सामग्री पर जाएँ

पैप्पलादसंहिता/काण्डम् ०१

विकिस्रोतः तः

अथर्वण वेदः पैप्पलादसंहिता

अथ चतुर्चोनाम प्रथमकाण्ड
१- १
शं नो देवीरभिष्टय आपो भवन्तु पीतये ।
शं योरभि स्रवन्तु नः ।। १ ।।
आपः पृणीत भेषजं वरूथं तन्वे मम ।
ज्योक् च सूर्यं दृशे ।।२।।
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
अग्निं च विश्वशंभुवम् ।।३ ।।
ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।
अपो याचामि भेषजम् ।।४।।

१.२
अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।
पृञ्चतीर्मधुना पयः ।। १ ।।
अमूर्या उप सूर्ये याभिर्वा सूर्य: सह ।
ता नो हिन्वन्त्वध्वरम् ।।।।
अपो देवीरुप बुवे यत्र गावः पिबन्ति नः ।
सिन्धुभ्यः कर्त्वं हविः ।।३ ।।
अप्स्वन्तरमृतमप्सु भेषजम् ।
अपामुत प्रशस्तिष्वश्वा भवथ वाजिन: !I४ ।
1.3
विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम् । तु. शौ.सं. १.२
विद्मो ह्यस्य मातरं पृथिवीं विश्वधायसम् ।।१।।
ज्यायके परि णो नमाश्मा भवत नस्तनू: ।
विरुड्विहि वरीयोऽरातीरप द्वेषांस्या कृधि ।२। (पा. वीड्विहि)
वृक्षं यद् गाव: परिषस्वजाना अनस्फुरं शरमर्च्यन्त्यृभुम् ।
शरमस्मद् यावय दिद्युमिन्द्र शं नो भवन्त्वप ओषधीरिमाः ।। ३ ।।
इन्द्रस्य वज्रो अप हन्तु रक्षस आराद् विसृष्टा इषवः पतन्त्वस्मत् ।।४ ।।
1.4
विद्म ते शर पितरं पर्जन्यं भूरिरेतसम्
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ।१। तु. शौ.सं. १.२
विद्म ते शर पितरं इन्द्रं भूरिरेतसम्
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ।२।
विद्म ते शर पितरं वरुणं भूरिरेतसम्
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ।३।
विद्म ते शर पितरं चन्द्रं भूरिरेतसम्
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ।।४।।
विद्म ते शर पितरं सूर्यं भूरिरेतसम्
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ।।५।।
यदान्त्रेषु गवीन्योर्यद् वस्तावधि संश्रुतम् । ।
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ।।६।।
प्र ते भिनद्मि मेहनं वर्त्तं वेशन्त्या इव।
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति । ७ ! !
यथेषुका परापतदवसृष्टाधि धन्वन: ।
एवा ते मूत्रमुच्यतां बहिर्बालिति सर्वकम् ।।८।।
1.5
वषट् ते पूषन्नस्यै सुवृत्तिमर्यमा होता कृणोतु वेधाः ।
सिस्रतां नार्युत प्रदाता वि पर्वाणि जिहतां सूतवा उ ।१।
चतस्रो दिशः प्रदिशश्चतस्रो भूम्या उत ।
देवा गर्भं समैरयन् ते व्यूर्णुवन्तु सूतवे ।२।
सुष्टा व्यूर्णोतु वि योनिं हापयामसि ।
श्रथया सूषणे त्वमव त्वं बिष्कले सृज ।३।
नेव स्नावसु न पर्वसु न केशेषु नखेषु च ।
अवैतु पृश्नि शेवलं शुने जराय्वत्तवे ।।४।।
नेव मांसे न पीवसि नेव कस्मिंश्चनायत्तम् !
अव जरायु पद्यताम् ।।५ । ।
(इति चतुर्चनाम प्रथमकाण्डे प्रथमो अनुवाक:)


1.6
ये त्रिषप्ता: पर्यन्ति विश्वा रूपाणि बिभ्रत: । तु. शौ.सं. १.१]]
वाचस्पतिर्बला तेषां तन्वमध्या दधातु मे । । १ । । पा. तन्वमद्य/तन्वमध्य
उप न एहि वाचस्पते देवेन मनसा सह ।
असोष्पते नि रमय मय्येव तन्वं मम । २ । ।
इहैवाभि वि तनूभे आर्त्नी इव ज्यया ।
वाचस्पतिर्नि यच्छतु मय्येव तन्वं मम ।३।
उपहूतो वाचस्पतिरुपहूतोऽहं वाचस्पत्यु: ।
सं श्रुतेन राधिषीय मा श्रुतेन वि राधिषि ।।४।।

1.7
दिव्यो गन्धर्वो भुवनस्य यस्पतिरेकायुवो नमसा विक्ष्वीड्यः । तु. शौ.सं.२.२
तं त्वा यौमि ब्रह्मणा देव दिव्य नमस्ते अस्तु दिवि ते सधस्थम्।। १ ।।
दिव स्पृष्टो यजत: सूर्यत्वगवयाता हरसो दैव्यस्य ।
एकायुवो नमसा सुशेवो मृडाद् गन्धर्वो भुवनस्य यस्पतिः । ।२ ।।
अनवद्याभिः समु जग्म आभिरप्सराभिरपि गन्धर्व आसु ।
समुद्र आसां सदनं म आहुर्यतः सद्य आ च परा च यन्ति ।।३।।
अभ्रिये दिद्युन्नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे ।
ताभ्यो वो देवीर्नम इत् कृणोमि ।।४।।
याः क्लन्दास्तमिषीचयो अक्षकामा मनोमुह: ।
ताभ्यो गन्धर्वपत्नीभ्यो अप्सराभ्योऽकरं नमः ।।५ ।।
1.8
अमुष्मादधि पर्वतादवत्कमसि भेषजम् । तु. शौ.सं. २.३
भेषजं सुभेषजं यत्ते कृणोमि भेषजम् ।। १ ।।
आदङ्गा कुविदङ्गा शतं यद् भेषजानि ते सहस्रं वा घ यानि ते।
तेषामसि त्वमुत्तममनास्रावमरोगणम् ।।२ । ।
अरुस्यानमिदं महत् पृथिव्या अध्युद्भृतम्।
तदास्रावस्य भेषजं तदु रोगमनीनशत्।।३।।
उपजीका उद्भरन्ति समुद्रादधि भेषजम्।
अरुस्यानमस्याथर्वणं रोगस्थानमस्याथर्वणम्।।४।।
१-९ – 1.9
अयं देवानामसुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः । तु. शौ.सं. १.१०
ततस्परि ब्रह्मणा शाशदान उग्रस्य मन्योरुदिमं नयामि । १ ।।
नमस्ते राजन् वरुणास्तु मन्यवे विश्वं हि देव निचिकेषि दुग्धम्।
शतं सहस्त्रं प्र सुवाम्यन्यानयं नो जीवं शरदो व्यापेत्।।२।।
यदुवक्थानृतं जिह्वया वृजिनं बहु ।
राज्ञस्त्वा सत्य धर्मणो मुञ्चामि वरुणादहम् ।।३।।
अमुञ्चं त्वा वैश्वानरादर्णवान् महतस्परि ।
सञ्जातानुग्र आा वद ब्रह्म चाप चकीहि नः ।। ४ । ।
1.10
सीसायान्वाह वरुणः सीसायाग्निरुपावति । तु. शौ.सं. १.१५
सीसं म इन्द्र: प्रायच्छदमीवायास्तु चातनम् ।। १ ।।
इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः।
अनेन विश्वा सासहै या जातानि पिशाच्याः।।२।।
ये ऽमावास्यां रात्रिमुदस्थुर्भ्राजमत्त्रिणः।
अग्निस्तुरीयो यातुहा स उ नः पातु तेभ्यः।।३।।
यदि हंस्यश्वं यदि गां यदि पूरुषम् ।
सीसेन विध्यामस्त्वा यथा नोसो अवीरहा ।।४।।
(ड्रति चतुर्चनामप्रथमकाण्डे द्वितीयोऽनुवाक:)
1.11
अभीवर्तेन मणिना येनेन्द्रो अभिवावृते । तु. शौ.सं १.२९
तेनेमं ब्रह्मणस्पते अभि राष्ट्राय वर्तय ।१।
अभिवृत्य सपत्नाभि या नो अरातयः ।
अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ।२।
अभि त्वा देवः सविताभि सोमो अवीवृतत् ।
अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ।३।
उदसौ सूर्ये अगादुदिदं मामकं वचः ।
यथाहं शत्रुहासान्यसपत्न: सपत्नहा ।। ४ ।।
सपत्नक्षयणो वृषाभिराष्ट्रो विषासहि: ।
यथाहमेषां वीराणां विराजानि जनस्य च ।।५।।
1.12
१ - १२
तुभ्यमेव जरिमन् वर्धतामयं मैनमन्ये मृत्यवो हिंसिषुस्त्वत् । तु. शौ. २.२८
मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्र्यात् पात्वंहसः ।। १ ।।
मित्रश्ध त्वा वरुणश्च रिशादी जरांमृत्युं कृष्णुतां संविदानौ ।
तदग्निर्होता वयुनानि विद्वान् विश्वानि देवो जनिमा विवक्तु । ।२ ।।
द्यौष्टे पिता पृथिवी माता जरांमृत्युं कृणुतां दीर्घमायुः ।
यथा जीवा अदित्या उपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ।।३।।
त्वमीशिषे पशूनां पार्थिवानां ये जाता उत ये जनित्वा ।
मेमं प्राण हासीन्मो अपानो मैनं मित्रा वधिषुर्मो अमित्राः ।। ४ । ।
1.13
इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिरुग्रः प्रयतो न आगन् । तु. शौ.सं २.२९
एतं वां द्यावापृथिवी परि ददामि स मा तृषत् स मा क्षुधत्।। १ ।।
ऊर्जमस्मा ऊर्जस्वती धत्तं पयो ऽस्मै पयस्वती धत्तम् ।
ऊर्जमस्मै द्यावापृथिवी अधातां विश्वे देवा मरुत ऊर्जमाप:।।२।।
शिवा अस्य हृदयं तर्पयन्त्वनमीवो मोदमानश्चरेह ।
सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् ।३।
तस्य पातारं सचतां पुरीषमूर्जा स्वधा सचतामेतमेषा ।
इन्द्र एतां ससृजे विद्धो अग्र ऊर्जा स्वधामजरां सा त एषा ।
तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद्भिषजस्ते अक्रन् ।।४।।
1.14
विश्वे देवासो अभि रक्षतेममुतादित्या जागृत यूयमस्मिन् । । तु. शौ.सं. १.३०
मेमं समान उत वान्यनाभिर्मेमं प्रापत् पौरुषेयो वधो यः ।।१।।
ये वो देवाः पितरो ये च पुत्राः सचेतसो मे शृणुतेदमुक्तम् ।
सर्वेभ्यो वः परि ददाम्येतं त एनं स्वस्ति जरसे नयाथ ।२।
ये देवा दिवि ष्ठ ये पृथिव्यां ये अन्तरिक्ष औषधीष्वप्सु।
ते कृणुत जरसमायुरस्मै शतमन्यान् परि वृणक्त मृत्यून् ।।३।।
येषां प्रयाजा उत वानुयाजा हुतभागा हुतादश्च देवाः ।
येषां वः पञ्च प्रदिशो विभक्तास्तां वो अस्मै सत्रसदः कृणोमि ।। ४ ।।
१-१५ 1.15
अहं ते भगमा ददेऽधि शीर्ष्ण इव स्रजम्। तु. शौ.सं. १.१४
महामूल इव पर्वतो ज्योक् पितृष्वासासै ।१।
इयं ते राजन् कन्या वधूर्नि धूयते यमः ।
सा मातुर्बध्यतां गृहेऽथो भ्रातुरथो पितुः । ।२ । ।
इयं ते केतपा राजनिमां ते परि दध्मसि ।
ज्योक् पितृष्वासाता आ शीर्ष्णः समोप्यात् ।। ३ ।।
असितस्य ब्रह्मणा कश्यपस्य गयस्य च ।
अन्तः कोशमिव जामयोऽपि नह्यामि ते भगम् ।।४।।
(इति चतुर्चनामप्रथमकाण्डे तृतीयोऽनुवाक:)
१-१६ 1.16
नक्तं जातास्योषधे रामे कृष्णे असिक्नि च । तु. [[अथर्ववेदः/अथर्ववेद: काण्डं 1|शौ.सं. १.२३
इदं रजनि रजय किलासं पलितं च यत् ।।१।।
किलासं च पलितं च निरितो नाशया पृषत् ।
आा त्वा स्वो अश्नुतां वर्णः परा श्वेतानि पातय ।। २ ।।
असितं ते प्रलयनमास्थानमसितं तव ।
असिक्न्यस्योषधे निरितो नाशया पृषत् ।। ३ ।।
अस्थिजस्य किलासस्य तनूजस्य च यत्त्वचि ।
दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतमनीनशम् ।।४।।
1.17
जरायुज: प्रथम उस्त्रियो वृषा वातभ्रजा स्तनयन्नेति वृष्ट्या । तु. शौ.सं. १.१२
स नो मृडाति तन्व ऋजुगो रुजन् य एकमोजस्त्रेधा विचक्रे ।।१ ।।
अङ्गेअङ्गे शोचिषा शिश्रियाणो यो अग्रभीत् परुरस्य ग्रभीता ।
अङ्गं समङ्गं हविषा यजामि हृदि श्रितो मनसा यो जजान।।२।।
मुञ्चामि शीर्षक्त्या उत काम एनं परुस्परुराविवेश यो अस्य ।
यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन् सचतां पर्वतांश्च।३।
शं ते परस्मै गात्राय शमस्त्ववराय ते ।
शं ते पृष्टिभ्यो मज्जभ्य: शमस्तु तन्वे तव ।।४।।
1.18
आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीमुस्रियाभिः । तु. शौ.सं. ३.८
तदस्मभ्यं वरुणो वायुरग्निर्बृहद्राष्ट्रं संवेश्यं दधातु ।। १ ।।
धाता मित्रो वरुणो देवो अग्निरिन्द्रस्त्वष्टा प्रति गृह्णन्तु मे वचः ।
हुवे देवीमदितिं शूरपुत्रां सजातानां मध्यमेष्ठा स्यामहम् ।।२ । ।
हुवे सोमं सवितारं नमोभिर्विश्वान् देवाङ् अहमुत्तरत्वे ।
अयमग्निर्दीदायदाह्नमेव सजातैरिद्धो अप्रतिब्रुवद्भिः ।। ३ ।।
इहेदसाथ न पुरो गमाथेर्यो गोपाः पुष्टपतिर्व आजत् ।
अस्मै व: कामायोप कामिनीर्विश्वे वो देवा उप संद्यामिह।४।।
१-१९ 1.19
अस्मिन् वसु वसवो धारयन्त्विन्द्रस्त्वष्टा वरुणो मित्रो अग्निः । तु. शौ.सं. १.९
इममादित्या उत विश्वे च देवा उत्तमे देवा ज्योतिषि धारयन्तु ।। १ ।।
अस्मै देवाः प्रदिशज्ज्योतिरस्तु सूर्यो अग्निरुत वा हिरण्यम् ।
उत्तरेण ब्रह्मणा वि भाहि कृण्वानो अन्यानधरान् सपत्नान् ।२।
येनेन्द्राय समभरं पयांस्युत्तरेण ब्रह्मणा जातवेदः ।
तेन त्वमग्न इह वर्धयेमं रायस्पोषं श्रैष्ठ्यमा धेह्यस्मै ।। ३ ।।
ऐषां यज्ञमुत वर्चो भरेहं रायस्पोषमुत वित्तान्यग्ने ।
सपत्ना अस्मदधरे भवन्तूत्तमे देवा ज्योतिषि धत्तनेमम् ।। ४ ।।

1.20
मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन्। तु. शौ.सं. १.१९
आराच्छरव्या अस्मद् विषूचीरिन्द्र पातय ।। १ ।।
विष्वञ्चो अस्मच्छरव: पतन्तु ये अस्ता ये चास्याः ।
देवा मनुष्या ऋषयोमित्रान्नो वि विध्यत ।।२ ।।
यः समानो योसमानोमित्रो नो जिघांसति ।
रुद्र: शरव्यया तानमित्रान्नो वि विध्यतु । ३ । ।
सबन्धुश्चासबन्धुश्च यो न इन्द्राभिदासति ।
देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ।। ४ ।।
(इति चतुर्चनामप्रथमकाण्डे चतुर्थो ऽनुवाकः) ।
1.21
नासन्न सन् स्वयं स्रसन्नसतीभ्यो असत्तराः । तु. शौ.सं. ६.८३
सेहोररसतरा लवणाद्विक्लेदीयसी: ।१।
अपचित: प्र पततः सुपर्णो वसतेरिव ।
सूर्यः कृणोतु भेषजं चन्द्रमा वोपोच्छतु । ।२ । ।
एन्येका श्येन्येका कृष्णैका रोहिणी द्वे ।
सर्वासामग्रभं नामावीरघ्नीरपेतन ।।३।।
असूतिका रामायण्यपचित् प्र पतिष्यति ।
ग्लौरित: प्र पतिष्यति स गलन्तो न शिष्यति ।।४।।
अपेतो अपचित्वरीरिन्द्रः पूषा च चिक्यतुः ।
अपेत्वस्य ग्रीवाभ्यो अप पद्भ्यां विजामतः ।। ५ । ।
१- २२ 1.22
आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्य: । तु. शौ.सं. १.३१
इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ।। १ ।
य आशानामाशापालाश्चत्वार स्थन देवाः ।
ते नो निर्ऋत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ।२ ।।
अश्लोणस्ते हविषा विधेयमस्रामस्ते घृतेना जुहोमि ।
य आशानामाशापालस्तुरीयो देवः स नः सुभूतमेह वक्षत् ।। ३ ।।
स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्य उत पूरुषेभ्य: ।
विश्वं सुभूतं सुविदत्रमस्तु नो ज्योगेव दृशेम सूर्यम् ।। ४ ।।
1.23
इदं जनासो विदथं महद् ब्रह्म वदिष्यति । तु. शौ.सं. १.३२
न तत् पृथिव्यां नो दिवि यतः प्राणन्ति वीरुधः ।१ । ।
अन्तरिक्षे समहासां स्थानं श्रान्तसदामवि।
आस्थानमस्य भूतस्य विदुष्टद्वेधसो जनाः । ।२ । ।
यद्रोदसी रेजमाने भूमिश्च निरतक्षताम् ।
आर्द्रं तदद्य सर्वदा भिदुरस्येव वर्तसी ।। ३ ।।
विश्वमन्याभि ववार विश्वमन्यस्यामधि श्रितम् ।
दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः ।।४।।
1.24
सं सं स्रवन्तु सिन्धवः सं वाता दिव्या उत । तु. शौ.सं. १.१५
तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ।। १ ।।
ये संस्रावा: संस्रवन्ति क्षीरस्य चोदकस्य च ।
तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ।। २ ।।
ये नदीभ्यः संस्रवन्त्युत्सासः सदमक्षिताः ।
तेभिर्मे सर्वै: संस्रावैर्धनं सं स्रावयामसि ।। ३ ।।
इदं हव्या उपेतनेदं संस्रावणा उत ।
इहैतु सर्वो यः पशुरस्य वर्धयता रयिम् ।।४।।
1.25
हिरण्यवर्ण्णाः शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः । तु. शौ.सं. १.३३
या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु । ।१ ।।
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् ।
या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ।। २ ।।
यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति ।
या अग्निं गर्भ दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ।। ३ ।।
शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ।
घृतश्चुतः शुचयो या: पावकास्ता न आपः शं स्योना भवन्तु ।।४।।
(इति चतुर्चनामप्रथमकाण्डे पञ्चमो ऽनुवाकः)
1.26
सुपर्णो जात: प्रथमस्तस्य त्वं पित्तमासिथ । तु. शौ.सं. १.२४
तदासुरी युधा जीता रूपं चक्रे वनस्पतीन ।१।
आसुरी चक्रे प्रथमेदं किलासभेषजमिदं किलासनाशनम्।
अनीनशत् किलासं सरूपामकरत्त्वचम्।।२।।
सरूपा नाम ते माता सरूपो नाम ते पिता ।
सरूप कृत्त्वमोषधे सा सरूपमिदं कृधि ।३।
यत्तनूजं यदग्निजं चित्रं किलासं जज्ञिषे ।
तदस्तु सुत्वक् तन्वो यतस्त्वाप नयामसि ।।४।।
श्यामा सरूपंकरणी पृथिव्या अध्युद्भृता ।
इदमू षु प्र साधय पुना रूपाणि कल्पय ।।५ ।।
1.27
अभयं सोमः सविता कृणोत्वभयं द्यावापृथिवी उभे । तु. शौ.सं. ६.४०
अभयं स्वरन्तरिक्षं नो अस्तु सप्तऋषीणां हविषाभयं नोऽस्तु ।।१ ।।
अभयं द्यावापृथिवी इहास्तु नो अग्निनामित्रान् प्रत्योषत प्रतीचः ।
मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ।।२ ।।
पञ्च देवा अभयस्येशत इन्द्रस्त्वष्टा वरुणो मित्रो अग्निः ।
मायं ग्रामो दुरितमेन आारदन्यत्र राज्ञामभि यात मन्युः । । ३ । ।
अस्मै ग्रामाय प्रदिशश्चतस्र ऊर्जं सुभूतं सविता दधातु ।
अशत्रुमिन्द्रो अभयं कृणोतु मध्ये च विशां सुकृते स्याम ।। ४ । ।
1.28
अनु सूर्यमुदयतां हृदद्योतो हरिमा च ते । तु. शौ.सं. १.२२
यो रोहितस्य गोर्वर्णस्तेन त्वा परि दध्मसि । । १ ।
परि त्वा रोहितैर्वर्णैर्दीर्घायुत्वाय दध्मसि।
यथा त्वमरपा असो अथोहरितो भव ।२।
या रोहिणीर्देवपत्या गावो या रोहिणीरुत ।
रूपंरूपं वयोवयस्तेन त्वा परि दध्मसि । ३ ।।
शुकेषु ते हरिमाणं प्रपणाकासु दध्मसि ।।
अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि ।। ४ ।।
१-२९ 1.29
याः पुरस्तादाचरन्ति नीचैः सूर्यादथो दिवः ।
एतमप्सरसां व्रातं ब्रह्मणाच्छा वदामसि । ।१ ।।
या अधरादाचरन्ति जिह्मा मुखा करिक्रती: ।
आहता अप ता हतो नश्यन्त्वतश्चिन्वतीः ।।२ । ।
याः कुल्या या वन्या या उ चोन्मादयिष्णवः ।
सर्वास्ता मृश्मशाकरं दृषदा खल्वाङ् इव ।३।
चेतन्तीमश्मलां पत्नां तासां वो नमो अर्चिषे ।
आराद्यक्ष्मं नि धत्तास्मान्नो अधि पूरुषात् ॥४ ।।
1.30
कामस्तदग्रे समवर्तत मनसो रेतः प्रथमं यदासीत् । तु. शौ.सं. १९.५२
स काम कामेन बृहता सयोनी रायस्योषं यजमानाय धेहि।। १ ।।
त्वं काम सहसासि प्रतिष्ठितो विभुर्विभाव सुषखा सखीयते।
त्वमुग्रः पृतनासु सासहिः सह ओजो यजमानाय धेहि ।। २ ।।
दूराच्चकमानाय प्रविपाणायाक्षये ॥
आस्मा अशृण्वन्नाशा: कामेन माजनयत् स्व: ।३।
कामेन मा काम आगन् हृदयाद्धृदयं परि ।
यदमीषामदो मनस्तदैतूप ममिह ।।४।।
यत् काम कामयमाना इदं कृण्मसि ते हवि: ।
तन्नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा । ५ ।
क इदं कस्मा अदात् कामः कामयादात् ।
कामो दाता काम: प्रतिग्रहीता कामः समुद्रमा विवेश ।
कामेन त्वा प्रति गृह्णामि कामैतत्ते ।।६।।
(इति चतुर्चनामप्रथमकाण्डे षष्ठो ऽनुवाक:)
१-३१ 1.31
इमं मे कुष्ठ पूरु। तमा वह तं निष्कृधि । तु. [[अथर्ववेदः/अथर्ववेद: काण्डं 5|शौ.सं. ५.४
तमु मे अगदं कृधि ।१।
उदग् जातो हिमवतः स प्राच्यां नीयसे जनम् ।
तत्र कुष्ठस्य नामान्युत्तमानि वि भेजिरे ।२।
उत्तमो नामास्युत्तमो नाम ते पिता ।
यत: कुष्ठ प्रजायसे तत एह्यरिष्टतातये ।।३।।
शीर्षहत्यामुपहत्यामक्ष्योस्तन्वो रपः ।
कुष्ठो नो विश्वतस्पातु दैवं समह वृष्ण्यम् ।।४।।
1.32
यदग्निरापो अदहत् प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि । तु. शौ.सं. १.२५
तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्धि तक्मन् ।। १ ।।
यदि शोको यद्यभीशोको रुद्रस्य प्राणो यदि वारुणोऽसि ।
हुडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्धि तक्मन् ।। २ ।।
यद्यर्चिर्यदि वासि धूम: शाकल्येषु यदि वा ते जनित्रम् ।
हुडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्धि तक्मन् ।। ३ ।।
नम: शीताय तक्मने नमो रूराय कृण्मो वयं ते ।
योन्येद्युरुभयद्युश्चरन्ति तृतीयकाय नमो अस्तु तक्मने ।। ४ । ।
तृतीयकं वितृतीयं सदन्दिमुत हायनम्।
तक्मानं विश्वशारदं ग्रैष्मं नाशय वार्षिकम्।।५।।
1.33
आपो अद्यान्वचारिषं रसेन समसृक्ष्महि। तु. शौ.सं. ७.८९
पयस्वानग्न आगमं तं मा सं सृज वर्चसा।।१।।
सं माग्ने वर्चसा सृज प्रजया च बहुं कृधि।
विद्युर्मे अस्य देवा इन्द्रो विद्यात् सहर्षिभिः।।२।।
इदमापः प्रवहतावद्यं च मलं च यत्।
यच्च दुद्रोहानृतं यच्च शेपे अभीरुकम्।।३।।
शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे।
शिवानग्नीनप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः।।४।।
यदापो नक्तं मिथुनं चचार यद्वा दुद्रोह दुरितं पुराणम्।
हिरण्यवर्णास्तत उत् पुनन्तु मा प्र मा मुञ्चन्तु वरुणस्य पाशात्।।५।।
1.34
अग्निर्जनविन् मह्यं जायामिमामदात्।।१।।
सोमो वसुविन् मह्यं जायामिमामदात्।।२।।
पूषा ज्ञातिविन् मह्यं जायामिमामदात्।।३।।
इन्द्रः सहीयान् मह्यं जायामिमामदात्।।४।।
1.35
अग्ने जनविदे स्वाहा।।१।।
सोमाय वसुविदे स्वाहा।।२।।
पूष्णे ज्ञातिविदे स्वाहा।।३।।
इन्द्राय सहीयसे स्वाहा।।४।।
(इति चतुर्चनाम प्रथमकाण्डे सप्तमो अनुवाकः)
1.36
याः पुरस्तादाचरन्ति या वा पश्चात् सदान्वाः।
अश्मानमृच्छन्तीर्यन्तु योयं स्वादावनाद्यः।।१।।
या अधरादाचरन्त्युत्तराद् वा सदान्वाः।
अश्मानमृच्छन्तीर्यन्तु योयं स्वादावनाद्यः।।२।।
याः पश्चादाचरन्ति पुरस्ताद् वा सदान्वाः।
अश्मानमृच्छन्तीर्यन्तु योयं स्वादावनाद्यः।।३।।
या उत्तरादाचरन्त्यधराद् वा सदान्वाः।
अश्मानमृच्छन्तीर्यन्तु योयं स्वादावनाद्यः।।४।।
1.37
उभयीरहमायता: पराचीरकरं त्वत् । तु. शौ.सं. ६.९
देवेभिरन्या अस्ता बह्वीरन्या अथो दिवम् ।।१ । ।
नमस्ते रुद्रास्यते नम: प्रतिहिताभ्य: ।
नमो विसृज्यमानाभ्यो नमो निपतिताभ्य: ।२।
हिरण्ययीर्म उल्बण्यः षट् सहस्राणि षट् शता ।
ताभिः परि श्रयामहे ता नो रक्षन्तु सर्वतः ।। ३ ।।
बह्विदमन्यद्विष्ठितं तस्य कामं वि विध्यत ।
अयस्मयं मे विमितं युष्मभ्यं महत् कृतं नमसा नमसेन्यम् ।
तेना परि श्रयामहे तन्नो रक्षतु सर्वतः ।।४।।
अयस्मयं वर्म कृण्वे द्वारं कृण्वे अयस्मयम् ।
खीलानयस्मयान् कृण्वे ते नो रक्षन्तु सर्वतः ।
बह्वीदमन्यद्विष्ठितं तस्य कामं वि विध्यत ।५।।
1.38
इमा यास्तिस्र: पृथिवीस्तासां ह भूमिरुत्तमा । तु. [[अथर्ववेदः/अथर्ववेद: काण्डं 6|शौ.सं. ६.२१
तासामधि त्वचो अहं समु जग्रभ भेषजम् ।।१ ।।
श्रेष्ठमसि वैरुधानां वसिष्ठं भेषजानाम् ।
यज्ञो भग इव यामेषु देवेषु वरुणो यथा ।।२ । ।
रेवतीरनाधृष्टा: सिषासन्तीः सिषासथ ।
एता स्थ: केशवर्धनीरथो स्थ केशदृंहणी: ।३।
दृंह मूलमाग्रं यच्छ विमध्यं यमयौषधे ।
केशवर्धनमस्याथर्वणं केशदृहणमस्याथर्वणम् ।। ४ ।।
1.39
अग्ने गोभिर्न आ गहीन्दो रय्या सचस्व नः । l तु. शौ.सं. ७.१७
इन्द्रो धर्ता गृहेषु न: । । १ ।।
सविता य: सहस्रिय: स नो गृहेषु रण्यतु ।
आ पुष्टमेत्वा वसु ।२।
त्वष्टा यो वृषभो युवा स नो गृहेषु रारणत्।
सहस्त्रेण शतेन च । ३ । ।
धाता दधातु नो रयिमीशानो जगतस्पतिः ।
स नः पूर्णेन यच्छतु ।।४।।
1.40
ममोभा मित्रावरुणा ममोभेन्द्राबृहस्पती ।
मम त्वष्टा च पूषा च ममैव सविता वशे ।।१ । ।
मम विष्णुश्च सोमश्च ममैव मरुतो भुवन् ।
सरस्वांश्च भगश्च विश्वे देवा वशे मम ।२।
ममोभे द्यावापृथिवी अन्तरिक्ष स्वर्मम ।
ममेमा: सर्वा ओषधीराप: सर्वा वशे मम ।।३।।
मम गावो ममाश्वा ममाजाश्चावयश्च ममैव पुरुषा भुवन् ।
ममेदं सर्वामात्मन्वदेजत् प्राणद् वशे मम ।।४।।
मह्यमाप मधुमतेरयन्त मह्यं सूर्यो अभरो ज्योतिषाकम् ।
मह्यं देवा उत विश्वे तपोजा मह्यं देवः सविता व्यचोधात् ।।५।।
(इति चतुर्चनामप्रथमकाण्डे अष्टमो ऽनुवाकः)
1.41
अग्नेभ्यावर्तिन्नभि न आ ववृत्स्व ।
आयुषा वर्चसा सन्या मेधया प्रजया धनेन । । १ ।।
अग्ने जातवेद: शतं ते सन्त्वावृतः सहस्रं त उपावृतः ।
अधा पुष्टस्येशानः पुनर्नो रयिमा कृधि ।।२।।
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।
विश्वप्स्न्या विश्वतस्परि ।३।
पुनरूर्जा ववृत्स्व पुनरग्ने विशायुषा ।
पुनर्नः पाह्यंहसः ।।४।।
1.42
या: सेना अभीत्वरीराव्याधिनीरुगणा उत ।
यस्तेनो यश्च तस्करस्तांस्ते अग्नेपि दधाम्यासनि ।१।
जम्भैर्मलिम्लूनग्ने दंष्ट्राभ्यां तस्करानुत ।
हनूभ्यां स्तेनान् मघवन्तांस्त्वं खाद सुखादितान् ।२।
ये ग्रामेषु मलिम्लुच स्तेनासस्तस्करा वने ।
ये कक्षेष्वघायवस्तांस्तेऽग्नेपि दधाम्यासनि ।। ३ ।।
यो अस्मभ्यमरातीयाद् यश्च नो द्वेषदिज्जनः ।
आमाद: क्रव्यादो तिपूंस्तानग्ने सं दहा त्वम् ।।४।।
1.43
आ क्रन्दय धनपते उदेनमर्दयामुतः ।
अर्वाञ्चं पुनरा कृधि यथाहं कामये तथा ।१।
परिसर्त: परि धावाकर्तः पुनरा कृधि
अथो म इन्द्रश्चाग्निश्चामुमा नयतादिह ।।२ । ।
एकार्क एककामाय यस्मै कामाय खायसे ।
तेन मे विश्वधावीर्यामुमा नयतादिह ।३।
यत्र यत्र चरन्तं न्यग्रैगभि सूर्यः ।
ततो मे पथ्ये रेवत्यमुमा नयतादिह ।।४।।
1.44
असितस्य तैमातस्य बभ्रोरपोदकस्य च । तु. शौ.सं. ५.१३
सर्वा विषस्य धामान्युद्नेवाग्निमवीवरे ।१।
इषीकादन्त दूळभ किं मे सखायमा तुदः ।।
न मामपश्यआागतं सतीनं विषदूषणम् ।।२ ! 1
यत्तालव्ये दति संसिसिक्षे विषं त्वम् ।
त्रयस्तुदा रुजामसि बभ्रुवो नकुलस्त्वत् । ।३ ।।
त्रयो वै स्म: सखायो बभ्रुवो नकुलस्त्वत् ।
ते सर्वे अप्यपातयन्नाहेयमरसं विषम् ।।४।।
1.45
सारस्वतं वृषणं बभ्रुवक्षं शीतरूरे तन्वावस्य भीमे !
अन्येद्युकं सदन्दिं त्वा तृतीयक हुवे नमस्यं सहदेवमप्सुजम् ।।१।।
यो अप्सुजो अरुणो मानुषे जने विवेश बभ्रुर्हर्षयिष्णुरक्षितः ।
शीतरूराय तर्षयिष्णवे जुगुशीर्षसावये शं नमो अस्तु देवाः ।। २ ।। ।
यो हर्यञ्जञ्जभः स्वेदनो वशी वशः प्रारः शीतरूराशीषे मनून् ।
सो अस्मभ्यं मृडयन् प्रेहि संसितो यं वयं द्विष्मस्तमभिप्रजानन् ।। ३ ।।
नमस्ते विद्म ते कासनायनं यतोयतः सुरभे सं बभूविथ ।
स नो मा हिंसीर्नमो अस्तु तुभ्यं शीर्षक्त्यायस्मादिह पारया नः ।।४।।
(इति चतुर्चनामप्रथमकाण्डे नवमो ऽनुवाकः)
1.46
अस्य त्वं ददतः सोम राजन् वर्मेव तन्वं परि पाहि विश्वत: ।
यो ब्रह्मणे राधो विद्धो ददाति तस्य सोम प्र तिर दीर्घमायुः ।।१ । ।
अस्य सोम प्र तिर दीर्घमायुरहानीव सूर्यो वासराणि ।
मास्या सुस्रोन्नाशया व्यघ्मनो विषं बहिः शल्यश्चरतु रोगो अस्मात्।। २ ।।
दानं तृष्णाया: परि पातु विद्धं दानं क्षुधो दानविदेव मृत्योः ।
अविष्कन्धो भवतु यो ददात्या प्यायते पपुरिर्दक्षिणया ।३।
आ प्यायतां पपुरिर्दक्षिणया वर्मेव स्यूतं परि पाहि विश्वत: ।
बहिर्विषं तन्वो अस्त्वस्य स्रंसतां शल्यो अध्यारे अस्मात् ।। ४ । ।
ब्रह्मा शरव्यामप बाधतामितो नद्याः कूलान्नावमिवाधि शम्बी ।
तस्मै दद दीर्घमायुष्कृणुष्व शतं च न: शरदो जीवतादिह ।। ५ ।।
यदा ददाति प्रददाति यदा ब्रह्मा प्रति गृह्णाति राधो अस्य ।
आदिद्विद्यादुपहत्याराति: सर्वे यक्ष्मा अप तिष्ठन्तु साकम् ।।६।।
1.47
व्याघ्ररूप: सुरभिः सिंहस्य रेतसा कृत ।
मध्ये पृथिव्या निष्ठितं समाख्यद् यातुधान्यः ।। १ ।।
अभि प्रेहि माप विक्था: पदे गृभाय मापदे।
अत्रैव सर्वा जम्भय या: काश्च यातुधान्य: ।।२ । ।
प्रतीबोधश्चतुरक्षः स्रक्त्यापे अस्मेव वीडुभित्।
प्रतीचीः कृत्या आकृत्यामुं कृत्याकृतं जहि।।३।।
कृत्याकृतं वलगिनं मूलिनं शपथेय्यम्।
इन्द्रस्तु सर्वांस्तान् हन्तु सप्तघ्नेन रुवामिव।।४।।
1.48
अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः। तु. शौ.सं. ७.५६.५
विषं हि सर्वमादिष्यथो एनमजीजभम् ।॥१ ।।
न ते बाह्वोरसो अस्ति न शीर्षे नोत मध्यतः ।
किमिदं पापयामुया पुच्छे बिभर्ष्यर्भकम् ।।२।।
यत्तेस्कन्धानुपतस्थौ विजान्मि यच्च ते परौ ।
अपमित्यमिवाभृतं मलं ते प्रति दध्मसि ।। ३ ।।
अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः ।
सर्वे भल ब्रवाथ शार्कोटमरसं विषम् ।।४।।
१-४९ 1.49
कृतं मे दक्षिणे हस्ते सव्ये मे जय आहित । तु. शौ.सं ७.५०
गोजिद्भूयासमश्वजित् कृतञ्जयो हिरण्यजित् ।।१।।
अक्षाः फलवतीं दिवं दत्त गां क्षीरिणीमिव ।।
सं मा कृतस्य धारया धनुः स्नाव्नेव नह्यत ।। }२ ।।
उभौ हस्तौ प्रतिदीव्नो ब्रह्मणापोम्भामसि ।
कलिरेनं यथा हनदास्य वेदो भरामहै ।३।
आ भद्रं द्वापरमुत त्रेतां परा कलिम् ।
कृतं मे हस्त आहितं स हि सौमनसो महान् ।। ४ । ।
1.50
यदेयथ परेयथ यत् त एतन् मन ईयते । ।
ततस्त्वा पुनरर्वाञ्चं भूतस्याजीगमत् पतिः ।॥१ ।।
आा त्वा नयाद्भूतपतिरा देवो बृहस्पतिः ।
आदित्याः सर्वे त्वा नेषन् विश्वे देवाः सुवर्चसः ।२ । ।
अनुमति: सरस्वती भगो राजान्या नयात् ।
शाला मानस्य पत्नीहैवास्य मनस्करत् ।३।
यस्त्वा निनानयकः स उ त्वेहा नयात् पुनः ।
मनो हि ब्रह्माणो विदुर्विश्वकर्मा मनीषिणः ।। ४ ।।
(ड्रति चतुर्चनामप्रथमकाण्डे दशमोऽनुवाकः)

1.51
गातो हविर्जनयन्तस्थ इन्द्राग्रं ज्येष्ठ पर्यगामेह देव ।
स गातो गातोत्तमापयापिमस्मभ्यमिन्द्र ददतः प्रचेतः ।। १ ।।
अग्निर्नः पुरएतास्त्वञ्जसा बृहस्पतिः सन्यास्तु नः सखा ।
इन्द्रं हुवे वृत्रहणं पुरन्दरं भगेनाद्य भगवन्तः स्याम ।। २ ।।
त्वं सोम दिव्यो नृचक्षाः सुगां अस्मभ्यं पथो अनु ख्यः ।
अभि नो गोत्रं विदुष इव नेषोऽच्छा नो वाचमुशतीं जिगासि ।३।
इमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरम् ।
आपिः पिता प्रमतिः सोम्यानां भृमिरस्यृषिकृन्मर्त्यानाम् ।।४।।
१-५२ 1.52
ये पुरस्तादास्यन्देते गावौ स्वऋषभे इव।
कृणोम्यर्वणी अहमश्ववारादणीयसी ।१।
ये अधरादास्यन्देते गावौ स्वऋषभे इव ।
कृणोम्यर्वणी अहमश्ववारादणीयसी ।२।
ये पश्चादास्यन्देते गावौ स्वऋषभे इव ।
कृणोम्यर्वणी अहमश्वारादणीयसी ।३।
ये उत्तरादास्यन्देते गावी स्वऋषभे इव ।
कृणोम्यर्वणी अहमश्ववारादणीयसी ।४।।
1.53
अग्ने यशस्विन् यशसा वर्धयेममिन्द्रवतीमुपचितिमिहा वह ।
अयं मूर्धा परमेष्ठी सुवर्चा: समानानामुत्तम श्लोको अस्तु ।१।
धाता विधर्ता परमोत संदृक् प्रजापतिः परमेष्ठी विराट् ।
स्तोमाश्छन्दांसि निविदो म आहुस्ते अस्मै राष्ट्रमुप सं नमन्तु ।२।
भद्रमिच्छन्त ऋषय: स्वर्विदस्तपो दीक्षामुपनिषेदुरग्रे ।
ततो राष्ट्रं बलमोजश्च जातं तदस्मै देवा उप सं नमन्तु ।३।
उपा वर्तध्वमुप न एत सर्वेऽयं चेत्ताधिपतिर्वो अस्तु ।
समानं मन्त्रमभि मन्त्रयाध्वा इमं पश्चादुप जीवाथ सर्वे ।।४।।
1.54
त्वमग्ने प्रमतिस्त्वं पितासि नस्त्वं सखा युज्योसि जातवेद: ।
त्वं विश्वविद् गातुवित् कविर्विश्वा आशा अभया: सन्त्वस्मे ।१।
इदं वर्चो अग्निना दत्तमागन् भर्गो यशः सह ओजो वयो बलम् ।
त्रयस्त्रिंशद् यानि वीर्याणि तान्यग्निः प्र ददातु मे ।।२ ।।
वर्च आ धेहि मे तन्वा सह ओजो वयो बलम् ।
इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय ।३।
ऊर्जे त्वा बलाय त्वौजसे सहसे त्वा ।
अभिभूयाय त्वा राष्ट्रभृत्याय पर्यूहामि शतशारदाय ।।४।।
ऋतुभिष्ट्वार्तवैरायुषे वर्चसे त्वा ।
संवत्सरस्य तेजसा तेन संहनु कृण्मसि ।।५।।
1.55
इदमाञ्जनमानजे शैलूनमाकनिक्रदम् ।
अभि मा चक्रन्द भग ऋषभो वासितामिव । १ ।।
अश्व: क्रनिक्रदद् यथा प्रत्यङ् मा भग आगमत् ।
तमहं प्रेण्या अधि पुत्रमिवोपस्थ आधिषि ।२।
अक्ष्यौ मे मधुसंकाशे जिह्वा मे मधुवादिनी ।
नसोरधि प्रमन्दनं दत्सु मे सारघं मधु ।३।
मधुमन्मम नीसनं जघनं मधुमन्मम ।
मामित् किल त्वं वावनः शाखां मधुमतीमिव ।। ४ ।।
(ङति चतुर्चनामप्रथमकाण्डे एकादशो ऽनुवाकः)

1.56
प्रेता जयता नर उग्रा व: सन्तु बाहवः । तु. शौ.सं. ३.१
इन्द्रो वः शर्म यच्छत्वनाधृष्या यथासथ ।। १ । ।
उद्धर्षन्तां मघवन्नायुधान्युत सत्वनां मामकानां मनांसि ।
उद्धर्षन्तां वाजिनां वाजिनान्युद्वीराणां जयतामेतु घोष:।।२।।
पृथग् घोषा उलुलय: केतुमन्त उदीरताम् ।
देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया ।३।
अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।
जयामित्रान् प्र पद्यस्व मामीषां कञ्चनोच्छिषः ।।४।।

1.57
दूष्या दूषिरसि हेत्या हेतिरसि मेन्या मेनिरसि । तु. शौ.सं. २.११
आप्नुहि श्रेयांसमति समं क्राम । १ ।।
स्रक्त्योसि प्रतिसरोसि पुन:सरोसि प्रत्यभिचरणोसि।
आप्नुहि श्रेयांसमति समं क्राम ।२।
प्रति तमभि चर योऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
आप्नुहि श्रेयांसमति समं क्राम ।३।
सूरिरसि वर्चाधास्तनूपानायुष्यः कृत्यादूषणः ।
आप्नुहि श्रेयांसमति समं क्राम ।।४।।
शुक्रोसि भ्राजोसि ज्योतिरसि स्वरसि ।
आप्नुहि श्रेयांसमति समं क्राम ।।५।।
1.58
विष्कन्धस्य काबवस्य कर्दमस्थोलूक्या: ।
अपस्थानस्थ कृत्या यास्तेषां त्वं खृगले जहि ।।१।।
प्र मृणीह्युपहत्यां कर्दमं नीलशाक्यम् ।
अधा सारमिव दारुण आयुष्कृणोम्यन्तरम् ।।२ ।।
विविद्धस्यावतृण्णस्य हृदस्य चाहृदस्य च ।
त्रिपर्णी विश्वभेषजीदं कृणोतु भेषजम् ।३।
काबवस्य विष्कन्धस्यापस्थापनभेषजम् ।
इदं कृणोमि भेषजं यथायमगदोसति ।। ४ ।।
1.59
यस्मादङ्गात् संसुस्राव यद् बभूव गलन्त्यशः ।
गावो वत्समिव जानानास्तत् परैतु यथायथम् ।। १ ।।
ना सृगस्ति पतङ्गस्य तर्दस्य मशकाद्याः ।
वेणोः पुतुद्रोर्नास्त्यसृङ् मास्य ग्लौर्मापचिद्भुवत् ।।२ ।।
अहं वेद यथासिथ गुर्विका नाम वा असि ।
अमुं त्वं तमितो गच्छ यमहं द्वेष्मि पुरुषम् ।। ३ । ।
तस्यापि मध्य आ सीद नील ग्रीवासु सीदता ।
वातस्यानु प्रवां मशकस्यानु संविदम् ।।४।।
प्रेतो यन्त्वग्रुवो निरितो यन्त्वग्रुवः ।
अधराचीमितः परः ।। ५ । ।
प्राहं ग्लावमध्मासं निरहं ग्लावमध्मासम् ।
अधराचीरित: पर: ।।६।।
१-६० 1.60
अभि त्वामहमोजसेन्द्रो दस्यूनिवाभुवम् ।
सपत्नि नश्यतादितो दूरं गच्छाध्योकसः । ।१ । ।
सासहा इदहं पतिं सासहै श्वशुरा उभौ ।
अथो सपत्नीं सासहै यथा नश्यात्योकसः ।२ ।।
अभिभूरहमागमं विश्वकर्मा महावदात् ।
अहं मित्रस्य कल्पन् येषु गृहेषु दुष्टरात् । । ३ ।।
उतिष्ठ मम वा इदं न तवेहापि किं चन ।
माञ्चैव पश्यन्नायत्यमुञ्च दिवि सूर्यम्।।४।।
(इति चतुर्चनाम प्रथमकाण्डे द्वादशो अनुवाकः)
1.61
यस्त्वा मृत्युरभ्यधत्त जायमानं सुपाशया। तु. शौ.सं. ३.११
तन्ते सत्यस्य हस्ताभ्यामुदमुञ्चद् बृहस्पतिः ।। १ ।।
अभि त्वा जरिमाहित गामुक्षणमिव रज्ज्वा ।
व्यन्ये यन्तु मृत्यवो यानाहुरितराञ्छतम् ।। २ । ।
प्र विशतं प्राणापानावनड्वाहाविव व्रजम् ।
शरीरमस्याङ्गानि जरिम्णे नयतं युवम् ।। ३ ।।
इहैव स्तं प्राणापानौ मेमं हासिष्टं मृत्यवे । ।
अयं जरिम्णः शेवधिररिष्ट इह वर्धताम् ।।४।।
जरसे त्वा परि दध्मो जरसे नि धुयामसि ।
जरा त्वा भद्रया नेषत् ।
व्यन्ये यन्तु मृत्यवो यानाहुरितराञ्छतम् ।।५।।
1.62
मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्। तु. शौ.सं. ३.११
ग्राह्या गृभीतो यद्येष एतत्तत इन्द्राग्नी प्र मुमुक्तमेनम्।। १ ।।
यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव ।
तमा हरामि निर्ऋतेरुपस्थादस्पार्षमेनं शतशारदाय ।२।
सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम् ।
इन्द्रो यथैनं जरसे नयात्यति विश्वस्य दुरितस्य पारम् ।।३।।
शतं जीव शरदो वर्धमानः शतं हेमन्तांछतमु वसन्तान् ।
शतमिन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ।।४।।
1.63
यत् ते अन्नं भुवस्पत आक्षियेत पृथिवीमनु । तु. शौ.सं. १०.५.४५
तस्य नस्त्वं भुवस्पते सं प्र यच्छ प्रजापते ।१।
व्यात् ते परमेष्ठिनो ब्रह्मणापीपदाम तम् ।
संवत्सरस्य दंष्ट्राभ्यां हेतिस्तं समधादभि । ।२ ।।
इयं त्वं भवस्त्वाहुतिः समिद्देवी सहीयसि
राज्ञो वरुणस्य बन्धोसि सोऽमुमामुष्यायणममुष्याः पुत्रमह्वे रात्रये बधान ।। ३ । ।
मृणोसि देव सवितर्गायत्रेणच्छन्दसा मृणामुष्य पशून् द्विपदश्चतुष्पदः ।।४।।
योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं जहि तं मृणस्तस्मै मा मीमृणस्तस्मै दुराहा ।।५ ।।
1.64
नि ते पदं पदे मम नि चित्तमेतु निष्कृतः।
यथास: केवलो ममाहं साधारणी तव । १ । ।
पदेन गामनु यन्ति पदेनाश्वं पदा रथम् ।
पदेन मर्या मत्त्वं न एषो नो अहं त्वत् ।।२ । ।
माप सृपो मा परा सृपो मान्यत्रास्मन् मनस्कृथाः।
यं त्वाहिरिव भोगैर्नाकुलेन परीमसि ।३।
नि त्वा कृण्वे संनहने नि कुरीरे न्योपशे ।
नि त्वाधमस्मि लोम्नि न्वि त्वा मुष्कयोर्मृजे ।।४।।
1.65
घृताहृदा पृथिवी मा न एनोऽस्मान् प्रजान्वोचत किल्बिषाणि । ।
अनातुराः सुमनसः सुवीरा ज्योग् जीवन्तस्तव सख्ये स्याम ।१।
अन्तरेमि यातुधानानन्तरेमि किमीदिनः ।
धियाम पित्र्या वयं सरस्वत्या चरामसि ।।२।।
मा ते रिषं खनिता यस्मै च त्वा खनामसि ।
द्विपाच्चतुष्पादस्माकं मा रिषद् देव्योषधे ।।३।।
अन्या वो अन्यामवत्वन्यान्यस्या उपावत ।
सध्रीचीः सव्रता भूत्वा अस्यावत वीर्यम् ।। ४ । ।
(इति चतुर्चनाम प्रथमकाण्डे त्रयोदशोऽनुवाकः )

1.66
ध्रुवस्तिष्ठ भुवनस्य गोप मा सं विक्था वनस्पते ।
अत्रैव त्वमिह वयं सुवीरा विश्वा मृधो अभिमातीर्व्यस्य ।।१ । ।
यो वानस्पत्यानामधिपतिर्बभूव यस्मिन्निमा विश्वा भुवनान्यार्पिता।
तमनज्मि मधुना दैव्येन तस्मान् मणिं निर्ममे विश्वरूपम् ।।२ ।।
इमं मणिं विश्वजितं सुवीरमस्मादश्वत्थात् पर्युद्भरामि।
येन विश्वाः पृतनाः सञ्जयान्यथो द्युमत्समितिमा वदानि। ।३ । ।
सबन्धुश्चासबन्धुश्च यो न इन्द्राभिदासति ।
वृश्चामि तस्याहं मूलं प्रजां चक्षुरथो बलम् ।।४।।
१-६७ 1.67
देवी देव्यां जातासि पृथिव्यामध्योषधे । तु. शौ.सं. ६.१३६
तं त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि ।१।
इन्द्रस्त्वाखनत् प्रथमो वरुणस्य दुहितृभ्यः ।
दृंह जातां जनयाजातां ये जातास्तानु वर्षीयसस्कृधि ।२।
यस्ते केशोवततः समूलो यश्च वृह्यते ।
सर्वं तं विश्वभेषज्याभि षिञ्चामि वीरुधा ।३।
अभीशुना मेयोऽस्तु वियामेनानुमेय: ।
केशो नड इव वर्धतां शीर्ष्णस्ते असितस्परि ।।४।।
1.68
यथा नडं कशिपुने स्त्रियो भिन्दन्त्यश्मना । तु. शौ.सं. ६.१३८
एवा भिनद्मि ते मुष्कौ तस्मै त्वामवसे हुवे ।१।
त्वं वीरुधां श्रेष्ठतमाभिश्रुतास्योषधे ।
सामुमद्य पूरुषं क्लीबमोपशिनं कृधि ॥ २ ।। क्लीव
क्लीबं कृध्योपशिनमथो कुरीरिणं कृधि ।
उभाभ्यामस्य ग्रावभ्यामिन्द्रो भिनत्वाण्ड्यौ ।३।
क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरमरसारसं त्वाकरमरसारसोसि । क्लीव क्लीवं
कुरीरमस्य शीर्षणि कुम्भं चाधिनिदध्मसि ॥ 1४ ।।
ये ते नाड्यौ देवकृते ययोस्तिष्ठति वृष्ण्यम् ।
ते ते भिनद्मि शम्मयामुष्या अधि मुष्कयोः ।।५ ।।
1.69
जायमानो निररुजत् सपत्नान् दोधतोभयान् ।
स वै सपत्नानां सभा अवालप्स्यो अनाशयत् ।।१।।
आरादरातिं कृणुतेऽशस्तिमप बाधते ।
अवालप्स्यः स यो मणि: सहस्वानभिमातिहा । २ ।
चक्षुरस्य सूत्रमासीत् तर्द्म श्रोत्रमुताभरत् ।
अवालप्स्यः स यो मणिः सहस्वानभिमातिहा ।३ ।
इमं मणिमावालप्स्यं यस्मिन्नारोहयामसि ।
स वै सपत्नाना दत्ते स एनं पातु विश्वत: स एनं जरसे नयात् ।।४।।
1.70
यतो जीवेभ्यो न पितॄनुपैति यमानशे दुष्कृतं दैधिषव्यम् ।
अयज्ञः प्रथमो यो विवेश कृच्छ्रादिज्ज्योतिरभ्यश्नवातै ।। १ ।।
नास्यौषधीष्वप्यस्ति नाप्स्वन्तर्नास्य सूर्यं संदृशमेति चक्षुः ।
भूमिर्द्वेष्टि चरन्तमेनं यमानशे दुष्कृतं दैधिषव्यम् ।।२।।
कृते(त्रिते) देवा अमृजतैन एतत् कृत(त्रित) एनं मनुष्येष्वमृष्ट ।
तत एतदमुया रक्ष ईर्ते प्रमुक्तं ज्योतेरधि दूरमेति ।३।
येभिः पाशैर्दिधिषूपतिर्विबद्वः परौ परावार्पितो अङ्गेअङ्गे ।
वि ते चृत्यन्तां विचृतो हि सन्ति भूणघ्नि पूषन् दुरितानि मुष्टा: ।।४।।
(इति चतुर्चनामप्रथमकाण्डे चतुर्दशो ऽनुवाकः)
1.71
अग्निष्टे विश आ नयादिन्द्रो वायुर्बृहस्पतिः ।
स ते धर्ममदीधरद्धातेव भुवनेभ्यः । ।१ । ।
बृहस्पते पुरयेता विशामिह्यग्निः पश्चादभि नुदात्यायतीः ।
वायुरेना दक्षिणतः पूषोत्तरादपानुदात् ।।२ ।।
आा सहस्री शतरथ आ रेवान्येतु नो विशन् ।
इन्द्रो वामेन विश्पतिरा रूपेण बृहस्पतिः ।३।
स्वर्जुष्टः कश्यपस्य स राष्ट्रे जागरत् स्वे ।
ऋषभः शातमातुरः श्वेतन्तादविहृतो देवान् यज्ञेन बोधयात् ।।४।।
1.72
महाजना: प्रथमा ये दिदिविरे धने संहत्य महति द्विराजे । तु. [[अथर्ववेदः/अथर्ववेद: काण्डं 7|शौ.सं. ७.१०९
तेषां वरे य: प्रथमो जिगाय तस्याहं लोकमनूद्भिदेयम्।१।
मेदिनस्ते वैभीदकास्तत इन्द्र उपावतु ।
अव्या वृक इव संरभ्य जिगोवानस्तमायसि ।२।
उद्बाहू हिरण्यजिद् गोजिदश्वजितौ भरे ।
व्याघ्रो जघ्निवाङ्ं इवोत्तिष्ठाधि देवनात् ।।३।।
आदिनवं प्रतिदीव्ने कृतेनास्माङ् अभि क्षर ।
वृक्षमिवाशन्या जहि यो अस्मान् प्रतिदीव्यति ।।४।।
1.73
दिवस्पृथिव्या: पर्यन्तरिक्षाद्वनस्पतिभ्यो अध्योषधीभ्यः । तु. [[अथर्ववेदः/अथर्ववेद: काण्डं 19|शौ.सं. १९.३
यत्रयत्र विभृतो जातवेदास्ततस्ततो जुषमाणो न एहि ।। १ ।।
यस्ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्वप्स्वन्तः।
अग्ने सर्वास्तन्वः सं रभस्व ताभिर्न एहि द्रविणोदा अजस्रः ।२ । ।
यस्ते देवेषु महिमा स्वर्गो या ते तनूः पितृष्वाविवेश ।
पुष्टिर्या ते मनुष्येषु पप्रथेऽग्ने तया रयिमस्मासु धेहि ।। ३ ।।
श्रुत्कर्णाय कवये वेद्याय वचोभिर्वाकैरुप याम रातिम्।
यतो भयमभयं तन्नो अस्त्वव देवानां यज हेडो अग्ने ।।४।।
1.74
इन्द्रो देवानां वरुणो धृतव्रत: सोमो वीरुधां जगतः परस्पाः
वायुः पशूनां पशुपा जनानामयं पुरोरा नो अस्यास्तु मूर्धा ।। १ ।।
मूर्धा दिवो अन्तरिक्षस्य मूर्धा मूर्धा सिन्धूनामुत पर्वतानाम् ।
मूर्धा विश्वस्य भुवनस्य राजाऽयं पुरोरा नो अस्यास्तु मूर्धा ।।२ ।।
मृधस्ते सम्राड् वहन्तु सर्वाँ अमित्रान् राजा वरुणो विषूचः ।
इन्द्रः शत्रूनसुनीतिं नयाति तेऽयं पुरोरा नो अस्यास्तु मूर्धा ।।३।।
विशस्त्वा राजन् प्रदिशो जुषन्तां दैवीर्विशः सुप्रकेताः सकेताः
विश्वा आशा मनुष्यो वि भाह्ययं पुरोरा नो अस्यास्तु मूर्धा ।४।।
1.75
वि बाधस्व दृंहस्व वीडयस्वाधस्पदं शत्रवस्ते भवन्तु ।
सपत्नसाह ऋषभो जनाषाडुग्रश्चेत्ता पञ्च कृष्टीर्वि राज ।१।
शिवं क्षेत्रमनमीवन्ते अस्तूत्तमे नाके अधि तिष्ठेहि ।
पुत्रान् भ्रातॄन् बहुलान् पश्यमानो विश्वे त्वा देवा इह धारयन्तु ।२।
त्वष्टा रूपेण सविता सवेनाहर्मित्रेण वरुणेन रात्री ।
इन्द्रो जैष्ठ्येन ब्रह्मणायं बृहस्पतिर्धाता त्वा धीभिरभि रक्षत्विह ।३।
वास्तोष्पत इह नः शर्म यच्छ घने वृत्राणां सङ्गथे वसूनाम् । वास्तोस्पत
इहैवैधि ग्रामपतिर्जनाषाड् विश्वैर्देवैर्गुपितो रक्षमाणः ।।४।।
(इति चतुर्चनामप्रथमकाण्डे पञ्चदशो ऽनुवाकः)
1.76
ऊर्ध्वो भव प्रति विध्याध्यस्मदुग्रं धनुरोजस्वाना तनुष्व ।
प्रति दुर्हार्दं हरसा शृणीहि कृत्वानमग्ने अधरं कृष्णुष्व।।१।।
प्रत्येनं याहि प्रतिभङ्ग्ध्येनं विविध्यन्नग्ने वितरं वि भाहि ।
प्रत्यङ् प्रेहि वर्त्मना जर्हृषाणः कृत्याकृते दुष्कृते माधि वोचः ।। २ ।।
यो नो दुर्हाद्धृदयेनाभिवस्ते यश्चक्षुषा मनसा यश्च वाचा ।
प्रत्यङ् दंष्ट्राभ्यामभि तं बुभूषुं(बभौषं) कृत्याकृतं दुष्कृतं निर्दहाग्ने ।। ३ । ।
प्रतीबोधश्चतुरक्षो दिव्यो अश्मेव वीडुभित् ।
प्रभञ्जञ्छत्रून् प्रति याह्यग्ने कृत्याकृतं दुष्कृतं हृदये विध्य मर्मणि।। ४ ।।
1.77
इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् । तु. शौ.सं. ७.८४
अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् । ।१ । ।
मृगो नो भीमः कुचरो गिरिष्ठा: परावत आ जगामा परस्याः ।
सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताड़ि वि मृधो नुदस्व ।२।
अंहोमुचे प्र भरे मनीषामासुत्राम्णे सुमतिमावृणानः । शुत्राम्णे
इदमिन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः ।।३ । ।
अंहोमुचं वृषभं यज्ञानां विराजन्तं प्रथममध्वराणाम् !
अपां नपातमश्विनौ हुवे धिय इन्द्रेण न इन्द्रियं धत्तमोजः ।।४।।
1.78
धातारमिन्द्रं सवितारमूतये हुवे देवाङ् अमृतान् मर्त्य: सन् ।
श्रेष्ठो नो वसवो धत्त धाम्नि मा रधाम द्विषते मो अरातये ।१।
अधि ब्रवीत्वधिवक्ता न इन्द्रो अधि ब्रवीतु सविता दैव्येन ।
स्वस्ति मित्रावरुणा च धत्तां रात्रिंरात्रिमहरहश्च देवा: ।।२।।
अधि ब्रवीतु पृथिवी उत द्यौरधि ब्रुवन्तु मरुतः पृश्निमातरः ।
यो नो द्वेष्ट्यरणो यः सनाभिः पविरिव नेमेरधरः सो अस्तु ।। ३ ।।
यस्य त्रया गतमनुप्रयन्ति देवा मनुष्याः पशवश्च सर्वे ।
तन्नो देवं मनो अधि ब्रवीतु सुनीतिन्नो नयतु द्विषते मा रधाम ।।४।।
1.79
वर्चस्वानसि देवेषु वर्चस्वानोषधीष्वा ।
अथो वर्चस्विनं कृधि यमश्वत्थाधिरोहसि । ।१ ।।
यमश्वत्थो अध्यरुक्षद्राजा मनुष्यं जनम् ।
इन्द्रमिव वि मृधो हनत्तस्माद्राष्ट्रमनपच्युतम् । ।२ । ।
आरोहो नाम वा असि सहस्वानुदजायथाः ।
तं त्वा सपत्नसासहमश्वत्थ बिभरादयम् ।३।
राजा वा असि भूतानामृषभो वीरुधां पति: ।
स नः सपत्नानश्वत्थ विषूचो व्युदा कृधि ।। ४ ।।
1.80
संपश्यमाना अमृता य आयन् शुद्धा योनिभ्योस्परिजायमानाः ।
शिवं कृण्वाना उप जिघ्रतेमं वीरं वीरेष्वप्या कृणुध्वम् ।।१।।
शिवो वो वीर इह जातो अस्तु शुद्धो योनिभ्यस्परिजायमानः।
अरिष्टोऽयं वर्धतां सर्वमायुर्वर्म ज्यायोभ्यो हविषा कृणोतु । ।२ । ।
जरांमृत्युं प्रेप्सतु जीव एष नास्य क्रिमिरीशातो नोत जम्भः ।
संरभ्य जीव शरदः सुवर्चा अग्निष्टे गोपा अधिपा वसिष्ठः ।।३।।
जरामृत्युर्जरायुर्जराचक्षुर्जरा स्व: ।
जरसे त्वा जरदष्टिं परि ददामि ।।४।।
द्यौष्टे पिता पृथिवी मातान्तरिक्षमात्मा । मता
वात: प्राणः सूर्यश्चक्षुर्दिवस्पयः ।
सुपर्णस्त्वाभ्यव पश्यादायुषे वर्चसे ऽयमन्नस्यान्नपतिरस्तु वीरः ।।५।।
(ह्रति चतुर्चनामप्रथमकाण्डे षोडशो ऽनुवाकः)
1.81
यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि । तु. शौ.सं. १९.५८
इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ।। १ ।।
ये देवानामृत्विजो ये च यज्ञिया येभ्यो हव्यं क्रियते भागधेयम्।
इमं यज्ञं सह पत्नीभिरेत्य यावन्तो देवास्तति मादयन्ताम् ।।२।।
यन्मा हुतं यदहुतमाजगाम यस्मादन्नान् मनसोद्रारजीमि ।
यद् देवानां चक्षुष आगसिनमग्निष्टद्धोता सुहुतं कृणोतु ।। ३ । ।
अग्नेष्ट्वा जिह्वया हुतमिष्टं मरुद्भिरनुमतं पितृभि: प्राश्नामि ।।४।।
1.82
अग्ने: प्रजातं परि यद्धिरण्यममृतं दधे अधि मर्त्येषु । तु. शौ.सं. १९.२६
य एनद् वेद स इदेनदर्हति जरामृत्युर्भवति यो बिभर्ति ।। १ ।।
यद्धिरण्यं सूर्येण सुवर्णं प्रजावन्तो मनवः पूर्व ईषिरे ।
तत् त्वा चन्द्रं वर्चसा सं सृजात्यायुष्मान् भवति यो बिभर्ति ।। २ ।।
आयुषे त्वा वर्चसे त्वौजसे च बलाय च ।
यथा हिरण्यतेजसा विभासासि जनाङ् अनु ।३।
यद् वेद राजा वरुणो वेद देवो बृहस्पतिः ।
इन्द्रो यद् वृत्रहा वेद तत्त आयुष्यं भुवत् तत्ते वर्चस्यं भुवत् ।।४।।
1.83
यदाबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमाना: । तु. शौ.सं. १.३४
तत् ते बध्नामि शतशारदायायुष्मान् जरदष्टिर्यथास: ।। 1१ ।।
नैनं रक्षांसि न: पिशाचा: सहन्ते देवानामोज: प्रथमजं ह्येतत् ।
यो बिभर्ति दाक्षायणा हिरण्यं स जीवेषु कृणुते दीर्घमायुः ।।२ ।।
अपां रेतो ज्योतिरोजो बलं च वनस्पतीनामुत वीर्याणि ।
इन्द्र इवेन्द्रियमव रुध्मो अस्मिन् स दक्षमाणो बिभरद्धिरण्यम् ।।३।।
समानां मासामृतुभिष्ट्वाहं संवत्सरस्य पयसा पिपर्मि ।
इन्द्राग्नी त्वा ब्रह्मणा वावृधानावायुष्मन्तमुत्तमं त्वा करातः ।।४।।
1.84
यत् ते चतस्रः प्रदिशो मनो जगाम दूरकम् । तु. ऋ. १०.५८
तत् त आ वर्तयामसीह क्षयाय जीवसे ।१।
यत् ते भूमिं चतु:स्रक्तिं मनो जगाम दूरकम् ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ।।२ । ।
यते ते यमं वैवस्वतं मनो जगाम दूरकम् ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ।।३।।
यत् ते समुद्रमर्णवं मनो जगाम दूरकम्।
तत् त आ वर्तयामसीह क्षयाय जीवसे ।।४।।
यत् ते दिवं यत् पृथिवीं मनो जगाम दूरकम् ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ।।५ ।।
यत् ते वायुमन्तरिक्षं मनो जगाम दूरकम् ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ।।६।।
यत् ते सूर्यं यदुषसं मनो जगाम दूरकम् ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ।।७।।
यत् ते चन्द्रं नक्षत्राणि मनो जगाम दूरकम् ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ।।८ ।।
यत् ते आपो यदोषधीर्मनो जगाम दूरकम् ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ।।९।।
यत् ते परमां परावतं मनो जगाम दूरकम ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ।। १० ।।
1.85
यं गृह्णन्त्यप्सरसो यं मथ्नाति बृहस्पतिः ।
तं कश्यपस्य ब्रह्मणा सविता पुनराभरत्।।१।।
यो भर्ताकूः परिधाय मृगेष्वपि धावति।
तं कश्यपस्य ब्रह्मणा सविता पुनरा भरत् । ।२ । ।
सविताग्निर्ब्रह्म सोम इन्द्रस्त्वष्टा बृहस्पतिः
एते मरुद्युतं त्वा ब्रह्मणा पुनरा भरन् ।३।
भद्रां वाचं शिवं चक्षुर्मरुद्युताय कृण्मसि ।
इमा ह्यस्मा ओषधिमा हराम्यरुन्धतीम् ।।४।।
(ह्रति चतुर्चनामप्रथमकाण्डे सप्तदशो ऽनुवाकः)
1.86
त्रिभ्यो रुद्रेभ्यः प्रवसन् यजामि ज्येष्ठ: कनिष्ठ उत मध्यमो यः ।
ज्योतिष्काराः कवयः सोमपा ये कण्वा अदन्तु निरितो वधेन।।१।।
इन्द्राग्नी वीतं हविषः संविदानौ समिद्धो अग्निः समिधा गीर्भिरिन्द्रः।
नुदेथां कण्वा निरितो अरातिमाराद्रक्षांसि तपतं व्यस्मत् । । २ ।।
वास्तोष्पते सुप्रजसः सुवीरा षष्ठीस्यामि शरदः शतानि।
दुर्वास्तु कण्वा अभि निर्णुदस्व सुवास्त्वस्माङ् उप सं विशस्व।।३।।
या तन्तिषत् खलसद् या च गोष्ठे या जाताः शकधूमे सभायाम्।
प्रपायां जाता उत याश्च भित्सु ताश्चातयामः शिवता नो अस्तु।।४।।
दुद् वा च दुद्वती च स्थस्तद् वां नाम तद् वां नामधेयम् ।
रुद्रप्रेषिते स्तो व्ये नाम पर्यस्मान् वृङक्तम् ।
यो नो द्वेष्टि तमृच्छतम् ।।५ ।।
वीची नामास्यघहारा नाम ।
नमस्ते अस्तु वातके ऽन्यत्रास्मदघं कृधि ।।६ ।।
ऋजीते परि णो नमाग्रेण परि णो नम !
अश्मानं तन्वं कृण्महे अद्या नः सोम मृडय ।।७ ।।
1.87
त्वं दर्भासि पतिरोषधीनां विभिन्दन् यासि कन्या इवैनाम् ।
भिन्धि शिर: कृमेर्जायां न्यस्य शरीरं भिन्ध्युत भिन्ध्यस्थि ।१।
यः कीकसास्थ्नो वीरदात् परूंषि यस्योद्धार उष्णिहास्ता हि वव्रे।
हनिष्यामि वां निरतः परेतं तृणान्यत्तमवसीरिणामिव ।।२ ।।
अयं य आस्ते जठरेष्वन्तः कास्फीवशं निरुजं मर्त्यस्य ।
हनिष्यामि वां निरत: परेतं स्तायदेयथुः प्रति वामभुत्सि ।। ३ ।।
येनेयथुस्तेन पथा परेतं स्तायदेयथुः प्रति वामभुत्सि ।
ब्रह्मणा वां परितृह्य समन्तं विच्छेत्स्यामि नकुल इव सर्पम् ।।४।।
1.88
यज्ञपतिमृषय एनसाहुर्निर्भक्ता भागादनु तप्यमानाः। तु. शौ.सं. २.३५
यदेनश्चकृवान् बद्ध एष ततो विश्वकर्मन प्र मुमुग्ध्येनम् ।।१।।
अदान्यान् सोमपान् मन्यमानो यज्ञस्य विद्वान् समये न धीर: ।
मधव्यान् स्तोकानपि यान् रराध सं मा तैः सृजतु विश्वकर्मा ।।२ ।।
ये भक्षयन्तो न वसून्यानृधुर्यानग्नयो अन्वतप्यन्त्व धृष्ण्या ।
या तेषामवया दुरिष्टात् स्विष्टं तद्विश्वकर्मा कृणोतु ।३।
भीमा ऋषयो नमो अस्त्वेभ्यश्चक्षुर्यदेषां मनसश्च संदृक् ।
बृहस्पतये महिषाय दिवे नमो विश्वकर्मन् नमस्ते पाह्यस्मान् ।।४।।
1.89
सर्वा इमा ओषधय: पृथिव्यामधि निष्ठिताः ।
अथैव भद्रिके त्वमसुरेभ्यो अजायथाः ।। १ । ।
शतं जह्यप्सरसां शतं श्वन्वतीनाम् ।
गन्धर्वपत्नीनां शतस्येन्द्रो अपि कृतच्छिर: ।२।
याः पतन्ति पुरोवातं पतन्ति रेष्मभिः सह ।
चेतन्तीमश्मलां पत्नामिन्द्रो अप्सरसो हनत् ।। ३ ।।
वि वो यशो हवामहे वि वो हविष्यमोदनम्।
अपावरीरपोर्णुतास्मद् यक्ष्ममपोर्णुत वातस्तेजन्यं यथा।। ४ । ।
१-९० 1.90
असितस्य विद्रधस्य लोहितस्य वनस्पते । तु. शौ.सं. ६.१२७
विसल्पकस्यौषधे मोच्छिष: पिशितं चन ।१।
यत् ते बलास तिष्ठतः कक्षे मुष्काविपाकृतम् ।
वेदाहं तस्य भेषजं चीपद्रामभिचक्षणम् । ।२ ।।
निर्बलासं बलासिनो विसल्पमुत विद्रधम् ।
परोपहत्यां ते वयं परा यक्ष्मं सुवामसि ।३।
शीर्षरोगमङ्गरोगं शुक्तिवल्गं विलोहितम् ।
परा ते अज्ञातं यक्ष्ममधराञ्चं सुवामसि ।। ४ ।।
(इति चतुर्चनामप्रथमकाण्डे अष्टादशो अनुवाक:)
1.91
पयो देवेषु पय ओषधिषु पय आशासु पयोऽन्तरिक्षे ।
तन् मे धाता सविता च धत्तां विश्वे तद् देवा अभि सं गृणन्तु ।।१ ।।
पयो यदप्सु पय उस्त्रियासु पय उक्थेषूत पर्वतेषु ।
तन् मे धाता सविता च धत्तां विश्वे तद् देवा अभि सं गृणन्तु ।२ । ।
यन् मृगेषु पय आविष्टमस्ति यदेजति पतति यत् पतत्रिषु ।
तन् मे धाता सविता च धत्तां विश्वे तद् देवा अभि सं गृणन्तु ।३ ।।
यानि पयांसि दिव्यार्पितानि यान्यन्तरिक्षे बहुधा बहूनि ।
तेषामीशाने वशिनी नो अद्य प्र दत्तां द्यावापृथिवी अहृणीयमाने।४।।
1.92
आगन मेमां समिति विश्वरूपां यस्यां पूर्वमवदद् देव एक: ।
सा नः सूक्तैर्जुजुषाणा समीच्यस्मान् वृणीतां सुमनस्यमाना ।।१ ।।
इयं देवी समितिर्विश्वरूपा शिल्पं कृण्वाना चरति जनेषु ।
तां राजान: कवयो हृत्सु केतैरराजानश्च वदनैः पुनन्ति । ।२ । ।
आग्निं सामित्यमुप सं सदेम वाचा प्रियं मधुमत्या वदन्त: ।
सोमो राजा वरुणो मित्रधर्मा मयि श्रीयमाण उप सं नमन्तु ।। ३ ।।
यो व: शुष्मो हृदये यो बाह्वोर्यश्च चक्षुषि ।
जिह्वाया अग्रे यो मन्युस्तं वो वि नयामसि ।।४।।
1.93
त्रिष्कुष्ठासि वृत्राज्जातस्त्रिर्दिवस्परि जज्ञिरे ।
त्रि: सोमाज्जज्ञिषे त्वं त्रिरादित्येभ्यस्परि ।। १ । ।
जीवलं नघारिषं जयत्कमपराजितम् ।
तं त्वामृतस्येशानं राजन् कुष्ठा वदामसि ।२।
अन्तरा द्यावापृथिवी अन्तरिक्षमिदं महत् ।
तत्रामृतस्येशानं कुष्ठं देवा अबध्नत ।३।
कुष्ठोसि देवकृतो हिमवद्भ्यो निराभृत: ।
तीक्ष्णाभिरभ्रिभि: खातुः स चकर्तारसं विषम् । । ४ ।।
१-९४ 1.94
यास्ते शतं धमनय: सहस्राणि च विंशति: ।
बभ्रोरश्वस्य वारेणापि नह्यामि ता अहम् ।।१।।
शतस्य ते धमनीनां सहस्रस्यायुतस्य च ।
दृते: पदमिव सारथिरपि नह्यामि यद् बिलम् ।।२ ।।
परमस्यां परावति शुष्को भण्डुश्च तिष्ठत: ।
ततः शुष्कस्य शुष्मेण तिष्ठन्तु लोहिनीरपः ।। ३ ।।
परि व: सिकतामयं मरुं बिले वपामसि ।
दकचिदस्त्रवित् पुरा तकचिदशमीदिदम् ।।४।।

1.95
रुद्र मा त्वा जिहीडाम सुष्टत्या मघवन्मा सुहूत्या ।
भिषक्तमं त्वा भिषजां श्रुणोम्युन्नो वीराङ् ईरय भेषजेभिः।। १ ।।
रुद्र यत् ते गुह्यं नाम यत् ते अद्धातयो विदुः ।
शिवा शरव्या या तव तया नो मृड जीवसे ।२।
आग्निं त्वाहुवैश्वानरं सदनान् प्रदहन्न्वगा: ।
स नो देवत्राधि बूहि मा रिषामा वयं तव ।३।
याः देवैः प्रहितेषुः पतात् तपसे वा महसे वावसृष्टा ।
सोमस्त्वामस्मद्यावयतु विद्वानवन्तु नः पितरो देवहूतिषु ।।४।।
(ड्रति चतुर्चनामप्रथमकाण्डे ऊनविंशोऽनुवाक:)
1.96
रायष्पोषं धेहि नो जातवेद ऊर्जावदग्ने यश: सूनृतावत् ।
दधाम भागं सुनवाम सोमं यज्ञेन त्वामुप शिक्षेम शक्र ।।१ । ।
वयमग्ने धनवन्त: स्यामालं यज्ञायोत दक्षिणायै ।
ग्रावा वदेदभि सोमस्यांशुनेन्द्रं शिक्षेमेन्दुना सुतेन ।।२ ।।
ईशानं त्वा शुश्रुमा वयं पुरो दधानां धनपते ।
गोमदग्ने अश्ववद्भूरि पुष्टं हिरण्यवदन्नवद्धेहि मह्यम् । । ३ ।।
दुहां मे द्यौः पृथिवी पयोऽजगरो मा सोदकोभि वि सर्पतु।
प्रजापतिना तन्वमा प्रीणेऽरिष्टो म आत्मा ।। ४ । ।
१-९७ 1.97
अस्मां जुषध्वमसवो ऽद्य मा नः पुरा जरसो ऽसवो वधिष्ठ।
पाका गृणीमस्तव वीर्याय शतं हिमानधिपतिर्न एहि ।।१।।
उन् मृणो अगादार्जुनमगात् सुश्रुद्भगवो गोपाय मा ।
अह्नेद्यात्मानं परि ददे सूर्यप्राणो भवामि ।२ ।।
नि मृणो अगादासितमगात् सुश्रुद्भगवो गोपाय मा ।
रात्रयेद्यात्मानं परि ददे ऽग्निप्राणो भवामि ।३।
अनाभूरस्यनाभो ऽनाभुवो भूयास्म ।
स यत्र त्वं प्रजापते त्रिरेकस्याह्नः प्रजाः संपश्यसि ।
तत्र मामपि सं पश्यानष्टपशुर्भुवनस्य गोपा: ।। ४ ।।
1.98
यथा मृगं रोपयसि तिरश्चर्मातिविध्यसि ।
एवा त्वमुग्र ओषधे ऽमुं रोपय मामभि ।१।
बन्धश्चेमा उपधिश्च मधुमन्नौ समञ्जनम् ।
द्वारौ भगस्येमा ऊरू मृगस्तुष्यन्निवा चर ।२।
अभि त्वाधामभिधिना जालेनेव महाजषम् ।
यथा मम क्रतावसो मम चिते सचावहै ।३।
अहं वै त्वदुत्तरास्म्यध त्वमुपधिर्मम ।
सं नौ बध्नामि संबन्धनेन यथासावाविचर्त्यावा मृत्योरा परावतः ।॥४ ।।
१.९९ 1.99
अपोच्छन्ती दुष्वप्न्यमप दुर्हार्दमुच्छतम् ।
अपोष्टं सर्वं क्षेत्रियं सर्वाश्च यातुधान्य: ।१।
उदगातां भगवती विचृतौ नाम तारके ।
वि क्षेत्रियस्य मुञ्चतां सं ग्रन्थिं हृदयस्य च ।। २ ।। ग्राम्थिं
नमो अस्तु वरत्राभ्यो नम ईषायुगेभ्य: ।
मृगायारण्ये तिष्ठते क्षेत्रियायाकरं नमः ।३।
आखोरिदं क्षैत्रपत्यं मनोश्च मानवस्य च ।
मन: सर्वस्य पश्यत इह भूयः स्यादिति ।। ४ ।।
1.100
उदेहि देवि कन्य आचिता वसुना सह ।
न त्वा तरन्त्योषधयो बाह्या: पर्वतीया उत ।१।
यथा त्वा देव्योषथे सर्व: कामयते जन: ।
एवा भगस्य नो धेहि देवेभ्य इवामृतं परि ।। २ ।।
उत्सक्तपत्न्योषध आवतंकरणीदसि ।
यदेषी यन्निषीदसि तत्र त्वाहं समग्रभमश्वमिवाश्वाभिधान्या । ।३ । ।
यथा कुमारस्तरुणो मातरं प्रति नन्दति ।
एवास्मान् प्रति नन्दतु यां वयं कामयामहे ।।४।।
(इति चतुर्चनामप्रथमकाण्डे विंशो ऽनुवाकः)
1.101
त्रीणि पात्राणि प्रथमान्यासन् तानि सत्यमुत भूतं ततक्ष ।
ऋतस्य माने अधि या ध्रुवाणि येभिर्देवा अमृतं भक्षयन्ति ।॥१ ।।
स्वर्यद् देवा विभजन्त आयं त्रीणि पात्राणि प्रथमान्यासन् ।
आदित्या एकं वसवो द्वितीयं तृतीयं रुद्रा अधि सं बभुवुः ।२ ।।
धाता वेद सवितैतानि सर्वा बृहस्पतिः प्रथमो देवो अग्निः ।
येभिरिन्द्रो जठरमापृणीते त्रिभिः पात्रैरुत विश्वे च देवाः ।।३।।
ऊर्ध्वा तिष्ठन्ति न नु जिह्मा भवन्ति नोनं बभूव कतमच्चनैषाम् ।
देवानां पात्राणि निहितानि यानि तानि सं पाति य ऋतस्य गोपाः ।। ४ ।।
1.102
पौर्णमासी प्रथमा यज्ञियासीदह्नां रात्रीणामतिशर्वरेषु । तु. शौ.सं. ७.८०
ये त्वां यज्ञैर्यज्ञेन बोधयन्त्यमी ते नाकं सुकृतः परेता ।।१ । ।
पूर्णा पश्चादुत पूर्णा पुरस्तात् पौर्णमासी मध्यत उज्जिगाय ।
तस्यां देवैः संवसन्तो महित्वा नाकस्य पृष्ठे समिषा मदेम ।२ ।।
चतस्र दिशः प्रदिशो ह पञ्च षडुर्वीराहू रजसो विमानीः ।
द्वादशर्तव आर्तवाश्च ते मा प्याययन्तु भुवनस्य गोपाः ।। ३ ।।
यथादित्या अंशुमाप्याययन्ति यमक्षितमक्षितये पिबन्ति ।
एवा मामिन्द्रो वरुणो बृहस्पतिरा प्याययन्तु भुवनस्य गोपाः ।।४।।
1.103
आगन् रात्री संगमनी वसूनां विश्वं पुष्टं वस्वावेशयन्ती । तु. शौ.सं.७.७९
अमावास्यायै हविषा विधेमोर्जं वसाना पयसा न आगन् ।।१ ।।
मा त्वा रात्रि पुरो दभन् मोत पश्चा विभावरि ।
आयुष्मन्तः सुप्रजसः सुवीरा ऋध्यास्म त्वा सुवर्चसः ।। २ ।।
यस्य देवस्य सुमतौ सुनीतिरेति सुमतिं गृहाणाम् ।
आ मा पुष्टं च पोष्यं च रात्र्या देवानां सुमतौ स्याम ।। ३ ।।
अहमेवास्म्यमावास्या मा विशन्ति सुकृतो मयीमे ।
मयि देवा उभये साध्याश्चेन्द्रज्येष्ठा: समगच्छन्त सर्वे ।।४।।
1.104
प्रथमा ह व्युवास सा धेनुरभवद्यमे । तु. शौ.सं. ३.१०
सा नः पयस्वती दुहा उत्तरामुत्तरां समाम् ।। १ ।।
यां देवाः प्रतिनन्दन्ति धेनुं रात्रिमुपायतीः ।
संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ।।२ । ।
संवत्सरस्य प्रतिमां ये त्वा रात्र्युपासते।
तेषामायुष्मतीं प्रजां रायस्पोषेण सं सृज।।३।।
इयमेव सा या प्रथमा व्यौच्छत् साप्स्वन्तरासु चरति प्रविष्टा।
वधूर्जिगाय नवगज्जनित्री त्रय एनां महिमानः सचन्ते ।।४।।
1.105
वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम् । तु. शौ.सं. ३.१०.५
एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम्।। १ । ।
इडायास्पदं घृतवत् सरीसृपं जातवेदः प्रति हव्या गृभाय ।
ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि रन्तिरस्तु ।। २ ।।
इडया जुह्वतो हविर्देवान् घृतवता यजे ।
गृहानलुभ्यतो वयं दृषदो मोप गोमतः ।। ३ ।।
यज ऋतुभ्य आर्तवेभ्यो माद्भ्यः संवत्सराय च ।
धार्त्रे विधर्त्रे समृधे भूतस्य पतये यजे ।।४।।
1.106
आयमगन् संवत्सर: पतिरेकाष्टके तव । तु. शौ.सं. ३.१०.८
तस्मै देवाय हविषा विधेम स उ नः शर्म यच्छतु ।।१ ।।
एकाष्टकायै हविषा विधेम यर्तून् पञ्चानु प्रविष्टा ।
सस्येन सस्यमुपसंचरन्तो ऽरिष्टास ऋतुनर्तुमुप सं चरेम ।।२ ।।
वसन्तो ग्रीष्मो मधुमन्त वर्षाः शरद्धेमन्त ऋतवो नो जुषन्ताम् ।
आ नो गोषु भजन्त्वा प्रजायां सुशर्मण्येषां त्रिवरुथे स्याम ! ॥३ ।।
एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् ।
तेन देवा व्यषहन्त शत्रून् हन्तासुराणामभवच्छचीपतिः ।।४।।
पूर्णा दर्वे परा पत सुपूर्णा पुनरा पत ।
सर्वान् यज्ञान् संपृञ्चतीषमूर्जं न आ भर ।। ५ ।।
इषमूर्जं न आभृत्येडया पशुभिः सह ।
सरस्वति त्वमस्मासु रायस्पोषं नि यच्छ ।।६ ।।
(इति चतुर्चनामप्रथमकाण्डे एकविंशो ऽनुवाकः)
1.107
वातस्य नु महिमा रथस्यारुजन्नेति स्तनयन्नस्य घोषः । तु. ऋ. १०.१६८
दिवस्पृगेत्यरुणानि कृण्वन्नथो एति पृथिव्या रेणुमस्यन् ।। १ ।।
सं प्रेरते अनुवातस्य विष्ठामैनं गच्छन्ति समनेव योषा: ।
ताभिर्विद्वान् सरथं देव ईयते पतिविश्वस्य भुवनस्य गोपाः ।।२ ।।
आत्मा देवानां भुवनस्य गोपा यथावशं चरति देव एषः ।
घोष इदस्य श्रयते न रूपं तस्मै देवाय हविषा विधेम।।३।।
अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाह: ।
अपां योनिः प्रथमजा ऋतस्य क्व स्विज्जातः कुत आ बभूव ।। ४ ।।
अन्तरिक्षे पतयन्तं वात त्वामाशुमाशुभि: ।
पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ।।५ ।।
उपत्रिकं संचविचं त्रिर्यमं चतुरेकजम् ।
तं मातरिश्वानं देवं दिवो देवा अवासृजन ।।६।।
1.108
अप न्यधुः पौरुषेयं वधं मदिन्द्राग्नी धाता सविता बृहस्पतिः। तु. शौ.सं. १९.२०
सोमो राजा वरुणो अश्विना यमः पूषास्मान् परि पातु मृत्योः।। १ ।।
यानि चकार भुवनस्य यस्पतिः प्रजापतिर्मातरिश्वा प्रजाभ्यः ।
प्रदिशो यानि वसते दिशश्च तानि मे वर्माणि बहुलानि सन्तु ।।२।।
यत् तनुष्वनह्यन्त देवा द्विराजयोधिनः ।
इन्द्रो यच्चक्रे वर्म तदस्मान् पातु विश्वतः ।। ३ ।।
वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः ।
वर्म मे विश्वे देवाः क्रन्मा मा प्रापत् प्रतीचिका ।।४।।
१-१०९ 1.109
सोमारुद्रा वि बृहतं विषूचीममीवा या नो गयमाविवेश । तु. शौ.सं. ७.४२.१
बाधेथां द्वेषो निर्ऋतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत् ।।१।।
तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ।
प्र णो मुञ्चतं दुरितादवद्याद् गोपायतं नः सुमनस्यमानौ ।। २ ।।
सोमारुद्रा धारयेथां वसुवीर्यं प्र वामिष्ट्वा वरमश्नवातै ।
युवं नो धत्तमिह भेषजानि प्र यच्छतं वृषणा जेत्वानि ।३।
सोमारुद्रा युवमस्मास्वन्तस्तनूषु विश्वा भेषजानि धत्तम् ।
अव स्यतं मुञ्चतं किञ्चिदेनो अङ्गेषु बद्धमुत यद् दृषत् ते ।।४।।
1.110
घृतस्य जूतिः समना सदेवाः संवत्सरं हविषा वर्धयन्ती । तु. शौ.सं. १९.५८
श्रोत्रं चक्षुः प्राणो ऽच्छिन्नो नो अस्त्वच्छिन्ना वयमायुषो वर्चसः ।।१ ।।
उपास्मान् प्राणो ह्वयतामुप वयं प्राणं हवामहे ।
वर्चो जग्राह पृथिव्यन्तरिक्षं वर्चः सोमो बृहस्पतिर्विधर्ता ।।२ ।।
वर्चसो द्यावापृथिवी संग्रहणी बभूवतुर्वर्चो गृहीत्वा पृथिवीमनु सं चरेम।
यशसा गावो गोपतिमुप तिष्ठन्त्यायतीर्यशो गृहीत्वा पृथिवीमनु सं चरेम ।३।
व्रजं कृणुध्वं स हि वो नृपाणो वर्मा सीव्यध्वं बहुला पृथूनि ।
पुर: कृणुध्वमायसीरधृष्टा मा व: सुस्रोच्चमसो दृंहता तम् ।। ४ । ।
1.111
न्यग्वातो वाति न्यक्तपति सूर्यः । तु. शौ.सं. ६.९१
नीचीनमघ्न्या दुहे न्यग् भवतु ते विषम् ।।१।।
नि गावो गोष्ठे असदन्नि वत्सा अधि तन्त्याम् ।
न्यूर्मयो नदीनां नि शुष्मा अरसानाम् ।।२ ।।
अहीनामहिकानां सं हि शीर्षाण्यग्रभम्।
हृदं सहस्रबाहुः परेत्य व्यनिजमहेर्विषम् ।। ३ ।।
तुराणामतुराणां विशामुरुक्षितामुत ।
कृणोमि तुभ्यं भेषजमाहेयमरसं विषम् ।। ४ ।।
१-१ १२ 1.112
इमा ऊरू सवासिनौ वर्चसाञ्जे अहं मम ।
नाम होनयोर्वेद यथा न बहवो विदुः ।।१।।
वर्चसा पीना पृथिवी सूर्येणोत्तभिता द्यौः ।
त्विषिं यां पश्यामो वाते तां नि यच्छे ममोर्वो: ।२।
वेद वै वां नामधेयं जिगीवाङ् अपराजितम् ।
प्रजां च बह्वीमा शासे राष्ट्रं चेन्द्राभिरक्षितम् ।। ३ ।।
विदुषी वां नामधेयमश्विना सारघं मधु ।
सूर्य इव चक्षुर्भूतानां प्रजां धारयतं मयि रयिं धारयतं मयि ।। ४ । ।
शतपाशां वि तनोम्यूरुभ्यां जघनेन च ।
तस्मिन् यो बध्यते बन्धे स मे अस्त्वन्यक्षकः ।।५ ।।
(इति चतुर्चनामप्रथमकाण्डे द्वाविंशोऽनुवाक:)
इत्यथर्ववेदे पैप्पलाद संहितायां चतुर्चनामप्रथम: काण्डः समाप्तः
संशोधन- पैप्पलादसंहिता(सम्पादक – श्रीदुर्गामोहन भट्टाचार्य)(संस्कृत कालेज, कलकत्ता, १९६४)