पंचदशोऽध्यायः ॥ १५ ॥