ऋग्वेदः सूक्तं ३.५०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ३.५० इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ३.४९ ऋग्वेदः - मण्डल ३
सूक्तं ३.५०
गाथिनो विश्वामित्रः
सूक्तं ३.५१ →
दे. इन्द्रः। त्रिष्टुप्

इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान् ।
ओरुव्यचाः पृणतामेभिरन्नैरास्य हविस्तन्वः काममृध्याः ॥१॥
आ ते सपर्यू जवसे युनज्मि ययोरनु प्रदिवः श्रुष्टिमावः ।
इह त्वा धेयुर्हरयः सुशिप्र पिबा त्वस्य सुषुतस्य चारोः ॥२॥
गोभिर्मिमिक्षुं दधिरे सुपारमिन्द्रं ज्यैष्ठ्याय धायसे गृणानाः ।
मन्दानः सोमं पपिवाँ ऋजीषिन्समस्मभ्यं पुरुधा गा इषण्य ॥३॥
इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च ।
स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥४॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥५॥

सायणभाष्यम्

‘ इन्द्रः स्वाहा' इति पञ्चर्चं द्वादशं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । दशरात्रे नवमेऽहनि मरुत्वतीयशस्त्रे इदं सूक्तम् । सूत्रितं च- तृतीयस्येन्द्रः स्वाहा गायत्साम' (आश्व. श्रौ. ८. ७) इति ॥


इंद्रः॒ स्वाहा॑ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो॑ वृष॒भो म॒रुत्वा॑न् ।

ओरु॒व्यचाः॑ पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्वः१॒॑ काम॑मृध्याः ॥१

इन्द्रः॑ । स्वाहा॑ । पि॒ब॒तु॒ । यस्य॑ । सोमः॑ । आ॒ऽगत्य॑ । तुम्रः॑ । वृ॒ष॒भः । म॒रुत्वा॑न् ।

आ । उ॒रु॒ऽव्यचाः॑ । पृ॒ण॒ता॒म् । ए॒भिः । अन्नैः॑ । आ । अ॒स्य॒ । ह॒विः । त॒न्वः॑ । काम॑म् । ऋ॒ध्याः॒ ॥१

इन्द्रः । स्वाहा । पिबतु । यस्य । सोमः । आऽगत्य । तुम्रः । वृषभः । मरुत्वान् ।

आ । उरुऽव्यचाः । पृणताम् । एभिः । अन्नैः । आ । अस्य । हविः । तन्वः । कामम् । ऋध्याः ॥१

अयम् “इन्द्रः “स्वाहा स्वाहाकृतमिमं सोमं “पिबतु । “यस्य इन्द्रस्यायं “सोमः स इन्द्रो यज्ञं प्रति “आगत्य “तुम्रः कर्मविघ्नकारिणां हिंसकः “वृषभः यष्टॄणामभिमतफलवर्षकः “मरुत्वान् मरुद्भिस्तद्वान् "उरुव्यचाः प्रभूतव्याप्तिः सन् “एभिः अस्माभिर्दत्तैः “अन्नैः सोमादिलक्षणैर्हविर्भिः “आ “पृणतां समन्तात् पूरयतु । ततः “अस्य इन्द्रस्य संबन्धिनः “तन्वः शरीरस्य “कामं पुष्ट्यादि लक्षणविषयमभिलाषं “हविः अस्माभिर्दत्तम् “आ “ऋध्याः सर्वतः पूरयतु ॥ तुम्रः । तुमिराहननार्थः । उरुव्यचाः । व्यचेरसुन् । ‘ व्यचेः कुटादित्वमनसीति वक्तव्यम्' इत्यत्र ‘ अनसि' इति पर्युदासात् ङित्त्वाभावः । कृदुत्तरस्वरः । ऋध्याः । ऋध्नोतेः आशीर्लिंङि रूपम् ॥


आ ते॑ सप॒र्यू ज॒वसे॑ युनज्मि॒ ययो॒रनु॑ प्र॒दिवः॑ श्रु॒ष्टिमावः॑ ।

इ॒ह त्वा॑ धेयु॒र्हर॑यः सुशिप्र॒ पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारोः॑ ॥२

आ । ते॒ । स॒प॒र्यू इति॑ । ज॒वसे॑ । यु॒न॒ज्मि॒ । ययोः॑ । अनु॑ । प्र॒ऽदिवः॑ । श्रु॒ष्टिम् । आवः॑ ।

इ॒ह । त्वा॒ । धे॒युः॒ । हर॑यः । सु॒ऽशि॒प्र॒ । पिब॑ । तु । अ॒स्य । सुऽसु॑तस्य । चारोः॑ ॥२

आ । ते । सपर्यू इति । जवसे । युनज्मि । ययोः । अनु । प्रऽदिवः । श्रुष्टिम् । आवः ।

इह । त्वा । धेयुः । हरयः । सुऽशिप्र । पिब । तु । अस्य । सुऽसुतस्य । चारोः ॥२

हे इन्द्र “ते तव “जवसे यज्ञं प्रत्यागमनाय "सपर्यू परिचारकौ हरी “आ “युनज्मि रथे योजयामि । “प्रदिवः पुरातनस्त्वं “ययोः अश्वयोः “श्रुष्टिं वेगम् । श्रुष्टीति क्षिप्रनाम इति यास्कः । तम् “अनु “आवः अनुगच्छसि । हे “सुशिप्र शोभनहनो इन्द्र “हरयः रथे योजितास्तेऽश्वाः “इह कर्मणि “त्वा त्वां “धेयुः यज्ञं प्रति धारयन्तु । तत आगतस्त्वं सुषुतस्य सुष्व्“भिषुतं चारोः कमनीयम् “अस्य इमं सोमं “तु क्षिप्रं “पिब । सपर्यू। सपरशब्दः कण्वाव दिः । तदन्तात् औणादिकः कुप्रत्ययः । आवः । अव रक्षणादिषु । छान्दसे लङि रूपम् । यद्वृत्तयोगात् अनिघातः। धेयुः । दधातेराशीर्लिङि किदाशिषि' इति यासुट् । ‘ एर्लिङि' ( पा. सू. ६. ४. ६७ ) इत्येकादेशः । निघातः । पिब । पादादित्वादनिघातः । सुषुतस्य । “ षुञ् अभिषवे' कर्मणि क्तः। ‘ गतिरनन्तरः' इति गतिस्वरः ।' उपसर्गात्सुनोति' इत्यादिना संहितायां षत्वम् ॥


गोभि॑र्मिमि॒क्षुं द॑धिरे सुपा॒रमिंद्रं॒ ज्यैष्ठ्या॑य॒ धाय॑से गृणा॒नाः ।

मं॒दा॒नः सोमं॑ पपि॒वाँ ऋ॑जीषि॒न्त्सम॒स्मभ्यं॑ पुरु॒धा गा इ॑षण्य ॥३

गोभिः॑ । मि॒मि॒क्षुम् । द॒धि॒रे॒ । सु॒ऽपा॒रम् । इन्द्र॑म् । ज्यैष्ठ्या॑य । धाय॑से । गृ॒णा॒नाः ।

म॒न्दा॒नः । सोम॑म् । प॒पि॒ऽवान् । ऋ॒जी॒षि॒न् । सम् । अ॒स्मभ्य॑म् । पु॒रु॒धा । गाः । इ॒ष॒ण्य॒ ॥३

गोभिः । मिमिक्षुम् । दधिरे । सुऽपारम् । इन्द्रम् । ज्यैष्ठ्याय । धायसे । गृणानाः ।

मन्दानः । सोमम् । पपिऽवान् । ऋजीषिन् । सम् । अस्मभ्यम् । पुरुधा । गाः । इषण्य ॥३

“गृणानाः स्तोत्रं कुर्वाणा ऋत्विजः “मिमिक्षुं स्तोतॄणामभिमतफलं वर्षितुमिच्छन्तं “सुपारं शोभनपारम् । स्तुतिभिरभिमुखीकर्तुं शक्यमित्यर्थः । तादृशम् “इन्द्रं “ज्यैठ्याय धनादिसंपत्त्या श्रेष्ठत्वाय “धायसे चिरकालमायुर्धारणाय च “गोभिः गोमिश्रितैः सोमैः “दधिरे धारयन्ति । शेषः प्रत्यक्षः । हे “ऋजीषिन् सोमवन्निन्द् स त्वं “मन्दानः मोदमानः “सोमं “पपिवान् सोमस्य पाता सन् स्तोतृभ्यः “अस्मभ्यं “पुरुधा बहुधा “गाः अग्निहोत्रादिकर्मसिद्ध्यर्थं धेनूः “सम् इषण्य सम्यक् प्रेरय ।। गोभिः । ‘ सावेकाचः०' इति विभक्तेरुदात्तत्वे प्राप्ते नः गोश्वन्साववर्ण° ' इति प्रतिषेधः । मिमिक्षुम् । मिह सेचने ' इत्यस्य सनि ' एकाचः° ' ( पा. सू. ७. २. १० ) इतीट्प्रतिषेधे ‘ हलन्ताच्च ' इति किद्वद्भावः । ‘ सनाशंसभिक्ष उः । प्रत्ययस्वरः । ज्यैष्ठ्याय । ज्येष्ठस्य भाव इत्यर्थे ब्राह्मणादित्वात् ष्यञ् । ञित्त्वादाद्युदात्तः । गृणानाः । ‘ गॄ शब्दे' । क्र्यादित्वात् श्ना । चित्त्वादन्तोदात्तः । मन्दानः । मदि स्तुत्यादिषु इत्यस्य शानचि ‘बहुलं छन्दसि ' इति शपो लुक् । पुरुधा । पुरुशब्दः इह संख्यावाची । ‘ संख्याया विधार्थे धा' इति धाप्रत्ययः । इषण्य । ‘ इष गतौ । इषणमिच्छतीति छन्दसि परेच्छायां क्यच् । तदन्तादन्तर्भावितण्यर्थाल्लोटि रूपम् ॥


इ॒मं कामं॑ मंदया॒ गोभि॒रश्वै॑श्चं॒द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।

स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इंद्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ॥४

इ॒मम् । काम॑म् । म॒न्द॒य॒ । गोभिः॑ । अश्वैः॑ । च॒न्द्रऽव॑ता । राध॑सा । प॒प्रथः॑ । च॒ ।

स्वः॒ऽयवः॑ । म॒तिऽभिः॑ । तुभ्य॑म् । विप्राः॑ । इन्द्रा॑य । वाहः॑ । कु॒शि॒कासः॑ । अ॒क्र॒न् ॥४

इमम् । कामम् । मन्दय । गोभिः । अश्वैः । चन्द्रऽवता । राधसा । पप्रथः । च ।

स्वःऽयवः । मतिऽभिः । तुभ्यम् । विप्राः । इन्द्राय । वाहः । कुशिकासः । अक्रन् ॥४


शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥५

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥५

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥५

एते व्याख्याते ॥ ॥ १४ ॥


मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.५०&oldid=183752" इत्यस्माद् पुनः प्राप्तिः