ऋग्वेदः सूक्तं ३.४९
← सूक्तं ३.४८ | ऋग्वेदः - मण्डल ३ सूक्तं ३.४९ गाथिनो विश्वामित्रः |
सूक्तं ३.५० → |
दे. इन्द्रः। त्रिष्टुप् । |
शंसा महामिन्द्रं यस्मिन्विश्वा आ कृष्टयः सोमपाः काममव्यन् ।
यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः ॥१॥
यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम् ।
इनतमः सत्वभिर्यो ह शूषैः पृथुज्रया अमिनादायुर्दस्योः ॥२॥
सहावा पृत्सु तरणिर्नार्वा व्यानशी रोदसी मेहनावान् ।
भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः ॥३॥
धर्ता दिवो रजसस्पृष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान् ।
क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम् ॥४॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥५॥
सायणभाष्यम्
‘शंसा महाम्' इति पञ्चर्चमेकादशं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । “शंसा महाम्' इत्यनुक्रमणिका। समूळ्हे दशरात्रेऽष्टमेऽहनि मरुत्वतीयशस्त्रे एतत्सूक्तम् । सूत्रितं च- शंसा महां महश्चित्त्वमिन्द्र' (आश्व.श्रौ. ८. ७) इति ।।
शंसा॑ म॒हामिंद्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् ।
यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां॑ ज॒नयं॑त दे॒वाः ॥१
शंस॑ । म॒हाम् । इन्द्र॑म् । यस्मि॑न् । विश्वाः॑ । आ । कृ॒ष्टयः॑ । सो॒म॒ऽपाः । काम॑म् । अव्य॑न् ।
यम् । सु॒ऽक्रतु॑म् । धि॒षणे॒ इति॑ । वि॒भ्व॒ऽत॒ष्टम् । घ॒नम् । वृ॒त्राणा॑म् । ज॒नय॑न्त । दे॒वाः ॥१
शंस । महाम् । इन्द्रम् । यस्मिन् । विश्वाः । आ । कृष्टयः । सोमऽपाः । कामम् । अव्यन् ।
यम् । सुऽक्रतुम् । धिषणे इति । विभ्वऽतष्टम् । घनम् । वृत्राणाम् । जनयन्त । देवाः ॥१
हे होतः “महां महान्तम् “इन्द्रं “शंस शस्त्रैः स्तुहि । “यस्मिन् इन्द्रे रक्षितरि सति “विश्वाः “कृष्टयः सर्वे मनुष्याः “सोमपाः यज्ञमनुष्ठाय सोमपाः सन्तः “कामम् । काम्यते इति कामः स्वर्गादिः । तम् “आ "अव्यन् सर्वतः प्राप्नुवन्ति । “धिषणे देवमनुष्यादीनां धारयित्र्यौ । यद्वा । प्रगल्भे समर्थे स्वाश्रितान् रक्षतुमिति धिषणे द्यावापृथिव्यौ । “देवाः च “सुक्रतुम् । क्रतुः कर्म जगत्पालनादि । शोभनः क्रतुर्यस्यासौ सुक्रतुः । तादृशं “विभ्वतष्टं विभुना ब्रह्मणा तष्टं जगदाधिपत्ये स्थापितं महान्तं “वृत्राणां पापरूपाणां “घनं हन्तारं “यम् इन्द्रं “जनयन्त अजनयन् । शंस। ‘ शन्सु स्तुतौ ' इत्यस्य लोटि रूपम् । पादादित्वादनिघातः । द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः । अव्यन् । वी’ कान्तिगत्यादिषु'। लङि रूपम् । यदुवृत्तयोगादनिघातः । अट्स्वरः । सुक्रतुम् । क्रत्वादयश्च ' इत्युत्तरपदाद्युदात्तः । धिषणे ।' ञिधृषा प्रागल्भ्ये 'इत्यस्मात् ‘धृषेर्धिष च संज्ञायाम् ' इति क्युप्रत्ययः । धिष इत्यादेशः । प्रत्ययस्वरः । घनम् । हन्तेः पुंसि संज्ञायाम् । इति घः । “हो हन्तेः' इति कुत्वम् । प्रत्ययस्वरः । जनयत । जनेर्ष्यन्तस्य लङि रूपम् । यद्वृत्तयोगादनिघातः ॥
यं नु नकिः॒ पृत॑नासु स्व॒राजं॑ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठां ।
इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्योः॑ ॥२
यम् । नु । नकिः॑ । पृत॑नासु । स्व॒ऽराज॑म् । द्वि॒ता । तर॑ति । नृऽत॑मम् । ह॒रि॒ऽस्थाम् ।
इ॒नऽत॑मः । सत्व॑ऽभिः । यः । ह॒ । शू॒षैः । पृ॒थु॒ऽज्रयाः॑ । अ॒मि॒ना॒त् । आयुः॑ । दस्योः॑ ॥२
यम् । नु । नकिः । पृतनासु । स्वऽराजम् । द्विता । तरति । नृऽतमम् । हरिऽस्थाम् ।
इनऽतमः । सत्वऽभिः । यः । ह । शूषैः । पृथुऽज्रयाः । अमिनात् । आयुः । दस्योः ॥२
“पृतनासु । व्याप्रियन्तेऽत्र योद्धार इति पृतनाः संग्रामाः । तेषु "स्वराजं "हरिष्ठां हरिस्थां हरियुक्ते रथे वर्तमानं "नृतमं बलस्य युद्धे नेतृतमं “द्विता युद्धमासाद्य सेनां द्विधा कृत्वा वर्तमानं “यम् इन्द्रं “नकिः न कश्चिदपि “तरति उत्तीर्य गच्छति। न कोऽप्यभ्यस्ति इत्यर्थः । “नु प्रसिद्धौ । स इन्द्रः “इनतमः अतिशयेन सेनास्वामी “सत्वभिः परितः सीदद्भिर्मरुद्भिः सह "यः यान् गच्छन् शूषैः । शोषयन्ति परबलानीति शूषाणि बलानि । तैः “पृथुज्रयाः युद्धं प्रति तीव्रवेगः सन् “दस्योः शत्रोः “आयुः अन्नं प्राणं वा “अमिनात् संग्रामेषु मिनाति हिनस्ति । "ह प्रसिद्धौ । अत्र निरुक्तं-- ‘ पृथुज्रयाः पृथुजवः । पृथुज्रया अमिनादायुर्दस्योः । प्रामापयदायुर्दस्योः' (निरु. ५. ९ ) इति ॥ तरति । ‘ तॄ प्लवनतरणयोः' इत्यस्य लटि रूपम् । यद्वृत्तयोगादनिघातः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यः । ‘ या प्रापणे'। औणादिकः कप्रत्ययः । आतो लोपः । प्रत्ययस्वरः ॥
स॒हावा॑ पृ॒त्सु त॒रणि॒र्नार्वा॑ व्यान॒शी रोद॑सी मे॒हना॑वान् ।
भगो॒ न का॒रे हव्यो॑ मती॒नां पि॒तेव॒ चारुः॑ सु॒हवो॑ वयो॒धाः ॥३
स॒हऽवा॑ । पृ॒त्ऽसु । त॒रणिः॑ । न । अर्वा॑ । वि॒ऽआ॒न॒शिः । रोद॑सी॒ इति॑ । मे॒हना॑ऽवान् ।
भगः॑ । न । का॒रे । हव्यः॑ । म॒ती॒नाम् । पि॒ताऽइ॑व । चारुः॑ । सु॒ऽहवः॑ । व॒यः॒ऽधाः ॥३
सहऽवा । पृत्ऽसु । तरणिः । न । अर्वा । विऽआनशिः । रोदसी इति । मेहनाऽवान् ।
भगः । न । कारे । हव्यः । मतीनाम् । पिताऽइव । चारुः । सुऽहवः । वयःऽधाः ॥३
य इन्द्रः “सहावा बलवान् “पृत्सु संग्रामेषु “तरणिः । शत्रूनुत्तीर्य वर्तते इति तरणिः । तत्र दृष्टान्तः "अर्वा “न । यथार्वा बलवानश्वः शत्रुबलं तरति तथा “रोदसी द्यावापृथिव्यौ “व्यानशिः व्याप्नुवन् “मेहनावान् । मिह्यते सिच्यते दीयतेऽर्थिभ्य इति मेहनं धनम् । तद्वान्भवति । तादृश इन्द्रः “कारे । क्रियते इति कारो यज्ञादिः । तस्मिन् यज्ञे "भगो “न पूषा देव इव “हव्यः हवनीयः “मतीनां स्तोतॄणां स्तुतीनां वा “पितेव पालयिता “चारुः कमनीयः “सुहवः सुष्ट्वाह्वानोपेतः “वयोधाः अन्नस्य दाता' भवति ॥ सहावा । सहोऽस्यास्तीति मतुबर्थे ‘छन्दसीवनिपौ' इति वनिप् । ‘अन्येषामपि दृश्यते ' इति संहितायां दीर्घः । पृत्सु । पृतनाशब्दस्य सौ परतः । मांस्पृत्स्नूनामुपसंख्यानम् ' इति पृदादेशः । ‘ सावेकाचः' इति विभक्तेरुदात्तत्वम् । व्यानशिः । ‘ अशू व्याप्तौ' इत्यस्मात् छन्दसि सदादित्वात् किप्रत्ययः । तस्य लिड्वद्भावः । अत आदेः' इत्यभ्यासस्य दीर्घे कृते ‘ अश्नोतेश्च ' इति नुडागमः । प्रादिसमासः । कारे । करोतेः कर्मणि घञ् । कर्षात्वतो घञोऽन्त उदात्तः' इत्यन्तोदात्तत्वम् । हव्यः । जुहोतेः “ अचो यत्'।' यतोऽनावः' इत्याद्युदात्तत्वम् । सुहवः । ह्वयतेः ‘ भावेऽनुपसर्गस्य' (पा. सू. ३. ३.७५ ) इत्यप्प्रत्ययः । संप्रसारणम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ आद्युदात्तं द्व्यच्छन्दसि ' इति बहुव्रीहौ उत्तरपदाद्युदात्तत्वम् ।।
ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् ।
क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे॑व॒ वाजं॑ ॥४
ध॒र्ता । दि॒वः । रज॑सः । पृ॒ष्टः । ऊ॒र्ध्वः । रथः॑ । न । वा॒युः । वसु॑ऽभिः । नि॒युत्वा॑न् ।
क्ष॒पाम् । व॒स्ता । ज॒नि॒ता । सूर्य॑स्य । विऽभ॑क्ता । भा॒गम् । धि॒षणा॑ऽइव । वाज॑म् ॥४
धर्ता । दिवः । रजसः । पृष्टः । ऊर्ध्वः । रथः । न । वायुः । वसुऽभिः । नियुत्वान् ।
क्षपाम् । वस्ता । जनिता । सूर्यस्य । विऽभक्ता । भागम् । धिषणाऽइव । वाजम् ॥४
स इन्द्रः “दिवः द्युलोकस्य “रजसः अन्तरिक्षस्य च “धर्ता धारकः “पृष्टः सर्वत्र वर्तमानः “रथो “न तदीयो रथ इव “ऊर्ध्वः "वायुः ऊर्ध्वगन्ता “वसुभिः सहायतया निवसद्भिः मरुद्भिः “नियुत्वान् सहायवान् । यद्वा नेत्ययमुत्तरेणापि संबध्यते । यथा वायुर्नियुत्वान् नियुन्नामक वडवाभिः तद्वान् एवमिन्द्रो वसुभिर्मरुद्भिः सहायवान् । तथा “क्षपां “वस्ता रात्रिमाच्छादयन् “सूर्यस्य जगत्प्रकाशकस्यादित्यस्य “जनिता जनयिता “भागं भजनीयं “वाजं कर्मफलरूपमन्नं “विभक्ता साधु विभागकर्ता भवति । तत्र दृष्टान्तः । “धिषणेव । यथा आढ्यानां वाक् अस्येदमिति विभागं करोति तद्वत् ॥ रजसः । रञ्ज रागे' इत्यस्मात् ‘भूरञ्जिभ्यां कित्' ( उ. सू. ४. ६५६ ) इत्यसुन् । कित्त्वान्नलोपः । रज्यते प्रकाशेनेति रजोऽन्तरिक्षम् । नित्त्वादाद्युदात्तः । वस्ता । ‘ वस आच्छादने ' इत्यस्य तृचि रूपम् । जनिता । जनयतेस्तृचि ‘ जनिता मन्त्रे' इति निपातनात् णिलोपः ।। चित्त्वादन्तोदात्तः । विभक्ता । ‘ भज सेवायाम् ' इत्यस्य साधुकारिष्यर्थे तृन् । ' एकाच उपदेशे° : इतीट्प्रतिषेधः । ‘ तादौ च निति कृत्यतौ ' इति गतेः प्रकृतिस्वरत्वम् ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥५
शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥५
शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥५
‘ शुनं हुवेम' इति पूर्ववत् ॥ ॥ १३ ॥
मण्डल ३ | |||
---|---|---|---|