शाङ्खायनश्रौतसूत्रम्/अध्यायः ०१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
शाङ्खायनश्रौतसूत्रम्
अध्यायः ०१
[[लेखकः :|]]
अध्यायः ०२ →


॥1.1॥ परिभाषा प्रकरणम्
यज्ञं व्याख्यास्यामः १
स त्रयाणां वर्णानाम् २
ब्राह्मणक्षत्रिययोर्वैश्यस्य
च ३
असंयुज्य विधीयमानं साधारणम् ४
संयोगाद्व्यवतिष्ठते ५
यज्ञोपवीती देवकर्माणि करोति ६
प्राचीनापवीती पित्र्याणि ७
आचमनप्रभृति येनाधिकरणेन संयुज्येत न तेन व्यावर्तेत ८
न च व्यवेयात् ९
इत्यावृतां लक्षणा १०
उद्देशः ११
उत्तरत उपाचारः १२
प्राङ्न्यायानि देवकर्माणि १३
दक्षिणान्यायानि पित्र्याणि १४
आसीनन्यायं बाह्वृच्यम् १५
वचनात्स्थानम् १६
होता च कुर्यादनादिष्टम् १७
त्रिप्रभृतिष्वृग्गणेषु प्रथमोत्तमयोस्त्रिर्वचनमन्यत्र जपेभ्यः १८
उत्तमस्य च च्छन्दोमानस्योर्ध्व-मादिव्यञ्जनात्स्यान ओकारः प्लुतस्त्रिमात्रः शुद्धः १९
मकारान्तो वा २०
तं प्रणव इत्याचक्षते २१
अवसाने मकारान्तं सर्वेष्वृग्गणेषु सपुरोनुवाक्येषु २२
तेनार्धर्चमुत्तरस्याः संधायावस्यति पादं वा तत्संततमित्याचक्षते २३
स सर्वेषामृग्गणानां धर्मो ये कर्मसंयोगेन चोद्यन्ते २४
विदूरेष्वपि कर्मस्वन्तरेण प्रथमां परिधानीयां च संतानार्थोऽर्धर्चेन काङ्क्षति २५
अर्धर्चन्यायाश्चर्चः २६
वचनादन्यत् २७
उच्चैर्न्यायश्चर्म्वेदः २८
वचनादुपांशुता २९
संस्वारन्यायता च शब्दानाम् ३०
एकस्वर्यं च ३१
उच्चैस्तरां प्रणवः पुरोनुवाक्यायाः ३२
प्रणवाद्याज्योच्चैस्तराम् ३३
उच्चैस्तरां वषट्कारः ३४
समो वा ३५
प्रणवो येयजामहो वषट्कारः संप्रैषाः प्रैषाश्चोच्चैरुपांशुहविःषु ३६
देवतानामधेयं चोपांशु निगमस्थानेषु ३७
भूर्भुव इति पुरस्ताज्जपः ३८
ये यजामहे वौषलोजः सहः सह ओजः स्वरित्युपरिष्टादिति चतुष्टयं सर्वासु याज्यासु ३९
अनुयाजेषु तु येयजामहो नास्ति ४०
अनुवषट्कारे च ४१
प्लुतेन याज्यान्तेन वषट्कारस्य संधानम् ४२
अप्लुतेन वा ४३
तदुपांशुयाजे
नास्ति ४४

॥1.2॥ परिभाषा प्रकरणम्
प्लावयेदाकारमावाहनम् १
येयजामहः प्लुतादिः पुरस्ताद्याज्यानाम् २
चतुर्मात्रा याज्ञिकी प्लुतिः ३
सन्ध्यक्षराणां तालुस्थाने आ३
इकारीभवतः ४
ओष्ठ्यस्थाने आ३
उकारीभवतः ५
अन्यानि प्रकृत्याक्षराणि ६
एकारौकारौ च प्रगृह्यौ ७
याज्यान्ते ८
विसर्जनीयो रिफितो रेफमापद्यते ९
लुप्यतेऽरिफितः १०
अनुस्वारं मकारः ११
अन्यानि प्रकृत्या व्यञ्जनानि १२
औकारी वषट्कारे चतुर्मात्रः १३
षकाराच्चोत्तरोऽकारः १४
प्रकृत्या वोभौ १५
पूर्वो वा प्रकृत्या १६
प्रकृत्याकार इति जातूकर्ण्यः १७
बार्हतराथन्तरं वषट् कुर्यात्पुरसाद्दीर्घमुपरिष्टाद्ध्रस्वम् १८
उपरिष्टाच्च येयजामहाद्देवतादेशनं सपुरोनुवाक्ये १९
सप्रैषे तु न विद्यते २०
जुहोतीत्युक्ते सर्पिः प्रतीयेत २१
स्वाहाकारोऽन्ते होममन्त्राणाम् २२
समिदाधानमन्त्राणां च २३
मन्त्रपृथ-क्त्वात्कर्मपृथक्त्वम् २४
इतिकरणश्च मन्त्रान्ते २५
मन्त्रान्तेन करणेषु कर्मणः संनिपातनम् २६
संप्रेषितोऽन्वाह २७
तथा यजति २८
इत्येत-
त्सार्वयज्ञिकम् २९

॥1.3॥ दर्शपूर्णमासप्रकरणम्
उपोय्य पौर्णमासेन हविषा यजते १
तथामावास्येन २
द्वे पौर्णमास्यौ ३
अमावास्ये च ४
यां पर्यस्तमयं पूर्ण उदियाद्यां चास्तमिते ते पौर्णमास्यौ ५
श्वो न द्रष्टेति यदहश्च न दृश्येत ते अमावास्ये ६
तत्रेज्यायां याथाकामी ७
इति पौर्णमास्यामित्यमावास्यायामित्युपदेशाद्व्यवतिष्ठन्ते ८
तत्संयुक्ताश्च शब्दाः ९
समानमन्यत् १०
उभयत्राग्नेयः पुरोलाशः ११
अग्नीषोमीय उपांशुयाजः १२
वैष्णवो वा १३
अग्नीषोमीयश्च पुरोलाशः पौर्णमासे हविषि १४
ऐन्द्राग्नोऽसंनयतो द्वितीयोऽमावास्यायाम् १५
ऐन्द्रं सांनाय्यं
संनयतः १६
माहेन्द्रं वा १७
वैष्णवं त्वसंनयन्नुपांशुयाजम् १८

॥1.4॥ दर्शपूर्णमासप्रकरणम्
आमन्त्रितो होतान्तरेणोत्करं प्रणीताश्च प्रतिपद्य दक्षिणेन प्रपदेन बर्हिराक्रमणम् १
वेद्यन्तसंमिता पश्चात्पार्ष्णिः २
विक्रम्य च स्थानम् ३
अग्नय समि-ध्यमानायेति संप्रेषितः ४
कं प्रपद्ये तं प्रपद्ये यत्ते प्रजापते शरणं छन्दस्त-त्प्रपद्ये यावत्ते विष्णो वेद तावत्ते करिष्यामि देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि नमो अग्नये उपद्रष्ट्रे नमो वायव उपश्रोत्रे नम आदित्यायानुख्यात्रे जुष्टामद्यदेवेभ्यो वाचं वदिष्यामि शुश्रूषेण्यां मनुष्येभ्यः स्वधावतीं पितृभ्यः
प्रतिष्ठां विश्वस्मै भूताय प्रशास्त आत्मना प्रजया पशुभिः प्रजापतिं प्रपद्येऽभयं नो अस्तु प्राजापत्यमनुवक्ष्यामि वागार्त्विज्यं करिष्यति वाचं प्रपद्ये भूर्भुवः स्वरिति जपित्वा ५
त्रिर्हिकृत्य ६
प्र वो वाजा इत्युपसंधाय मध्यमया वाचा ७
अग्न आ याहि वीतय ईलेन्य इति तृचौ ८
अग्निं दूतं वृणीमह इत्येका ९
समिध्यमानो अध्वर इत्येका १०
तिस्रः माप्तदश्ये ११
तदन्यत्र मायनाभ्यां दर्शपूर्णमासाभ्याम् १२
समिद्धो अग्न आहुतेति द्वे १३
अग्ने महाँ असि ब्राह्मण भारतेति प्रणवेन मंधाय १४
अमुतोऽर्वाञ्चि यजमानस्य त्रीण्यार्षेया-ण्यभिव्याहृत्य १५
षट् तु द्विगोत्रस्य १६
पुरोहितप्रवरेणाब्राह्मणस्य १७
मानवेति वा सर्वेषाम् १८
देवेद्धो मन्विद्ध ऋषिष्टुतो विप्रानुमदितः कविशस्तो ब्रह्मसंशितो घृताहवन इत्यवसाय १९
प्रणीर्यज्ञानां रथीरध्वराणामतूर्तो होता तूर्णिर्हव्यवालित्यवसाय २०
आस्यात्रं जुहुर्देवानां चमसो देवपानोऽराँ इवाग्ने नेमिर्देवांस्त्वं परिभूरसीत्यवसाय २१
व्यवस्यन्नावाहयति देवताः २२

॥1.5॥ दर्शपूर्णमासप्रकरणम्
आवह देवान्यजमानाय १
अग्निमग्न आवह सोममावहेत्याज्यभागौ २
अग्निमावहाग्नीषोमावावह विष्णुं वाग्नीषोमावावहेन्द्राग्नी आवहेन्द्रमावह महेन्द्रं वा ३
देवाँ आज्ययाँ आवह ४
अग्निं होत्रायावह ५
स्वं महि-मानमावह ६
आ च वह जातवेदः सुयजा च यजेत्यावाह्य ७
उपवि-श्योर्ध्वजानुर्दक्षिणेन प्रादेशेन भूमिमन्वारभ्य जपति ८
अस्यै प्रतिष्ठायै मा च्छित्सि पृथिवि मातर्मा मा हिंसीर्मा मोदोषीर्मधु मनिष्ये मधु वनिष्ये मधु जनिष्ये मधुमतीमद्य देवेभ्यो वाचं वदिष्यामि चारुं मनुष्येभ्य इदमहं पञ्च-
दशेन वज्रेण पाप्मानं भ्रातृव्यमवबाध इति । सप्रदशेन वा ९

॥1.6॥ दर्शपूर्णमासप्रकरणम्
मानुष इत्युक्तः १
देव सवितरेतं त्वा वृणते सह पित्रा वैश्वानरेणेन्द्र पूष-न्बृहस्पते प्र च वद प्र च यज वसूनां रातौ स्याम रुद्राणामोम्यायां स्वादित्या आदित्या अनेहसो यदद्य होतृवूर्ये जिह्मं चक्षुः परापतात् अग्निष्टत्पुन-राभराज्जातवेदा विचर्षणिरिति प्रवृतो जपित्वा २
उपोत्थायाध्वर्योर्दक्षिणेन प्रादेशेन दक्षिणमंसमन्वारभ्य जपति सव्येनाग्जीधो दक्षिणम् इन्द्रमन्वारभा-महे होतृवूर्ये पुरोहितम् येनायन्नुत्तमं स्वर्देवा अङ्गिरसो दिवम् षष्टिश्चाध्वर्यू नवतिश्च पाशा अन्तरा द्यावापृथिवी विचृत्ताः सिनन्ति पाकमधि धीर एमि स्योने मे द्यावापृथिवी उभेदूमे इति ३
षण्मोर्वीरंहसः पान्तु द्यौश्च पृथिवी चाहश्च रात्रिश्चापश्चौषधयश्चेत्यवसृज्य ४
ऐन्द्रीमावृतमावर्त आदित्यस्या-वृतमन्वावर्त इति दक्षिणं बाहुमन्वावृत्य ५
निरस्तः परावसुर्योऽस्मान्द्वेष्टि
यं च वयं द्विष्मस्तेन सहेति होतृषदनाच्छुष्कं तृणमुभयतः प्रतिच्छिद्य
दक्षिणापरमवान्तरदेशं निरस्य ६
अप उपस्पृश्य ७
अशुष्कमुदगग्रं
निधाय ८
इदमहमर्वावसोः सदसि सीदामीत्युपविश्य ९
दक्षिणोत्त-रिणमुपस्थं कृत्वा प्राञ्चौ पाणी प्रगृह्य जपति १०
नमो द्यावापृथिवीभ्यां होतृभ्यां पूर्वसूभ्यां विश्वकर्माणौ तनूपौ मे स्थस्तन्वं मे पातं मा मा हिंसिघृं मा मा संताप्तमित्याहवनीयं प्रेक्ष्य गार्हपत्यं च ११
उदक्संसर्पन्नाहैष वामाकाश इति १२
विश्वे देवाः शास्तन तदद्य वाचो नमो महद्भ्य इति जपित्वा १३
अग्निर्होता वेत्वग्निर्होत्रं वेतु प्रावित्रं साधु ते यजमान देवतेत्यवसाय १४
योऽग्निं होतारमवृथा इत्युपांशु १५
घृतवतीमध्वर्यो स्रुचमास्यस्व देवयुवं विश्ववारामीलामहै देवाँ ईलेन्यान्नमस्याम नमस्यान्यजाम यज्ञियानिति
स्रुचावादाप्य पञ्च प्रयाजान्यजति १६

॥1.7॥ दर्शपूर्णमासप्रकरणम्
समिधः समिधो अग्न आज्यस्य व्यन्त्विति प्रथमः १
तनूनपादग्न आज्यस्य वेत्विति द्वितीयः २
नराशंसो अग्न आज्यस्य वेत्विति द्वितीयो वसिष्ठशुनकानामत्रिवध्य्रश्वानां कण्वसंकृतीनां राजन्यानां प्रजाकामानां च ३
इलो अग्न आज्यस्य व्यन्त्विति तृतीयः ४
बर्हिरग्न आज्यस्य वेत्विति चतुर्थः ५
स्वाहाग्निं स्वाहा सोमं स्वाहाग्निं स्वाहाग्नीषोमौ विष्णुं वा स्वाहाग्नीषोमौ स्वाहेन्द्राग्नी स्वाहेन्द्रं महेन्द्रं वा स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य
हविषो व्यन्त्विति प्रयाजयाज्याः ६

॥1.8॥ दर्शपूर्णमासप्रकरणम्
अग्निर्वृत्राणि त्वं सोमासि सत्पतिरित्याज्यभागौ वार्त्रघ्नौ पौर्णमास्याम् १
अग्निः पत्नेन सोम गीर्भिरित्यमावास्यायां वृधन्वन्तौ २
जुषाणो अग्निराज्यस्य हविषो वेतु जुषाणः सोम आज्यस्य हविषो वेत्विति याज्ये ३
अग्निर्मूर्धेत्याग्नेयस्य पुरोनुवाक्या ४
भुवो यज्ञत्येति याज्या ५
अग्नीषोमाविमम्मित्युपांशुयाजस्य पुरोनुवाक्या ६
जुषाणावग्नीषोमावाज्यस्य हविषो वीतामिति याज्या ७
इदं विष्णर्वषट ते विष्णविति वैष्णवस्य ८
जुषाणो वा ९
अग्नीषोमा सवेदमा युवमेतानीत्यग्नीषोमीयस्य १०
इन्द्राग्नी अवसा प्र चर्षणिभ्य इत्यैन्द्राग्नस्य ११
एन्द्र सानसिं प्र ससाहिष इति सांनाय्यस्य १२
महाँ इन्द्रो य ओजसा महाँ इन्द्रो नृवदिति माहेन्द्रस्य १३
इन्द्रं वो विश्वतो मादयस्व हरिभिरितीन्द्र-
स्याप्रतिनिधेः १४

॥1.9॥ दर्शपूर्णमासप्रकरणम्
पिप्रीहि देवानिति स्विष्टकृतः पुरोनुवाक्या १
अयालग्निरग्नेः प्रिया धामा-न्ययाट सोमस्य प्रिया धामान्ययालग्नेः प्रिया धामान्ययालग्नीषोमयोः प्रिया धामानि विष्णोर्वायालग्नीषोमयोः प्रिया धामान्ययालिन्द्राग्न्योः प्रिया धामान्ययालिन्द्रस्य प्रिया धामानि महेन्द्रस्य वायाड्देवानामाज्यपानां प्रिया धामानि यक्षदग्नेर्होतुःप्रिया धामानि यक्षत्स्वं महिमानमायजतामेज्या इषः कृणोतु सो अध्वरा जातवेदा जुषतां हविरग्ने यदद्य विशो अध्वरस्येति
याज्या २
वषट्कृत्योपस्पर्शनम् ३

॥1.10॥ दर्शपूर्णमासप्रकरणम्
इलामुपह्वास्यमानस्य दक्षिणस्य पाणेः प्रदेशिन्यामनक्ति । उत्तमे च पर्वणि मध्यमे च १
वाचस्पतिना ते हुतस्य प्राश्नामीषे प्राणायेति पूर्वमञ्जनमध-रौष्ठे तिलिप्पति । मनसस्पतिना ते हुतस्य प्राश्नाप्यूज उदानायेत्युत्तरौष्ठ उत्तरम् २
उपस्पृश्य ३
दक्षिणेनोत्तरेलां धारयन् ४
अप्रसारिताभिरङ्गु-लिभिरमुष्टिकृताभिः ५
स्वयं पञ्चममादाय ६
मुखसंमितां धारयन्हृद-
यसंमितां वा ७
१०
॥1.11॥ दर्शपूर्णमासप्रकरणम्
उपह्रतं बृहत्सह दिवा सह सूर्येण सह चक्षुषोप मां बृहत्सह दिवा सह सूर्येण सह चक्षुषा ह्वयताम् । उपहूतं वामदेव्यं सहान्तरिक्षेण सह वायुना सह प्राणेनोप मां वामदेव्यं सहान्तरिक्षेण सह वायुना सह प्राणेन हूयताम् । उपहूतं रथन्तरं सह पृथिव्या सहाग्निना सह वाचा सह पशुभिरुप मां रथन्तरं सह पृथिव्या सहाग्निना सह वाचा सह पशुभिर्हूयताम् । उपहूतं स्थास्नु भुवनमुप मां स्थास्नु भुवनं हूयताम् । उपहूतं चरिष्णु भुवनमुप मां चरिष्णु भुवनं हूयताम् । उपहूतः सखा भक्ष उप मां सखा भक्षो हूयताम् । उपहूताः सप्त होत्रा उप मां सप्त होत्रा हूयन्ताम् । उपहूता गावः सहाशिरोप मां गावः सहाशिरा हूयन्ताम् । उपहूता धेनुः सहऋषभोप मां धेनुः सहऋषभा हूयताम् । उपहूता वाक्सह प्राणेनोप मां वाक्सह प्राणेन हूयताम् । उपहूता वाक्सह मनसोप मां वाक्सह मनसा हूयताम् । उपहूतेला वृष्टिरुप मामिला वृष्टिर्हूयताम् । उपहूतेला ततुरिरुप मामिला ततुरिर्हूयताम् । उपहूता हे
सासि जुषस्व मेल इति जपित्वेलामुपहूयते १
११
॥1.12॥ दर्शपूर्णमासप्रकरणम्
इलोपहूतोपहूतेलोपास्माँ इला हूयतामिलोपहूता मानवी घृतपदी मैत्रावरुणी ब्रह्म देवकृतमुपहूतम् । दैव्या अध्वर्यव उपहूता उपहूता मनुष्या य इमं यज्ञमवान्ये च यज्ञपतिं वर्धान् । उपहूते द्यावापृथिवी पूर्वजे ऋतावरी देवी देवपुत्रे । उपहूतोऽयं यजमान उत्तरस्यां देवयज्यायामुपहूतो भूयसि हविष्करण इदं मे देवा हविर्जुषन्तामिति तस्मिन्नुपहूत इत्युपहूय १
अवघ्राय २
अन्तरिलं चतुरवानिति ३
अन्ते वा चतुर्थम् ४
इलासि स्योनासि स्योनकृत्सा नः सुप्रजास्त्वे रायस्पोषे धाः । जुष्टे जुष्टिं ते गमेय उपहूत उपहवं तेऽशीय मुखस्य त्वा द्युम्नाय सुरभ्यास्यत्वाय प्राश्नामीत्यु-
त्तरेलां प्राश्य ५
इतरां यजमानपञ्चमाः प्राश्य ६
आ मार्जनाद्वाग्यमनम् ७
इदमाप इति तृचेनान्तर्वेदि पवित्रवति मार्जयन्ते ८
परिहृते ब्रह्मभागे ऽन्वाहार्यमाहरन्ति ९
एष दक्षिणाकालः सर्वासामिष्टीनाम् १०
नान्वाहार्यो ऽस्त्यादिष्टदक्षिणासु ११
एषा ते अग्ने समित्तया वर्धस्व चा च प्यायस्व वर्धिषीमहि च वयमा च प्यासिषीमहि इति समिधमनुमन्त्रा १२
त्रीननुयाजान्यजति १३
१२
॥1.13॥ दर्शपूर्णमासप्रकरणम्
देवं बर्हिर्वसुवने वसुधेयस्य वेतु १
देवो नराशंसो वसुवने वसुधेयस्य वेतु २
देवो अग्निः स्विष्टकृत्सुद्रविणा मन्द्रः कविः सत्यमन्मायजी होता होतुर्होतुरायजीयानग्ने यान्देवानयाड्याँ अपिप्रेर्ये ते होत्रे अमत्सतेत्यवसाय ३
तां समनुषीं होत्रां देवंगमां दिवि देवेषु यज्ञमेरयेमं स्विष्टकृच्चाग्ने होता
भूर्वसुवने वसुधेयस्य नमोवाके वीहीत्यनुयाजयाज्याः ४
१३
॥1.14॥ दर्शपूर्णमासप्रकरणम्
सूक्ता ब्रूहीत्युक्तः १
इदं द्यावापृथिवी भद्रमभूदार्ध्य सूक्तवाकमुत नमोवाकमृध्यास्म सूक्तोच्यमग्ने त्वं सूक्तवागसीत्यवसाय २
उपश्रुती
दिवस्पृथिव्योरोमन्वती ते अस्मिन्यज्ञे यजमान द्यावापृथिवी स्तामित्यवसाय ३
शंगयी जीरदानू अत्रस्नू अप्रवेदे उरुगव्यूती अभयंकृतावित्यवसाय ४
वृष्टिद्यावा रीत्यापा शंभुवौ मयोभुवा ऊर्जस्वती पयस्वती सूपचरणा च स्वधिचरणा च तयोराविदीत्यवसाय ५
अग्निर्हविरजुषतावीवृधत महो ज्यायो ऽकृत ६
सोमो हविरजुषतावीवृधत महो ज्यायोऽकृत ७
अग्निर्हविर-जुषतावीवृधत महो ज्यायोऽकृत ८
अग्नीषोमौ हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम् ९
विष्णुर्वा १०
अग्नीषोमौ हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम् ११
इन्द्राग्नी हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम् १२
इन्द्रो हविरजुषतावीवृधत महो ज्यायोऽकृत । महेन्द्रो वा १३
देवा आज्यपा आज्यमजुषन्तावीवृधन्त महो ज्यायोऽक्रत १४
अग्निर्होत्रेण हविरजुषतावी-वृधत महो ज्यायोऽकृत १५
अस्यामृधद्धोत्रायां देवंगमायामाशास्तेऽयं यजमानः १६
असावसाविति नामनी यजमानस्याभिव्याहृत्योत्तरां देवयज्या-माशास्ते भूयो हविष्करणमाशास्त आयुराशास्ते सुप्रजास्त्वमाशास्ते दिव्यं धामाशास्ते १७
यदनेन हविषाशास्ते तदश्यात्तदृध्यात्तदस्मै देवा रासान्तां तदग्निर्देवो देवेभ्यो वनुतां वयमग्नेः परि मानुषाः १८
इष्टं च वीतं चाभूदुभे चैनं द्यावापृथिवी अंहसः पातामेह गतिर्वामस्येदं च नमो देवेभ्य इति १९
नम उपेति बर्हिष्यञ्जलिं निधोय जपति २०
शंयोर्ब्रूहीत्युक्तस्तच्छंयोरिति शंयोर्वाकमुक्क्तोपस्पृश्य २१
स्रुगादापनादि मन्द्रयाज्यभागान्तम् २२
परं
मध्यमया २३
अनुयाजाद्युत्तमया २४
१४
॥1.15॥ दर्शपूर्णमासप्रकरणम्
उपांशु गार्हपत्ये पत्नीसंयाजैश्चरन्ति १
सोमं त्वष्टारं देवानांपत्नीरग्निं गृहपतिमिति यजति २
राकासिनीवाल्यौ प्रजाकामस्य पूर्वे गृहपतेः ३
आ प्यायस्व सं ते पयांसीह त्वष्टारं तन्नस्तुरीपं देवानांपत्नीरुत ग्ना व्यन्तु राकामहं यास्ते राके सिनीवालि या सु बाहुरग्निर्होता गृहपतिर्वयमु त्वा गृहपत इति ४
यथा ह त्यद्वसव इति जपित्वेलामुपहूयते ५
उपहूतेयं यजमानीति वा विकारः ६
इलान्ताः पत्नीसंयाजाः ७
शंय्वन्ता वा ८
प्र त्वा मुञ्चामीति वेदं विमुच्य योक्त्वम् ९
अञ्जलौ पत्न्याः कृवा वेदं च मुक्तम् १०
अद्भिर्वेदयोक्ते परिषिञ्चञ्जपति ११
कामाय त्वा वेदोऽसि येन त्वं वेद देवेभ्यो वेदो ऽभवस्तेनास्मभ्यं वेद एधि । वेदोऽसि वित्तिरसि विदेयं कर्मासि करणमसि क्रियासं सनिरसि सनितासि सनेयम् १२
घृतवन्तं कुलायिनं रायस्पोषं सहस्रिणम् वेदो ददातु वाजिनम् इति वेदे पत्नीं वाचयति १३
सा तृणानि प्रगृह्यान्तरेणोरू न्यस्यते १४
तन्तुं तन्वन्नित्युत्तरेण गार्हपत्यमा बर्हिषः स्तीर्त्वा १५
आपृणोऽसि संपृणः प्रजया मा पशुभिरा पृणेति वेदशेषमुपस्थाय १६
एतेनाग्ने ब्रह्मणा अयाड्यज्ञं जातवेदा अन्तरः पूर्वो अस्मिन्निषद्य । सन्वन्सनिं सुविमुचा वि मुञ्च धेह्यस्मभ्यं द्रविणं जातवेदः इत्याहवनीयमुपस्थाय १७
उपस्पृश्योत्सृज्यते १८
१५
॥1.16॥ प्रकीर्णप्रकरणम्
व्याख्यातौ दर्शपूर्णमासौ प्रकृतिरिष्टिपशुबन्धानाम् १
अन्वयस्य प्रकृतिरि-त्याख्या २
अन्तरेणाज्यभागौ स्विष्टकृतं च यदिज्यते तमावाप इत्याचक्षते तत्प्रधानम् ३
तदङ्गानीतराणि ४
तेषामभिन्नकालेऽर्थे विभवः ५
तन्त्रल-क्षणं तत् ६
प्रदानमुच्चावचाभिर्देवताभिः संयुज्य श्रूयते ७
तत्र देवता-विकारे तद्देवते याज्यापुरोनुवाक्ये ८
निगमस्थानेषु च सा देवतोपलक्ष्यते ९
आवाहन उत्तमे प्रयाजे स्विष्टकृन्निगदे सूक्तवाके चेज्यमाना देवता निगच्छन्ति तस्मान्निगमस्थानानि १०
अनुक्रामन्तश्च विकारान्व्याख्यास्यामः ११
पौर्णमासीविकार इत्युक्तो वार्त्रघ्नौ प्रतीयात् १२
अमावास्याविकार इति वृधन्वन्तौ १३
अनादेशे विकल्पभूतौ १४
देवतातः १५
हविष्टो वा १६
संनिपाते हविष्टः १७
सामान्यान्नियमः १८
साप्तदश्यं च सामिधेनीनाम् १९
इष्टिपशुबन्धेषु वचनादन्यत् २०
काम्यासूपांशुहविष्टा २१
अनुक्रामन्तश्च
व्याख्यास्यामः २२
१६
॥1.17॥ प्रकीर्णप्रकरणम्
चोदनाप्रकरणे हविषां प्रतीकग्रहणं याज्यापुरोनुवाक्यानां न चेदन्योऽर्थ-संयोगः १
द्विप्रभृतिषु चोदनानुपूर्व्येण २
दैवतेन ३
लिङ्गेन च ४
उपसृष्टासु देवतास्वनधिगछंस्तल्लिङ्गे दैवतेन तुष्येत् ५
उपसृष्टास्तु निगच्छन्ति ६
अभीक्ष्णं चैकैकस्यै देवतायै हविश्चोद्यते तत्र ये प्रथमोपदिष्टे याज्यापुरोनुवाक्ये ते सर्वत्र प्रतीयात् ७
न चेष्टयः पृथक्त्वतः शक्याः परिसङ्ख्यातुम् ८
तत्रानादिष्टयाज्यापुरोनुवाक्यासु गायत्रीत्रिष्टुभौ तद्देवते परीछेत् ९
उष्णिग्बृहत्यौ वा परिहाप्य १०
वर्षीयसी तु याज्या ११
समे वा १२
यत्रैतेषां लक्षणानां किंचित्स्यात् १३
हुवे हवामहे श्रुध्यागह्येदं बर्हिर्निषीद देवतानामेति पुरोनुवाक्यालक्षणानि १४
अद्धि पिब जुषस्व मत्स्वावृषायस्व वीहि प्र देवतानामेति याज्यालक्षणानि १५
पुरस्ताल्लक्षणा पुरोनुवाक्या १६
उपरिष्टाल्लक्षणा याज्या १७
अनधिगछंस्तद्देवते नम्राभ्यां यजेत् १८
इममा
शृणुधी हवं यत्त्वा गीर्भिर्हवामहे । एदं बर्हिर्निषीद नः
स्तीर्णं बर्हिरानुषगा सदेतोपेलाना इह नो अद्य गच्छ
अहेलता मनसेदं जुषस्व वीहि हव्यं प्रयतमाहुतं नः
इत्यूहेद्द्विदेवतबहुदेवतेषु १९
प्राकृतीर्वाभिसंनमेत्प्राकृतीर्वाभिसंनमेत् २०
१७
इति शाङ्खायनश्रौतसूत्रे प्रथमोऽध्यायः समाप्तः