गोपथ ब्राह्मणम्/भागः १ (पूर्वभागः)/प्रपाठकः २

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

1.2.1
ओं <ब्रह्मचारीष्णंश् चरति रोदसी उभे [शौ.अ. ११.३.१अ, पै.सं. १६.१५३.१अ]> इत्य् आचार्यम् आह
<तस्मिन् देवाः संमनसो भवन्ति [शौ.अ. ११.३.१, पै.सं. १६.१५३.१ब् (?)]>इति वायुम् आह
<स सद्य एति पूर्वस्माद् उत्तरं समुद्रम् [शौ.अ. ११.३.६, पै.सं. १६.१५३.६]> इत्य् आदित्यम् आह
दीक्षितो दीर्घश्मश्रुः
एष दीक्षित एष दीर्घश्मश्रुर् एष एवाचार्यस्थाने तिष्ठन्न् आचार्य इति स्तूयते
वैद्युतस्थाने तिष्ठन् वायुर् इति स्तूयते द्यौस्थाने तिष्ठन्न् आदित्य इति स्तूयते
तद् अप्य् एतद् ऋचोक्तं <ब्रह्मचारीष्णन् [शौ.अ. ११.३.१, पै.सं. १६.१५३.१]>इति ब्राह्मणम् ॥ १ ॥
1.2.2
जायमानो ह वै ब्राह्मणः सप्तेन्द्रियाण्य् अभिजायते ब्रह्मवर्चसं च यशश् च स्वप्नं च क्रोधं च श्लाघां च रूपं च पुण्यम् एव गन्धं सप्तमम्
तानि ह वा अस्यैतानि ब्रह्मचर्यम् उपेत्योपक्रामन्ति
मृगान् अस्य ब्रह्मवर्चसं गच्छति
आचार्यं यशः
अजगरं स्वप्नः
वराहं क्रोधः
अपः श्लाघा
कुमारीं रूपम्
ओषधिवनस्पतीन् पुण्यो गन्धः
स यन् मृगाजिनानि वस्ते तेन तद् ब्रह्मवर्चसम् अवरुन्द्धे यद् अस्य मृगेषु भवति
स ह स्नातो ब्रह्मवर्चसी भवति
स यद् अहरहर् आचार्याय कर्म करोति तेन तद् यशो ऽवरुन्द्धे यद् अस्याचार्ये भवति
स ह स्नातो यशस्वी भवति
स यत् सुषुप्सुर् निद्रां निनयति तेन तं स्वप्नम् अवरुन्द्धे यो ऽस्याजगरे भवति
तं ह स्नातं स्वपन्तम् आहुः स्वपितु मैनं बोबुधथेति
स यत् क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात् पापीयान् इव मन्यमानस् तेन तं क्रोधम् अवरुन्द्धे यो ऽस्य वराहे भवति
तस्य ह स्नातस्य क्रोधाः श्लाघीयसं विशन्ते
अथाद्भिः श्लाघमानो न स्नायात्
तेन तां श्लाघाम् अवरुन्द्धे यास्याप्सु भवति
स ह स्नातः श्लाघीयो ऽन्येभ्यः श्लाघ्यते
अथैतद् ब्रह्मचारिणो रूपं यत् कुमार्यास्
तां नग्नां नोदीक्षेत
इति वेति वा मुखं विपरिधापयेत्
तेन तद् रूपम् अवरुन्द्धे यद् अस्य कुमार्यां भवति
तं ह स्नातं कुमारीम् इव निरीक्षन्ते
अथैतद् ब्रह्मचारिणः पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्यं गन्धं प्रच्छिद्य नोपजिघ्रेत्
तेन तं पुण्यं गन्धम् अवरुन्द्धे यो ऽस्यौषधिवनस्वपतिषु भवति
स ह स्नातः पुण्यगन्धिर् भवति ॥ २ ॥
1.2.3
स वा एष उपयंश् चतुर्धोपैत्य् अग्निं पादेनाचार्यं पादेन ग्रामं पादेन मृत्युं पादेन
स यद् अहरहः समिध आहृत्य सायंप्रातर् अग्निं परिचरेत् तेन तं पादम् अवरुन्द्धे यो ऽस्याग्नौ भवति
स यद् अहरहर् आचार्याय कर्म करोति तेन तं पादम् अवरुन्द्धे यो ऽस्याचार्ये भवति
स यद् अहरहर् ग्रामं प्रविश्य भिक्षाम् एव परीप्सति न मैथुनं तेन तं पादम् अवरुन्द्धे यो ऽस्य ग्रामे भवति
स यत् क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात् पापीयान् इव मन्यमानस् तेन तं पादम् अवरुन्द्धे यो ऽस्य मृत्यौ भवति ॥ ३ ॥
1.2.4
पञ्च ह वा एते ब्रह्मचारिण्य् अग्नयो धीयन्ते
द्वौ पृथग्घस्तयोर् मुखे हृदय उपस्थ एव पञ्चमः
स यद् दक्षिणेन पाणिना स्त्रियं न स्पृशति तेनाहरहर्याजिनां लोकम् अवरुन्द्धे
यत् सव्येन तेन प्रव्राजिनाम्
यन् मुखेन तेनाग्निप्रस्कन्दिनाम्
यद् धृदयेन तेन शूराणाम्
यद् उपस्थेन तेन गृहमेधिनाम्
तैश् चेत् स्त्रियं पराहरत्य् अनग्निर् इव शिष्यते
स यद् अहरहर् आचार्याय कुले ऽनुतिष्ठते सो ऽनुष्ठाय ब्रूयाद् धर्म गुप्तो मा गोपायेति
धर्मो हैनं गुप्तो गोपायति
तस्य ह प्रजा श्वः श्वः श्रेयसी श्रेयसीह भवति
धाय्यैव प्रतिधीयते
स्वर्गे लोके पितॄन् निदधाति
तान्तवं न वसीत
यस् तान्तवं वस्ते क्षत्रं वर्धते न ब्रह्म
तस्मात् तान्तवं न वसीत ब्रह्म वर्धतां मा क्षत्रम् इति
नोपर्य् आसीत
यद् उपर्य् आस्ते प्राणम् एव तदात्मनो ऽधरं कुरुते यद् वातो वहति
अध एवासीताधः शयीताधस् तिष्ठेद् अधो व्रजेत्
एवं ह स्म वै तत् पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति
तं ह स्म तत्पुत्रं भ्रातरं वोपतापिनम् आहुर् उपनयेतैनम् इति
आ समिद्धारात् स्वर् एष्यन्तो ऽन्नम् अद्यात्
अथाह जघनम् आहुः स्नापयेतैनम् इतिय् आ समिद्धारात्
न ह्य् एतानि व्रतानि भवन्ति
तं चेच् छयानम् आचार्यो ऽभिवदेत् स प्रतिसंहाय प्रतिशृणुयात्
तं चेच् छयानम् उत्थाय तं चेद् उत्थितम् अभिप्रक्रम्य तं चेद् अभिप्रक्रान्तम् अभिपलायमानम्
एवं ह स्म वै तत् पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति
तेषां ह स्म वैषा पुण्या कीर्तिर् गच्छत्य् आ ह वा अयं सो ऽद्य गमिष्यतीति ॥ ४ ॥
1.2.5
जनमेजयो ह वै पारीक्षितो मृगयां चरिष्यन् हंसाभ्याम् असिष्यन्न् उपावतस्थ इति
ताव् ऊचतुर् जनमेजयं पारीक्षितम् अभ्याजगाम
स होवाच
नमो वां भगवन्तौ कौ नु भगवन्ताव् इति
ताव् ऊचतुर् दक्षिणाग्निश् चाहवनीयश् चेति
स होवाच नमो वां भगवन्तौ तद् आकीयताम् इति
इहोपारामम् इति
अपि किल देवा न रमन्ते न हि देवा न रमन्तए
अपि चैकोपारामाद् देवा आरामम् उपसंक्रामन्तीति
स होवाच नमो वां भगवन्तौ किं पुण्यम् इति
ब्रह्मचर्यम् इति
किं लौक्यम् इति
ब्रह्मचर्यम् एवेति
तत् को वेद इति
दन्तावलो धौम्रः
अथ खलु दन्तावलो धौम्रो यावति तावति काले पारीक्षितं जनमेजयम् अभ्याजगाम
तस्मा उत्थाय स्वयम् एव विष्टरं निदधौ
तम् उपसंगृह्य पप्रच्छाधीहि भो किं पुण्यम् इति
ब्रह्मचर्यम् इति
किं लौक्यम् इति
ब्रह्मचर्यम् एवेति
तस्मा एतत् प्रोवाचाष्टाचत्वारिंशद् वर्षं सर्ववेदब्रह्मचर्यम्
तच् चतुर्धा वेदेषु व्युह्य द्वादशवर्षं ब्रह्मचर्यं द्वादशवर्षाण्य् अवरार्धम्
अपि स्नायंश् चरेद् यथाशक्त्य् अपरम्
तस्मा उहस्यृषभौ सहस्रं ददौ
अप्य् अपकीर्तितम् आचार्यो ब्रह्मचारीत्य् एक आहुर् आकाशम् अधिदैवतम्
अथाध्यात्मं ब्राह्मणो व्रतवांश् चरणवान् ब्रह्मचारी ॥ ५ ॥
1.2.6
ब्रह्म ह वै प्रजा मृत्यवे संप्रायच्छत्
ब्रह्मचारिणम् एव न संप्रददौ
स होवाचाश्याम् अस्मिन्न् इति
किम् इति
यां रात्रीं समिधम् अनाहृत्य वसेत् ताम् आयुषो ऽवरुन्धीयेति
तस्माद् ब्रह्मचार्य् अहरहः समिध आहृत्य सायंप्रातर् अग्निं परिचरेत्
नोपर्य् उपसादयेद् अथ प्रतिष्ठापयेत्
यद् उपर्य् उपसादयेज् जीमूतवर्षी तद् अहः पर्जन्यो भवति
ते देवा अब्रुवन् ब्राह्मणो वा अयं ब्रह्मचर्यं चरिष्यति
ब्रूतास्मै भिक्षा इति गृहपतिर् ब्रूत बहुचारी गृहपत्न्या इति
किम् अस्या वृञ्जीताददत्या इति
इष्टापूर्तसुकृतद्रविणम् अवरुन्ध्याद् इति
तस्माद् ब्रह्मचारिणे ऽहरहर् भिक्षां दद्याद् गृहिणी मा मायम् इष्टापूर्तसुकृतद्रविणम् अवरुन्ध्याद् इति
सप्तमीं नातिनयेत् सप्तमीम् अतिनयन् न ब्रह्मचारी भवति
समिद्भैक्षे सप्तरात्रम् अचरितवान् ब्रह्मचारी पुनरुपनेयो भवति ॥ ६ ॥
1.2.7
नोपरिशायी स्यान् न गायनो न नर्तनो न सरणो न निष्ठीवेत्
यद् उपरिशायी भवत्य् अभीक्ष्णं निवासा जायन्ते
यद् गायनो भवत्य् अभीक्ष्णश आक्रन्दान् धावन्ते
यन् नर्तनो भवत्य् अभीक्ष्णशः प्रेतान् निर्हरन्ते
यत् सरणो भवत्य् अभीक्ष्णशः प्रजाः संविशन्ते
यन् निष्ठीवति मध्य एव तदात्मनो निष्ठीवति
स चेन् निष्ठीवेद् <दिवो नु माम् [शौ.अ. ६.१२४.१, पै.सं. १९.४०.४, Vऐत्ष् १२.७]> <यद् अत्रापि मधोर् अहं [पै.सं. २०.३८.६, Vऐत्ष् १२.८]> <यद् अत्रापि रसस्य मे [पै.सं. २०.२७.८, Vऐत्ष् १२.९]>इत्य् आत्मानम् अनुमन्त्रयते
<यद् अत्रापि मधोर् अहं निरष्ठविषम् अस्मृतम् अग्निश् च तत् सविता च पुनर् मे जठरे धत्तां [पै.सं. २०.३८.६, Vऐत्ष् १२.८]> ॥ <यद् अत्रापि रसस्य मे परापपातास्मृतं तद् इहोपह्वयामहे तन् म आप्यायतां पुनः [पै.सं. २०.२७.८]>इति
न श्मशानम् आतिष्ठेत्
स चेद् अभितिष्ठेद् उदकं हस्ते कृत्वा <यदीद् अमृतुकाम्येत्य् [पै.सं. २०.५४.९]> अभिमन्त्र्य जपन्त् सम्प्रोक्ष्य परिक्रामेत्
समयायोपरिव्रजेद्
<यदीद् अमृतुकाम्याघं रिप्रम् उपेयिम । अन्धः श्लोण इव हीयतां मा नो ऽन्वागाद् अघं यतः [पै.सं. २०.५४.९]>इति
अथ हैतद् देवानां परिषूतं यद् ब्रह्मचारी
तद् अप्य् एतद् ऋचोक्तं देवानाम् एतत् परिषूतम् अनभ्यारूढं चरति रोचमानं तस्मिन् सर्वे पशवस् तत्र यज्ञास् तस्मिन्न् अन्नं सह देवताभिर् इति ब्राह्मणम् ॥ ७ ॥
1.2.8
प्राणापानौ जनयन्न् इति शङ्खस्य मुखे महर्षेर् वसिष्ठस्य पुत्र एतां वाचं ससृजे शीतोष्णाव् इहोत्सौ प्रादुर् भवेयाताम् इति
तथा तच् छश्वद् अनुवर्तते
अथ खलु विपाण् मध्ये वसिष्ठशिला नाम प्रथम आश्रमः
द्वितीयः कृष्णशिलास्
तस्मिन् वसिष्ठः समतपत्
विश्वामित्रजमदग्नी जामदग्ने तपतः
गौतमभरद्वाजौ सिंहौ प्रभवे तपतः
गुंगुर् गुंगुवासे तपति
ऋषिर् ऋषिद्रोणे ऽभ्यतपत्
अगस्त्यो ऽगस्त्यतीर्थे तपति
दिव्य् अत्रिर् ह तपति
स्वयम्भूः कश्यपः कश्यपतुङ्गे ऽभ्यतपत्
उलवृकर्क्षुतरक्षुः
श्वा वराहचिल्वटिबब्रुकाः सर्पदंष्ट्रनः संहनुकृण्वानाः कश्यपतुङ्गदर्शनात् सरणवाटात् सिद्धिर् भवति
ब्राह्म्यं वर्षसहस्रम् ऋषिवने ब्रह्मचार्येकपादेनातिष्ठति
द्वितीयं वर्षसहस्रं मूर्धन्य् एवामृतस्य धाराम् आधारयत्
ब्राह्माण्यष्टाचत्वारिंशद् वर्षसहस्राणि सलिलस्य पृष्ठे शिवो ऽभ्यतपत्
तस्मात् तप्तात् तपसो भूय एवाभ्यतपत्
तद् अप्य् एता ऋचो ऽभिवदन्ति प्राणापानौ जनयन्न् इति ब्राह्मणम् ॥ ८ ॥
1.2.9
एकपाद् द्विपद इति
वायुर् एकपात्
तस्याकाशं पादः
चन्द्रमा द्विपात्
तस्य पूर्वपक्षापरपक्षौ पादौ
आदित्यस् त्रिपात्
तस्येमे लोकाः पादाः
अग्निः षट्पादस्
तस्य पृथिव्य् अन्तरिक्षं द्यौर् आप ओषधिवनस्पतय इमानि भूतानि पादास्
तेषां सर्वेषां वेदा गतिर् आत्मा प्रतिष्ठिताश् चतस्रो ब्रह्मणः शाखाः
अथो आहुः षड् इति मूर्तिर् आकाशश् चेति [एद्. अहुः]
ऋचा मूर्तिः
याजुषी गतिः
साममयं तेजः
भृग्वङ्गिरसा माया
एतद् ब्रह्मैव यज्ञश् चतुष्पाद् द्विः संस्थित इति
तस्य भृग्वङ्गिरसः संस्थे
अथो आहुर् एकसंस्थित इति
यद् धोतर्चां मण्डलैः करोति पृथिवीं तेनाप्याययति
एतस्यां ह्य् अग्निश् चरति
तद् अप्य् एतद् ऋचोक्तम् <अग्निवासाः पृथिव्य् असितज्ञूः [शौ.अ. १२.१.२१, पै.सं. १७.३.२]>इति
यद् अध्वर्युर् यजुषा करोत्य् अन्तरिक्षं तेनाप्याययति
तस्मिन् वायुर् न निविशते कतमच् च नाहर् इति
तद् अप्य् एतद् ऋचोक्तम् <अन्तरिक्षे पथिभिर् ह्रीयमाणो न नि विशते कतमच् च नाहः । अपां योनिः प्रथमजा ऋतस्य क्व स्विज् जातः कुत आ बभूव [पै.सं. १.१०७.४]>इति
यद् उद्गाता साम्ना करोति दिवं तेनाप्याययति
तत्र ह्य् आदित्यः शुक्रश् चरति
तद् अप्य् एतद् ऋचोक्तम् <उच्चा पतन्तम् अरुणं सुपर्णम् [शौ.अ. १३.२.३६, पै.सं. १८.२४.३]> इति
यद् ब्रह्मर्चां काण्डैः करोत्य् अपस् तेनाप्याययति
चन्द्रमा ह्य् अप्सु चरति
तद् अप्य् एतद् ऋचोक्तं चन्द्रमा अप्स्व् अन्तर् इति तासाम् ओषधिवनस्पतयः काण्डानि
ततो मूलकाण्डपर्णपुष्पफलप्ररोहरसगन्धैर् यज्ञो वर्तते
अद्भिः कर्णाणि प्रवर्तन्ते
अद्भिः सोमो ऽभिषूयते
तद् यद् ब्रह्माणां कर्णाणि कर्मण्य् आमन्त्रयत्य् अपस् तेनानुजानाति
एषो ह्य् अस्य भागस्
तद् यथा भोक्ष्यमाणः
अप एव प्रथमम् आचामयेद् अप उपरिष्टाद् एवं यज्ञो ऽद्भिर् एव प्रवर्तते
अप्सु संस्थाप्यते तस्माद् ब्रह्मा पुरस्ताद्धोमसंस्थितहोमैर् यज्ञो वर्तते
अन्तरा हि पुरस्ताद्धोमसंस्थितहोमैर् यज्ञं परिगृह्णाति
अन्तरा हि भृग्वङ्गिरसो वेदान् आदुह्य भृग्वङ्गिरसः सोमपानं मन्यन्ते
सोमात्मको ह्य् अयं वेद
तद् अप्य् एतद् ऋचोक्तं सोमं मन्यते पपिवान् इति
तद् यथेमां पृथिवीम् उदीर्णां ज्योतिषा धूमायमानां वर्षं शमयति
एवं ब्रह्मा भृग्वङ्गिरोभिर् व्याहृतिभिर् यज्ञस्य विरिष्टं शमयति
अग्निर् आदित्याय शमयति
एते ऽङ्गिरसः
एत इदं सर्वं समाप्नुवन्ति
वायुर् आपश् चन्द्रमा इत्य् एते भृगवः
एत इदं सर्वं समाप्याययन्ति
एकम् एव संस्थं भवतीति ब्राह्मणम् ॥ ९ ॥
1.2.10
विचारी ह वै काबन्धिः कबन्धस्याथर्वणस्य पुत्रो मेधावी मीमांसको ऽनूचान आस
स ह स्वेनातिमानेन मानुषं वित्तं नेयाय
तं मातोवाच
त एवैतद् अन्नम् अवोचंस् त इम एषु कुरुपञ्चालेष्व् अङ्गमगधेषु काशिकौशलेषु शाल्वमत्स्येषु सवशोशीनरेषूदीच्येष्व् अन्नम् अदन्तीति
अथ वयं तवैवातिमानेनानाद्याः स्मः
वत्स वाहनम् अन्विच्छेति
स मान्धातुर् यौवनाश्वस्य सार्वभौमस्य राज्ञः सोमं प्रसूतम् आजगाम
स सदो ऽनुप्रविश्यर्त्विजश् च यजमानं चामन्त्रयाम् आस
तद् याः प्राच्यो नद्यो वहन्ति याश् च दक्षिणाच्यो याश् च प्रतीच्यो याश् चोदीच्यस् ताः सर्वाः पृथङ्नामधेया इत्य् आचक्षते
तासां समुद्रम् अभिपद्यमानानां छिद्यते नामधेयं समुद्र इत्य् आचक्षते
एवम् इमे सर्वे वेदा निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काः सेतिहासाः सान्वाख्यानाः सपुराणाः सस्वराः ससंस्काराः सनिरुक्ताः सानुशासनाः सानुमार्जनाः सवाकोवाक्यास्
तेषां यज्ञम् अभिपद्यमानानां छिद्यते नामधेयं यज्ञ इत्य् एवाचक्षते ॥ १० ॥
1.2.11
भूमेर् ह वा एतद् विच्छिन्नं देवयजनं यद् अप्राक्प्रवणं यद् अनुदक्प्रवणं यत्कृत्रिमं यत् समविषमम्
इदं ह त्व् एव देवयजनं यत् समं समूलम् अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णम् इव भवति यत्र ब्राह्मणस्य ब्राह्मणतां विद्याद् ब्रह्मा ब्रह्मत्वं करोतीति
वोचे छन्दस् तन् न विन्दामो येनोत्तरम् एमहीति
तान् ह पप्रच्छ किं विद्वान् होता हौत्रं करोति किं विद्वान् अध्वर्युर् आध्वर्यवं करोति किं विद्वान् उद्गातौद्गात्रं करोति किं विद्वान् ब्रह्मा ब्रह्मत्वं करोतीति
वोचे छन्दस् तन् न विन्दामो येनोत्तरम् एमहीति
ते ब्रूमो वाग् एव होता हौत्रं करोति
वाचो हि स्तोमाश् च वषट्काराश् चाभिसम्पद्यन्ते
ते ब्रूमो वाग् एव होता वाग् ब्रह्म वाग् देव इति
प्राणापानाभ्याम् एवाध्वर्युर् आध्वर्यवं करोति
प्राणप्रणीतानि ह भूतानि प्राणप्रणीताः प्रणीतास्
ते ब्रूमः प्राणापानाव् एवाध्वर्युः प्राणापानौ ब्रह्म प्राणापानौ देव इति
चक्षुषैवोद्गातौद्गात्रं करोति
चक्षुषा हीमानि भूतानि पश्यन्ति
अथो चक्षुर् एवोद्गाता चक्षुर् ब्रह्म चक्षुर् देव इति
मनसैव ब्रह्मा ब्रह्मत्वं करोति
मनसा हि तिर्यक् च दिश ऊर्ध्वं यच् च किं च मनसैव करोति तद् ब्रह्म
ते ब्रूमो मन एव ब्रह्मा मनो ब्रह्म मनो देव इति ॥ ११ ॥
1.2.12
तद् यथा ह वा इदं यजमानश् च याजयितारश् च दिवं ब्रूयुः पृथिवीति पृथिवीं वा द्यौर् इति ब्रूयुस् तद् अन्यो नानुजानात्य् एताम् एवं नानुजानाति यद् एतद् ब्रूयात्
अथ नु कथम् इति
होतेत्य् एव होतारं ब्रूयाद् वाग् इति वाचं ब्रह्मेति ब्रह्म देव इति देवम् अध्वर्युर् इत्य् एवाध्वर्युं ब्रूयात् प्राणापानाव् इति प्राणापानौ ब्रह्मेति ब्रह्म देव इति देवम् उद्गातेत्य् एवोद्गातारं ब्रूयाच् चक्षुर् इति चक्षुर् ब्रह्मेति ब्रह्म देव इति देवं ब्रह्मेत्य् एव ब्रह्माणं ब्रूयान् मन इति मनो ब्रह्मेति ब्रह्म देव इति देवम् ॥ १२ ॥
1.2.13
नानाप्रवचनानि ह वा एतानि भूतानि भवन्ति
ये चैवासोमपं याजयन्ति ये च सुरापं ये च ब्राह्मणं विच्छिन्नं सोमयाजिनं तं प्रातः समित्पाणय उपोदेयुर् उपायामो भवन्तम् इति
किमर्थम् इति
यान् एव नो भवांस् तान् ह्यः प्रश्नान् अपृच्छत् तान् एव नो भवान् व्याचक्षीतेति
तथेति
तेभ्य एतान् प्रश्नान् व्याचचष्टे
तद् येन ह वा इदं विद्यमानं चाविद्यमानं चाभिनिदधाति तद् ब्रह्म
तद् यो वेद स ब्राह्मणो ऽधीयानो ऽधीत्याचक्षत इति ब्राह्मणम् ॥ १३ ॥
1.2.14
अथातो देवयजनानि
आत्मा देवयजनम्
श्रद्धा देवयजनम्
ऋत्विजो देवयजनम्
भौमं देवयजनम्
तद् वा एतद् आत्मा देवयजनं यद् उपव्यायच्छमानो वानुपव्यायच्छमानो वा शरीरम् अधिवसति
एष यज्ञः
एष यजतः
एतं यजन्तः
एतद् देवयजनम्
अथैतच् छ्रद्धा देवयजनम्
यदैव कदा चिद् आदध्यात्
श्रद्धा त्व् एवैनं नातीयात्
तद् देवयजनम्
अथैतद् ऋत्विजो देवयजनम्
यत्र क्व चिद् ब्राह्मणो विद्यावान् मन्त्रेण करोति तद् देवयजनम्
अथेतद् भौमं देवयजनम्
यत्रापस् तिष्ठन्ति यत्र स्यन्दन्ति प्र तद् वहन्त्य् उद्वहन्ति तद् देवयजनम्
यत् समं समूलम् अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णम् इव भवति यस्य श्वभ्र ऊर्मो वृक्षः पर्वतो नदी पन्था वा पुरस्तात् स्यात्
न देवयजनमात्रं पुरस्तात् पर्यवशिष्येत्
नोत्तरतो ऽग्नेः पर्युपसीदेरन्न् इति ब्राह्मणम् ॥ १४ ॥
1.2.15
अदितिर् वै प्रजाकामौदनम् अपचत्
तत उच्छिष्टम् आश्नात्
सा गर्भम् अधत्त
तत आदित्या अजायन्त
य एष ओदनः पच्यत आरम्भणम् एवैतत् क्रियत आक्रमणम् एव
प्रादेशमात्रीः समिधो भवन्ति
एतावान् ह्य् आत्मा प्रजापतिना संमितः
अग्नेर् वै या यज्ञिया तनूर् अश्वत्थे तया समगच्छत
एषास्य घृत्या तनूर् यद् घृतम्
यद् घृतेन समिधो ऽनक्ति ताभ्याम् एवैनं तत् तनूभ्यां समर्धयति
यन् निर्मार्गस्यादधात्य् अवगूर्त्या वै वीर्यं क्रियते
यन् निर्मार्गस्यादधात्य् अवगूर्त्या एव
संवत्सरो वै प्रजननम्
अग्निः प्रजननम्
एतत् प्रजननम्
यत् संवत्सर ऋचाग्नौ समिधम् आदधाति प्रजननाद् एवैनं तत् प्रजनयिता प्रजनयति
अभक्तर्तुर् वै पुरुषः
न हि तद् वेद यम् ऋतुम् अभिजायते
यन् नक्षत्रं तद् आप्नोति
य एष ओदनः पच्यते योनिर् एवैषा क्रियते
यत् समिध आधीयन्ते रेतस् तद् धीयते
संवत्सरे वै रेतो हितं प्रजायते
यः संवत्सरे पर्येते ऽग्निम् आधत्ते प्रजातम् एवैनम् आधत्ते
द्वादशसु रात्रीषु पुरा संवत्सरस्याधेयास्
ता हि संवत्सरस्य प्रतिमा
अथो तिसृष्व् अथो द्वयोर् अथो पूर्वेद्युर् आधेयास् त एवाग्निम् आदधानेन
आदित्या वा इत उत्तमा अमुं लोकम् आयन्
ब्ते पथिरक्षयस् त इयक्षमाणं प्रतिनुदन्तः
च्उच्छेषणभाजा वा आदित्याः
द्[यद् उच्छिष्टम्]
यद् उच्छिष्टेन समिधो ऽनक्ति तेभ्य एव प्रावोचत् तेभ्य एव प्रोच्य स्वर्गं लोकं याति ॥ १५ ॥
1.2.16
प्रजापतिर् अथर्वा देवः स तपस् तप्त्वैतं चातुःप्राश्यं ब्रह्मौदनं निरमिमीत चतुर्लोकं चतुर्देवं चतुर्वेदं चतुर्हौत्रम् इति
चत्वारो वा इमे लोकाः पृथिव्य् अन्तरिक्षं द्यौर् आप इति
चत्वारो वा इमे देवा अग्निर् वायुर् आदित्यश् चन्द्रमाः
चत्वारो वा इमे वेदा ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेद इति
चतस्रो वा इमा होत्रा हौत्रम् आध्वर्यवम् औद्गात्रं ब्रह्मत्वम् इति
तद् अप्य् एतद् ऋचोक्तं <चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आविवेश [पै.सं. ८.१३.३]>इति
चत्वारि शृङ्गेति वेदा वा एत उक्तास्
त्रयो अस्य पादा इति सवनान्य् एव
द्वे शीर्षे इति ब्रह्मौदनप्रवर्ग्याव् एव
सप्त हस्तासो अस्येति छन्दांस्य् एव
त्रिधा बद्ध इति मन्त्रः कल्पो ब्राह्मणम्
वृषभो रोरवीत्य् एष ह वै वृषभ एष तद् रोरवीति यद् यज्ञेषु शस्त्राणि शंसत्य् ऋग्भिर् यजुर्भिः सामभिर् ब्रह्मभिर् इति
महो देवो मर्त्यां आविवेशेत्य् एष ह वै महान् देवो यद् यज्ञः
एष मर्त्यां आविवेश
यो विद्यात् सप्त प्रवत इति प्राणान् आह
सप्त विद्यात् परावत इत्य् अपानान् आह
शिरो यज्ञस्य यो विद्याद् इत्य् एतद् वै यज्ञस्य शिरो यन् मन्त्रवान् ब्रह्मौदनः
यो ह वा एतम् अमन्त्रवन्तं ब्रह्मौदनम् उपेयाद् अपशिरसा ह वा अस्य यज्ञम् उपेतो भवति
तस्मान् मन्त्रवन्तम् एव ब्रह्मौदनम् उपेयान् नामन्त्रवन्तम् इति ब्राह्मणम् ॥ १६ ॥ [एद्. ब्राह्मनम्]
1.2.17
किम् उपज्ञ आत्रेयो भवतीति
आदित्यं हि तमो जग्राह
तद् अत्रिर् अपनुनोद
तद् अत्रिर् अन्वपश्यत्
तद् अप्य् एतद् ऋचोक्तं <स्रुताद् यम् अत्रिर् दिवम् उन्निनाय [शौ.अ. १३.२.४च्, पै.सं. १८.२०.८च्]>
<दिवि त्वात्रिर् अधारयत् सूर्या मासाय कर्तवे [शौ.अ. १३.२.१२अब्, पै.सं. १८.२१.६अब्]>इति
तं होवाच वरं वृणीष्वेति
स होवाच दक्षिणीया मे प्रजा स्याद् इति
तस्माद् आत्रेयाय प्रथमं दक्षिणा यज्ञे दीयन्त इति ब्राह्मणम् ॥ १७ ॥
1.2.18
प्रजापतिर् वेदान् उवाचाग्नीन् आदधीयेति
तान् वाग् अभ्युवाचाश्वो वै सम्भाराणाम् इति
तं घोरात् क्रूरात् सलिलात् सरस उदानिन्युस्
तान् वाग् अभ्युवाचाश्वः शम्येतेति
तथेति
तम् ऋग्वेद एत्योवाचाहम् अश्वं शमेयम् इति
तस्मा अभिसृप्ताय महद् भयं ससृजे
स एतां प्राचीं दिशं भेजे
स होवाचाशान्तो न्व् अयम् अश्व इति
तं यजुर्वेद एत्योवाचाहम् अश्वं शमेयम् इति
तस्मा अभिसृप्ताय महद् भयं ससृजे
स एतां प्रतीचीं दिशं भेजे
स होवाचाशान्तो न्व् अयम् अश्व इति
तं सामवेद एत्योवाचाहम् अश्वं शमेयम् इति
केन नु त्वं शमयिष्यसीति
रथन्तरं नाम मे सामाघोरं चाक्रूरं च
तेनाश्व अभिष्टूयेतेति
तस्मा अप्य् अभिसृप्ताय तद् एव महद् भयं ससृजे
स एताम् उदीचीं दिशं भेजे
स होवाचाशान्तो न्व् अयम् अश्व इति
तान् वाग् अभ्युवाच शंयुमाथर्वणं गच्छतेति
ते शंयुमाथर्वणम् आसीनं प्राप्योचुर् नमस् ते अस्तु भगवन्न् अश्वः शम्येतेति
तथेति
स खलु कबन्धस्याथर्वणस्य पुत्रम् आमन्त्रयाम् आस विचारिन्न् इति
भगो इति हास्मै प्रतिश्रुतं प्रतिश्रुश्राव
अश्व शम्येतेति
तथेति
स खलु शान्त्युदकं चकाराथर्वणीभिश् चाङ्गिरसीभिश् च चातनैर् मातृनामभिर् वास्तोष्पत्यैर् इति शमयति
तस्य ह स्नातस्याश्वस्याभ्युक्षितस्य सर्वेभ्यो रोमसमरेभ्यो ऽङ्गारा आशीर्यन्त
सो ऽश्वस् तुष्टो नमस्कारं चकार
नमः शंयुमाथर्वणाय यो मा यज्ञियम् अचीकॢपद् इति
भविष्यन्ति ह वा अतो ऽन्ये ब्राह्मणा लघुसम्भारतमास्
ग्त आदित्यस्य पद आधास्यन्त्य् अनडुहो वत्सस्याजस्य श्रवणस्य ब्रह्मचारिणो वा
एतद् वा आदित्यस्य पदं यद् भूमिस्
तस्यैव पद आहितं भविष्यतीति
सो ऽग्नौ प्रणीयमाणे ऽश्वे ऽन्वारब्धं ब्रह्मा यजमानं वाचयति <यद् अक्रन्दः प्रथमं जायमानः [ऋ. १.१६३.१]>इति पञ्च
तं ब्राह्मणा उपवहन्ति तं ब्रह्मोपाकुरुत
एष ह वै विद्वान्त् सर्वविद् ब्रह्मा यद् भृङ्गिरोविद् इति ब्राह्मणम् ॥ १८ ॥
1.2.19
देवाश् च ह वा असुराश् चास्पर्धन्त
ते देवा इन्द्रम् अब्रुवन्न् इमं नस् तावद् यज्ञं गोपाय यावद् असुरैः संयतामहा इति
स वै नस् तेन रूपेण गोपाय येन नो रूपेण भूयिष्ठं छादयसि येन शक्ष्यसि गोप्तुम् इति
स ऋग्वेदो भूत्वा पुरस्तात् परीत्योपातिष्ठत्
तं देवा अब्रुवन्न् अन्यत् तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति
स यजुर्वेदो भूत्वा पश्चात् परीत्योपातिष्ठत्
तं देवा अब्रुवन्न् अन्यत् तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति
स समावेदो भूत्वोत्तरतः परीत्योपातिष्ठत्
तं देवा अब्रुवन्न् अन्यद् एव तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति
स इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत्
तं देवा अब्रुवन्न् एतत् तद् रूपं कुरुष्वैतेन नो रूपेण भूयिष्ठं छादयस्य् एतेन शक्ष्यसि गोप्तुम् इति
तद् यद् इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत् तद् ब्रह्माभवत्
तद् ब्रह्मणो ब्रह्मत्वम्
तद् वा एतद् अथर्वणो रूपं यद् उष्णीषी ब्रह्मा
तं दक्षिणतो विश्वे देवा उपासीदन्
तं यद् दक्षिणतो विश्वे देवा उपासीदंस् तत् सदस्यो ऽभवत्
तत् सदस्यस्य सदस्यत्वम्
बलेर् ह वा एतद् बलम् उपजायते यत् सदस्ये
आमयतो वै व्रजस्य बहुलतरं व्रजं विदन्ति
घोरा वा एषा दिग् दक्षिणा शान्ता इतरास्
तद् यानि स्तुतानि ब्रह्मानुमन्त्रयते मनसैव तानि सदस्यो जनद् इत्य् एतां व्याहृतिं जपति
आत्मानं जनयति नजित्यात्मानम् अपित्वे दधाति
तं देवा अब्रुवन् वरं वृणीष्वेति
वृणा इति
स वरम् अवृणीत
अस्याम् एव मां होत्रायाम् इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तस् तिष्ठेयुर् इति [एद्. तिस्थेयुर्, चोर्र्. ড়त्यल्]
तं तस्याम् एव होत्रायाम् इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठन्
ब्तं यत् तस्याम् एव होत्रायाम् इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठंस् तद् ब्राह्मणाच्छंस्य् अभवत्
तद् ब्राह्मणाच्छंसिनो ब्राह्मणाच्छंसित्वम्
सैषैन्द्री होत्रा यद् ब्राह्मणाच्छंसीया
द्वितीयं वरं वृणीष्वेति
वृणा इति
स वरम् अवृणीत
अस्याम् एव मां होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तस् तिस्थेयुर् इति [एद्. तिस्थेयुर्]
तं तस्याम् एव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठन्
तं यत् तस्याम् एव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठंस् तत् पोताभवत्
तत् पोतुः पोतृत्वम्
सैषा वायव्या होत्रा यत् पोत्रीया
तृतीयं वरं वृणीष्वेति
वृणा इति
स वरम् अवृणीत
अस्याम् एव मां होत्रायाम् अग्निभूतम् इन्धानाः पुनन्त स्तुवन्त शंसन्तस् तिष्ठेयुर् इति [एद्. तिस्थेयुर्]
तं तस्याम् एव होत्रायाम् अग्निभूतम् इन्धानाः पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठन् [एद्. ऽतिस्थंस्, चोर्र्. ড়त्यल्]
तं यत् तस्याम् एव होत्रायाम् अग्निभूतम् इन्धानाः पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठंस् तद् आग्नीध्रो ऽभवत् [एद्. ऽतिस्थंस्]
स्तद् आग्नीध्रस्याग्नीध्रत्वम्
त्सैषाग्नेयी होत्रा यद् आग्नीध्रीयेति ब्राह्मणम् ॥ १९ ॥
1.2.20
ब्राह्मणो ह वा इमम् अग्निं वैश्वानरं बभार
सो ऽयम् अग्निर् वैश्वानरो ब्राह्मणेन भ्रियमाण इमांल् लोकाञ् जनयते
अथायम् ईक्षते ऽग्निर् जातवेदा ब्राह्मणद्वितीयो ह वा अयम् इदम् अग्निर् वैश्वानरो ज्वलति
हन्ताहं यन् मयि तेज इद्रियं वीर्यं तद् दर्शयाम्य् उत वै मा बिभृयाद् इति
स आत्मानम् आप्याय्यैतं पयो ऽधोक्
तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत्
स द्वितीयम् आत्मानम् आप्याय्यैतं घृतम् अधोक्
तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत्
स तृतीयम् आत्मानम् आप्याय्यैतद् इदं विश्वं विकृतम् अन्नाद्यम् अधोक्
तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत्
स चतुर्थम् आत्मानम् आप्याय्यैतेन ब्राह्मणस्य जायां विराजम् अपश्यत्
ताम् अस्मै प्रायच्छत्
सात्मा अपित्वम् अभवत्
तत इमम् अग्निं वैश्वानरं परास्युर् ब्राह्मणो ऽग्निं जातवेदसम् अधत्त
सो ऽयम् अब्रवीद् अग्ने जातवेदो ऽभिनिधेहि मेहीति
तस्य द्वैतं नामाधत्ताघोरं चाक्रूरं च
सो ऽश्वो भवत्
तस्माद् अश्वो वहेन रथं न भवति पृस्थेन सादिनम्
स देवान् आगच्छत्
स देवेभ्यो ऽन्वातिष्ठत्
तस्माद् देवा अबिभयुस्
तं ब्रह्मणे प्रायच्छत्
तम् एतयर्चाशमयत् ॥ २० ॥
1.2.21
<अग्निं त्वाहुर् वैश्वानरं सदनान् प्रदहन्व् अगाः । स नो देवत्राधि ब्रूहि मा रिषामा वयं तव [पै.सं. १.९५.३, सकल अल्सो अत् Vऐत्ष् ६.७]>इति
तम् एताभिः पञ्चभिर् ऋग्भिर् उपाकुरुते <यद् अक्रन्दः प्रथमं जायमानः [ऋ. १.१६३.१]>इति [एद्. प्रतमं, चोर्रेच्तेद् प्. ३०२]
सो ऽशाम्यत्
तस्माद् अश्वः पशूनां जिघत्सुतमो भवति
वैश्वानरो ह्य् एष
तस्माद् अग्निपदम् अश्वं ब्रह्मणे ददाति
ब्रह्मणे हि प्रत्तम्
तस्य रसम् अपीडयत्
स रसो ऽभवत्
रसो ह वा एष
तं वा एतं रसं सन्तं रथ इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
स देवान् आगच्छत्
स देवेभ्यो ऽन्वातिष्ठत्
तस्माद् देवा अबिभयुस्
तं ब्रह्मणे प्रायच्छत्
तम् एतयर्चाज्याहुत्याभ्यजुहोत्
<इन्द्रस्यौजो मरुताम् अनीकम् [शौ.अ. ६.१२५.३, च्f. पै.सं. १५.११.७]> इति रथम् अभिहुत्य तम् एतयर्चातिष्ठद् <वनस्पते वीड्वङ्गो हि भूयाः [शौ.अ. ६.१२५.१, पै.सं. १५.११.८]> इति
तस्माद् आग्न्याधेयिकं रथं ब्रह्मणे ददाति
ब्रह्मणे हि प्रत्तम्
तस्य तक्षाणस् तनूं ज्येष्ठां दक्षिणां निरमिमत
तां पञ्चस्व् अपश्यद् ऋचि यजुषि साम्नि शान्ते ऽथ घोरे
तासां द्वे ब्रह्मणे प्रायच्छद् वाचं च ज्योतिश् च
वाग् वै धेनुर् ज्योतिर् हिरण्यम्
तस्माद् आग्न्याधेयिकां चातुःप्राश्यां धेनुं ब्रह्मणे ददाति
ब्रह्मणे हि प्रत्ता
पशुषु शाम्यमानेषु चक्षुर् हापयन्ति
चक्षुर् एव तद् आत्मनि धत्ते
यद् वै चक्षुस् तद् धिरण्यम्
तस्माद् आग्न्याधेयिकं हिरण्यं ब्रह्मणे ददाति
ब्रह्मणे हि प्रत्तं
तस्यात्मन्न् अधत्त
तेन प्राज्वलयत्
यन् नाधत्त तद् आग्लाभवत्
तद् आग्ला भूत्वा सा समुद्रं प्राविशत् [च्f. पै.सं. १७.२८.१ fओर् थिस् अन्द् थे fओल्लोwइन्ग् सेन्तेन्चेस्]
सा समुद्रम् अदहत्
तस्मात् समुद्रो दुर्गिरवपि
वैश्वानरेण हि दग्धः
सा पृथिवीम् उदैत्
सा पृथिवीं व्यदहत्
सा देवान् आगच्छत्
सा देवान् अहेडत्
ते देवा ब्रह्माणम् उपाधावन्
स नैवागायन् नानृत्यत्
सैषाग्ला
एषा कारुविदा नम
तं वा एतम् आग्लाहतं सन्तम् आग्लागृध इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषाः [एद्. -द्विषो]
य एष ब्राह्मणो गायनो नर्तनो वा भवति तम् आग्लागृध इत्य् आचक्षते
तस्माद् ब्राह्मणो नैव गायेन् न नृत्येन् माग्लागृधः स्यात्
तस्माद् ब्राह्म्यं पूर्वं हविर् अपरं प्राजापत्यं
प्राजापत्याद् ब्राह्म्यम् एवोत्तरम् इति ब्राह्मणम् ॥ २१ ॥
1.2.22
अथर्वाणश् च ह वा अङ्गिरसश् च भृगुचक्षुषी तद् ब्रह्माभिव्यपश्यन्
तदजानन्वयं वा इदं सर्वं यद् भृग्वङ्गिरस इति
ते देवा ब्राह्म्यं हविर् यत् सांतपने ऽग्नाव् अजुहवुः
एतद् वै ब्राह्म्यं हविर् यत् सांतपने ऽग्नौ हूयत
एष ह वै सांतपनो ऽग्निर् यद् ब्राह्मणस्
तस्योर्जयोर्जां देवा अभजन्त सुमनस एव स्वधां पितरः श्रद्धया स्वर्गं लोकं ब्राह्मणास्
तेन सुन्वन्त्य् ऋषयो ऽन्तत स्त्रियः केवल आत्मन्य् अवारुन्धत बाह्या उभयेन सुन्वन्ति
यद् वै यज्ञे ब्राह्म्यं हविर् न निरुप्येतानृजवः प्राजापत्यहविषो मनुष्या जायेरन्
असौ यांल् लोकाञ् छृण्व् इति पिता ह्य् एष आहवनीयस्य गार्हपत्यस्य दक्षिणाग्नेर् यो ऽग्निहोत्रं जुहोतीति [एद्. याल्लोकाञ्, आहवणीयस्य]
देवाः प्रिये धामनि मदन्ति
तेषाम् एषो ऽग्निः सांतपनः श्रेष्ठो भवति
एतस्य वाचि तृप्तायाम् अग्निस् तृप्यति
प्राणे तृप्ते वायुस् तृप्यति
चक्षुषि तृप्त आदित्यस् तृप्यति
मनसि तृप्ते चन्द्रमास् तृप्यति
श्रोत्रे तृप्ते दिशश् चान्तर्देशाश् च तृप्यन्ति
स्नेहेषु तृप्तेष्व् आपस् तृप्यन्ति
लोमेषु तृप्तेष्व् ओषधिवनस्पतयस् तृप्यन्ति
शरीरे तृप्ते पृथिवी तृप्तति
एवम् एषो ऽग्निः सांतपनः श्रेष्ठस् तृप्तः सर्वांस् तृप्तांस् तर्पयतीति ब्राह्मणम् ॥ २२ ॥
1.2.23
सांतपना इदं हविर् इति
एष ह वै सांतपनो ऽग्निर् यद् ब्राह्मणो यस्य गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणनिष्क्रमणान्नप्राशनगोदानचूडाकरणोपनयनाप्लवनाग्निहोत्रव्रतचर्यादीनि कृतानि भवन्ति स सांतपनः
अथ यो ऽयमनग्निकः स कुम्भे लोष्टस्
तद् यथा कुम्भे लोष्टः प्रक्षिप्तो नैव शौचार्थाय कल्पते नैव शस्यं निर्वर्तयत्य् एवम् एवायं ब्राह्मणो ऽनग्निकस् तस्य ब्राह्मणस्यानग्निकस्य नैव दैवं दद्यान् न पित्र्यं न चास्य स्वाध्यायाशिषो न यज्ञाशिषः स्वर्गंगमा भवन्ति
तद् अप्य् एतद् ऋचोक्तम् <अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् [शौ.अ. २०.१०१.१, ऋ. १.१२.१]> इति ब्राह्मणम् ॥ २३ ॥
1.2.24
अथ ह प्रजापतिः सोमेन यक्ष्यमाणो वेदान् उवाच कं वो होतारं वृणीय कम् अध्वर्युं कम् उद्गातारं कं ब्राह्मणम् इति
त ऊचुर् ऋग्विदम् एव होतारं वृणीष्.व यजुर्विदम् अध्वर्युं सामविदम् उद्गातारम् अथर्वाङ्गिरोविदं ब्राह्मणम्
तथा हास्य यज्ञश् चतुर्षु लोकेषु चतुर्षु देवेषु चतुर्षु वेदेषु चतसृषु होत्रासु चतुष्पाद् यज्ञः प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
तस्माद् ऋग्विदम् एव होतारं वृणीष्व स हि हौत्रं वेद
अग्निर् वै होता
पृथिवी वा ऋचाम् आयतनम्
अग्निर् देवता गायत्रं छन्दो भूर् इति शुक्रम्
तस्मात् तम् एव होतारं वृणीष्वेत्य् एतस्य लोकस्य जितये
एतस्य लोकस्य विजितये
एतस्य लोकस्य संजितये
एतस्य लोकस्यावरुद्धये
एतस्य लोकस्य विवृद्धये
एतस्य लोकस्य समृद्धये
एतस्य लोकस्योदात्तये
एतस्य लोकस्य व्याप्तये
एतस्य लोकस्य पर्याप्तये
एतस्य लोकस्य समाप्तये
अथ चेन् नैवंविदं होतारं वृणुते पुरस्ताद् एवैषां यज्ञो रिच्यते
यजुर्विदम् एवाध्वर्युं वृणीष्व स ह्य् आध्वर्यवं वेद
वायुर् वा अध्वर्युः
अन्तरिक्षं वै यजुषाम् आयतनम्
वायुर् देवता त्रैष्टुभं छन्दो भुव इति शुक्रम्
तस्मात् तम् एवाध्वर्युं वृणीष्वेत्य् एतस्य लोकस्येत्य् एव
अथ चेन् नैवंविदम् अध्वर्युं वृणुते पश्चाद् एवैषां यज्ञो रिच्यते
सामविदम् एवोद्गातारं वृणीष्व
स ह्य् औद्गात्रं वेद
आदित्यो वा उद्गाता
द्यौर् वै साम्नाम् आयतनम्
आदित्यो देवता जागतं छन्दः स्वर् इति शुक्रम्
तस्मात् तम् एवोद्गातारं वृणीष्वेत्य् एतस्य लोकस्येत्य् एव
अथ चेन् नैवंविदम् उद्गातारं वृणुत उत्तरत एवैषां यज्ञो रिच्यते
अथर्वाङ्गिरोविदम् एव ब्रह्माणं वृणीष्व
स हि ब्रह्मत्वं वेद
चन्द्रमा वै ब्रह्मा [एद्. ब्रहापो]
आपो वै भृगवङ्गिरसाम् आयतनम्
चन्द्रमा देवता वैद्युतश् चोष्णिक्काकुभे छन्दसी ओम् इत्य् अथर्वणां शुक्रं जनद् इत्य् अङ्गिरसाम्
तस्मात् तम् एव ब्रह्माणं वृणीष्वेत्य् एतस्य लोकस्य जितये
एतस्य लोकस्य विजितये
एतस्य लोकस्य संजितये
एतस्य लोकस्यावरुद्धये
एतस्य लोकस्य विवृद्धये
एतस्य लोकस्य समृद्धये
तस्य लोकस्योदात्तये
एतस्य लोकस्य व्याप्तये
एतस्य लोकस्य पर्याप्तये
एतस्य लोकस्य समाप्तये
अथ चेन् नैवंविदं ब्रह्माणं वृणुते दक्षिणत एवैषां यज्ञो रिच्यते दक्षिणत एवैषां यज्ञो रिच्यते ॥ २४ ॥

इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे द्वितीयः प्रपाठकः ॥