ऋग्वेदः सूक्तं ३.५१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ३.५१ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ३.५० ऋग्वेदः - मण्डल ३
सूक्तं ३.५१
गाथिनो विश्वामित्रः
सूक्तं ३.५२ →
दे. इन्द्रः। १-३ जगती, १०-१२ गायत्री

चर्षणीधृतं मघवानमुक्थ्यमिन्द्रं गिरो बृहतीरभ्यनूषत ।
वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे ॥१॥
शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप यन्ति विश्वतः ।
वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं स्वर्विदम् ॥२॥
आकरे वसोर्जरिता पनस्यतेऽनेहस स्तुभ इन्द्रो दुवस्यति ।
विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं स्तुहि ॥३॥
नृणामु त्वा नृतमं गीर्भिरुक्थैरभि प्र वीरमर्चता सबाधः ।
सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे ॥४॥
पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति ।
इन्द्राय द्याव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि ॥५॥
तुभ्यं ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व ।
बोध्यापिरवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः ॥६॥
इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य ।
तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयः सुयज्ञाः ॥७॥
स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः ।
जातं यत्त्वा परि देवा अभूषन्महे भराय पुरुहूत विश्वे ॥८॥
अप्तूर्ये मरुत आपिरेषोऽमन्दन्निन्द्रमनु दातिवाराः ।
तेभिः साकं पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे ॥९॥
इदं ह्यन्वोजसा सुतं राधानां पते ।
पिबा त्वस्य गिर्वणः ॥१०॥
यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् ।
स त्वा ममत्तु सोम्यम् ॥११॥
प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः ।
प्र बाहू शूर राधसे ॥१२॥


सायणभाष्यम्

‘ चर्षणीधृतम्' इति द्वादशर्चं त्रयोदशं सूक्तं वैश्वामित्रमैन्द्रम् । अत्रानुक्रमणिका-‘चर्षणीधृतं द्वादशाद्यन्त्यौ तृचौ जागतगायत्रौ' इति । आद्यस्तृचो जागतोऽन्त्यस्तृचो गायत्रः। शिष्टा ऋचस्त्रिष्टुभः। सूक्तविनियोगो लैङ्गिकः । उक्थे कतौ मैत्रावरुणशस्त्रेऽनुरूपतृचानन्तरमाद्यस्तृचः शंसनीयः । सूत्रितं च-चर्षणीधृतमस्तभ्नाद्द्यामसुर इति तृचौ' (आश्व. श्रौ. ६. १) इति । विषुवति निष्केवल्ये ‘नृणामु त्वा' इति तृचः । ‘ विषुवान्' इति खण्डे सूत्रितं--- नृणामु त्वा नृतमं गीर्भिरुक्थैरिति तिस्रः ' (आश्व. श्रौ. ८. ६) इति । बृहस्पतिसवे अप्ययं तृचो निष्केवल्ये निविद्धानीयः । सूत्रितं च - नृणामु वेति मध्यंदिनः ' ( आश्व. श्रौ. ९. ५) इति । महाव्रतेऽपि निष्केवल्येऽयं तृचः । दशरात्रे चतुर्थेऽहनि मरुत्वतीये ‘इन्द्र मरुत्वः' इति तिस्रः । षष्ठेऽहनि ‘षष्ठस्य ' इति खण्डे सूत्रितम्--- इन्द्र मरुत्व इति तिस्र इति मरुत्वतीयम्' (आश्व. श्रौ. ८. १) इति । बृहस्पतिसवेऽपि मरुत्वतीयशस्त्रे अयं तृचो निविद्धानीयः । सूत्रितं च--- इन्द्र मरुत्व इह नृणामु त्वेति मंध्यंदिनः' (आश्व. श्रौ. ९. ५) इति । आद्या मरुत्वतीयग्रहस्यानुवाक्या । सूत्रितं च--- मरुत्वतीयेन ग्रहेण चरन्तीन्द्र मरुत्व इह पाहि सोमम् (आश्व. श्रौ. ५, १४ ) इति । तृतीये पर्याये होतुः शस्त्रे • इदं ह्यन्वोजसा ' इति स्तोत्रियस्तृचः । सूत्रितं च - इदं ह्यन्वोजसा महाँ इन्द्रो य ओजसा ' ( आश्व. श्रौ. ६. ४ ) इति ॥


च॒र्ष॒णी॒धृतं॑ म॒घवा॑नमु॒क्थ्य१॒॑मिंद्रं॒ गिरो॑ बृह॒तीर॒भ्य॑नूषत ।

वा॒वृ॒धा॒नं पु॑रुहू॒तं सु॑वृ॒क्तिभि॒रम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे ॥१

च॒र्ष॒णि॒ऽधृत॑म् । म॒घऽवा॑नम् । उ॒क्थ्य॑म् । इन्द्र॑म् । गिरः॑ । बृ॒ह॒तीः । अ॒भि । अ॒नू॒ष॒त॒ ।

व॒वृ॒धा॒नम् । पु॒रु॒ऽहू॒तम् । सु॒वृ॒क्तिऽभिः॑ । अम॑र्त्यम् । जर॑माणम् । दि॒वेऽदि॑वे ॥१

चर्षणिऽधृतम् । मघऽवानम् । उक्थ्यम् । इन्द्रम् । गिरः । बृहतीः । अभि । अनूषत ।

ववृधानम् । पुरुऽहूतम् । सुवृक्तिऽभिः । अमर्त्यम् । जरमाणम् । दिवेऽदिवे ॥१

"बृहतीः प्रभूताः “गिरः अस्मदीयाः स्तुतिलक्षणा वाचः “चर्षणीधृतं चर्षणीनां मनुष्याणामभिमतफलप्रदानेन धारकं पोषकम् । यद्वा । आकृषन्त्यनेन सर्वमिति चर्षणि बलं तद्धारकम् । “मघवानं धनवन्तम् “उक्थ्यम् उक्थैः शस्त्रैः शंसनीयं “वावृधानं बलधनादिसंपत्त्या प्रतिक्षणं वर्धमानं “पुरुहूतं स्तोतृभिर्बहुवारमाहूतम् “अमर्त्यं मरणधर्मरहितं "सुवृक्तिभिः शोभनस्तुतिवाक्यैः "दिवेदिवे प्रत्यहं “जरमाणं स्तूयमानं तमिमम् “इन्द्रम् “अभ्यनूषत अभितः सर्वतः स्तुवन्तु ॥ बृहतीः। ‘ वा छन्दसि' इति सवर्णदीर्घः । अनूषत । ‘णू स्तवने'। अस्माल्लुङि सिच् । धातोः कुटादित्वात् सिचो ङित्त्वेन गुणाभावः । सुवृक्तिभिः । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । यद्वा । सुवृक्तय इति स्तुतिकरणभूताः ऋचो वृक्तिशब्देनोच्यन्ते । ‘ क्तिच्क्तौ च ' इति क्तिच् । कृत्स्वरेणान्तोदात्तः । दिवेदिवे । ' नित्यवीप्सयोः' इति द्विर्वचनम् । परस्याम्रेडितत्वादनुदात्तत्वे पूर्वपदस्वरः ॥


श॒तक्र॑तुमर्ण॒वं शा॒किनं॒ नरं॒ गिरो॑ म॒ इंद्र॒मुप॑ यंति वि॒श्वतः॑ ।

वा॒ज॒सनिं॑ पू॒र्भिदं॒ तूर्णि॑म॒प्तुरं॑ धाम॒साच॑मभि॒षाचं॑ स्व॒र्विदं॑ ॥२

श॒तऽक्र॑तुम् । अ॒र्ण॒वम् । शा॒किन॑म् । नर॑म् । गिरः॑ । मे॒ । इन्द्र॑म् । उप॑ । य॒न्ति॒ । वि॒श्वतः॑ ।

वा॒ज॒ऽसनि॑म् । पूः॒ऽभिद॑म् । तूर्णि॑म् । अ॒प्ऽतुर॑म् । धा॒म॒ऽसाच॑म् । अ॒भि॒ऽसाच॑म् । स्वः॒ऽविद॑म् ॥२

शतऽक्रतुम् । अर्णवम् । शाकिनम् । नरम् । गिरः । मे । इन्द्रम् । उप । यन्ति । विश्वतः ।

वाजऽसनिम् । पूःऽभिदम् । तूर्णिम् । अप्ऽतुरम् । धामऽसाचम् । अभिऽसाचम् । स्वःऽविदम् ॥२

“मे मदीयाः “गिरः स्तुतिलक्षणा वाचः “शतक्रतुम् । शतं क्रतवो यज्ञा यस्य तम् । “अर्णवं पर्जन्यात्मना उदकवन्तं “शाकिनम् । शक्नोत्येभिरिन्द्र इति शाकाः सहायभूता मरुतः । तद्वन्तं “नरं सर्वस्य जगतो नेतारं “वाजसनिं वाजस्यान्नस्य दातारं “पूर्भिदं शत्रुपुरां भेत्तारं “तूर्णिं युद्धं प्रति शीघ्रं गन्तारम् "अप्तुरं मेघभेदनद्वारा अपां प्रेरकं “धामसाचं तेजो भजमानम् । यद्वा धनं धाम । तदर्थिभिः सह योजयितारम् । “अभिषाचं शत्रूणामभिभवितारं "स्वर्विदं स्वर्गस्य लम्भकं तमिमम् “इन्द्रं “विश्वतः सर्वतः “उप “यन्ति उपगच्छन्तु ॥ अर्णवम् । अर्णोऽस्यास्तीति मत्वर्थे ‘ अर्णसः सलोपश्च' इति वप्रत्ययः सकारलोपश्च । प्रत्ययस्वरः । नरम् । नयतेर्डिच्च' इति ऋप्रत्ययः । अमः सुप्त्वादनुदात्तत्वे प्रत्ययस्वरः । यन्ति । ‘ इण गतौ ' इत्यस्य लटि • इणो यण् इति यण् । निघातः । वाजसनिम् ।' षणु दाने '। खनिकष्यज्यसिवसि" ' इत्यादिना इप्रत्ययः । ‘ परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । तूर्णिम् । ‘ञित्वरा संभ्रमे '। “वहिश्रि° ' इत्यादिना निप्रत्ययः । ज्वरत्वर° ' इत्यादिना ऊठ्। ‘ नित्' इत्यतिदेशादाद्युदात्तः । अप्तुरम् । ‘ तुर त्वरणे'। क्विप् । कृदुत्तरपदस्वरः । अभिषाचम् । षच समवाये । ण्यन्तस्य क्विप् ॥


आ॒क॒रे वसो॑र्जरि॒ता प॑नस्यतेऽने॒हसः॒ स्तुभ॒ इंद्रो॑ दुवस्यति ।

वि॒वस्व॑तः॒ सद॑न॒ आ हि पि॑प्रि॒ये स॑त्रा॒साह॑मभिमाति॒हनं॑ स्तुहि ॥३

आ॒ऽक॒रे । वसोः॑ । ज॒रि॒ता । प॒न॒स्य॒ते॒ । अ॒ने॒हसः॑ । स्तुभः॑ । इन्द्रः॑ । दु॒व॒स्य॒ति॒ ।

वि॒वस्व॑तः । सद॑ने । आ । हि । पि॒प्रि॒ये । स॒त्रा॒ऽसह॑म् । अ॒भि॒मा॒ति॒ऽहन॑म् । स्तु॒हि॒ ॥३

आऽकरे । वसोः । जरिता । पनस्यते । अनेहसः । स्तुभः । इन्द्रः । दुवस्यति ।

विवस्वतः । सदने । आ । हि । पिप्रिये । सत्राऽसहम् । अभिमातिऽहनम् । स्तुहि ॥३

“जरिता शत्रूणां जरयिता “इन्द्रः “आकरे । आकीर्यते युद्धार्थं धनमत्रेत्याकरो युद्धम् । तस्मिन् “वसोः धनस्य स्थानभूते युद्धे “पनस्यते सर्वैः स्तूयते । यद्वा वसोः । वसत्याभिमुख्येन तिष्ठतीति वसुः शत्रुः तस्य जरयितेति योजनीयम् । स इन्द्रः “अनेहसः अपापाः “स्तुभः स्तुतीः “दुवस्यति परिचरति । तासां फलं प्रयच्छन् पूजयतीत्यर्थः । किंच स इन्द्रः “विवस्वतः विशेषेण अग्निहोत्रार्थं वसतो हविष्मतो वा यजमानस्य "सदने गृहे “आ “पिप्रिये “हि सोमपानादिना अत्यन्तं प्रीतो भवति खलु । "सत्रासाहं शत्रूणामेव हन्तारं यद्वा मरुद्भिः सह शत्रूणामभिभवितारम् अत एव "अभिमातिहनं शत्रूणां हन्तारमिन्द्रं “स्तुहि हे विश्वामित्रेति ॥ आकरे। ‘कॄ विक्षेपे ' । अधिकरणे • ऋदोरप्' इत्यप् । थाथादिस्वरेणान्तोदात्तः । जरिता । ' जॄष् वयोहानौ ' इत्यस्यान्तर्भावितण्यर्थस्य तृचि रूपम् । चित्त्वादन्तोदात्तः । पनस्यते । पनस्यतिः स्तुतिकर्मा । तस्य कर्मणि लटि रूपम् । निघातः । अनेहसः । हन्तेर्नञि उपपदे ' नञि हन एह च' ( उ. सू . ४. ६६३ ) इस्यसिप्रत्ययः एह इत्ययं चादेशो धातोः । ‘ नञ्सुभ्याम् ' इति स्वरेणान्तोदात्तः । स्तुभः । स्तोभतिः अर्चतिकर्मा । क्विप् । दुवस्यति । दुवः परिचरणमात्मन इच्छतीत्यर्थे क्यच् । निघातः । पिप्रिये । ‘ प्रीङ् तर्पणे ' । लिटि रूपम्। हियोगादनिघातः ॥


नृ॒णामु॑ त्वा॒ नृत॑मं गी॒र्भिरु॒क्थैर॒भि प्र वी॒रम॑र्चता स॒बाधः॑ ।

सं सह॑से पुरुमा॒यो जि॑हीते॒ नमो॑ अस्य प्र॒दिव॒ एक॑ ईशे ॥४

नृ॒णाम् । ऊं॒ इति॑ । त्वा॒ । नृऽत॑मम् । गीः॒ऽभिः । उ॒क्थैः । अ॒भि । प्र । वी॒रम् । अ॒र्च॒त॒ । स॒ऽबाधः॑ ।

सम् । सह॑से । पु॒रु॒ऽमा॒यः । जि॒ही॒ते॒ । नमः॑ । अ॒स्य॒ । प्र॒ऽदिवः॑ । एकः॑ । ई॒शे॒ ॥४

नृणाम् । ऊं इति । त्वा । नृऽतमम् । गीःऽभिः । उक्थैः । अभि । प्र । वीरम् । अर्चत । सऽबाधः ।

सम् । सहसे । पुरुऽमायः । जिहीते । नमः । अस्य । प्रऽदिवः । एकः । ईशे ॥४

हे इन्द्र "सबाधः । रक्षोघ्नमन्त्रोच्चारणेन तद्विषयबाधया सह वर्तन्त इति सबाधः ऋत्विजः । “नृणां “नृतमं मनुष्याणामतिशयेन स्वस्वकर्मणि नेतारं “वीरं सामर्थ्योपेतं “त्वा त्वां “गीर्भिः स्तुतिसाधनभूतैर्वाक्यैः “उक्थैः शस्त्रैश्च “अभि आभिमुख्येन “प्र “अर्चत प्रकर्षेणार्चन्ति । “पुरुमायः वृत्रहननादिबहुकर्मा स इन्द्रः “सहसे बलाय “सं “जिहीते गमनोद्यमं करोति । किंच “प्रदिवः पुरातनः “एकः असहायः स इन्द्रः “नमः नमसः “अस्य हविर्लक्षणस्यान्नस्य “ईशे इष्टे । यद्वा अस्य सर्वस्य जगत ईष्टे । तस्मै इन्द्राय नमः ॥ नृणाम् । नामन्यतरस्याम् ' इति विभक्तेरुदात्तत्वम् । अर्चत । अर्चतेर्लटि झेस्तादेशः ‘ तिङां तिङो भवन्ति' इति वचनात् । सबाधः । ‘ बाधृ विलोडने '। क्विप् । ‘ वोपसर्जनस्य ' इति सहस्य सत्वम् । कृदुत्तरपदस्वरः । पुरुमायः । ‘ अन्तोदात्तप्रकरणे त्रिचक्रादीनामुपसंख्यानम् ' इत्यन्तोदात्तत्वम् । ईशे । ‘ ईश ऐश्वर्ये ' इत्यस्य लटि • लोपस्त आत्मनेपदेषु' इति तलोपः । निघातः ॥


पू॒र्वीर॑स्य नि॒ष्षिधो॒ मर्त्ये॑षु पु॒रू वसू॑नि पृथि॒वी बि॑भर्ति ।

इंद्रा॑य॒ द्याव॒ ओष॑धीरु॒तापो॑ र॒यिं र॑क्षंति जी॒रयो॒ वना॑नि ॥५

पू॒र्वीः । अ॒स्य॒ । निः॒ऽसिधः॑ । मर्त्ये॑षु । पु॒रु । वसू॑नि । पृ॒थि॒वी । बि॒भ॒र्ति॒ ।

इन्द्रा॑य । द्यावः॑ । ओष॑धीः । उ॒त । आपः॑ । र॒यिम् । र॒क्ष॒न्ति॒ । जी॒रयः॑ । वना॑नि ॥५

पूर्वीः । अस्य । निःऽसिधः । मर्त्येषु । पुरु । वसूनि । पृथिवी । बिभर्ति ।

इन्द्राय । द्यावः । ओषधीः । उत । आपः । रयिम् । रक्षन्ति । जीरयः । वनानि ॥५

“मर्त्येषु मनुष्येषु “अस्य इन्द्रस्य “निष्षिधः अनुशासनानि “पूर्वीः हितोपदेशादिभिः प्रभूतानि नानाप्रकाराणि भवन्ति । इन्द्रस्य शासितृत्वे मन्त्रः-’ उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे ' ( ऋ. सं. १. १०. ५) इति । तथा शासकाय तस्मै “इन्द्राय “पृथिवी “पुरु पुरूणि बहूनि “वसूनि धनानि “बिभर्ति अन्तर्धारयति । किंच “द्यावः द्युलोकाः “ओषधीः ओषधयः “उत अपि च “आपः जलानि “जीरयः । जीर्यन्त इति जीरयो मनुष्याः । “वनानि वृक्षाश्च एते सर्वे इन्द्रस्याज्ञया तदुपभोगयोग्यं “रयिं धनं रक्षन्ति ॥ निष्षिधः । ‘ षिधु गत्याम् ' । क्विप् । संहितायां निसः सकारेण इणो व्यवधानं छान्दसत्वात् अनादृत्य १ उपसर्गात्सुनोति° ' इत्यादिना षत्वम् । निसः सकारस्य ‘ ष्टुना ष्टुः' इति षत्वम् ॥ ॥ १५ ॥


तुभ्यं॒ ब्रह्मा॑णि॒ गिर॑ इंद्र॒ तुभ्यं॑ स॒त्रा द॑धिरे हरिवो जु॒षस्व॑ ।

बो॒ध्या॒३॒॑पिरव॑सो॒ नूत॑नस्य॒ सखे॑ वसो जरि॒तृभ्यो॒ वयो॑ धाः ॥६

तुभ्य॑म् । ब्रह्मा॑णि । गिरः॑ । इ॒न्द्र॒ । तुभ्य॑म् । स॒त्रा । द॒धि॒रे॒ । ह॒रि॒ऽवः॒ । जु॒षस्व॑ ।

बो॒धि । आ॒पिः । अव॑सः । नूत॑नस्य । सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ । वयः॑ । धाः॒ ॥६

तुभ्यम् । ब्रह्माणि । गिरः । इन्द्र । तुभ्यम् । सत्रा । दधिरे । हरिऽवः । जुषस्व ।

बोधि । आपिः । अवसः । नूतनस्य । सखे । वसो इति । जरितृऽभ्यः । वयः । धाः ॥६

हे “हरिवः अश्ववन् “इन्द्र “तुभ्यं त्वदर्थं “ब्रह्माणि स्तोत्राणि तथा “तुभ्यं “गिरः शस्त्राणि च “सत्रा सत्यमेव “दधिरे ऋत्विजो धारयन्ति । तानि “जुषस्व सेवस्व । हे “वसो सर्वस्य वासयितः सखे सखिभूत हे इन्द्र “आपिः व्याप्तस्त्वं “नूतनस्य नवतरम् “अवसः अन्नलक्षणं हविः “बोधि त्वदर्थं दीयमानं जानीहि । अतस्त्वं “जरितृभ्यः स्तोतृभ्योऽस्मभ्यं “वयः अन्नं “धाः देहि ॥ तुभ्यम् । ‘ ङयि च ' इत्याद्युदात्तत्वम् । जुषस्व । जुषी प्रीतिसेवनयोः' इत्यस्य लोटि रूपम् । वाक्यभेदात् अनिघातः । बोधि । ‘ बुध अवगमने ' इत्यस्य लोटि वा छन्दसि ' इति हेर्विकल्पेन ङित्त्वादत्र पित्त्वात् गुणः । ‘ हुझल्भ्यो हेर्धिः' इति ध्यादेशः । ङित्त्वादन्तोदात्त: ।।।


इंद्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ ।

तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासंति क॒वयः॑ सुय॒ज्ञाः ॥७

इन्द्र॑ । म॒रु॒त्वः॒ । इ॒ह । पा॒हि॒ । सोम॑म् । यथा॑ । शा॒र्या॒ते । अपि॑बः । सु॒तस्य॑ ।

तव॑ । प्रऽनी॑ती । तव॑ । शू॒र॒ । शर्म॑न् । आ । वि॒वा॒स॒न्ति॒ । क॒वयः॑ । सु॒ऽय॒ज्ञाः ॥७

इन्द्र । मरुत्वः । इह । पाहि । सोमम् । यथा । शार्याते । अपिबः । सुतस्य ।

तव । प्रऽनीती । तव । शूर । शर्मन् । आ । विवासन्ति । कवयः । सुऽयज्ञाः ॥७

हे मरुत्वः मरुद्भिस्तद्वन् हे “इन्द्र त्वम् “इह अस्मदीये यज्ञे आगत्य “सोमं “पाहि पिब । “यथा त्वं पूर्वं “शार्याते शर्यातेः पुत्रे तस्मिन् राजनि यज्ञं कुर्वाणे “सुतस्य अभिषुतं सोमम् “अपिबः तथा अत्रापि पिबेत्यर्थः । इन्द्रः शार्यातस्य यज्ञे सोमरसानपिबदित्येषोऽर्थः कौषीतके स्पष्टमुक्तः । तथा मन्त्रवर्णश्च -- आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे' (ऋ. सं. १. ५१. १२) इति । हे “शूर इन्द्र “तव संबन्धिनि “शर्मन् शर्मणि निर्बाधस्थाने स्थिताः “सुयज्ञाः सुष्ठुकृतयज्ञाः “कवयः मेधाविनो यजमानाः “प्रणीती तव हविषां प्रणयनेन प्रापणेन “आ समन्तात् विवासन्ति त्वामेव परिचरन्ति । विवासतिः परिचरणकर्मा ।। शार्याते । शर्यातेरयमित्यर्थे ‘ तस्येदं ' इत्यण्प्रत्ययः । अपिबः । यथायोगादनिघातः । अडागमस्वरः । प्रणीती । नयतेर्भावे क्तिन् । तादौ च निति कृति° ' इति गतेः प्रकृतिस्वरत्वम्। ‘ सुपां सुलुक्° ' इति तृतीयाया: सवर्णदीर्घः । ‘ उपसर्गादसमासेऽपि' इति णत्वम् ।।


स वा॑वशा॒न इ॒ह पा॑हि॒ सोमं॑ म॒रुद्भि॑रिंद्र॒ सखि॑भिः सु॒तं नः॑ ।

जा॒तं यत्त्वा॒ परि॑ दे॒वा अभू॑षन्म॒हे भरा॑य पुरुहूत॒ विश्वे॑ ॥८

सः । वा॒व॒शा॒नः । इ॒ह । पा॒हि॒ । सोम॑म् । म॒रुत्ऽभिः॑ । इ॒न्द्र॒ । सखि॑ऽभिः । सु॒तम् । नः॒ ।

जा॒तम् । यत् । त्वा॒ । परि॑ । दे॒वाः । अभू॑षन् । म॒हे । भरा॑य । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ॥८

सः । वावशानः । इह । पाहि । सोमम् । मरुत्ऽभिः । इन्द्र । सखिऽभिः । सुतम् । नः ।

जातम् । यत् । त्वा । परि । देवाः । अभूषन् । महे । भराय । पुरुऽहूत । विश्वे ॥८

हे “इन्द्र “वावशानः सोमं कामयमानः “सः तादृशस्त्वं “सखिभिः समानख्यानैः “मरुद्भिः सह “नः अस्मत्संबन्धिनि “इह अस्मिन् यज्ञे “सुतम् अभिषुतं “सोमं पाहि पिब । हे “पुरुहूत पुरूभिः बहुभिः आहूतेन्द्र “जातं सोमपानेन प्रबलं संपन्नं “यत् यं त्वां “विश्वे सर्वे “देवाः “महे महते “भराय । ह्रियन्ते योधानामायूंष्यत्रेति भरः संग्रामः । तस्मै संग्रामाय “परि “अभूषन् सर्वतोऽलमकुर्वन्॥ वावशानः । वशेर्यङ्लुकि चानशि रूपम् । चित्त्वादन्तोदात्तः । अभूषन् ।' भूष अलंकारे । भूवादिः । लङि रूपम् । यद्योगादनिघातः । भराय । “ हृञ् हरणे' । अधिकरणे घः । ‘ हृग्रहोर्भश्छन्दसि' इति हकारस्थ भकारः । वृषादित्वादाद्युदात्तः ॥


अ॒प्तूर्ये॑ मरुत आ॒पिरे॒षोऽमं॑द॒न्निंद्र॒मनु॒ दाति॑वाराः ।

तेभिः॑ सा॒कं पि॑बतु वृत्रखा॒दः सु॒तं सोमं॑ दा॒शुषः॒ स्वे स॒धस्थे॑ ॥९

अ॒प्ऽतूर्ये॑ । म॒रु॒तः॒ । आ॒पिः । ए॒षः । अम॑न्दन् । इन्द्र॑म् । अनु॑ । दाति॑ऽवाराः ।

तेभिः॑ । सा॒कम् । पि॒ब॒तु॒ । वृ॒त्र॒ऽखा॒दः । सु॒तम् । सोम॑म् । दा॒शुषः॑ । स्वे । स॒धऽस्थे॑ ॥९

अप्ऽतूर्ये । मरुतः । आपिः । एषः । अमन्दन् । इन्द्रम् । अनु । दातिऽवाराः ।

तेभिः । साकम् । पिबतु । वृत्रऽखादः । सुतम् । सोमम् । दाशुषः । स्वे । सधऽस्थे ॥९

हे “मरुतः यः “एषः इन्द्रः “अप्तूर्ये अपां प्रेरणे "आपिः युष्माकं सखा सन् वर्तते "दातिवाराः। वारो वरणीयं बलं धनं वा । दत्तबला दत्तधना वा । ते मरुतस्तम् “इन्द्रमनु “अमन्दन् अहृष्यन् । “वृत्रखादः वृत्रस्य हिंसकः स इन्द्रः “तेभिः तैर्मरुद्भिः “साकं “दाशुषः हविर्दत्तवतो यजमानस्य “स्वे स्वकीये “सधस्थे । सह तिष्ठन्त्यस्मिन्निति सधस्थं गृहम् । तस्मिन् “सुतम् अभिषुतं “सोमं “पिबतु ॥ अप्तूर्ये । ' तूरी त्वराहिंसयोः' इत्यस्मात् “ अघ्न्यादयश्च ' इति यत्प्रत्ययः । यतोऽनावः' इत्याद्युदात्तः । समासे कृदुत्तरपदस्वरः । अमन्दन् । मदि स्तुत्यादिषु । परस्मैपदी । पादादित्वादनिघातः । वृत्रखादः । ‘ खादृ भक्षणे '। कर्मण्यण् । दाशुषः । दाशृ दाने ' इत्यस्य क्वसौ ' दाश्वान्साह्वान्मीढ्वांश्च ' इति द्विर्वचनाद्यभावः । वसोः संप्रसारणम् । प्रत्ययस्वरः । सधस्थे । ‘ सध मादस्थयोश्छन्दसि ' इति सहस्य सधादेशः ॥


इ॒दं ह्यन्वोज॑सा सु॒तं रा॑धानां पते ।

पिबा॒ त्व१॒॑स्य गि॑र्वणः ॥१०

इ॒दम् । हि । अनु॑ । ओज॑सा । सु॒तम् । रा॒धा॒ना॒म् । प॒ते॒ ।

पिब॑ । तु । अ॒स्य । गि॒र्व॒णः॒ ॥१०

इदम् । हि । अनु । ओजसा । सुतम् । राधानाम् । पते ।

पिब । तु । अस्य । गिर्वणः ॥१०

हे "राधानां “पते धनानां स्वामिन् “गिर्वणः गीर्भिः स्तुतिभिर्वननीय हे इन्द्र “इदम् “अनु अनेनानुक्रमेण । उद्दशानुक्रमेणेत्यर्थः । "ओजसा बलेन ग्रावभिः “सुतम् अभिषुतम् “अस्य इमं सोमं “तु क्षिप्रं “पिब “हि ॥


यस्ते॒ अनु॑ स्व॒धामस॑त्सु॒ते नि य॑च्छ त॒न्वं॑ ।

स त्वा॑ ममत्तु सो॒म्यं ॥११

यः । ते॒ । अनु॑ । स्व॒धाम् । अस॑त् । सु॒ते । नि । य॒च्छ॒ । त॒न्व॑म् ।

सः । त्वा॒ । म॒म॒त्तु॒ । सो॒म्यम् ॥११

यः । ते । अनु । स्वधाम् । असत् । सुते । नि । यच्छ । तन्वम् ।

सः । त्वा । ममत्तु । सोम्यम् ॥११

हे इन्द्र 'ते त्वदर्थं “यः सोमः “स्वधाम् अन्नम् “अनु अनुसृत्य ग्रावभिरभिषुतः “असत् “सुते तस्मिन् सोमे “तन्वं स्वकीयं शरीरं “नि “यच्छ प्रेरय । “सः सोमः “सोम्यं सोमार्हं “त्वा त्वां “ममत्तु मादयतु ॥ असत् । अस्तेर्लेट्यडागमे रूपम् । यद्वृत्तयोगादनिघातः। आगमस्यानुदात्तत्वे धातुस्वरः ॥


प्र ते॑ अश्नोतु कु॒क्ष्योः प्रेंद्र॒ ब्रह्म॑णा॒ शिरः॑ ।

प्र बा॒हू शू॑र॒ राध॑से ॥१२

प्र । ते॒ । अ॒श्नो॒तु॒ । कु॒क्ष्योः । प्र । इ॒न्द्र॒ । ब्रह्म॑णा । शिरः॑ ।

प्र । बा॒हू इति॑ । शू॒र॒ । राध॑से ॥१२

प्र । ते । अश्नोतु । कुक्ष्योः । प्र । इन्द्र । ब्रह्मणा । शिरः ।

प्र । बाहू इति । शूर । राधसे ॥१२

हे “इन्द्र स सोमः “ते तव “कुक्ष्योः कुक्षेरुभयोः पार्श्वयोः उभौ पार्श्वौ “प्र “अश्नोतु प्रकर्षेण व्याप्नोतु । तथा “ब्रह्मणा स्तोत्रेण सहितः स सोमः “शिरः शरीरम् । अवयवादिनावयवी लक्ष्यते । त्वच्छरीरं “प्र अश्नोतु । है “शूर इन्द्र “राधसे धनाय तव "बाहू अपि “प्र अश्नोतु ॥ अश्नोतु । अशू व्याप्तौ ' इस्यस्य लोटि व्यत्ययेन परस्मैपदम् । निघातः । कुक्ष्योः । ‘ उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् ॥ ॥ १६ ॥


मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.५१&oldid=183744" इत्यस्माद् पुनः प्राप्तिः