ऋग्वेदः सूक्तं ३.४६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ३.४६ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ३.४५ ऋग्वेदः - मण्डल ३
सूक्तं ३.४६
गाथिनो विश्वामित्रः ।
सूक्तं ३.४७ →
दे. इन्द्रः। त्रिष्टुप्


युध्मस्य ते वृषभस्य स्वराज उग्रस्य यून स्थविरस्य घृष्वेः ।
अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि ॥१॥
महाँ असि महिष वृष्ण्येभिर्धनस्पृदुग्र सहमानो अन्यान् ।
एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान् ॥२॥
प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर्विश्वतो अप्रतीतः ।
प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर्महो अन्तरिक्षादृजीषी ॥३॥
उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम् ।
इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत आ विशन्ति ॥४॥
यं सोममिन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस्त्वाया ।
तं ते हिन्वन्ति तमु ते मृजन्त्यध्वर्यवो वृषभ पातवा उ ॥५॥


सायणभाष्यम्

‘ युध्मस्य ते ' इति पञ्चर्चमष्टमं सूक्तं वैश्वामित्रमैन्द्रम् । ‘युध्मस्य' इत्यनुक्रमणिका । दशरात्रे चतुर्थेऽहनि निष्केवल्ये ‘युध्मस्य ते' इति सूक्तं निविद्धानम् । सूत्रितं च- कुह श्रुत इन्द्रो युध्मस्य त इति निष्केवल्यम्' ( आश्व. श्रौ. ७.११ ) इति । ऋषभनाम्नि एकाहेऽपि निष्केवल्य इदं सूक्तं निविद्धानम् । सूत्रितं च -- युध्मस्य त इति मध्यंदिनः ' ( आश्व. श्रौ. ९. ७ ) इति


यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यूनः॒ स्थवि॑रस्य॒ घृष्वेः॑ ।

अजू॑र्यतो व॒ज्रिणो॑ वी॒र्या॒३॒॑णींद्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ॥१

यु॒ध्मस्य॑ । ते॒ । वृ॒ष॒भस्य॑ । स्व॒ऽराजः॑ । उ॒ग्रस्य॑ । यूनः॑ । स्थवि॑रस्य । घृष्वेः॑ ।

अजू॑र्यतः । व॒ज्रिणः॑ । वी॒र्या॑णि । इन्द्र॑ । श्रु॒तस्य॑ । म॒ह॒तः । म॒हानि॑ ॥१

युध्मस्य । ते । वृषभस्य । स्वऽराजः । उग्रस्य । यूनः । स्थविरस्य । घृष्वेः ।

अजूर्यतः । वज्रिणः । वीर्याणि । इन्द्र । श्रुतस्य । महतः । महानि ॥१

हे “इन्द्र “युध्मस्य योधनशीलस्य “वृषभस्य अभिमतफलसेचकस्य "स्वराजः धनाधिपतेः "उग्रस्य समर्थस्य “यूनः नित्यतरुणस्य “स्थविरस्य चिरंतनस्य “घृष्वेः शत्रूणां संघर्षकस्य “अजूर्यतः जरारहितस्य “वज्रिणः "श्रुतस्य त्रिषु लोकेषु प्रसिद्धस्य अत एव “महतः “ते तव “वीर्याणि "महानि महान्ति खलु ॥ युध्मस्य ।' युध संप्रहारे । इषियुधीन्धिदसि° ' इत्यादिना मक्प्रत्ययः । यूनः । यौतेः ‘ कनिन्युवृषि° ' इत्यादिना कनिन् । ‘ श्वयुवमघोनामतद्धिते ' इति संप्रसारणम् । नित्स्वरः । स्थविरस्य । ' अजिरशिशिरशिथिल ' इत्यादिना किरन्प्रत्ययान्तो निपातितः । घृष्वेः । 'घृषु संघर्षे ' ।' कृविघृष्विच्छवि ' इत्यादिना क्विन्प्रत्ययान्तो निपात्यते । नित्त्वादाद्युदात्तः ॥


म॒हाँ अ॑सि महिष॒ वृष्ण्ये॑भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान् ।

एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया॑ च क्ष॒यया॑ च॒ जना॑न् ॥२

म॒हान् । अ॒सि॒ । म॒हि॒ष॒ । वृष्ण्ये॑भिः । ध॒न॒ऽस्पृत् । उ॒ग्र॒ । सह॑मानः । अ॒न्यान् ।

एकः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ । सः । यो॒धया॑ । च॒ । क्ष॒यय॑ । च॒ । जना॑न् ॥२

महान् । असि । महिष । वृष्ण्येभिः । धनऽस्पृत् । उग्र । सहमानः । अन्यान् ।

एकः । विश्वस्य । भुवनस्य । राजा । सः । योधया । च । क्षयय । च । जनान् ॥२

हे “महिष महनीय “उग्र इन्द्र त्वं “महानसि । “धनस्पृत् धनानि दानभोगत्यागैः पारं नयंस्त्वं “वृष्ण्येभिः वीर्यैः “अन्यान् शत्रून् “सहमानः अभिभवन् वर्तसे । तथा “विश्वस्य सर्वस्य “भुवनस्य “एकः असहायः "राजा “सः त्वं “योधय “च सपत्नान् प्रहर । “जनान् “क्षयय “च निवासय । बाधकान् हत्वा साधुजनान् स्वस्थाने स्थापयेत्यभिप्रायः ॥ महिष ।' मह पूजायाम् । ‘ अविमह्योष्टिषच् ' ( उ. सू. १. ४५ ) इति टिषच्प्रत्ययः । आमन्त्रितत्वान्निघातः । वृष्ण्येभिः । वृष्णि भवानि । ‘ भवे छन्दसि ' इति यत् । यतोऽनावः' इत्याद्युदात्तः । योधय । “ युध संप्रहारे ' इत्यस्य ण्यन्तस्य लोटि रूपम् । ‘ चादिषु च ' इति न निघातः । णित्स्वरः । क्षयय । ‘ क्षि निवासगत्योः' इत्यस्य ण्यन्तस्य लोटि रूपम् । अत्रापि पूर्ववदनिघातः ॥


प्र मात्रा॑भी रिरिचे॒ रोच॑मानः॒ प्र दे॒वेभि॑र्वि॒श्वतो॒ अप्र॑तीतः ।

प्र म॒ज्मना॑ दि॒व इंद्रः॑ पृथि॒व्याः प्रोरोर्म॒हो अं॒तरि॑क्षादृजी॒षी ॥३

प्र । मात्रा॑भिः । रि॒रि॒चे॒ । रोच॑मानः । प्र । दे॒वेभिः॑ । वि॒श्वतः॑ । अप्र॑तिऽइतः ।

प्र । म॒ज्मना॑ । दि॒वः । इन्द्रः॑ । पृ॒थि॒व्याः । प्र । उ॒रोः । म॒हः । अ॒न्तरि॑क्षात् । ऋ॒जी॒षी ॥३

प्र । मात्राभिः । रिरिचे । रोचमानः । प्र । देवेभिः । विश्वतः । अप्रतिऽइतः ।

प्र । मज्मना । दिवः । इन्द्रः । पृथिव्याः । प्र । उरोः । महः । अन्तरिक्षात् । ऋजीषी ॥३

“रोचमानः दीप्यमानः “विश्वतः सर्वैः “अप्रतीतः एतावदस्य सामर्थ्यमित्यपरिच्छिद्यमानः “ऋजीषी सोमवान् “इन्द्रः “मात्राभिः। मीयन्ते परिच्छिद्यन्ते इति मात्राः शिलोच्चयाः। तेभ्योऽपि “प्र “रिरिचे प्रकर्षेण महत्तयातिरिक्तोऽभूत् । तथा “देवेभिः देवेभ्योऽपि “मज्मना । मज्जयति शत्रून् दुःखसागरे इति मज्म बलम् । तेन बलेन “प्र रिरिचे । तथा “दिवः “पृथिव्याः द्यावापृथिवीभ्यां च “प्र रिरिचे। तथा “उरोः विस्तीर्णात् "महः महतः “अन्तरिक्षात् अपि “प्र रिरिचे ॥ मात्राभिः। ‘ माङ माने शब्दे च ' इत्यस्मात् ‘हुयामाश्रुभसिभ्यस्त्रन' इति त्रन्प्रत्ययः । नित्त्वादाद्युदात्तः । ‘ ढ्रलोपे पूर्वस्य दीर्घोऽणः' इति संहितायां दीर्घः । रोचमानः। ‘ रुच दीप्तौ ' इत्यस्मात् शानचि रूपम् । तस्य लसार्वधातुकस्वरे धातुस्वरः । अप्रतीतः । ‘ इण् गतौ ' । कर्मणि क्तः । प्रादिसमासः । नञा समासे तस्य स्वरः । मज्मना । ‘ टुमस्जो शुद्धौ ' । औणादिको मनिच्प्रत्ययः । ‘ झलां जश् झशि इति जश्त्वम् । चित्त्वादन्तोदात्तः । पृथिव्याः । उदात्तयणो हत्पूर्वात् ' इति विभक्तेरुदात्तत्वम् ॥


उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु१॒॑ग्रं वि॒श्वव्य॑चसमव॒तं म॑ती॒नां ।

इंद्रं॒ सोमा॑सः प्र॒दिवि॑ सु॒तासः॑ समु॒द्रं न स्र॒वत॒ आ वि॑शंति ॥४

उ॒रुम् । ग॒भी॒रम् । ज॒नुषा॑ । अ॒भि । उ॒ग्रम् । वि॒श्वऽव्य॑चसम् । अ॒व॒तम् । म॒ती॒नाम् ।

इन्द्र॑म् । सोमा॑सः । प्र॒ऽदिवि॑ । सु॒तासः॑ । स॒मु॒द्रम् । न । स्र॒वतः॑ । आ । वि॒श॒न्ति॒ ॥४

उरुम् । गभीरम् । जनुषा । अभि । उग्रम् । विश्वऽव्यचसम् । अवतम् । मतीनाम् ।

इन्द्रम् । सोमासः । प्रऽदिवि । सुतासः । समुद्रम् । न । स्रवतः । आ । विशन्ति ॥४

“उरुं महान्तम् अत एव “गभीरं महावकाशं “जनुषा जन्मना स्वभावत एव “उग्रं शत्रूणां भयंकरम् । गभीरत्वमेवोच्यते । “विश्वव्यचसं विश्वव्याप्तं “मतीनां स्तुतीनां स्तोतॄणां वा “अवतं रक्षकं तादृशम् “इन्द्रं “प्रदिवि पूर्वेष्वहःसु “सुतासः ग्रावभिरभिषुताः “सोमासः सोमाः “अभि आभिमुख्येन “आ “विशन्ति । तत्र दृष्टान्तः “समुद्रं "न । यथा “स्रवतः स्रवन्त्यो नद्यः समुद्रम् आविशन्ति तद्वत् ॥ जनुषा ‘जनी प्रादुर्भावे' इत्यस्मात् ‘जनेरुसिः' इत्युसिप्रत्ययः । विश्वव्यचसम् । ‘ व्यच व्याजीकरणे ' इत्यस्मादसुन् । 'व्यचेः कुटादित्वमनसीति वक्तव्यम्' इत्यत्र 'अनसि' इति पर्युदासात् ङित्त्वाभावः । विश्वव्यचा इतीन्द्रस्य नाम । ‘ बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदस्यान्तोदात्तत्वम् । अवतम् । अव रक्षणादिषु । औणादिकोऽतच्प्रत्ययः । चित्त्वादन्तोदात्तः ॥


यं सोम॑मिंद्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या ।

तं ते॑ हिन्वंति॒ तमु॑ ते मृजंत्यध्व॒र्यवो॑ वृषभ॒ पात॒वा उ॑ ॥५

यम् । सोम॑म् । इ॒न्द्र॒ । पृ॒थि॒वीद्यावा॑ । गर्भ॑म् । न । मा॒ता । बि॒भृ॒तः । त्वा॒ऽया ।

तम् । ते॒ । हि॒न्व॒न्ति॒ । तम् । ऊं॒ इति॑ । ते॒ । मृ॒ज॒न्ति॒ । अ॒ध्व॒र्यवः॑ । वृ॒ष॒भ॒ । पात॒वै । ऊं॒ इति॑ ॥५

यम् । सोमम् । इन्द्र । पृथिवीद्यावा । गर्भम् । न । माता । बिभृतः । त्वाऽया ।

तम् । ते । हिन्वन्ति । तम् । ऊं इति । ते । मृजन्ति । अध्वर्यवः । वृषभ । पातवै । ऊं इति ॥५

हे “इन्द्र “पृथिवीद्यावा द्यावापृथिव्यौ “त्वाया त्वत्कामनया “यं “सोमं “बिभृतः अन्तर्धारयतः । अत्र दृष्टान्तः “गर्भं “न । यथा “माता गर्भं बिभर्ति तद्वत् । हे “वृषभ कामानां वर्षक हे इन्द्र “अध्वर्यवः अध्वरं यजमानायेच्छन्तः "ते त्वदर्थं “तं सोमं “हिन्वन्ति प्रेरयन्ति । किंच "ते तव “पातवै पानाय “तं सोमं “मृजन्ति शोधयन्ति । “उ प्रसिद्धौ ॥ पृथिवीद्यावा । ‘ दिवो छावा' इति द्यावादेशः । आद्युदात्तः । ‘ नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु ' इत्यत्र पर्युदासात् “ देवताद्वन्द्वे च ' इत्युभयपदप्रकृतिस्वरः । कृतसमासस्य विपर्यासश्छान्दसः । बिभृतः । ‘ डुभृञ् धारणपोषणयोः' इत्यस्माल्लटि ( भृञामित्' इत्यभ्यासस्येत्वम् । यद्वृत्तयोगादनिघातः । अजादिप्रत्ययपरत्वाभावादत्र ‘ अभ्यस्तानामादिः' इति स्वरो न भवति । प्रत्ययस्वरः । त्वाया । त्वामिच्छतीत्यर्थे ' सुप आत्मनः क्यच् । पूर्वपदकारस्याकारश्छान्दसः । ‘ अ प्रत्ययात्' इति भावेऽप्रत्ययः । ‘ सुपां सुलुक् ' इति तृतीयायाः सवर्णदीर्घः । एकादेशस्वरः । अध्वर्यवः । अध्वरमिच्छन्तः । सुपः क्यच् । 'कव्यध्वरपृतनस्यर्चि लोपः' इत्यकारलोपः। ‘ क्याच्छन्दसि' इत्युप्रत्ययः । प्रत्ययस्वरः । पातवै । ‘ पा पाने '। तुमर्थे तवैप्रत्ययः । ‘ अन्तश्च तवै युगपत्' इति धात्वन्तस्य प्रत्ययस्य चोदात्तत्वम् ।' उञः' इति प्रगृह्यसंज्ञा ॥ ॥ १० ॥


मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.४६&oldid=183690" इत्यस्माद् पुनः प्राप्तिः