ऋग्वेदः सूक्तं ३.६०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ३.६० इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ३.५९ ऋग्वेदः - मण्डल ३
सूक्तं ३.६०
गाथिनो विश्वामित्रः
सूक्तं ३.६१ →
दे. ऋभवः, ५-७ इन्द्र ऋभवश्च। जगती


इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा ।
याभिर्मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश ॥१॥
याभिः शचीभिश्चमसाँ अपिंशत यया धिया गामरिणीत चर्मणः ।
येन हरी मनसा निरतक्षत तेन देवत्वमृभवः समानश ॥२॥
इन्द्रस्य सख्यमृभवः समानशुर्मनोर्नपातो अपसो दधन्विरे ।
सौधन्वनासो अमृतत्वमेरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया ॥३॥
इन्द्रेण याथ सरथं सुते सचाँ अथो वशानां भवथा सह श्रिया ।
न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च ॥४॥
इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वृषस्वा गभस्त्योः ।
धियेषितो मघवन्दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः ॥५॥
इन्द्र ऋभुमान्वाजवान्मत्स्वेह नोऽस्मिन्सवने शच्या पुरुष्टुत ।
इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानां मनुषश्च धर्मभिः ॥६॥
इन्द्र ऋभुभिर्वाजिभिर्वाजयन्निह स्तोमं जरितुरुप याहि यज्ञियम् ।
शतं केतेभिरिषिरेभिरायवे सहस्रणीथो अध्वरस्य होमनि ॥७॥

सायणभाष्यम्

‘इहेह वः' इति सप्तर्चं सप्तमं सूक्तं वैश्वामित्रं जागतमृभुदेवताकम् । अन्त्यस्तृच इन्द्रदेवताकश्च । तथा चानुक्रान्तम् -- इहेह वः सप्तार्भवं जागतं तृचोऽन्त्य ऐन्द्रश्च ' इति । सूक्तविनियोगो लैङ्गिकः । आद्याश्चतस्रः पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहनि वैश्वदेवशस्त्रे आर्भवनिविद्धानीयाः । सूत्रितं च -- ‘ इहेह व इति चतस्रः ' ( आश्व. श्रौ. ७. ५ ) इति ॥


इ॒हेह॑ वो॒ मन॑सा ब॒न्धुता॑ नर उ॒शिजो॑ जग्मुर॒भि तानि॒ वेद॑सा ।

याभि॑र्मा॒याभि॒ः प्रति॑जूतिवर्पस॒ः सौध॑न्वना य॒ज्ञियं॑ भा॒गमा॑न॒श ॥१

इ॒हऽइ॑ह । वः॒ । मन॑सा । ब॒न्धुता॑ । न॒रः॒ । उ॒शिजः॑ । ज॒ग्मुः॒ । अ॒भि । तानि॑ । वेद॑सा ।

याभिः॑ । मा॒याभिः॑ । प्रति॑जूतिऽवर्पसः । सौध॑न्वनाः । य॒ज्ञिय॑म् । भ॒गम् । आ॒न॒श ॥१

इहऽइह । वः । मनसा । बन्धुता । नरः । उशिजः । जग्मुः । अभि । तानि । वेदसा ।

याभिः । मायाभिः । प्रतिजूतिऽवर्पसः । सौधन्वनाः । यज्ञियम् । भगम् । आनश ॥१

हे ऋभवः “वः युष्माकं “बन्धुता । बध्नन्ति फलेन संयोजयन्तीति बन्धवः कर्माणि । तेषां समूहः बन्धुता । "इहेह सर्वत्र “मनसा सर्वैर्ज्ञायते । “नरः हे मनुष्या ऋभवः "उशिजः यज्ञभागं कामयमाना भवन्तः “वेदसा यज्ञभागप्रापककर्मविषयज्ञानेन “तानि तादृशानि कर्माणि “अभि “जग्मुः। प्राप्नुवन्ति । कानि तानि । “मायाभिः । मीयन्ते ज्ञायन्त इति मायाः कर्माणि । “याभिः मायाभिर्यैः कर्मभिः “प्रतिजूतिवर्पसः प्रतिपक्षाभिभवनशीलतेजोयुक्ताः "सौधन्वनाः । सुधन्वा नामाङ्गिरसः पुत्रः कश्चिदृषिः । तस्य पुत्राः सौधन्वनाः । ते च त्रय ऋभुर्विभ्वा वाज इति । एतन्नामका यूयं “यज्ञियं यज्ञार्हं “भागं सोमपानादिलक्षणम् “आनश प्राप्ताः स्थ । तथा च मन्त्रवर्णः- ‘ ऋभुर्विभ्वा वाजो देवाँ अगच्छत स्वपसो यज्ञियं भागमैतन ' ( ऋ. सं. १. १६१. ६ ) इति । अयमर्थो ब्राह्मणेऽपि ‘ ऋभवो वै देवेषु तपसा सोमपीथमभ्यजयन्' (ऐ. ब्रा. ३. ३०) इत्यत्रोपाख्यानपूर्वकं स्पष्टमभिहितः। यद्वा । नरः कर्मणां नेतारो हे ऋभव उशिजः कामयमाना वेदसा हविर्लक्षणेन धनेन युक्ताः स्तोतारो वो युष्माकं तानि चमसतक्षणादीनि कर्माणि बन्धुता बन्धुतया सख्येन मनसा जग्मुः अभिगच्छन्ति । कानि इत्याशङ्कायामाह। यैः चमसतक्षणादिभिः कर्मभिर्यज्ञार्हं भागं यूयमाप्नुत तान्यभिगच्छन्ति । युष्माकं बुद्धिनैपुणानि चिन्तयन्तीत्यर्थः ॥ इहेह। ‘नित्यवीप्सयोः' इति द्विर्वचनम् । परस्याम्रेडितत्वात् अनुदात्तत्वे पूर्वपदस्वरः । बन्धुता । ‘बन्ध बन्धने'। शॄस्वृस्निहि° ' इत्यादिना कर्तरि उप्रत्ययः । समूह इत्यर्थे ' ग्रामजनबन्धुसहायेभ्यस्तल् ' ( पा. सू. ४.२.४३) इति तल । लित्स्वरः ॥


याभि॒ः शची॑भिश्चम॒साँ अपिं॑शत॒ यया॑ धि॒या गामरि॑णीत॒ चर्म॑णः ।

येन॒ हरी॒ मन॑सा नि॒रत॑क्षत॒ तेन॑ देव॒त्वमृ॑भव॒ः समा॑नश ॥२

याभिः॑ । शची॑भिः । च॒म॒सान् । अपिं॑शत । यया॑ । धि॒या । गाम् । अरि॑णीत । चर्म॑णः ।

येन॑ । हरी॒ इति॑ । मन॑सा । निः॒ऽअत॑क्षत । तेन॑ । दे॒व॒ऽत्वम् । ऋ॒भ॒वः॒ । सम् । आ॒न॒श॒ ॥२

याभिः । शचीभिः । चमसान् । अपिंशत । यया । धिया । गाम् । अरिणीत । चर्मणः ।

येन । हरी इति । मनसा । निःऽअतक्षत । तेन । देवऽत्वम् । ऋभवः । सम् । आनश ॥२

हे “ऋभवः “याभिः “शचीभिः “शक्तिभिः “चमसान् चतुरः “अपिंशत विभक्तवन्तः स्थ। “यया “धिया प्रज्ञया “गां मृताम् “अरिणीत "चर्मणः चर्मणा योजनात् प्रापितवन्तः स्थ । “येन “मनसा प्रज्ञानेन “हरी एतन्नामकाविन्द्रस्याश्वौ “निरतक्षत नितरामकुरुत । तथा च मन्त्रवर्णः- ‘ य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी ' ( ऋ. सं. १.२०.२ ) इति । “तेन सर्वेणानेन कर्मणा “देवत्वं यज्ञभागार्हत्वलक्षणं देवभावं “समानश सम्यक् प्राप्ताः स्थ ॥ अपिंशत ।' पिश अवयवे'। तुदादिः । तस्य लङि मध्यमे रूपम् । यद्वृत्तयोगादनिघातः । अरिणीत । ‘ री गतिरेषणयोः । क्र्यादिः । तस्य लङि रूपम् । अत्रापि पूर्ववदनिघातः । निरतक्षत । ‘ तक्षु त्वक्षू तनूकरणे ' । लङि रूपम् । पूर्ववत् अनिघाते ‘तिङि चोदात्तवति' इति गतेर्निघातः । अडुदात्तः । आनश । अश्नोतेर्लिटि रूपम् । निघातः।


इन्द्र॑स्य स॒ख्यमृ॒भव॒ः समा॑नशु॒र्मनो॒र्नपा॑तो अ॒पसो॑ दधन्विरे ।

सौ॒ध॒न्व॒नासो॑ अमृत॒त्वमेरि॑रे वि॒ष्ट्वी शमी॑भिः सु॒कृत॑ः सुकृ॒त्यया॑ ॥३

इन्द्र॑स्य । स॒ख्यम् । ऋ॒भवः॑ । सम् । आ॒न॒शुः॒ । मनोः॑ । नपा॑तः । अ॒पसः॑ । द॒ध॒न्वि॒रे॒ ।

सौ॒ध॒न्व॒नासः॑ । अ॒मृ॒त॒ऽत्वम् । आ । ई॒रि॒रे॒ । वि॒ष्ट्वी । शमी॑भिः । सु॒ऽकृतः॑ । सु॒ऽकृ॒त्यया॑ ॥३

इन्द्रस्य । सख्यम् । ऋभवः । सम् । आनशुः । मनोः । नपातः । अपसः । दधन्विरे ।

सौधन्वनासः । अमृतऽत्वम् । आ । ईरिरे । विष्ट्वी । शमीभिः । सुऽकृतः । सुऽकृत्यया ॥३

“मनोर्नपातः मनुष्यस्याङ्गिरसः पुत्राः "अपसः यागादिलक्षणकर्मवन्तः “ऋभवः “इन्द्रस्य “सख्यं समानख्यानत्वं “समानशुः सम्यक् प्राप्नुवन् । तथेन्द्रस्य सख्यं प्राप्तास्त ऋभवः “दधन्विरे । पूर्वं मनुष्यत्वेन मरणयोग्या अपीदानीमिन्द्रस्य सख्येन प्राणान् धारयन्ति । तथा च मन्त्रः - अधारयन्त वह्नयः ' (ऋ. सं. १. २०. ८) इति । "सौधन्वनासः सुधन्वनामकस्यर्षेः पुत्रा ऋभवः “सुकृतः शोभनकर्माणः सन्तः प्रभूतैः “शमीभिः देवत्वप्राप्तिप्रतिबन्धनिवारणहेतुभिः कर्मभिः सुकृत्यया शोभनेन कर्मणा च "विष्ट्वी व्याप्य “अमृतत्वमेरिरे देवत्वं प्रापुः । तथा च मन्त्रान्तरमाम्नायते -- ‘ मर्तासः सन्तो अमृतवमानशुः ' ( ऋ. सं. १. ११०. ४ ) इति ॥ नपातः । नभ्राण्नपात ! इत्यादिना नञः प्रकृतिभावः । दधन्विरे । धविर्गत्यर्थः । व्यत्ययेनात्मनेपदम् । लिटि रूपम् । ईरिरे । ‘ ईर गतौ ' । मन्त्रत्वात् आम् न भवति । निघातः। सुकृत्यया । करोतेर्भावे ‘कृञः श च ' इति क्यप् । प्रत्ययस्य व्यत्ययेनान्तोदात्तत्वम् । समासे कृदुत्तरस्वरः ॥


इन्द्रे॑ण याथ स॒रथं॑ सु॒ते सचाँ॒ अथो॒ वशा॑नां भवथा स॒ह श्रि॒या ।

न व॑ः प्रति॒मै सु॑कृ॒तानि॑ वाघत॒ः सौध॑न्वना ऋभवो वी॒र्या॑णि च ॥४

इन्द्रे॑ण । या॒थ॒ । स॒ऽरथ॑म् । सु॒ते । सचा॑ । अथो॒ इति॑ । वशा॑नाम् । भ॒व॒थ॒ । स॒ह । श्रि॒या ।

न । वः॒ । प्र॒ति॒ऽमै । सु॒ऽकृ॒तानि॑ । वा॒घ॒तः॒ । सौध॑न्वनाः । ऋ॒भ॒वः॒ । वी॒र्या॑णि । च॒ ॥४

इन्द्रेण । याथ । सऽरथम् । सुते । सचा । अथो इति । वशानाम् । भवथ । सह । श्रिया ।

न । वः । प्रतिऽमै । सुऽकृतानि । वाघतः । सौधन्वनाः । ऋभवः । वीर्याणि । च ॥४

हे ऋभवो यूयम् “इन्द्रेण "सचा सह "सरथं समानमेकं रथमारुह्य "सुते अभिषुतसोमवति यज्ञे “याथ गच्छथ। “अथो अनन्तरमिन्द्रेण सह एकरथमारूढा यूयं "वशानाम् । उश्यते काम्यते यजमानेन स्वर्गादिलक्षणं फलम् एभिरिति वशाः मनुष्याः । तेषां “श्रिया स्तुतिहविरादिरूपया “सह “भवथ । हे “सौधन्वनाः सुधन्वनः पुत्राः “वाघतः । अमृतत्वादिलक्षणफलस्य वोढारो मेधाविनो वा इति यास्कः । तादृशा हे “ऋभवः “वः युष्माकं “सुकृतानि देवत्वस्य प्रापकाणि शोभनानि कर्माणि “न “प्रतिमै । प्रतिमातुमियत्तया परिच्छेत्तुं न केनापि शक्यानि । तथा “वीर्याणि युष्माकं सामर्थ्यानि “च नैव प्रतिमातुं शक्यानि ॥ वशानाम् । ‘वश कान्तौ ।' वशिरण्योरुपसंख्यानम्' इति करणे अप्प्रत्ययः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । वशाशब्दो वन्ध्यावचनश्चेत् अन्तोदात्त: भवति । ' वशा मेषा अवसृष्टास आहुताः' (ऋ. सं. १०.९१. १४ ) इति । वः । युष्मच्छब्दस्य षष्ठीबहुवचने वसादेशः । निघातः । प्रतिमै । माङ् माने '। विच् । प्रतिमाः प्रतिमानम् । तस्य चतुर्थ्येकवचने आतो लोपाभावश्छान्दसः । एकादेशस्वरः ॥


आभिप्लविके पञ्चमेऽहनि वैश्वदेवशस्त्रे ‘इन्द्र ऋभुभिः' इत्यार्भवस्तृचः । सूत्रितं च- घृतवती भुवनानामभिश्रियेन्द्र ऋभुभिर्वाजवद्भिरिति तृचौ ' (आश्व. श्रौ. ७. ७.) इति । आद्या तृतीयसवने होतुः प्रस्थितयाज्या । सूत्रितं च - ' इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितमिन्द्रावरुणा सुतपाविमं सुतम् ' ( आश्व. श्रौ. ५.५) इति ॥

इन्द्र॑ ऋ॒भुभि॒र्वाज॑वद्भि॒ः समु॑क्षितं सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः ।

धि॒येषि॒तो म॑घवन्दा॒शुषो॑ गृ॒हे सौ॑धन्व॒नेभि॑ः स॒ह म॑त्स्वा॒ नृभि॑ः ॥५

इन्द्र॑ । ऋ॒भुऽभिः॑ । वाज॑वत्ऽभिः । सम्ऽउ॑क्षितम् । सु॒तम् । सोम॑म् । आ । वृ॒ष॒स्व॒ । गभ॑स्त्योः ।

धि॒या । इ॒षि॒तः । म॒घ॒ऽव॒न् । दा॒शुषः॑ । गृ॒हे । सौ॒ध॒न्व॒नेभिः॑ । स॒ह । म॒त्स्व॒ । नृऽभिः॑ ॥५

इन्द्र । ऋभुऽभिः । वाजवत्ऽभिः । सम्ऽउक्षितम् । सुतम् । सोमम् । आ । वृषस्व । गभस्त्योः ।

धिया । इषितः । मघऽवन् । दाशुषः । गृहे । सौधन्वनेभिः । सह । मत्स्व । नृऽभिः ॥५

हे “इन्द्र “वाजवद्भिः । वाजो नाम ऋभूणां भ्राता । यद्वा । वाजोऽन्नम् । तत्सहितैः “ऋभुभिः सहितस्त्वं “समुक्षितं सम्यगद्धिः सिक्तं ग्रावभिः “सुतं “सोमं “गभस्त्योः। बप्सत्यदन्त्याभ्यामन्नमिति गृह्णन्ति पदार्थानाभ्यामिति वा गभस्ती बाहू । तयोर्बाह्वोः "आ “वृषस्व आक्षारय । ग्रहमुभाभ्यां बाहुभ्यां गृहीत्वा सोमं पिबेत्यर्थः । हे “मघवन् इन्द्र “धिया स्तोत्ररूपेण कर्मणा “इषितः प्रेरितस्त्वं “दाशुषः हविर्दत्तवतो यजमानस्य “गृहे "सौधन्वनेभिः सुधन्वनः पुत्रैः "नृभिः मनुष्यैर्ऋभुभिः “सह साकं “मत्स्व सोमपानेन हृष्टो भव ॥ समुक्षितम् ।' उक्ष सेचने ' । कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः स्वरः । गभस्त्योः । ‘भस भर्त्सनदीप्त्योः' इत्यस्मात् ' भसेर्गट्च ' इति सूत्रेण तिप्रत्ययो धातोः गडागमश्च । यद्वा । गृह्णातेः पृषोदरादित्वादेवं नेयम् । मत्स्व । मदि स्तुत्यादिषु । लोटि ‘ बहुलं छन्दसि' इति विकरणस्य लुक् । निघातः ॥


इन्द्र॑ ऋभु॒मान्वाज॑वान्मत्स्वे॒ह नो॒ऽस्मिन्सव॑ने॒ शच्या॑ पुरुष्टुत ।

इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे व्र॒ता दे॒वानां॒ मनु॑षश्च॒ धर्म॑भिः ॥६

इन्द्र॑ । ऋ॒भु॒ऽमान् । वाज॑ऽवान् । म॒त्स्व॒ । इ॒ह । नः॒ । अ॒स्मिन् । सव॑ने । शच्या॑ । पु॒रु॒ऽस्तु॒त॒ ।

इ॒मानि॑ । तुभ्य॑म् । स्वस॑राणि । ये॒मि॒रे॒ । व्र॒ता । दे॒वाना॑म् । मनु॑षः । च॒ । धर्म॑ऽभिः ॥६

इन्द्र । ऋभुऽमान् । वाजऽवान् । मत्स्व । इह । नः । अस्मिन् । सवने । शच्या । पुरुऽस्तुत ।

इमानि । तुभ्यम् । स्वसराणि । येमिरे । व्रता । देवानाम् । मनुषः । च । धर्मऽभिः ॥६

“पुरुष्टुत बहुभिः स्तुत हे “इन्द्र “ऋभुमान् ऋभुणा तद्वान् “वाजवान् वाजेन ऋभोर्भ्रात्रा युक्तः “शच्या इन्द्राण्या कर्मणा वा सहितः सन् "नः अस्माकम् “इह कर्मणि “अस्मिन् तृतीयसवने “मत्स्व हृष्टो भव । हे इन्द्र “तुभ्यं त्वदर्थम् “इमानि “स्वसराणि अहानि “येमिरे । तव सोमपानार्थं त्रिषु सवनेषु नियतान्यासते । किंच “देवानाम् अग्न्यादीनां “व्रता व्रतानि कर्माणि “च "मनुषः मनुष्यस्य “धर्मभिः कर्मभिः साकं त्वदर्थं नियतान्यासते ॥


इन्द्र॑ ऋ॒भुभि॑र्वा॒जिभि॑र्वा॒जय॑न्नि॒ह स्तोमं॑ जरि॒तुरुप॑ याहि य॒ज्ञिय॑म् ।

श॒तं केते॑भिरिषि॒रेभि॑रा॒यवे॑ स॒हस्र॑णीथो अध्व॒रस्य॒ होम॑नि ॥७

इन्द्र॑ । ऋ॒भुऽभिः॑ । वा॒जिऽभिः॑ । वा॒जय॑न् । इ॒ह । स्तोम॑म् । ज॒रि॒तुः । उप॑ । या॒हि॒ । य॒ज्ञिय॑म् ।

श॒तम् । केते॑भिः । इ॒षि॒रेभिः॑ । आ॒यवे॑ । स॒हस्र॑ऽनीथः । अ॒ध्व॒रस्य॑ । होम॑नि ॥७

इन्द्र । ऋभुऽभिः । वाजिऽभिः । वाजयन् । इह । स्तोमम् । जरितुः । उप । याहि । यज्ञियम् ।

शतम् । केतेभिः । इषिरेभिः । आयवे । सहस्रऽनीथः । अध्वरस्य । होमनि ॥७

हे "इन्द्र “वाजिभिः वाजयुक्तैः “ऋभुभिः सहितस्त्वं “वाजयन् स्तोतुर्वाजमन्नं कुर्वाणः “इह यज्ञे “यज्ञियं यज्ञार्हं "जरितुः स्तोतुः “स्तोमं स्तोत्रम् “उप “याहि आगच्छ । पुनः किंविशिष्टः । “केतेभिः । केत्यते ज्ञायते सर्वमेभिरिति केताः प्राज्ञाः मरुतः । तैः “शतं शतसंख्याकैः "इषिरेभिः इषिरैर्गमनकुशलैः अश्वैः सहितः “आयवे मनुष्याय यजमानाय “सहस्रनीथः बहुप्रकारनयनोपेतः “अध्वरस्य । न विद्यते ध्वरो हिंसा यस्य तादृशस्य सोमस्य “होमनि होमे आगच्छेति शेषः॥ वाजयन्। वाजं करोतीति णिच् । ‘णाविष्ठवत्' इतीष्ठवद्भावात् “ तुरिष्ठेमेयःसु' इति टिलोपः । केतेभिः । ‘कित ज्ञाने' । घञ् । ञित्त्वादाद्युदात्तः ॥ ॥ ७ ॥

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.६०&oldid=198079" इत्यस्माद् पुनः प्राप्तिः